६ प्रीतिः

परम-पूज्य-श्रील-जीव-गोस्वामि-प्रभुपाद-विरचिते

षट्-सन्दर्भात्मक-

श्री-भागवत-सन्दर्भे षष्ठः
श्री-श्री-प्रीति-सन्दर्भः

English

Version 1.01 (Oct. 25, 2007)

Version 1.02 (July 22, 2020)

Text entered by Jagadananda Das.

Two texts have been used in making this edition.

श्री-प्रीति-सन्दर्भः

तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ ।

दाक्षिणात्येन भट्टेन पुनर् एतद् विविच्यते ॥ओ॥

तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् ।

पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ओ॥

[१]

अथ प्रीति-सन्दर्भो लेख्यः । इह खलु शास्त्र-प्रतिपाद्यं परम-तत्त्वं सन्दर्भ-चतुष्टयेन पूर्वं सम्बद्धम् । तद्-उपासना च तद्-अनन्तर-सन्दर्भेणाभिहिता । तत्-क्रम-प्राप्तत्वेन प्रयोजनं खल्व् अधुना विविच्यते ।

पुरुष-प्रयोजनं तावत् सुख-प्राप्तिर् दुःख-निवृत्तिश् च । श्री-भगवत्-प्रीतौ तु सुखत्वं दुःख-निवर्तकत्वं चात्यन्तिकम् इति ।

एतद् उक्तं भवति—यत् खलु परम-तत्त्वं शास्त्र-प्रतिपाद्यत्वेन पूर्वं निर्णीतं, तद् एव सद्-अनन्त-परमानन्दत्वेन सिद्धम् । श्रुताव् अपि सैषानन्दस्य मीमांसा भवति [तै।उ। २.८.१] इत्य् आरभ्य, मानुषानन्दतः प्राजापत्यानन्द-पर्यन्तं दश-कृत्वः शत-गुणिततया क्रमेण तेषाम् आनन्दोत्कर्ष-परिमाणं प्रदर्श्य, पुनश् च ततोऽपि शत-गुणत्वेन पर-ब्रह्मानन्दं प्रदर्श्याप्य् अपरितोषात्, यतो वाचो निवर्तन्ते [तै।उ। २.४, २.९] इत्य्-आदि-श्लोकेन तद्-आनन्दस्यानन्त्यत्वम् एव स्थापितम् । विलक्षणत्वं च, को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात् [तै। २.७.१] इत्य् अनेन नाना-स्वरूप-धर्मतोऽपि तस्य केवलानन्द-स्वरूपत्वम् एव च दर्शितम् । तथा-भूत-मार्तण्डादि-मण्डलस्य केवल-ज्योतिष्ट्ववत् ।

अथ जीवश् च तदीयोऽपि तज्-ज्ञान-संसर्गाभाव-युक्तत्वेन तन्-माया-पराभूतः सन्न् आत्म-स्वरूप-ज्ञान-लोपान् माया-कल्पितोपाध्य्-आवेशाच् चानादि-संसार-दुःखेन सम्बध्यत इति परमात्म-सन्दर्भादाव् एव निरूपितम् अस्ति । तत इदं लभ्यते—परम-तत्त्व-साक्षात्कार-लक्षणं तज्-ज्ञानम् एव परमानन्द-प्राप्तिः । सैव परम-पुरुषार्थ इति । स्वात्माज्ञान-निवृत्तिः दुःखात्यन्त-निवृत्तिश् च निदाने तद्-अज्ञाने गते सति स्वत एव सम्पद्यते । पूर्वस्याः परम-तत्त्व-स्वप्रकाशताभिव्यक्ति-लक्षण-मात्रात्मकत्वात्, उत्तरस्याश् च ध्वंसाभाव-रूपत्वाद् अनश्वरत्वम् । उक्तं च पूर्वस्याः परम-पुरुषार्थत्वं धर्मस्य ह्य् अपवर्गस्य [भा।पु। १.२.९] इत्य्-आदिना,

स्वतः सर्व-दुःख-निवृत्तिश् च तत्रैवोक्ता—भिद्यते हृदय-ग्रन्थिः [भा।पु। १.२.२१] इत्य्-आदिना । श्री-विष्णु-पुराणे च—

निरस्तातिशयाह्लाद-सुख-भावैक-लक्षणा ।
भेषजं भगवत्-प्राप्तिर् एकान्तात्यन्तिकी मता ॥ [वि।पु। ६.५.५९] इति ।

श्रुतौ च—आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन [तै।उ। २.४.१] इति । एष एव च मुक्ति-शब्दार्थः, संसार-बन्ध-च्छेद-पूर्वकत्वात् । यथोक्तं श्री-सूतेन—

यदैवम् एतेन विवेक-हेतिना
माया-मयाहङ्करणात्म-बन्धनम् ।
छित्त्वाच्युतात्मानुभवोऽवतिष्ठते
तम् आहुर् आत्यन्तिकम् अङ्ग सम्प्लवम् ॥ [भा।पु। १२.४.३४] इति ।

अच्युताख्ये आत्मनि परमात्मनि अनुभवो यस्य तथाभूतः सन् अवतिष्ठते यत् तम् आत्यन्तिकं सम्प्लवं मुक्तिम् आहुर् इत्य् अर्थः ।

अथ मुक्तिर् हित्वान्यथा-रूपं स्वरूपेण व्यवस्थितिः [भा।पु। २.१०.६] इत्य् एतद् अपि तत्-तुल्यार्थम् एव । यतः स्वरूपेण व्यवस्थितिर् नाम स्वरूप-साक्षात्कार उच्यते, तद्-अवस्थान-मात्रस्य संसार-दशायाम् अपि स्थितत्वात्, अन्यथा-रूपत्वस्य च तद्-अज्ञान-मात्रार्थत्वेन तद्-धानौ तज्-ज्ञान-पर्यवसानात् । स्वरूपं चात्र मुख्यं परमात्म-लक्षणम् एव । रश्मि-परमाणूनां सूर्य इव स एव हि जीवानां परमोऽंशि-स्वरूपः । यथोक्तं ब्रह्माणं प्रति श्रीमता गर्भोदशायिना—

यदा रहितम् आत्मानं भूतेन्द्रिय-गुणाशयैः ।
स्वरूपेण मयोपेतं पश्यन् स्वाराज्यम् ऋच्छति ॥ [भा।पु। ३.९.३३] इति ।

उपेतं युक्तम् इत्य् एवाक्लिष्टोऽर्थः । जीव-स्वरूपस्यैव गौणानन्दत्वं दर्शितम् । तस्मात् प्रियतमः स्वात्मा [भा।पु। १०.१४.५४]1 इत्य् उक्त्वा,

कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।
जगद्-धिताय सोऽप्य् अत्र देहीवाभाति मायया ॥ **[**भा।पु। १०.१४.५५] इत्य् अनेन,

जीव-परयोर् अभेद-वादस् तु परमात्म-सन्दर्भादौ विशेषतोऽपि परिहृतोऽस्ति । अत एव निरधारयच् छ्रुतिः—रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति [तै।उ। २.७.१] इति ।

अत्रांशेनांशि-प्राप्तिश् च द्विधा योजनीया । तत्राद्या ब्रह्म-प्राप्तिर् माया-वृत्त्य्-अविद्या-नाशानन्तरं केवल-तत्-स्वरूप-शक्ति-लक्षण-तद्-विज्ञानाविर्भाव-मात्रम् । सा च स्व-स्थान एव वा स्यात् । क्रमेण सर्व-लोक-सर्वावरणातिक्रमानन्तरं वा स्यात्, उपासना-विशेषानुसारेण । द्वितीया भगवत्-प्राप्तिश् च, तस्य विभोर् अप्य् असर्व-प्रकटस्य तस्मिन्न् एवाविर्भावेन, विभुनापि वैकुण्ठे सर्व-प्रकटेन तेनाचिन्त्य-शक्तिना स्व-चरणारविन्द-सान्निध्य-प्रापणया च ।

तद् एवं स्थिते, सा च मुक्तिर् उत्क्रान्त-दशायां जीवद्-दशायाम् अपि भवति । उत्क्रान्तस्योपाध्य्-अभावेऽपि तदीय-स्व-प्रकाशता-लक्षण-धर्माव्यवधानस्यैतत्-साक्षात्कार-रूपत्वात् । जीवतस् तत्-साक्षात्कारेण माया-कल्पितस्यान्यथा-भावस्य मिथ्यात्वावभासात् । सैषा मुक्तिर् एवात्यन्तिक-पुरुषार्थतयोपदिश्यते—

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।
त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्त-भय-संयुतः ॥ [भा।पु। ४.२२.३५]

इति श्री-पृथुं प्रति श्री-सनत्-कुमारेण । श्रुतिश् च—येनाहं नामृता स्यां किम् अहं तेन कुर्याम्? [बृ।आ।उ। २.४.३] इति ।

तद् एवं परम-तत्त्व-साक्षात्कारात्मकस्य तस्य मोक्षस्य परम-पुरुषार्थत्वे स्थिते पुनर् विविच्यते । तच् च परमं तत्त्वं द्विधाविर्भवति—अस्पष्ट-विशेषत्वेन, स्पष्ट-स्वरूप-भूत-विशेषत्वेन च । तत्र ब्रह्माख्यास्पष्ट-विशेष-पर-तत्त्व-साक्षात्कारतोऽपि भगवत्-परमात्माद्य्-आख्य-स्पष्ट-विशेष-तत्-साक्षात्कारस्योत्कर्षं भगवत्-सन्दर्भे [८७] —

जिज्ञासितम् अधीतं च ब्रह्म यत् तत् सनातनम् ।
तथापि शोचस्य् आत्मानम् अकृतार्थ इव प्रभो ॥ [भा।पु। १.५.४]

इत्य्-आदि-प्रकरण-प्रघट्टकेन दर्शितवान् अस्मि । अत्रापि वचनान्तरं दर्शयिष्यामि । तस्मात् परमात्मत्वादि-लक्षण-नानावस्थ-भगवत्-साक्षात्कार एव तत्रापि परमः । (१) तत्र सत्य् अपि निरुपधि-प्रीत्य्-आस्पदत्व-स्वभावस्य तस्य स्वरूप-धर्मान्तर-वृन्द-साक्षात्कृतौ परमत्वे प्रीति-भक्त्य्-आदि-संज्ञं प्रियत्व-लक्षण-धर्म-विशेष-साक्षात्कारम् एव परमतमत्वेन मन्यन्ते । (२) तया प्रीत्यैवात्यन्तिक-दुःख-निवृत्तिश् च । (३) यां प्रीतिं विना तत्-स्वरूपस्य तद्-धर्मान्तर-वृन्दस्य च साक्षात्कारो न सम्पद्यते । (५) यत्र सा तत्रावश्यम् एव सम्पद्यते । (६) यावत्य् एव प्रीति-सम्पत्तिः, तावत्य् एव तत्-सम्पत्तिः । (४) सम्पद्यमाने सम्पन्ने च तस्मिन् साधिकम् आविर्भवति ।

तद् एतत् सर्वम् अपि युक्तम् एव । परम-सुखं खलु भगवतस् तद्-गुण-वृन्दस्य च स्वरूपम् । सुखं च निरुपाधि-प्रीत्य्-आस्पदम् । ततस् तद्-अनुभवे प्रीतेर् एव मुख्यत्वम् इति । तस्मात् पुरुषेण सैव सर्वदान्वेषितव्येति पुरुष-प्रयोजनत्वं तत्रैव परमतमम् इति स्थितम् ।

क्रमेणोदाह्रियते—

(१) तत्रसत्य् अपि इत्य्-आदिकम्—

सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ [भा।पु। ११.२०.३३]

इत्य्-आदि श्री-भगवद्-वाक्यादौ ।

(२) तया इत्य्-आदिकम् ।

प्रीतिर् न यावन् मयि वासुदेवे
न मुच्यते देह-योगेन तावत् । [भा।पु। ५.५.६] इति श्री-ऋषभदेव-वाक्ये ।

(३) याम् इत्य्-आदिकं—

भक्त्याहम् एकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् । [भा।पु। ११.१४.२१] इति श्री-भगवद्-वाक्ये ।

(४) सम्पद्यमाने इत्य्-आदिकं—

मद्-रूपम् अद्वयं ब्रह्म मध्याद्यन्त-विवर्जितम् ।

स्व-प्रभं सच्चिदानन्दं भक्त्या जानाति चाव्ययम् ॥ इति वासुदेवोपनिषदि ।

(५) यत्र इत्य्-आदिकं—

भक्तिर् एवैनं नयति, भक्तिर् एवैनं दर्शयति
भक्ति-वशः पुरुषो भक्तिर् एव भूयसी ॥ इति माठर-श्रुतौ ।

(६) यावती इत्य्-आदिकम्—

भक्तिः परेशानुभवो विरक्तिर्
अन्यत्र चैष त्रिक एक-कालः ।
प्रपद्यमानस्य यथाश्नतः स्युस्
तुष्टिः पुष्टिः क्षुद्-अपायोऽनुघासम् ॥ [भा।पु। ११.२.४२] कवि-योगेश्वर-वाक्ये ।

एवं तत् त्वम् असि [छा।उ। ६.८.७] इत्य्-आदि-शास्त्रम् अपि तत्-प्रेम-परम् एव ज्ञेयम् । त्वम् एवामुक इतिवत् । किं च, लोक-व्यवहारोऽपि तत्-पर एव दृश्यते । सर्वे हि प्राणिनः प्रीति-तात्पर्यका एव, तद्-अर्थम् आत्म-व्ययादेर् अपि दर्शनात् । किन्तु योग्य-विषयम् अलब्ध्वा, तैस् तत्र तत्र सा परिवर्ज्यते । अतः सर्वैर् एव योग्य-तद्-विषयेऽन्वेष्टुम् इष्टे सति, श्री-भगवत्य् एव तस्याः पर्यवसानं स्याद् इति । तद् एवं भगवत्-प्रीतेर् एव परम-पुरुषार्थत्वे समर्थिते साधूक्तं “अथ प्रीति-सन्दर्भो लेख्य” इत्य्-आदि ।

स एष एव परम-पुरुषार्थः क्रम-रीत्या सर्वोपरि दर्शयितुं संदृभ्यते । तत्रोक्त-लक्षणस्य मुक्ति-सामान्यस्य शास्त्र-प्रयोजनत्वम् आह—सर्व-वेदान्त- इत्य्-आदौ कैवल्यैक-प्रयोजनम् [भा।पु। १२.१३.१२]2 इति ।

केवलः शुद्धः, तस्य भावः कैवल्यम् । तद् एकम् एव प्रयोजनं परम-पुरुषार्थत्वेन प्रतिपाद्यं यस्य तद् इदं श्री-भागवतम् इति पूर्व-श्लोकस्थेनान्वयः । दोष-मूलं हि जीवस्य परम-तत्त्व-ज्ञानाभाव एवेत्य् उक्तम्—भयं द्वितीयाभिनिवेशतः स्याद् इत्य्-आदौ, ईशाद् अपेतस्य [भा।पु। १२.२.३७]3 इत्य्-आदिभिः । अतस् तज्-ज्ञानम् एव शुद्धत्वम् इति कैवल्य-शब्दस्यात्र पूर्ववत् तद्-अनुभव एव तात्पर्यम् ।

अथवा कैवल्य-शब्देन परमस्य स्वभाव एवोच्यते । यथा स्कान्दे—

ब्रह्मेशानादिभिर् देवैर् यत् प्राप्तुं नैव शक्यते ।
स यत् स्वभावः कैवल्यं स भवान् केवलो हरे ॥ इति ।

क्वचित् स्वार्थिक-तद्-धितान्तेन कैवल्य-शब्देनापि परम उच्यते । यथा श्री-दत्तात्रेय-शिक्षायां—

परावराणां परम आस्ते कैवल्य-संज्ञितः ।
केवलानुभवानन्द-सन्दोहो निरुपाधिकः ॥ [भा।पु। ११.९.१८] इति ।

तथाप्य् उभयथैव तद्-अनुभव एव तात्पर्यम्, तत्-स्वभावम् एव वा । तम् एवानुभावयितुम् इदं शास्त्रं प्रवृत्तम् इत्य् अर्थः ।

॥ १२.१३ ॥ श्री-सूतः ॥ १ ॥

[२]

तथा चान्यत्र—

एतावान् एव मनुजैर् योग-नैपुण्य-बुद्धिभिः ।
स्वार्थः सर्वात्मना ज्ञेयो यत् परात्मैक-दर्शनम् ॥ [भा।पु। ६.१६.६३]

टीका च—न चातः परः पुरुषार्थोऽस्तीत्य् आह—एतावान् इति । परस्यात्मन एकं दर्शनम् इति यत् एतावान् एव इत्य् एषा । परमात्मनः केवलस्य दर्शनम् इति वा ।

॥ ६.१६ ॥ श्री-शङ्कर्षणश् चित्रेकेतुम् ॥ २ ॥

[३]

सैषा हि मुक्तिर् उत्क्रान्त-दशायां द्विधा भवति—सद्य एव च, क्रम-रीत्या च । तत्र पूर्वा द्वितीये स्थिरं सुखं चासनम् [भा।पु। २.२.१५] इत्य्-आदि प्रकरणान्ते, विसृजेत् परं गतः [भा।पु। २.२.२१] इत्य् अत्र ।4

उत्तरा च तद्-अनन्तरं5 यदि प्रयास्यन् नृप पारमेष्ठ्यम् [भा।पु। २.२.२२] इत्य्-आदौ, तेनात्मनात्मानम् उपैति शान्तम् [भा।पु। २.२.३१] इत्य् अत्र । जीवद्-दशायाम् अपि सा तु तद्-विशेषेष्व् अग्रतो दर्शनीया । तत्र ब्रह्म-साक्षात्कार-लक्षणां जीवन्-मुक्तिम् आह—

यत्रेमे सद्-असद्-रूपे प्रतिषिद्धे स्व-संविदा ।
अविद्ययात्मनि कृते इति तद् ब्रह्म-दर्शनम् ॥ [भा।पु। १.३.३३]

यत्र यस्मिन् दर्शने स्थूल-सूक्ष्म-रूपे शरीरे स्व-संविदा जीवात्मनः स्वरूप-ज्ञानेन प्रतिषिद्धे भवतः । केन प्रकारेण ? वस्तुत आत्मनि ते न स्त एव, किन्त्व् अविद्ययैवात्मनि कृते अध्यस्ते इति एतत्-प्रकारेणेत्य् अर्थः । तद् ब्रह्म-दर्शनम् इति यत्-तदोर् अन्वयः । ब्रह्मणो दर्शनं साक्षात्कारः । यत्र स्व-संविदेत्य्-उक्त्या जीव-स्वरूप-ज्ञानम् अपि तद्-आश्रयम् एव भवति इति । तथा केवल-स्व-संविदा ते निषिद्धे न भवत इति च ज्ञापितम् । ततश् च जीवत एवाविद्या-कल्पित-माया-कार्य-सम्बन्ध-मिथ्यात्व-ज्ञापक-जीव-स्वरूप-साक्षात्कारेण तादात्म्यापन्न-ब्रह्म-साक्षात्कारो जीवन्-मुक्ति-विशेष इत्य् अर्थः ॥

॥१.३॥ श्री-सूतः ॥ ३ ॥

[४]

ईदृशम् एव तन्-मुक्ति-लक्षणं श्री-कापिलेये मुक्ताश्रयम् [भा।पु। ३.२८.३५-३८] इत्य्-आदि-चतुष्टये6 दर्शितम् । तत्र हि, प्रतिनिवृत्त-गुण-प्रवाहः सन् आत्मानम् परमात्मानम् ईक्षत इति मुक्ताश्रयम् [३५] इत्य्-आदौ, स्व-स्वरूप-भूते महिम्नि अवसितो निष्ठां प्राप्तः सन्न् उपलब्ध-परात्म-काष्ठ इति सोऽप्य् एतया [३६] इत्य्-आदौ, स्वरूपं जीव-ब्रह्मणोर् याथात्म्यम् अध्यगमद् इति देहं च [३७] इत्य्-आदौ । एवं प्रतिबुद्ध-वस्तुर् इति देहोऽपि [३८] इत्य्-आदौ चेति । तस्माद् अस्य प्रारब्ध-कर्म-मात्राणाम् अनभिनिवेशेनैव भोगः । एवम् एवोक्तं तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः [ईशोपनिषद् ७] इति ।

अथान्तिमां ब्रह्म-साक्षात्कार-लक्षणां मुक्तिम् आह—

यद्य् एषोपरता देवी माया वैशारदी मतिः ।
सम्पन्न एवेति विदुर् महिम्नि स्वे महीयते ॥ [भा।पु। १.३.३४]

एषा जीवन्-मुक्ति-दशायां स्थिता विशारदेन परमेश्वरेण दत्ता देवी द्योतमाना मतिर् विद्या तद्-रूपा या माया स्वरूप-शक्ति-वृत्ति-भूत-विद्याविर्भाव-द्वार-लक्षणा सत्त्वमयी माया-वृत्तिः। सा यदि उपरता निवृत्ता भवति, तदा व्यवधानाभासस्यापि राहित्यात् सम्पन्नो लब्ध-ब्रह्मानन्द-सम्पत्तिर् एवेति विदुर् मुनयः । ततश् च तत्-सम्पत्ति-लाभात् स्वे महिम्नि स्वरूप-सम्पत्ताव् अपि महीयते पूज्यते । प्रकृष्ट-प्रकाशो भवतीत्य् अर्थः ॥

॥ १.३ ॥ श्री-सुतः ॥ ४ ॥

[५]

अत्र पूर्वे तत्त्व-भगवत्-परमात्म-सन्दर्भेष्व् एवं मूल्येन श्रुत्य्-आदिभिश् च प्रतिपादितम् ।

जीवाख्य-समष्टि-शक्ति-विशिष्टस्य परम-तत्त्वस्य खल्व् अंश एको जीवः । स च तेजो-मण्डलस्य बहिश्-चर-रश्मि-परमाणुर् इव परम-चिद्-एक-रसस्य तस्य बहिश्-चर-चित्-परमाणुः । तत्र तस्य व्यापकत्वात् तद्-एक-देशत्वम् एव जीवे स्यात् । निराकारतया तद् एकदेशत्वं न विरुद्धम् । तथापि बहिश्-चरत्वं तद्-आश्रयित्वात् । तज्-ज्ञानाभावात् छायया रश्मिवत् माययाभिभाव्यत्वाच् च बहिश्-चरत्वं व्यपदिश्यते । रश्मि-स्थानीयत्वं च तद्-व्यतिरेकाद् व्यतिरेकितया यस् तद्-आश्रयि-भावः । या च पूर्व-युक्त्या बहिश्-चरत्वेऽप्य् एक-वस्तुत्व-श्रुतिस् तद्-आदिभिर् गम्यते । शक्तित्वं च तद्-रूपतयैव तदीय-लीलोपकरणत्वात् । अणुत्वं च शब्दात् हरि-चन्दन-बिन्दुवत् तस्य प्रभाव-लक्षण-गुणेनैव सर्व-देह-व्याप्तेः । सर्वं चैतत् परमस्याचिन्त्य-शक्तिमयत्वाद् अविरुद्धम् इति पूर्वं दृढीकृतम् अस्ति, श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.२७] इति न्यायेन, एक-देश-स्थितस्याग्नेः [वि।पु। १.२२.५६]+++([ ])+++7 इत्य्-आदिना च ।

तत्र जीवेश्वरयोर् अत्यन्ताभेदे युगपद् अविद्या-विद्याश्रयत्वाद्य्-अनुपपत्तिश् च पूर्वं विवृता । तत् त्वम् असि [छा।उ। २.८.७] इत्य्-आदौ लक्षणा त्व् अत्यन्ताभेदे तद्-अंशत्वे च समानैव ।

परम-तत्त्वस्य निरंशत्व-श्रुतिस् तु द्विधा प्रवर्तते । तत्र केवल-विशेष्य-लक्षण-निर्देश-पराया मुख्यैव प्रवृत्तिः, आनन्द-मात्रत्वात् तस्य । आनन्दैक-रूपस्य तस्य स्वरूप-शक्ति-विशिष्टस्य निर्देश-परायास् तु प्राकृतांश-लेश-राहित्य-मात्रे तात्पर्याद् गौणी प्रवृत्तिः । सर्व-शक्ति-विशिष्टस्य तस्य तु सर्वांशित्वं गीतम् एव ।

तद् एवं तस्य रश्मि-परमाणु-स्थानीयांशत्वे सिद्धे तद्वत् सर्वस्याम् अपि दशायां कर्तृत्व-भोक्तृत्वादि-स्वरूप-धर्मा अपि सिध्यन्ति । तद्वद् एव च परमेश्वर-शक्त्य्-अनुग्रहेणैव ते कार्य-क्षमा भवन्ति । तत्र तेषां प्रकृति-विकार-मय-कर्तृत्वादिकं तदीय-माया-शक्ति-मयानुग्रहेण । अत एव तत्-सम्बन्धात् तेषां संसारः । स्वानुभव-ब्रह्मानुभव-भगवद्-अनुभव-कर्तृत्वादिकं तु तदीय-स्वरूप-शक्त्य्-अनुग्रहेण । यत्र तस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत् [बृ।आ।उ। २.४.१४] इति श्रुतिश् च । तत्-स्वरूप-शक्तिं विना तद्-दर्शनासामार्थ्यं द्योतयति—यम् एवैष वृणुते तेन लभ्यः [क।उ। १.२.२३] इत्य्-आदि श्रुतेः ।

अत एव स्वरूप-शक्ति-सम्बन्धान् मायान्तर्धाने तेषां संसार-नाशः । येषां तु मते मुक्ताव् आनन्दानुभवो नास्ति, तेषां पुम्-अर्थता न सम्पद्यते, सतोऽपि वस्तुनः स्फुरणाभावे निरर्थकत्वात् । न च “सुखम् अहं स्याम्” इति कस्यचिद् इच्छा, किन्तु “सुखम् अहम् अनुभवामि” इत्य् एव । ततश् च प्रवृत्त्य्-अभावात् तादृश-पुरुषार्थ-साधन-प्रेरणापि शास्त्रे व्यर्थैव स्यात् । तन्-मते केवलानन्द-रूपस्याज्ञान-दुःख-सम्बन्धासम्भवात् तन्-निवृत्ति-रूपश् च पुरुषार्थो न घटते । विगीतं त्व् ईदृश-पुरुषार्थत्वं प्राचीनबर्हिषं प्रति श्री-नारद-वाक्ये दुःख-हानिः सुखावाप्तिः श्रेयस् तन् नेह चेष्यते [भा।पु। ४.२५.४] । तस्माद् अस्त्य् एवानुभवः । तथा च श्रुतिः—रसं ह्य् एवायं लब्ध्वानन्दी भवति इति । आत्म-रतिः आत्म-क्रीडः [छा।उ। ७.२५.२] इत्य्-आदिश् च ।

यथा विष्णु-धर्मे—

भिन्ने दृतौ यथा वायुर् नैवान्यः सह वायुना ।
क्षीण-पुण्याघ-बन्धस् तु तथात्मा ब्रह्मणा सह ॥
ततः समस्त-कल्याण-समस्त-सुख-सम्पदाम् ।
आह्लादम् अन्यम् अकलङ्कम् अवाप्नोति शाश्वतम् ॥
ब्रह्म-स्वरूपस्य तथा ह्य् आत्मनो नित्यदैव सः ।
व्युत्थानकाले राजेन्द्र आस्ते हि अतिरोहितः ॥
आदर्शस्य मलाभावाद् वैमल्यं काशते यथा ।
ज्ञानाग्नि-दग्ध-हेयस्य स ह्लादो ह्य् आत्मनस् तथा ॥
यथा हेय-गुण-ध्वंसाद् अवबोधादयो गुणाः ।
प्रकाशन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥
ज्ञानं वैराग्यम् ऐश्वर्यं धर्मश् च मनुजेश्वर ।
आत्मनो ब्रह्म-भूतस्य नित्यम् एव चतुष्टयम् ॥
एतद् अद्वैतम् आख्यातम् एष एव तवोदितः ।
अयं विष्णुर् इदं ब्रह्म तथैतत् सत्यम् उत्तमम् ॥ इति ।

अत्र जीव-ब्रह्मणोर् अंशांइत्वांशेनैव वायु-दृष्टान्तः । अंशत्वेऽपि बहिरङ्गत्वं त्व् अन्यतो ज्ञेयम् । अतः पृथग्-ईश्वरे स्वरूप-भूतानुभवे च सति तद्-वैमुख्येनानादिना लब्ध-च्छिद्रयेश-मायया तद्-अनुभव-लोपादेः सम्भवात् कथञ्चित् साम्मुख्येन तद्-अनुग्रहान् निवृत्तिश् चास्ति । “आनन्दं ब्रह्मणो विद्वान्” [तै।उ। २.४.१] इत्य्-आदि श्रुतेः । “न तस्मात् प्राणा उत्क्रामन्ति अत्रैव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्येति” [बृ।आ।उ। ४.४.६] इत्य् अत्राप्य् अन्यो ब्रह्म-भावस् तथान्यो ब्रह्मण्य् अप्यय इति स्पष्टम्, ब्रह्म-भावानन्तरं तद्-अप्ययस्य पुनर् अभिधानात्, अप्येतेः कर्मतया ब्रह्म-निर्देशाच् च । ततश् च ब्रह्मैव सन्न् इति तत्-साम्य-तत्-तादात्म्यापत्त्यैवाभेद-निर्देशः । एवं “ब्रह्म वेद ब्रह्मैव भवति” [मु।उ। ३.२.८] इत्य् अत्रापि व्याख्येयम् ।

क्वचिद् एकत्व-शब्देनापि तथैवोच्यते । अत्र तत्-साम्यं यथोक्तम्—“निरञ्जनं परम-साम्यम् उपैति” [मु।उ। ३.२.३] इत्य्-आदि श्रुतौ । “इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः” [गीता १४.२] इति गीतोपनिषत्सु च ।

उभयं चोक्तं स्पष्टम् एव—

यथोदकं शुद्धे शुद्धम् आसिक्तं तादृग् एव भवति ।
एवं मुनेर् विजानत आत्मा भवति गौतम ॥ [क।उ। २.१.१५]

तत्रैव-कारेण न तु तद् एव भवति, न तु वा तद्-असाधर्म्येण पृथग् उपलभ्यत इति द्योत्यते ।

स्कान्दे च—

उदके तूदकं सिक्तं मिश्रम् एव यथा भवेत् ।
तद् वै तद् एव भवति यतो बुद्धिः प्रवर्तते ॥
एवम् एवं हि जीवोऽपि तादात्म्यं परमात्मना ।
प्राप्तोऽपि नासौ भवति स्वातन्त्र्यादि-विशेषणात् ॥ इति ।

बिम्ब-प्रतिबिम्ब-निर्देशश् च “अम्बुद-ग्रहणात्” [वे।सू। ३.२.१९] इत्य्-आदि-सूत्र-द्वये गौण एव योजितः । “एवम् एवैष संप्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यते” [छा।उ। ८.१२.३] इत्य् अत्रापि तथैव भेदः प्रतिपादितः । श्री-विष्णु-पुराणेऽपि “विभेद-जनकेऽज्ञाने नाशम्” [वि।पु। ६.७.९६] इत्य्-आदौ देवादि-भेद-नाशानन्तरं ब्रह्मात्मनोर् भेदं न कोऽप्य् असन्तं करिष्यति, अपि तु सन्तम् एव करिष्यतीति व्याख्यातम् एव[परमात्म-सन्दर्भे ३७] ।

एवम् एव टीका-कृद्भिः सम्मतं श्री-गोपानां ब्रह्म-सम्पत्त्य्-अनन्तरम् अपि वैकुण्ठ-दर्शनम्8 । तस्मात् साधु व्याख्यातम् यद्य् एषोपरत [भा।पु। १.३.३४] इत्य्-आदि ।

तद् एवं ब्रह्म-सम्पत्तिर् व्याख्याता ॥

तत्र श्री-विष्णु-पुराणे परमार्थ-निर्णये रहूगणं प्रति जड-भरत-वाक्यं यथा । तत्र केवल-ब्रह्मानुभवस्यैव परमार्थत्वं निर्णेतुं यज्ञाद्य्-अपूर्वस्य तावद् अपरमार्थत्वं चतुर्भिर् उक्तम्—

ऋग्-यजुः-साम-निष्पाद्यं यज्ञ-कर्म मतं तव ।
परमार्थ-भूतं तत्रापि श्रूयतां गदतो मम ॥
यत् तु निष्पाद्यते कार्यं मृदा कारण-भूतया ।
तत्-कारणानुगमनाज् जायते नृप मृन्-मयम् ॥
एवं विनाशिभिर् द्रव्यैः समिद्-आज्य-कुशादिभिः ।
निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥
अनाशी परमार्थश् च प्राज्ञैर् अभुपगम्यते ।
तत् तु नाशि न सन्देहो नाशि-द्रव्योपपादितम् ॥ [वि।पु। २.१४.२१-२४] इति ।

एतद्-दृष्टान्तेन पूजादिमय-भक्तेर् अपि तादृशत्वं नानुमेयम्, अपूर्ववद्-भक्तेर् निष्पाद्यत्वाभावात् । गुणमयं हि निष्पाद्यं स्यात् नागुणमयम् । कैवल्यं सात्त्विकं ज्ञानम् [भा।पु। ११.२५.२४]9 इत्य् आरभ्य एकादशे श्री-भगवतैवागुणमयत्वम् अङ्गीकृतम् । अतः स्वरूप-शक्ति-वृत्ति-विशेषत्वेन तस्याः भगवत्-प्रसादे सति स्वयम् आविर्भाव एव न10 जन्म ।

स चाविर्भावोऽनन्त एव तदीय-फलानन्त्य-श्रवणात् । तस्मात् परमेश्वरानाश्रयत्वं तत्रोपाधिर् भविष्यति । हिंसायां पापोत्पत्त्य्-अनुमिताव् अविहिततत्ववत् । ज्ञान-प्रकरणे चास्मिन् भक्तिर् न प्रस्तूयत इति साधारण-यज्ञादिकम् उपादायैव प्रवृत्तिश् चेयम् ।

तद् एवं यज्ञादि-कर्मापूर्वस्य विनाशित्वाद् अपरमार्थत्वम् उक्त्वा निष्काम-कर्मणोऽपि साधनत्वेनार्थान्तरस्यैव साध्यत्वात् तादृशत्वम् उक्तम् एकेन—

तद् एवाफलदं कर्म परमार्थो मतस् तव ।
मुक्ति-साधन-भूतत्वात् परमार्थो न साधनम् ॥ [वि।पु। २.१४.२५] इति ।

अत्र भक्तेः साधन-भूतत्वे न तादृशत्वं मन्तव्यम् । भगवत्-प्रेम-विलास-रूपतया सिद्धानाम् अपि तद्-अत्याग-श्रवणात् । तस्माद् इदम् अपि पूर्ववत् ज्ञेयम् ।

ननु, शुद्ध-जीवात्म-ध्यानस्य परमार्थत्वं भवेत्, मुक्ति-दशायाम् अपि स्फूर्त्य्-अङ्गीकारेण तद्-रूपस्य तस्यानश्वरत्वात् । तद्-आच्छादनाद् अधुना संसार इति तस्यैव साध्यत्वाच् च । तत्रोक्तम् एकेन—

ध्यानं चेद् आत्मनो भूप परमार्थार्थ-शब्दितम् ।
भेद-कारि-परेभ्यस् तत् परमार्थो न भेदवान् ॥ [वि।पु। २.१४.२६] इति ।

यद्-विज्ञानेन सर्व-विज्ञानं भवति तद् एव ब्रह्म श्रुतौ परमार्थत्वेन प्रतिज्ञातम् । सर्व-विज्ञान-मयत्वं च तस्य सर्वात्मत्वात् । अग्नि-विज्ञानं हि ज्वाला-विस्फुलिङ्गादेर् अपि विज्ञापकं भवति । एकस्य जीवस्य तु तदीय-जीव-शक्ति-लक्षणांश-परमाणुत्वम् इत्य् अतस् तस्य तत्-स्फुरणस्य च भेदवतो न परमार्थत्वम् इत्य् अर्थः ।

ननु जीवात्म-परमात्मनोर् एकत्र-स्थिति-भावनयात्यन्त-संयोगे प्रादुर्भूते सति तस्यापि सर्वात्मता स्यात्, तद्-अभेदापत्तेः । स च योगो न विनश्वरः । ज्ञानानन्तर-सिद्धत्वात् । तस्मात् तयोर् योग एव परमार्थो भवतु । तत्रोक्तम् एकेन—

परमात्मात्मनोर् योगः परमार्थ इतीष्यते ।
मिथ्यैतद् अन्यद् द्रव्यं हि नैति तद्-द्रव्यतां यतः ॥ [वि।पु। २.१४.२७] इति ।

एतत् परमार्थत्वं मिथ्यैवेष्यत इत्य् अर्थः । हि निश्चितम् । यतो यस्मात् जीव-लक्षणम् अन्यद् द्रव्यं तद्-द्रव्यतां परमात्म-लक्षण-द्रव्यतां न याति । तस्मात् महा-तेजः प्रविष्ट-स्वल्प-तेजोवद् अत्यन्त-संयोगतोऽप्य् अभेदानुपपत्तेस् तयोर् योगोऽपि न परमार्थ इति भावः । अथवात्र योग-शब्देनैकत्वम् एवोच्यते । ततश् चैतद् एकत्वम् इति व्याख्येयम् । शेषं पूर्ववत्।

तद् एवं पूर्व-पक्षान् निषिध्य उत्तर-पक्षं स्थापयितुम् उपक्रान्तम् एकेन—

तस्मात् श्रेयांस्य् अशेषाणि नृपैतानि न संशयः ।
परमार्थस् तु भूपाल सङ्क्षेपाच् छ्रूयतां मम ॥ [वि।पु। २.१४.२८] इति ।

श्रेयांसि परमार्थ-साधनानि । परमार्थ-निर्देशस् त्रयेणोक्तः—

एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।
जन्म-वृद्ध्य्-आदि-रहित आत्मा सर्व-गतोऽव्ययः ॥
पर-ज्ञानमयोऽसद्भिर् नाम-जात्य्-आदिभिर् विभुः ।
न योगवान् न युक्तोऽभून् नैव पार्थिव योक्ष्यति ॥
तस्यात्म-पर-देहेषु सतोऽप्य् एकमयं हि यत् ।
विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्य-दर्शिनः ॥ [वि।पु। २.१४.२९-३१] इति ।

एकः, न तु जीवा इवानेके । ज्वाला-विस्फूलिङ्गेष्व् अग्निर् इव स्व-शक्तिषु स्व-कार्येषु सर्वेषु व्याप्नोतीति व्यापीसर्व-गत इत्य् अनेन जीव इव नाखण्डे देहे प्रभावेनैव व्यापीति ज्ञापितम् । जीव-ज्ञानाद् अपि परं यज् ज्ञानं तन्-मयः, तत्-प्रकाश-प्रधानः । असद्भिर् इति विशेषणात् भगवद्-रूपे प्रकाश्येऽपि सद्भिः स्वरूप-सिद्धैर् एव नामादिभिर् योगवान् भवतीति विज्ञापितम् । तस्य एवं-लक्षणस्य परमात्म-रूपेण आत्म-पर-देहेषु आत्मनः परेषाम् अपि देहेषु तत्-तद्-उपाधि-भेदेन पृथक् पृथग् इव सतोऽपि एकं तदीयं स्व-स्वरूपं तन्-मयं तद्-आत्मकं यद् विज्ञानं तद्-अनुभवः असाव् एव परमार्थः । अनाशित्वात् साध्यत्वात् सर्व-विज्ञानान्तर्भाववत्त्वाच् चेति भावः । ये तु द्वैतिनः तत्-तद्-उपाधि-दृष्ट्या तस्यापि भेदं मन्यन्ते । तद्-विज्ञानेन सर्व-विज्ञानान्तर्भावं च न मन्यन्ते । ते पुनर् अतथ्य-दर्शिन एवेति ।

तत्रोपाधि-भेदैर् अंश-भेदेऽप्य् अभेदो दृष्टान्तेन साधितो द्वाभ्याम्—

वेणु-रन्ध्र-विभेदेन भेदः षड्जादि-संज्ञितः ।
अभेद-व्यापिनो वायोस् तथा तस्य महात्मनः ॥
एकत्वं रूप-भेदश् च बाह्य-कर्म-प्रवृत्तिजः ।
देवादि-भेद-मध्यास्ते नास्त्य् एवावरणो हि सः ॥ [वि।पु। २.१४.३२-३३] इति ।

तथा तस्य एकत्वम् इत्य् अन्वयः । रूपस्य तत्-तद्-आकारस्य भेदस् तु बाह्यस्य तदीय-बहिरङ्ग-चिद्-अंशस्य जीवस्य या कर्म-प्रवृत्तिस् ततो जातः । स तु परमात्मा देवादि-भेदम् अन्तर्यामितयैवाधिष्ठायास्ते तत्-तद्-उपाधि-सम्बन्धाभावाच् च नास्त्य् एव आवरणं यस्य तथा-भूतः सन्न् इति । तस्मात् तस्य देवादि-रूपता तु स्व-लीला-मय्य् एवेति भावः॥

अथ श्री-भगवत्-साक्षात्कारस्य मुक्तित्वम् आह—

ततो विदूरात् परिहृत्य दैत्या
दैत्येषु सङ्गं विषयात्मकेषु ।
उपेत नारायणम् आदि-देवं
स मुक्त-सङ्गैर् इषितोऽपवर्गः ॥ [भा।पु। ७.६.१८]****

टीका च—यस्मात् स एव अपवर्ग इष्टः इत्य् एषा । अत्र नारायणस्यापवर्गत्वं तत्-साक्षात्कृताव् एव पर्यवस्यति । तस्या एव संसार-ध्वंस-पूर्वक-परमानन्द-प्राप्ति-रूपत्वात् तद्-अस्तित्व-मात्रत्वे तादृशत्वाभावाच् च ॥

॥ ७.६ ॥ श्री-प्रह्लादः ॥ ५ ॥

[६]

तथा—

सत्याशिषो हि भगवंस् तव पाद-पद्मम्
आशीस् तथानुभजतः पुरुषार्थ-मूर्तेः ।
अप्य् एवम् अर्य भगवान् परिपाति दीनान्
वाश्रेव वत्सकम् अनुग्रह-कातरोऽस्मान् ॥ [भा।पु। ४.९.१७]****

टीका च—हे भगवन् ! पुरुषार्थः परमानन्दः स एव मूर्तिर् यस्य, तस्य तव पाद-पद्मम् आशिषो राज्यादेः सकाशात् सत्या आशीः परमार्थ-फलम् । हि निश्चितम् । कस्य, तथा तेन प्रकारेण त्वम् एव पुरुषार्थ इत्य् एवं निष्कामतया अनुभजतः । यद्यप्य् एवं, तथापि हे अर्य ! हे स्वामिन् ! दीनान् सकामान् अप्य् अस्मान् इत्य्-आदिका ।

॥ ४.९ ॥ ध्रुवः श्री-ध्रुव-प्रियम् ॥ ६ ॥

[७]

स चात्म-साक्षात्कारो द्विविधः—अन्तर्-आविर्भाव-लक्षणो, बहिर्-आविर्भाव-लक्षणश् च । यथा—

प्रगायतः स्व-वीर्याणि तीर्थ-पादः प्रिय-श्रवाः ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ [भा।पु। १.६.३४] इत्य्-आदौ ।

तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् ॥ [भा।पु। ३.१५.३८] इत्य्-आदौ च ।

तत्रान्तः-साक्षात्कारे योग्यता श्री-रुद्र-गीते—

न यस्य चित्तं बहिर्-अर्थ-विभ्रमं
तमो-गुहायां च विशुद्धम् आविशत् ।
यद्-भक्ति-योगानुगृहीतम् अञ्जसा
मुनिर् विचष्टे ननु तत्र ते गतिम् ॥ [भा।पु। ४.२४.५९]

तत्र तेषां पूर्वोक्तानां सतां भक्ति-योगेनानुगृहीतं विशुद्धं यस्य चित्तं बाह्येष्व् अर्थेषु भ्रान्तं न भवति, तमो-रूपायां गुहायांन विशति, स मुनिर् इत्य्-आदिकं च व्याख्येयम् ।

बहिः-साक्षात्कारेऽपि व्यतिरेकेण तथैव नारदं प्रति श्री-भगवतोक्तम्—

हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुम् इहार्हति ।
अविपक्व-कषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ [भा।पु। १.६.२२] इति ।

न केवलं शुद्ध-चित्तत्वम् एव योग्यता । किं तर्हि ? तद्-भक्ति-विशेषाविष्कृत-तद्-इच्छामय-तदीय-स्व-प्रकाशता-शक्ति-प्रकाश एव मूल-रूपा सा, यत्-प्रकाशेन तद् अपि निःशेषं सिध्यति ।

यथा अन्तः-साक्षात्कारे—भिद्यते हृदय-ग्रन्थिर् [भा।पु। १.२.२१] इत्य्-आदि । तथा बहिः-साक्षात्कारेऽपि श्री-सङ्कर्षणं प्रति चित्रकेतु-वाक्ये—न हि भगवन्न् अघटितम् इदं त्वद्-दर्शनान् नॄणाम् अखिल-पाप-क्षयः [भा।पु। १.१६.४४] इति । प्रह्लादं प्रति श्री-नृसिंह-वाक्ये—

माम् अप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे ।
दृष्ट्वा मां न पुनर् जन्तुर् आत्मानं तप्तुम् अर्हति ॥ [भा।पु। ७.९.५३]

श्री-भगवन्तं प्रति श्रुतदेव-वाक्ये च—

स त्वं शाधि स्व-भृत्यान् नः किं देव करवाम ते ।
एतद्-अन्तो नृणां क्लेशो यद् भवान् अक्षि-गोचरः ॥ [भा।पु। १०.८६.४९] इति ।

तद् एवं तत्-प्रकाशेन निःशेष-शुद्ध-चित्तत्वे सिद्धे, पुरुष-करणानि तदीय-स्व-प्रकाशता-शक्ति-तादात्म्यापन्नतयैव तत्-प्रकाशताभिमानवन्ति स्युः ।

तत्र भक्ति-विशेष-सापेक्षत्वम् उक्तम्—तच्-छ्रद्दधाना मुनयः [भा।पु। १.२.१२] इत्य्-आदौ । तद्-इच्छा-मयेत्य्-आद्य्-उदाहरणं च ब्रह्म-भगवतोर् अविशेषतयैव दृश्यते । यथा सत्यव्रतं प्रति श्री-मत्स्य-देव-वाक्ये—

मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भा।पु। ८.२४.३८] इति ।

तथैव हि ब्रह्माणं प्रति श्री-भगवद्-वाक्ये—मनीषितानुभावोऽयं मम लोकावलोकनम् [भा।पु। २.९.२१] इति । श्री-नारायणाध्यात्मे—

नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निज-शक्तितः ।
ताम् ऋते पुण्डरीकाक्षं कः पश्येतामितं प्रभुम् ॥ इति ।

श्रुतौ च—यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनुं स्वाम् [क।उ। १.२.२३] इति ।

ततस् तत्-करण-शुद्ध्य्-अपेक्षापि तच्-छक्ति-प्रतिफलनार्थम् एव ज्ञेया । एवम् अपि भक्त्या तं दृष्ट्वापि मुचुकुन्दादौ या मृगया-पापाद्य्-अस्तिता श्री-भगवता कीर्तिता, सा तु प्रेम-वर्धिन्या झटिति-भगवद्-अप्राप्ति-शङ्का-जन्मनस् तद्-उत्कण्ठाया वर्धनार्थं विभीषिकयैव कृता । यत् तु तदीय-स्निग्धानां श्री-युधिष्ठिरादीनां नरक-दर्शनं तत् खलु इन्द्र-माया-मयम् एवेति स्वर्गारोहण-पर्वण्य् एव व्यक्तम् अस्ति । विष्णु-धर्मे तृतीय-जन्मनि दत्त-तिल-धेनोर् अपि विप्रस्य प्रसङ्ग-मात्रेण नरकाणाम् अपि स्वर्ग-तुल्य-रूपता-प्राप्ति-वर्णनात् । श्री-भागवतेन तु तद् अपि नाङ्गीक्रियते । तद्-अनुपाख्यानात् प्रत्युताव्यवहित-भगवत्-प्राप्ति-वर्णनाच् च ।

अथ यद्-अवतारादाव् अशुद्ध-चित्तानाम् अपि तत्-साक्षात्कारः श्रूयते, तत् खलु तद्-आभास एव ज्ञेयः । नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता ७.२५] इति श्री-गीतोपनिषद्भ्यः ।

योगिभिर् दृश्यते भक्त्या
नाभक्त्या दृश्यते क्वचित् ।
द्रष्टुं न शक्यो रोषाच् च
मत्सराद् वा जनार्दनः ॥ [प।पु। ६.२३८.८३] इति पाद्मोत्तर-खण्डाच् च ।

अदर्शनं चानवतार-समये व्यापकस्यापि दर्शनाभावः । अवतार-समये तु परमानन्देऽपि दुःखदत्वं, मनोरमेऽपि भीषणत्वम्, सर्व-सुहृद्य् अपि दुर्हृत्त्वम् इत्य्-आदिविपरीत-दर्शनम् एव । तद्-अप्रकाशे योग-माया-प्रकाशे च मूलं कारणं तद्-भक्तापराधादिमय-पुरुष-चित्तास्वाच्छ्यम् । यत् खलु तदानीन्तने तस्य सार्वत्रिक-प्रकाशेऽपि वज्रलेपायते । अत एव मुक्तिर् हित्वा [भा।पु। २.१०.६] इत्य्-आदि-लक्षणस्याव्याप्तेर् न तस्य साक्षात्काराभासस्य मुक्ति-संज्ञत्वम्**** अपि । अत एव श्री-विष्णु-पुराणे तच् च रूपम् [वि।पु। ४.१५.१३]11 इत्य्-आदि-गद्येन यद्यपि शिशुपालस्य तद्-दर्शनम् उक्तं, तथापि निर्दोष-दर्शनं त्व् अन्त-काल एवोक्तम् । आत्म-वधाय यावद्-भगवद्-धस्त-चक्रांशु-मालोज्ज्वलम् अक्षय-तेजः-स्वरूपं ब्रह्म-भूतम् अपगत-द्वेषादि-दोषं भगवन्तम् अद्राक्षीत् [वि।पु। ४.१५.१४] इत्य् अनेन ।

एतद्-अन्तो नॄणां क्लेशो यद् भवान् अक्षि-गोचरः [भा।पु। १०.८६.४९] इत्य्-आदिकं च नृषु ये स्वच्छ-चित्ता ये च तद्-भक्तापराधेतर-दोष-मलिन-चित्तास् तेषां क्लेश-नाशस्य तदात्वापेक्षया, ये त्व् अन्यादृशास् तेषां तन्-नाशस्योन्मुखतापेक्षयैव—तेभ्यः स्व-वीक्षण-विनष्ट-तमिस्र-दृग्भ्यः क्षेमं त्रिलोक-गुरुर् अर्थ-दृशं च यच्छन् [भा।पु। १०.८६.२१] इति श्रवणात्, श्री-विष्णु-पुराणाद्य्-अनुसाराच् च ।

ते चास्वच्छ-चित्ता द्विविधाः—भगवद्-बहिर्मुखा भगवद्-विद्वेषिणश् च । तद्-बहिर्मुखा द्विविधाः—लब्धे तद्-दर्शनेऽपि विषयाद्य्-अभिनिवेशवन्तस् तद्-अवज्ञातारश् च । यथा तद्-अवतार-समये साधारण-देव-मनुष्यादयः, यथा च कृष्णं मर्त्यम् उपाश्रित्य [भा।पु। १०.२५.३] इत्य्-आदि दुर्वचसो महेन्द्रादयः । यत उक्तं श्रुतिभिः—

दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे
न पुनर् उपासते पुरुष-सार-हरावसथान् । [भा।पु। १०.८७.३५] इति ।

महेन्द्रं प्रति श्री-भगवता च—

माम् ऐश्वर्य-श्री-मदान्धो दण्ड-पाणिं न पश्यति ।
तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्य् अनुग्रहम् ॥ [भा।पु। १०.२७.१६] इति ।

श्री-गोपानां तु विषय-सम्बन्धो न स्वार्थः । किन्तु तत्-सेवोपयोगार्थ एव । यथा यद् धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भा।पु। १०.१४.३५] इति । कृष्णेऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा [भा।पु। १०.१६.१०] इति । कृष्णः कमल-पत्राक्षः पुण्य-श्रवण-कीर्तनः [भा।पु। १०.१५.४२] इति च ।

श्री-यादव-पाण्डवानां स्वार्थ इवापि तत्-सम्बन्धस् तद्-आभास एव । यथोक्तम्—

शय्यासनाटनालाप- क्रीडा-स्नानाशनादिषु ।
न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतसः ॥ [भा।पु। १०.९०.४६] इति ।
किं ते कामाः सुर-स्पार्हा मुकुन्द-मनसो द्विजाः ।
अधिजह्रुर् मुदं राज्ञः क्षुधितस्य यथेतरे ॥ [भा।पु। १.१२.६] इति ।

अतः, एवं गृहेषु सक्तानां प्रमत्तानां तद्-ईहया [भा।पु। १.१३.१७] इत्य्-आदिकं जहल्-लक्षणया तद्-उपलक्षितान् धृतराष्ट्रादीन् अपेक्ष्योक्तम् । अत एवानन्तरं विदुरस् तद् अभिप्रेत्य [भा।पु। १.१३.१८] इत्य्-आदौ । तेन धृतराष्ट्रस्यैव शिक्षा, न तु तेषाम् अपि ।

क्वचिच् च लीला-शक्तिर् एव स्वयं तल्-लीला-माधुर्य-पोषाय प्रतिकूलेष्व् अनुकूलेषु चात्मोपकरणेषु तादृश-शक्तिं विन्यस्य तादृश-तत्-प्रिय-जनानाम् अपि विषयावेशाद्य्-आभासं सम्पादयति । यथा पूतना-वर्णने—वल्गु-स्मितापाङ्ग-विसर्ग-वीक्षितैर् मनो हरन्तीं वनितां व्रजौकसाम् [भा।पु। १०.१६.६] इति । तद्-आभासत्व-विवक्षया च मनो हरन्तीं मनो-हरेवाचरन्तीम् इति शिष्टम् उक्तम् । तद्-दत्त-शक्तित्वं च तस्यास् तत्रैव सूचितम्—

न यत्र श्रवणादीनि रक्षो-घ्नानि स्व-कर्मसु ।
कुर्वन्ति सात्वतां भर्तुर् यातुधान्यश् च तत्र हि ॥ [भा।पु। १०.६.३] इत्य् अनेन ।

तथैवेदं घटते—

अमंसताम्भोज-करेण रूपिणीं
गोप्यः श्रियं द्रष्टुम् इवागतां पतिम् ॥ [भा।पु। १०.६.६] इति ।

श्रियं प्राकृत-सम्पद्-अधिष्ठात्रीं _पतिं _यं कञ्चित् तद्-उचित-प्राचीन-पुण्य-भाजम् इत्य् अर्थः । पूर्ववद् एव तां तीक्ष्ण-चित्ताम् [भा।पु। १०.६.९] इत्य्-आदौ, तत्-प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्य् अतिष्ठताम् [भा।पु। १०.६.९] इत्य् उक्तम् ।

एवम् एव क्वचित् तादृशानाम् अपि मायाभिभवाभासो मन्तव्यः, यथा—प्रायो मायास्तु मे भर्तुर् नान्या मेऽपि विमोहिनी [भा।पु। १०.१३.३७] इत्य्-आदिषु श्री-बलदेवादीनाम् । यथा दैत्य-जन्मनि जय-विजययोः । अत्र पूर्वेषां स्वल्प एव तद्-आभासः, तयोस् तु सम्यग् इति विशेषः, तत् प्रेमादीनाम् अनावरणाद् आवरणाच् च । तत्र तयोर् वैर-भाव-प्राप्तौ खलु मुनि-कृतत्वं न स्यात् । मतं तु मे [भा।पु। ३.१६.२९] इत्य् अत्र भगवद्-इच्छायास् तत्-कारणत्वेन स्थापितत्वात् । नापि सा तदीय-वैर-भावाय सम्पद्यते, स्वेच्छामयस्य [भा।पु। १०.१४.२] इत्य्-आदिभ्यः । त्रैवर्गिकायास-विघातम् अस्मत्-पतिर् विधत्ते पुरुषस्य शक्र [भा।पु। ६.११.२३] इत्य्-आदिभिः कैमुत्यापाताच् च । यथा चोक्तम्—तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः [भा।पु। १०.२.३३] इति । न च तयोर् एव स्वापराध-भोग-शीघ्र-निस्तारार्थम् अपि तादृशीच्छा जाता इति वाच्यम् । तादृशैः परम-भक्तैर् हि भक्तिं विना सालोक्यादिकम् अपि नाङ्गीक्रियते । तत्-सद्-भावे निरयोऽप्य् अङ्गीक्रियत इति, नात्यन्तिकं विगणयन्त्य् अपि [भा।पु। ३.१५.४८] इत्य्-आदेः, कामं भवः स्व-वृजिनैर् निरयेषु नः स्तात् [भा।पु। ३.१५.४९] इत्य्-आदेश् च ।

अत एवाभ्याम् अपि तथैव प्रार्थितम्—

मा वोऽनुताप-कलया भगवत्-स्मृति-घ्नो
मोहो भवेद् इह तु नौ व्रजतोर् अधोऽधः [भा।पु। ३.१५.३६] इत्य् अनेन ।

न च तयोर् वास्तव-वैर-भावे सति भक्तान्तराणाम् अपि सुखं स्याद् इति वाच्यम्, भक्ति-स्वभाव-भक्त-सौहृद-विरोधाद् एव । तस्मात् तयोर् वैर-भावाभासत्व एव श्री-भगवतस् तयोर् अन्येषां भक्तानाम् अपि रसोदयः स्याद् इति स्थितम् । तत एवम् अर्थापत्ति-लब्धं सर्व-भक्त-सुखद-श्री-भगवद्-अभिमत-युद्ध-कौतुकादि-सम्पादनार्थं वैर-भावात्मक-मायिकोपाधिं स्वाभाविकाणिमादि-सिद्धिकेन शुद्ध-सत्त्वात्मक-स्व-विग्रहेण प्रविश्य स्व-सान्निध्येन चेतनीकृत्य च विलीय स्थिताया अपि भक्ति-वासनायाः प्रभावेन तत्रानाविष्टाव् एव तिष्ठतः । अतो वैर-भाव-ज-स्मरणेन वैर-भावोऽपगत इत्य् उभयम् अपि बाह्यम् । एतद् अभिप्रेत्यैव श्री-वैकुण्ठेनाप्य् उक्तम्—यातं मा भैष्टम् अस्तु शम् [भा।पु। ३.१६.२९] इति ।

तथा हि हिरण्याक्ष-युद्धे—परानुषक्तं [भा।पु। ३.१८.९] इत्य्-आदि-पद्ये टीका च—

प्रचण्ड-मन्युत्वम् अधिक्षेपादिकं चानुकरण-मात्रं दैत्य-वाक्य-भीतानां देवानां भय-निवृत्तये । वस्तुतस् तेन तथानुक्तत्वेन कोपादि-हेत्व्-अभावाद् इत्य् एषा ।
कराला [भा।पु। ३.१९.८] इति पद्ये च इवेति वस्तुतः क्रोधाभावः इत्य् एषा ।

तद् एवं स्यमन्तकोपाख्यान-महा-काल-पुरोपख्यान-मौषलोपाख्यानादौ श्री-बलदेवार्जुन-नारदादीनां क्रोधाद्य्-आवेशोऽपि तद्-आभासत्व-लेशेनैव सङ्गमयितव्यः । तत्र श्री-बलदेवार्जुनादीनां श्री-भगवन्-मताज्ञानेन श्री-नारदादीनां तु तज्-ज्ञानेनेति विवेकः—कोपिता मुनयः शेपुर् भगवन्-मत-कोविदाः [भा।पु। ३.३.२४] इति तृतीये श्रीमद्-उद्धव-वाक्यात् । तस्मात् येषां लिङ्गान्तरेण निष्णात एव साक्षात्कारो गम्यते, तेषाम् अस्वच्छान्तःकरणत्वं प्रतीयमानम् अपि तद्-आभास एव । येषां तु न गम्यते, विषयावेशादिकं च दृश्यते, तेषां साक्षात्-काराभास एवेति निर्णीतम् । तद् एवम् अस्वच्छ-चित्तेषु बहिर्मुखाः पश्यन्तोऽपि न पश्यन्तीत्य् उक्तम् ।

तद्-द्वेषिणश् च द्विविधाः । एके सौन्दर्यादिकं गृह्णन्ति, तथापि तन्-माधुर्याग्रहणात् तत्रैवारुच्या द्विषन्ति, यथा कालयवनादयः । अन्ये तु वैकृत्यम् एव प्रतियन्ति ततो द्विषन्ति च यथा मल्लादयः । तद् एवं पूर्वोत्तरयोश् चतुर्ष्व् अपि भेदेषु स-दोष-जिह्वाः खण्डाशिनो दृष्टान्ताः । एके हि पित्त-वातज-दोषवन्तस् तद्-आस्वादं न गृह्णन्ति, किन्तु सर्वादरम् अवधाय नावजानन्ति । अन्ये त्व् अभिमानिनोऽवजानन्त्य् अपि । अथापरे मधुर-रसम् इदम् इति गृह्णन्ति, किन्तु तिक्ताम्लादि-रस-प्रियास् तम् एव रसं द्विषन्ति । अवरे च तिक्ततयैव तद् गृह्णन्ति, द्विषन्ति चेति । सर्वेषां चैषां निज-दोष-सव्यवधान-खण्ड-ग्रहण-वत् तद्-आभासत्वम् । तेषां भगवत्-स्वभावाननुभवश् च युक्त एव ज्ञान-भक्ति-शुद्ध-प्रीत्य्-अभावेन सच्-चिद्-आनन्दत्व-पारमैश्वर्य-परम-माधुर्य-लक्षणानां तत्-स्वभावानां ग्रहीतुम् अशक्यत्वात् । तद्-अग्रहणेऽपि कालान्तरे निस्तारः खण्ड-सेवनवद् एव ज्ञेयः । यथोक्तं विष्णु-पुराणे—ततस् तम् एवाक्रोशेषूच्चारयन् [वि।पु। ४.१५.१४] इत्य्-आदिना, अपगत-द्वेषादि-दोषं भगवन्तम् अद्राक्षीत् इत्य् अन्तेन12

तस्मात् स्वच्छ-चित्तानाम् एव साक्षात्कारः, स एव च मुक्ति-संज्ञ इति स्थितम् । तस्य ब्रह्म-साक्षात्काराद् अप्य् उत्कर्षस् तु भगवत्-सन्दर्भे सनकादि-वैकुण्ठ-दर्शन-प्रस्तावे [७९] श्री-नारद-व्यास-संवादादि-मय-ब्रह्म-भगवत्-तारतम्य-प्रकरणे च [८१] दर्शित एव । यत्र तस्यारविन्द-नयनस्य [भा।पु। ३.१५.४३] इत्य्-आदिकं, जिज्ञासितम् अधीतं च [भा।पु। १.५.४] इत्य्-आदिकं च वचन-जातं प्रबलतमम् । तथैव श्री-ध्रुवोक्तम्—या निर्वृतिस् तनु-भृताम् [भा।पु। ४.९.१०] इत्य्-आदि । श्री-भागवत-वक्तृ-तात्पर्यं च तत्रैव स्व-मुख-निभृत-चेतास् तद्-व्युदस्तान्य-भावः [भा।पु। १२.१२.६८] इत्य्-आदिना दर्शितम् । श्री-गीतोपनिषत्सु च—ब्रह्म-भूतः प्रसन्नात्मा [गीता १८.५४] इत्य्-आदिना तद् एवाङ्गीकृतम् ।

अत एव श्री-प्रह्लादस्य भगवत्-साक्षात्कार-कृत-सर्वावधूनन-पूर्वक-ब्रह्म-साक्षात्कारानन्तर-भगवत्-साक्षात्कार-विशेषात्मक-निर्वृतिं परमाभीष्टत्वेनाह—

स तत्-कर-स्पर्श-धुताखिलाशुभः
सपद्य् अभिव्यक्त-परात्म-दर्शनः
तत्-पाद-पद्मं हृदि निर्वृतो दधौ
हृष्यत्-तनुः क्लिन्न-हृद्-अश्रु-लोचनः ॥ [भा।पु। ७.९.६]****

॥ ७.९ ॥ श्री-शुकः ॥ ७ ॥

[८]

ईदृशेऽपि भगवत्-साक्षात्-कारे बहिः-साक्षात्कारस्योत्कर्षम् आह—

गृहीत्वाजादयो यस्य श्रीमत्-पादाब्ज-दर्शनम् ।
मनसा योग-पक्वेन स भवान् मेऽक्षि-गोचरः ॥ [भा।पु। १२.९.५]

टीका च—यस्य तव श्रीमत्-पादाब्ज-दर्शनं मनसापि गृहीत्वा प्राप्य प्राकृता अप्य् अजादयो भवन्ति, स भवान् मेऽक्षि-गोचरो जातोऽस्ति । किम् अतः परं वरेण ? इत्य् अर्थः इत्य् एषा । अत्र यत्-पाद-पांशुर् बहु-जन्म-कृच्छ्रतः [भा।पु। १०.१२.१२] इत्य्-आदिकम् अप्य् अनुसन्धेयम् । अत एव—

प्रगायतः स्व-वीर्याणि तीर्थ-पादः प्रिय-श्रवाः ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ [भा।पु। १.६.३४]

इत्य् एवं-भाववान् अपि—

गोविन्द-भुज-गुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीन् नारदोऽभीक्ष्णं कृष्णोपासन-लालसः ॥ [भा।पु। ११.२.१] इत्य् उक्तम् ।

॥ १२.९ ॥ मार्कण्डेयः श्री-नारायनर्षिम् ॥ ८ ॥

[९]

अथैतस्यां भगवत्-साक्षात्कार-लक्षणायां मुक्तौ जीवद्-अवस्थायाम् आह—

अकिञ्चनस्य दान्तस्य शान्तस्य सम-चेतसः
मया सन्तुष्ट-मनसः सर्वाः सुख-मया दिशः ॥ [भा।पु। ११.१४.१३]****

भगवन्तं विना किञ्चनान्यद् उपादेयत्वेन नास्तीत्य् अकिञ्चनस्य । तत्र हेतुः—मयेति । अकिञ्चनत्वेनैव हेतुना विशेषण-त्रयं—दान्तस्येति । अन्यत्र हेयोपादेयतारोहित्यात् सम-चेतसः । सर्वत्र तस्यैव साक्षात्कारात् सर्वा इत्य् उक्तम् ॥

॥ ११.१४ ॥ श्री-भगवान् ॥ ९ ॥

[१०]

तत्रोत्क्रान्तावस्था च श्री-प्रह्लाद-स्तुतौ—उशत्तम तेऽङ्घ्रि-मूलं प्रीतोऽपवर्ग-शरणं13 ह्वयसे कदा नु [भा।पु। ७.९.१६] इत्य्-आदौ ज्ञेया । सैवान्तिमा ।

मुक्तिश् च पञ्चधा—सालोक्य-सार्ष्टि-सारूप्य-सामीप्य-सायुज्य-भेदेन । तत्र सालोक्यं समान-लोकत्वं श्री-वैकुण्ठ-वासः । सार्ष्टिस् तत्रैव समानैश्वर्यम् अपि भवतीति । सारूप्यं तत्रैव समान-रूपतादि प्राप्यत इति । सामीप्यं समीप-गमनाधिकारित्वम् । सायुज्यं केषांचित् भगवच्-छ्री-विग्रह एव प्रवेशो भवतीति । सालोक्यादि-शब्दानां मुक्त्य्-आदि-शब्द-सामानाधिकरण्यं च सालोक्यादित्व-प्राधान्येन । तत्र सालोक्य-सार्ष्टि-सारूप्य-मात्रे प्रायोऽन्तः-करण-साक्षात्कारः । सामीप्ये प्रायो बहिः । सायुज्ये चान्तर एव । तथापि प्रकट-स्फूर्ति-लक्षणं तत् सुषुप्तिवद् अनति-प्रकट-स्फूर्ति-लक्षणात् ब्रह्म-सायुज्याद् भिद्यते । उत्क्रान्त-मुक्त्य्-अवस्थायाम् अपि विशेष-स्फूर्तिः श्रुताव् एव सम्मता—

स वा एष एवं पश्यन्न् एवं मन्वान एवं विजानन्न् आत्म-रतिर् आत्म-क्रीड आत्म-मिथुन आत्मानन्दः, स स्वराड् भवति तस्य सर्वेषु लोकेषु काम-चारो भवति । [छा।उ। ७.२५.२] इति ।

एषा च पञ्चविधापि गुणातीतैव । निर्गुणायां भूम-विद्यायाम् एव—स एकधा भवति त्रिधा भवति [छा।उ। ७.२६.२] इत्य्-आदिना तद्-विधस्य मुक्तस्य स्वेच्छया नाना-विध-रूप-प्राकट्य-श्रवणात्, न यत्र माया [भा।पु। २.९.१०] इत्य्-आदौ वैकुण्ठस्य मायातीतत्व-श्रवणात् । अत्रावृत्ति-राहित्यं चाङ्गीकृतम्—अनावृत्तिः शब्दात् [वे।सू। ४.४.२३] इत्य् अनेन, न स पुनर् आवर्तते [छा।उ। ८.१५.१] इति श्रुतेः । तथोक्तं हिरण्यकशिपूपद्रुत-देवैः—

तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिर् ईश्वरः ।
यद् गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनोऽमलाः ॥ [भा।पु। ७.४.२२] इति ।

श्री-कपिल-देवेन च—

न कर्हिचिन् मत्-पराः शान्त-रूपे
नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ॥ [भा।पु। ३.२५.३९] इति ।

तथैव—

आ-ब्रह्म-भुवनाल् लोकाः पुनर् आवर्तिनोऽर्जुन ।
माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते ॥ [गीता ८.१६] इति ।
यद् गत्वा न निवर्तन्ते तद् धाम परमं मम । [गीता १५.४] इति ।
तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् । [गीता १८.६२] इति च श्री-गीतोपनिषदश् च दृश्याः ।

पाद्म-सृष्टि-खण्डे14 च—

आ-ब्रह्म-सदनाद् एव दोषाः सन्ति महीपते ।
अत एव हि नेच्छन्ति स्वर्ग-प्राप्तिं मनीषिणः ॥
आ-ब्रह्म-सदनाद् ऊर्ध्वं तद् विष्णोः परमं पदम् ।
शुभ्रं सनातनं ज्योतिः पर-ब्रह्मेति तद् विदुः ॥
न तत्र मूढा गच्छन्ति पुरुषा विषयात्मकाः ।
दम्भ-लोभ-भय-द्रोह-क्रोध-मोहैर् अभिद्रुताः ॥
निर्ममा निरहङ्कारा निर्द्वन्द्वाः संयतेन्दिर्याः ।
ध्यान-योग-रताश् चैव तत्र गच्छन्ति साधवः ॥ [प।पु। २.९५.१४ब्-१८अ] इति ।

तत्रैव सुबाहु-नृप-वाक्यम्—

ध्यान-योगेन देवेशं यजिष्ये कमला-प्रियम् ।
भव-प्रलय-निर्मुक्तं विष्णु-लोकं व्रजाम्य् अहम् ॥ [प।पु। २.९५.२२ब्-२३अ] इति ।

सालोक्यादीनाम् अविच्युतत्वं दर्शयिष्यते च—

मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् काल-विप्लुतम् ॥ [भा।पु। ९.४.६७]

इत्य्-आदिषु तद्-इतरत्रैव काल-विप्लुतत्वाङ्गीकारात् । तस्मात् क्वचिद् आवृत्ति-श्रवणं तु प्रपञ्चान्तर्गत-तद्-धामत्वापेक्षया कादाचित्क-तल्-लीला-कौतुकापेक्षया च मन्तव्यम् । पश्चात् तु नित्य-सालोक्यम् एव, यथा भविष्योत्तरे—

एवं कौन्तेय कुरुते योऽरण्य-द्वादशीं नरः ।
स देहान्ते विमान-स्थ-दिव्य-कन्या-समावृतः ॥
याति ज्ञाति-समायुक्तः श्वेतद्वीपं हरेः पुरम् ।
यत्र लोका पीत-वस्त्रा इत्य्-आदि ।
तिष्ठन्ति विष्णु-सान्निध्ये यावद्-आहूत-सम्प्लवम् ।
तस्माद् एत्य महा-वीर्याः पृथिव्यां नृप पूजिताः ।
मर्त्य-लोके कीर्तिमन्तः सम्भवन्ति नरोत्तमाः ॥
ततो यान्ति परं स्थानं मोक्ष-मार्गं शिवं सुखम् ।
यत्र गत्वा न शोचन्ति न संसारे भ्रमन्ति च ॥ इति ।

यथा च जय-विजय-वृत्ते तत्र सालोक्योदाहरणे । तत्-साधक-दशायाम् अपि नैर्गुण्यावेश उक्तः । सात्त्विकः कारकोऽसङ्गी इत्य्-आदौ, निर्गुणो मद्-अपाश्रयः [भा।पु। ११.२५.२६] इति । उत्क्रान्त-मुक्ति-दशायां तु तेषां भगवत्-तुल्यत्वम् एवाह—

वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः ।
येऽनिमित्त-निमित्तेन धर्मेणाराधयन् हरिम् ॥ [भा।पु। ३.१५.१४]

निमित्तं फलं न तन्-निमित्तं प्रवर्तकं यस्मिन् तेन निष्कामेनेत्य् अर्थः । धर्मेण भागवताख्येन । वैकुण्ठस्य भगवतो ज्योतिर्-अंश-भूता वैकुण्ठ-लोक-शोभा-रूपा या अनन्ता मूर्तयस् तत्र वर्तन्ते । तासाम् एकया सह मुक्तस्यैकस्य मूर्तिः भगवता क्रियत इति वैकुण्ठस्य मूर्तिर् इव मूर्तिर् येषाम् इत्य् उक्तम् ।

॥ ३.१५ ॥ श्री-ब्रह्मा देवान् ॥ १० ॥

[११]

यथैवाह—

प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।
आरब्ध-कर्म-निर्वाणो न्यपतत् पाञ्च-भौतिकः ॥ [भा।पु। १.६.२९]****

हित्वावद्यम् इमं लोकं गन्ता मज्जनताम् असि [भा।पु। १.६.२४] इति या तनुः श्री-भगवता दातुं प्रतिज्ञाता, तां भागवतीं भगवद्-अंश-ज्योतिर्-अंश-रूपां शुद्धां प्रकृति-स्पर्श-शून्यां तनुं प्रति श्री-भगवतैव मयि प्रयुज्यमाने नीयमाने आरब्धं यत् कर्म तन्-निर्वाणं समाप्तं यस्य स पाञ्चभौतिको न्यपतद् इति । प्राक्तन-लिङ्ग-शरीर-भङ्गोऽपि लक्षितः । तादृश-भगवन्-निष्ठे प्रारब्ध-कर्म-पर्यन्तम् एव तत्-स्थितेः । इत्थम् एव टीका च—“अनेन पार्षद-तनूनाम् अकर्मारब्धत्वं शुद्धत्वं नित्यत्वम् इत्य्-आदि सूचितं भवति” इत्य् एषा ।

॥ १.६ ॥ श्री-नारदः श्री-व्यासम् ॥ ११ ॥

[१२]

एतां मूर्तिम् उद्दिश्यैवाह यं धर्म-कामार्थ [भा।पु। ८.३.१९] इत्य्-आदौ, रात्य् अपि देहम् अव्ययम्15 इति । टीका च—देहम् अप्य् अव्ययं राति इत्य् एषा ।

॥ ८.६ ॥ श्री-गजेन्द्रः ॥ १२ ॥

[१३]

तद् एतत् ताण्डिनां श्रुताव् अप्य् उक्तं—अश्व इव रोमाणि विधूय धूत्वा शरीरम् अकृतं कृताम्ता ब्रह्म-लोकम् अभिसम्भवानि [छा।उ। ८.१३.१] इति । क्वचित् प्राकृत्य् अपि मूर्तिर् अचिन्त्यया भगवच्-छक्त्या तादृशत्वम् आपद्यते । यथोक्तं श्री-ध्रुवम् उद्दिश्य बिभ्रद्-रूपं हिरण्मयम्" [भा।पु। ४.१२.२९] इति, तद् एवं रूपं हिरण्मयं बिभ्रद् इति टीका च । तथा सार्ष्टिश् च दर्शिता भक्ति-सन्दर्भे [३०९], मर्त्यो यदा त्यक्त-समस्त-कर्मा इत्य्-आदौ, मयात्म-भूयाय च कल्पते वै [भा।पु। ११.२९.३५] इत्य् अनेन ।

श्रुतिश् चात्र, स तत्र पर्येति जक्षन् क्रीडन् रममाणः [छा।उ। ८.१२.३] इत्य्-आदिका, आप्नोति स्वाराज्यं [तै।उ। १.६.२], सर्वेऽस्मै देवा बलिम् आहरन्ति [तै।उ। १.५.३], तस्य सर्वेषु लोकेषु काम-चारो भवति [छा।उ। ७.२५.२] इत्य्-आदिका, सर्वेश्वरः [बृ।आ।उ। ४.४.२२] इत्य्-आदिका च ।

किन्तु, जगद्-व्यापार-वर्जम् [वे।सू। ४.४.१७] इत्य्-आदि-न्यायेन सृष्टि-स्थित्य्-आदि-सामर्थ्यं तस्य न भवति, कुतो वैकुण्ठैश्वर्यादिकम् ? उक्तं च, अदृष्ट्वान्यतमं लोके [भा।पु। १०.३.४१]16 इत्य्-आदि। ततो भाक्तम् एव समानैश्वर्यम् । अत एवाणिमादि-प्राप्तिर् अप्य् अंशेनैव ज्ञेया ।

श्री-भगवत्-प्रसाद-लब्ध-सम्पत्तेश् चाविनश्वरत्वम् आह द्वयेनैव—

ये मे स्व-धर्म-निरतस्य तपः-समाधि-
विद्यात्म-योग-विजिता भगवत्-प्रसादाः ।
तान् एव ते मद्-अनुसेवनयावरुद्धान्
दृष्टिं प्रपश्य वितराम्य् अभयान् अशोकान् ॥
अन्ये पुनर् भगवतो भ्रुव उद्विजृम्भ-
विभ्रंशितार्थ-रचनाः किम् उरुक्रमस्य ।
सिद्धासि भुङ्क्ष्व विभवान् निज-धर्म-दोहान्
दिव्यान् नरैर् दुरधिगान् नृप-विक्रियाभिः ॥ [भा।पु। ३.२३.७-८]

तपश्समाधिश्विद्याउपासना तासु य आत्म-योगश् चित्तैकाग्र्यम् । अन्ये पुनर् भोगाः किम् उरुक्रम-सम्बन्धिनः ? अपि तु नेत्य् अर्थः । अत एव भगवतो भ्रुव इत्य्-आदि ॥

॥ ३.२३ ॥ श्री-कर्दमो देवहूतिम् ॥ १३ ॥

[१४]

तद् एवं सारूप्यम् अपि ज्ञेयम् । यथा—

गजेन्द्रो भगवत्-स्पर्शाद् विमुक्तोऽज्ञान-बन्धनात् ।
प्राप्तो भगवतो रूपं पीत-वासाश् चतुर्-भुजः ॥ [भा।पु। ८.४.६]****

स्पष्टम् ।

॥ ८.४ ॥ श्री-शुकः ॥ १४ ॥

[१५]

सामीप्यम् अप्य् उदाहृतं भगवत्-सन्दर्भे (८३) कर्दम-निर्याण-वर्णनया । मनो ब्रह्मणि युञ्जान [भा।पु। ३.२४.४३] इत्य् आरभ्य, मध्ये च लब्धात्मा मुक्त-बन्धन [भा।पु। ३.२४.४५] इत्य् उक्त्वा, सर्वान्ते भगवद्-भक्ति-योगेन प्राप्तो भागवतीं गतिम्17 [भा।पु। ३.२४.४७] इत्य् एवम् उक्त-रीत्या ।18

अथ सायुज्यम् अघासुरादि-दृष्टान्तेन साधकानाम् अपि गम्यम् । सालोक्यादिवत्-स्वाभिमतत्वाभावात् स्पष्टोदाहरणं श्रीमता भागवतेन न कृतम् इति । अस्य भगवल्-लक्षणानन्द-निमग्नता-स्फूर्तिर् एव प्रधानं, क्वचिद् इच्छया तद्-अनुग्रहेण तदीय-तच्-छक्ति-लेश-प्राप्त्यैव यथा-युक्तं बहिस् तद्-दत्ताप्राकृत-तद्-भोगोच्छिष्ट-लेशम् एवानुभवतीत्य् एके । तत्र च, न तु तम् एव सर्वम् एव चानुभवतीत्य् अभ्युपगम्यम्, सर्वथा तत्-प्राप्तेर् अनभ्युपगमत्वात् ।

जगद्-व्यापारादि-निषेधेन इदम् एवोक्तं [?] यदैनं मुक्तो नु प्रविशति, मोदते च कामांश् चैवानुभवति इति बृहच्-छ्रुतौ, [?] ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा शृणोति इत्य्-आदि माध्यन्दिनायन-श्रुतौ, [?] आदत्ते हरि-हस्तेन [?] इत्य्-आदिकम् अपि तच्-छक्ति-लेश-प्राप्त्य्-आद्य्-अभिप्रायेणैवोक्तम् ।

क्वचिद् इच्छया लीलार्थं बहिर् अपि निष्कामयति पार्षदत्वेन च संयोजयति । यथा शिशुपाल-दन्तवक्रौ लब्ध-सायुज्याव् अपि पुनः पार्षदताम् एव प्राप्तौ ।

वैरानुबन्ध-तीव्रेण ध्यानेनाच्युत-सात्मताम् ।
नीतौ पुनर् हरेः पार्श्वं जग्मतुर् विष्णु-पार्षदौ ॥ [भा।पु। ७.१.४६] इति ताव् उद्दिश्य श्री-नारद-वाक्यात् ।

तत्रैषां सालोक्यादीनाम् अनवच्छिन्न-भगवत्-प्राप्ति-रूपतया तत्-साक्षात्कार-विशेषत्वेन ब्रह्म-कैवल्याद् आधिक्यं प्राचीन-वचनैः सुतराम् एव सिद्धम् । अत एव क्रम-मुक्तिवत् क्रम-भगवत्-प्राप्तौ ब्रह्म-प्राप्त्य्-अनन्तर-भावित्वम् अपि क्वचित् श्रूयते । यथा श्रीमतोऽजामिलस्य सिद्धि-प्राप्तौ—

स तस्मिन् देव-सदन आसीनो योगम् आस्थितः ।
प्रत्याहृतेन्द्रिय-ग्रामो युयोज मन आत्मनि ॥
ततो गुणेभ्य आत्मानं वियुज्यात्म-समाधिना ।
युयुजे भगवद्-धाम्नि ब्रह्मण्य् अनुभवात्मनि ॥
यर्ह्य् उपारत-धीस् तस्मिन्न् अद्राक्षीत् पुरुषान् पुरः ।
उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः ॥
हित्वा कलेवरं तीर्थे गङ्गायां दर्शनाद् अनु ।
सद्यः स्वरूपं जगृहे भगवत्-पार्श्व-वर्तिनाम् ॥
साकं विहायसा विप्रो महापुरुष-किङ्करैः ।
हैमं विमानम् आरुह्य ययौ यत्र श्रियः पतिः ॥ [भा।पु। ६.२.४०-४४]****

स्पष्टम् । एवं सद्यो-भगवत्-प्राप्ताव् अप्य् आधिक्यम् अवगतम् ॥

॥ ६.२ ॥ श्री-शुकः ॥ १५ ॥

[१६]

सालोक्यादिषु च सामीप्यस्याधिक्यं, बहिः-साक्षात्कारमयत्वात् तस्यैव ह्य् आधिक्यं दर्शितम् । तद् एवं मुक्तिर् दर्शिता । तत्र विष्णु-धर्मोत्तरे श्री-वज्र-प्रश्नः—

कल्पानां जीव-साम्ये हि मुक्तिर् नैवोपपद्यते ।
कदाचिद् अपि धर्मज्ञ तत्र पृच्छामि कारणम् ॥
एकैकस्मिन् नरे मुक्तिं कल्पे कल्पे गते द्विज ।
अभविष्यज् जगच् छून्यं कालस्यादेर् अभावतः ॥

अथ श्री-मार्कण्डेयस्योत्तरम्—

जीवस्यान्यस्य सर्गेण नरे मुक्तिम् उपागते ।
अचिन्त्य-शक्तिर् भगवान् जगत् पूरयते सदा ॥
ब्रह्मणा सह मुच्यन्ते ब्रह्म-लोकम् उपागताः ।
सृज्यन्ते च महा-कल्पे तद्-विधाश् चापरे जनाः ॥ [वि।ध।पु। १.८१.११-१४] इति ।

अत्र क्वचिद् अपि कल्पे केषांचिद् अपि जीवानाम् अनुद्बुद्ध-कर्मत्वेन सुषुप्तवत् प्रकृताव् अपि लीनानाम् अनन्त-ब्रह्माण्ड-गतानाम् इवानन्तानाम् एकस्योपाधि-सृष्ट्या ब्रह्माण्ड-प्रवेशनं सर्ग इति ज्ञेयम् । अपूर्व-सृष्टौ सादित्वे कृत-हान्य-कृताभ्यागमः स्यात् ।

अथ मुक्तिभ्यो भगवत्-प्रीतेर् आधिक्यं विव्रियते । तत्र यद्यपि तत् प्रीतिं विना ता पै न सन्त्य् एव तथापि केषाञ्चित् तेषां स्वस्य दुःख-हानौ सामीप्यादि-लक्षण-सम्पत्ताव् अपि तात्पर्यं, न तु श्री-भगवत्य् एवेति तेषु न्यूनता । तत्र कैवल्यैक-प्रयोजनम् [भा।पु। १२.१३.१२] इति यद् उक्तम् । तस्य चार्थस्य तत्रैव विश्रान्तिः । तथैव सर्व-वेदान्त इत्य्-आदि-प्राक्तन-पाद-त्रयस्य विश्रान्तिस् तत्त्व-भगवत्-सन्दर्भाभ्यां श्री-भगवत्य् एव दर्शिता । तत्रैव तत्त्व-पदार्थस्य पूर्णत्व-स्थापनात् ।

तथैतत्-पूर्वम् अपि हरि-लीला-कथा व्रातामृतानन्दित-सत्-सुरम् [भा।पु। १२.१३.११] इति ग्रन्थ-स्वभाव-वर्णने तत्-प्रीतेर् एव मुख्यत्वं दर्शितम् । हरि-लीला-कथा-व्रात एवामृतं—सन्त आत्मरामा एव सुरा इति । इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.१२.११] इति प्रसिद्धेः । परिनिष्ठितोऽपि नैर्गुण्ये [भा।पु। २.१.९] इत्य्-आदेश् च । अतः कैवल्य-शब्दश् च तत्-तद्-अनुसारेण व्याख्यातव्यः । तथा हि, यदि तत्र केवल-शब्देन शुद्धत्वं वक्तव्यं, तदा तत्-प्रीत्य्-एक-तात्पर्या एव परम-शुद्धा इति तस्याम् एव तात्पर्यम् । पूर्वं भक्ति-सन्दर्भेऽपि शुद्ध-शब्देनैकान्ति-भक्त एव प्रतिपादितः ।

तद् उक्तम् अन्यस्य स-दोषत्व-कथनेन । धर्मः प्रोज्झित-कैतवोऽत्र परमः [भा।पु। १.१.२] इत्य् अत्र । टीका च—प्र-शब्देन मोक्षाभिसन्धिर् अपि निरस्तः इत्य् एषा । अत्र भागवत-धर्मे मोक्षाभिसन्धिर् अपि कैतवम् । यदि च तत्र कैवल्य-शब्देन भगवान् एवोक्तस् तत्-स्वभावो वा, तथापि प्रीतिमताम् एव । कामं भवः स्व-वृजिनैर् निरयेषु नस् ताच् चेतोऽलिवद् यदि नु ते पदयो रमेत [भा।पु। ६.१५.४९] इति न्यायेन तद्-एकानुशीलन-मात्र-तात्पर्यात् प्रीताव् एव विश्रान्तिः।

अत एव कैवल्यान् मोक्षाद् अप्य् एकः श्रेष्ठो यो भगवत्-प्रीति-लक्षणोऽर्थस् तत्-प्रयोजनम् इति व्याख्यान्तरम् । वस्तुतस् तूक्त-न्यायेन कैवल्यादि-शब्दाः शुद्ध-भक्ति-वाचकता-प्रधाना एव। तथैवाह गद्याभ्याम्—

यथा-वर्ण-विधानम् अपवर्गश् चापि भवति [भा।पु। ५.१९.१९]**** इति,****
योऽसौ भगवति सर्व-भूतात्मन्य् अनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-रन्धन-द्वारेण यदा हि महा-पुरुष-पुरुष-प्रसङ्गः [भा।पु। ५.१९.२०]**** इति च ।

यस्य वर्णस्य यद् विधानं भगवद्-अर्पित-स्व-स्वधर्मानुष्ठानं, तद् अनुक्रमेणापवर्गश् च भवति । तस्यापवर्गस्य स्वरूपम् आह द्वितीयेन योऽसौ इति । आत्मनि भवम् आत्म्यं रागादि, तद्-रहिते । स हि भक्त-सुखार्थम् एव प्रयतते, न तु पृथक् स्व-सुखार्थम्, यथा हि भक्तस् तत्-सुखार्थम् एवेति । अनिरुक्ते स्वरूपतो गुणाश् च वाचाम् अगोचरे । अनिलयने निलयनम् अन्तर्धानं, तद्-रहिते, सदैव प्रकाशमान इत्य् अर्थः । अनन्य-निमित्तो मोक्षाद्य्-उपाधि-रहितो यो भक्ति-योगः, स एव लक्षणं स्वरूपं यस्य सः । तत्रापवर्ग-शब्दस्य प्रवृत्तिं घटयति । नाना-गतीनां निमित्तं योऽविद्या-ग्रन्थिः, तस्य रन्धनम् । अपवर्जनं छेदनम् इति यावत् तद्-द्वारेण योऽसाव् अपवर्ग उच्यते इत्य् अर्थः । अपवृज्यते येनेति निरुक्त्या इति भावः । पाद्मोत्तर-खण्डे च—विष्णोर् अनुचरत्वं हि मोक्षम् आहुर् मनीषिणः इति ।

तथा स्कान्दे रेवा-खण्डे—

निश्चला त्वयि भक्तिर् या सैव मुक्तिर् जनार्दन ।
मुक्ता एव हि भक्तास् ते तव विष्णो यतो हरेः ॥ इति ।

श्री-रुक्मिणी-सान्त्वने श्री-भगवताप्य् एवम् अभिप्रेतं तां प्रति—सन्ति ह्य् एकान्त-भक्तायास् तव [भा।पु। १०.६०.५०] इत्य् उक्त्वा, मां प्राप्य मानिन्य् अपवर्ग-सम्पदं वाञ्छन्ति ये सम्पद एव तत्-पतिम् [भा।पु। १०.६०.५३] इति । अत एव कैवल्य-सम्मत-पथस् त्व् अथ भक्ति-योगः [भा।पु। २.३.१२] इत्य् अत्र टीका-कारैर् अप्य् उक्तम्—कैवल्यम् इत्य् एव सम्मतः पन्था यो भक्ति-योगः इति । पन्था भगवत्-प्राप्त्य्-उपाय-भूतोऽपीत्य् अर्थः । स खलु कदा स्यात् तत्राह यदा हीति ॥

॥ ५.१९ ॥ श्री-शुकः ॥ १६ ॥

[१७]

तद् एवम् अत्र सर्गो विसर्गश् च [भा।पु। २.१०.१] इत्य्-आदिषु दशस्व् एतन्-महा-पुराण-प्रतिपाद्येषु अर्थेषु मुक्ति-शब्दस्य तत्रैव विश्रान्तिः । पोषणेऽपि तद् एव मुख्यं प्रयोजनम्। पोषण-शब्देन ह्य् अनुग्रह उच्यते । तस्य च पराकाष्ठा-प्राप्तिः स्व-प्रीति-दान एव। तद् उक्तं मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भा।पु। ५.६.१८] इति ।

तथैवान्यत्रापि श्री-पृथुं प्रति वरं च मत् कञ्चन मानवेन्द्र वृणीष्व [भा।पु। ४.२०.१६] इत्य् उक्त्वा, यथा चरेद् बाल-हितं पिता स्वयं तथा त्वम् एवार्हसि नः समीहितुम् [भा।पु। ४.२०.३१] इति तद्-वाक्यानन्तरं,

तम् आह राजन् मयि भक्तिर् अस्तु ते [भा।पु। ४.२०.३१] इति । भक्तिः प्रीति-लक्षणा ।

॥ ४.२० ॥ श्री-विष्णुः ॥ १७ ॥

[१८]

एवम् एव श्री-भागवत-ग्रन्थ-श्रवण-फलत्वेनापि सैव परम-पुरुषार्थतया निर्णीतास्ति तत्त्व-सन्दर्भे सङ्क्षेप-तात्पर्ये (२९) । श्री-व्यास-समाधिना श्री-शुक-हृदयेण च तथैव निर्णयो विहितः—यस्यां वै श्रूयमाणायाम् [भा।पु। १.६.७] इत्य्-आदिषु । स्व-सुख-निभृत-चेताः [भा।पु। १२.१२.६९] इत्य्-आदौ च । प्रतिज्ञा चेदृश्य् एव—धर्मः प्रोज्झितः कैतवोऽत्र [भा।पु। १.१.२] इत्य्-आदौकिं वा परैर् ईश्वरः सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् इति । अत एव चतुःश्लोक्यां रहस्य-शब्देन सैवोक्ता । सैव च तृतीय-श्लोकार्थत्वेन भगवत्-सन्दर्भे (९६) विस्पष्टीकृतास्ति ।

तद् एवं श्रीमत्-प्रीतेर् एवावपवर्गत्वेन परम-भगवद्-अनुग्रह-मयत्वं श्री-भागवत-श्रवण-फलत्वं पुरुषार्थेषु तस्याः परमत्व-साधनाय दर्शितम् । तथैव श्री-नारद आक्षेप-द्वारा शिक्षितवांश् च तत्-संहिताम् आविर्भावयिष्यन्तं श्री-व्यासम् । यथाह—

यथा धर्मादयश् चार्था मुनि-वर्यानुकीर्तिताः ।
न तथा वासुदेवस्य महिमा ह्य् अनुवर्णितः ॥ [भा।पु। १.५.९]****

च-शब्दोऽप्य्-अर्थे । महिमानुवर्णनं तत्-प्रीत्य्-उद्बोधनं भवेद् इत्य् आशयेनैवम् उक्तम् ॥

॥ १.५ ॥ श्री-नारदः ॥ १८ ॥

[१९]

तथान्येषाम् अपवर्गाणाम् अपि तया तिरस्कृतौ मुक्त-कण्ठा एव शब्दा उदाहार्याः । सा च तिरस्कृतिः क्वचित् तत्-स्वरूपेण क्रियते । क्वचित् तत्-परिकर-द्वारा च । तत्र तत्-स्वरूपेण तिरस्कृतिम् आह गद्येन—

यस्याम् एव कवय आत्मानम् अविरतं विविध-वृजिन-संसार-परितापोपतप्यमानम् अनुसवनं स्नापयन्तस् तयैव परया निर्वृत्या ह्य् अपवर्गम् आत्यन्तिकं परम-पुरुषार्थम् अपि स्वयम् आसादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्त-सर्वार्थाः । [भा।पु। ५.६.१७] इति ।

यस्यां पूर्व-गद्योक्त-लक्षणायां भक्तौ मुक्तादि-सम्पदां भक्ति-सम्पद्-अनुचरीत्वात् परिसमाप्त-सर्वार्थत्वम् । तथोक्तं श्री-नारद-पञ्चरात्रे—

हरि-भक्ति-महा-देव्याः सर्वा मुक्त्य्-आदि-सिद्धयः ।
भुक्तयश् चाद्भुतास् तस्याश् चेटिकावद् अनुव्रताः ॥ इति ।

अत एवानादरोऽपि । यथोक्तं श्री-वृत्रं प्रति महेन्द्रेण—

यस्य भक्तिर् भगवति हरौ निःश्रेयसेश्वरे ।
विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ [भा।पु। ६.१२.२२] इति ।

॥ ६.१२ ॥ श्री-शुकः ॥ १९ ॥

[२०]

अथ तत्-परिकरेषु तदीय-कार्य-द्वारा, यथा तत्र तदीय-गुण-कथानुशीलन-द्वारा ताम् आहुः—

दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश्
चरित-महामृताब्धि-परिवर्त-परिश्रमणाः ।
न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते
चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ [भा।पु। १०.८७.२१]****

आत्म-तत्त्वं तादृश-सच्-चिद्-आनन्द-मूर्तित्वादिकं निज-याथात्म्यम् । निगमोऽनुभावना । आत्त-तनोः प्रकटित-स्व-मूर्तेः । परि वर्जनार्थः । चरित-महामृताब्धेः परिवर्तेन अभ्यासेन वर्जित-श्रमाःचरण-सरोज-हंसानां श्री-शुकदेवादीनां यानि कुलानि शिष्योपशिष्य-परम्पराः, तेषां सङ्गेन विसृष्ट-मात्र-गृहा अपि यद्य् अपवर्गं न परिलषन्ति, तदा चरण-सरोज-हंसादयस् तु किम् उतेत्य् अर्थः ॥

॥ १०.८७ ॥ श्रुतयः ॥ २० ॥

[२१]

तदीय-पाद-सेवा-तदीय-गुण-कथा-द्वारा मुक्ति-विशेषस्य तिरस्कृतिर् भक्ति-सन्दर्भे दर्शितास्ति श्री-कपिल-देव-वाक्येन—नैकात्मतां मे स्पृहयन्ति केचित् [भा।पु। ३.२५.३४] इत्य्-आदिना । एकात्मतां ब्रह्म-सायुज्यं भगवत्-सायुज्यम् अपि । एवं सेवा-द्वारा मुक्ति-विशेषाणां च श्री-विष्णु-वाक्येन मत्-सेवया प्रतीतं ते [भा।पु। ९.४.६७] इत्य्-आदिना, श्री-कपिलदेव-वाक्येन सालोक्य-सार्ष्टि- [भा।पु। ३.२९.१३] इत्य्-आदिना ।

अथ पुरुषार्थान्तरवन्-मुक्तिर् अपि हेयैवेति वक्तुं तैर् अपि साध्यं तस्यास् तिरस्कृतिर् निर्दिश्यते। तत्र भक्तेः स्वरूपेण मुक्ति-सामान्यस्य तिरस्कृतिर् उदाहृतैवास्ति भक्ति-सन्दर्भादौ (२७८) । न किञ्चित् साधवो धीराः [भा।पु। ११.२०.३४] इत्य्-आदिना ।

नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत ।
भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये । [भा।पु। १२.१०.६] इति चान्यत्र।

अथ कार्य-द्वारेषु तत्रापतित-महा-सुख-दुःखान्तर-तिरस्कारि-तद्-आसक्ति-द्वारा ताम् आह—

नारायण-पराः सर्वे न कुतश्चन बिभ्यति ।
स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥ [भा।पु। ६.१७.१८]

स्वर्गादीनां तुल्य-हेयत्वात् तेषु तुल्य-भगवद्-एक-पुरुषार्थत्वाच् च तुल्य-दर्शिनः ॥

॥ ६.१७ ॥ श्री-रुद्रो देवीम् ॥ २१ ॥

[२२]

तदीय-पाद-सेवा-परमोत्कण्ठा-द्वारा ताम् आह—

को न्व् ईश ते पाद-सरोज-भाजां
सुदुर्लभोऽर्थेषु चतुर्ष्व् अपीह ।
तथापि नाहं प्रवृणोमि भूमन्
भवत्-पदाम्भोज-निषेवणोत्सुकः ॥ [भा।पु। ३.४.१५]****

हे ईश ॥

॥ ३.४ ॥ उद्धवः श्री-भगवन्तम् ॥ २२ ॥

[२३]

सर्वात्मार्पण-कारि-भजनीय-विषयकाभिलाष-द्वारा ताम् आह—

न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ [भा।पु। ११.१४.१४]****

टीका च—रसाधिपत्यं पातालादि-स्वाम्यम् । अपुनर्भवं मोक्षम् अपि । मद् विना मां हित्वान्यन् नेच्छति । अहम् एव तस्य प्रेष्ठ इत्य् अर्थः । इत्य् एषा । सार्वभौमं श्री-प्रियव्रतादीनाम् इव महाराज्यम् । पारमेष्ठ्यादि-चतुष्टयस्यानुक्रमश् चाधोऽधो-विवक्षया न्यूनत्व-विवक्षया च । ततश् चोत्तरोत्तरं कैमुत्यम् अपि । योग-सिद्ध्य्-आदि-द्वयं तु सार्वत्रिकम् इति पश्चाद् विन्यस्तम् । अनयोस् तूत्तर-श्रैष्ठ्यम् ॥

॥ ११.१४ ॥ श्री-भगवान् ॥ २३ ॥

[२४]

तथैवाह—

न नाक-पृष्ठं न च पारमेष्ठ्यं
न सार्व-भौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे ॥ [भा।पु। ६.११.२५]****

नाकपृष्ठं ध्रुव-पदम् । अत्र च चतुष्टये पूर्ववत् न्यूनत्व-विवक्षया कैमुत्यम् । ध्रुव-पदस्य श्रैष्ठ्यं विष्णु-पद-सन्निहितत्वात् ॥

॥ ६.११ ॥ श्री-वृत्रः ॥ २४ ॥

[२५]

गाढ-तत्-प्रपत्ति-द्वाराहुः—

न नाक-पृष्ठं न च सार्व-भौमं
न पारमेष्ठ्यं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
वाञ्छन्ति यत्-पाद-रजः-प्रपन्नाः ॥ [भा।पु। १०.१६.३७]****

तत्र नाक-पृष्ठम् अपि न वाञ्छन्ति, किम् उत सार्वभौमम्पारमेष्ठ्यम् अपि न वाञ्छन्ति, किम् उत रसाधिपत्यम् इति पूर्वार्धे योज्यम् । उत्तरार्धे वा-शब्दोऽप्य्-अर्थे । **पाद-रजः-**शब्देन भक्ति-विशेष-ज्ञापनाय गाढ-प्रपत्तिर् ज्ञाप्यते ।

॥ १०.१६ ॥ नाग-पत्न्यः श्री-भगवन्तम् ॥ २५ ॥

[२६]

गुण-गान-द्वाराह—

तुष्टे च तत्र किम् अलभ्यम् अनन्त आद्ये
किं तैर् गुण-व्यतिकराद् इह ये स्व-सिद्धाः ।
धर्मादयः किम् अगुणेन च काङ्क्षितेन
सारं जुषां चरणयोर् उपगायतां नः ॥ [भा।पु। ७.६.२५]****

अगुणेन मोक्षेण । सारं-जुषां तन्-माधुर्यास्वादिनां सताम् ॥

॥ ७.६ ॥ श्री-प्रह्लादो दैत्य-बालकान् ॥ २६ ॥

[२७]

गुण-श्रवण-द्वाराह—

वरान् विभो त्वद् वरदेश्वराद् बुधः
कथं वृणीते गुण-विक्रियात्मनाम् ।
ये नारकाणाम् अपि सन्ति देहिनां
तान् ईश कैवल्य-पते वृणे न च ॥
न कामये नाथ तद् अप्य् अहं क्वचिन्
न यत्र युष्मच्-चरणाम्बुजासवः ।
महत्तमान्तर्-हृदयान् मुख-च्युतो
विधत्स्व कर्णायुतम् एष मे वरः ॥ [भा।पु। ४.२०.२३-२४]

तद् अपि कैवल्यम् अपि ॥

॥ ४.२० ॥ पृथुः श्री-विष्णुम् ॥ २७ ॥

[२८]

तदीय-निज-सेवकता-प्राप्ति-कामना-द्वाराह—

यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान्
प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् ।
नैच्छन् नृपस् तद् उचितं महतां मधुद्विट्-
सेवानुरक्त-मनसाम् अभवोऽपि फल्गुः ॥ [भा।पु। ५.१४.४४]****

य आर्षभेय्यो भरतः ।

॥ ५.१४ ॥ श्री-शुकः ॥ २८ ॥

[२९]

लोक-पालता-मात्र-लक्षण-तत्-सेवाभिमान-द्वाराप्य् आह—

प्रत्यानीताः परम भवता त्रायता नः स्व-भागा
दैत्याक्रान्तं हृदय-कमलं त्वद्-गृहं प्रत्यबोधि ।
काल-ग्रस्तं कियद् इदम् अहो नाथ शुश्रूषतां ते
मुक्तिस् तेषां न हि बहुमता नारसिंहापरैः किम् ॥ [भा।पु। ७.८.४२]****

स्पष्टम् ।

॥ ७.८ ॥ महेन्द्रः श्री-नृसिंहम् ॥ २९ ॥

[३०]

अथ कारणेषु महा-भागवत-सङ्ग-द्वाराह—

क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ [भा।पु। ४.२४.५७]****

टीका च—तत्-पाद-मूले प्रविष्टस्य कृतान्त-भयाभावः कियान् अयं लाभः ? यावता तद्-भक्त-सङ्ग एव सकल-पुरुषार्थ-श्रेणि-शिरसि नरीनर्ति इत्य्-आदि ।

॥ ४.२४ ॥ श्री-रुद्रः प्रचेतसः ॥ ३० ॥

[३१]

तथैवाहुः—

यावत् ते मायया स्पृष्टा भ्रमाम इह कर्मभिः ।
तावद् भवत्-प्रसङ्गानां सङ्गः स्यान् नो भवे भवे ॥
तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः**19 ॥** [भा।पु। ४.३०.३३**-३]**

तद्-बहिर्मुखता-प्राप्त्य्-आशङ्कया तत्-परिहार-कारणं प्रार्थयन्ते—यावद् इति । नैतावत्त्वं तत्-सङ्गस्य किन्त्व् अपार-महिमत्वम् एवेत्य् आहुः—तुलयामेव इति । अतो यावद् इत्य्-आदिकं प्रेम्णैव भगवच्-चरण-सामीप्य-प्राप्त्य्-आशयोक्तं न सामीप्यादि-मुक्ति-सम्पत्त्याशयेति ज्ञेयम् ।

॥ ४.३० ॥ प्रचेतसः श्रीमद्-अष्टभुजं पुरुषम् ॥ ३१ ॥

[३२]

अन्यत्रापीदृशोऽर्थो दृश्यते । तत्र तत्-तच्-छास्त्रस्य परम-फलत्वे । यथा माध्व-भाष्य-धृतं बृहत्-तन्त्रम्—

यथा श्री-नित्य-मुक्तापि प्राप्त-कामापि सर्वदा ।
उपास्ते नित्यशो विष्णुम् एवं भक्तो भवेद् अपि ॥

ब्रह्म-वैवर्ते च—

न ह्रासो न च वृद्धिर् वा मुक्तानां विद्यते क्वचित् ।
विद्वत्-प्रत्यक्ष-सिद्धत्वात् कारणाभावतोऽनुमा ॥
हरेर् उपासना चात्र सदैव सुख-रूपिणी ।
न च साधन-भूता सा सिद्धिर् एवात्र सा यतः ॥ इति ।

तद्-उत्थापिता सौपर्ण-श्रुतिश् च—

सर्वदैतम् उपासीत यावद्-विमुक्तिर् मुक्ता ह्य् एतम् उपासते । इति ।

तदीय-भारत-तात्पर्ये च श्रुत्य्-अन्तराभिधानम्—

मुक्तानाम् अपि भक्तिर् हि परमानन्द-रूपिणी ॥ इति ।

एष एवार्थः श्री-बृहद्-गौतमीयेऽपि दृश्यते, यथा—

एवं दीक्षां चरेद् यस् तु पुरुषो वीत-कल्मषः ।
स लोके वर्तमानोऽपि जीवन्-मुक्तः प्रमोदते ॥
उदिताकृतिर् आनन्दः सर्वत्र सम-दर्शकः ।
पूर्णाहन्तामयी साक्षाद् भक्तिः स्यात् प्रेम-लक्षणा ॥

अन्यत्र हानोपादान-वृद्धि-रहितत्वात् सम-दर्शित्वं ज्ञेयम् । अत्र मुनय ऊचुः—

कथं भक्तिर् भवेत् प्रेम्ना जीवन्-मुक्तस्य नारद ।
जीवन्-मुक्त-शरीराणां चित्-सत्ता-निःस्पृहा यतः ।
विरक्तेः कारणं भक्तिः सा तु मुक्तेस् तु साधनम् ॥

नारद उवाच—

भद्रम् उक्तं भवद्भिश् च मुक्तिस् तुर्यातीता परात् परा20
निरहं यत्र चित्-सत्ता तुर्या सा मुक्तिर् उच्यते ॥
पूर्णाहन्तामयी भक्तिस् तुर्यातीता निगद्यते ।
कृष्ण-धाम-मयं ब्रह्म क्वचित् कुत्रापि भासते ॥
निर्बीजेन्द्रियगं तत् तु आत्म-स्थं केवलं सुखम् ।
कृष्णस् तु परिपूर्णात्मा सर्वत्र सुख-रूपकः ।
भक्ति-वृत्ति-कृताभ्यासात् तत्-क्षणाद् गोचरीकृतः ॥ इति ।

तादृग्-अर्थत्वेनैवाद्वैत-वाद-गुरुभिर् अपि सम्मता श्री-नृसिंह-तापनी च—यं ह वै सर्वे वेदा आनमन्ति मुमुक्षवो ब्रह्म-वादिनश् च [नृ।ता।उ। २.४] इति । यथा, मुक्ता अपि लीलया विग्रहं कृत्वा भगवन्तं भजन्ते इति हि तद्-भाष्यम् । ब्रह्मणा वदितुं स्थिरीभवितुं शीलम् एषाम् इति ब्रह्म-वादिनो मुक्ता इति, वद स्थैर्ये [पा। ७.२.७] इति स्मरणात् । श्री-गीतोपनिषदश् च—तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते [गीता ७.१०] इति ।

अथ तस्याः परम-भगवद्-अनुग्रह-प्राप्यत्वे नारद-पञ्चरात्रीय जितं ते स्तोत्रं, यथा—

मोक्ष-सालोक्य-सारूप्यान् प्रार्थये न धराधर ।
इच्छामि हि महाभाग कारुण्यं तव सुव्रत ॥

पुरुषार्थान्तर-तिरस्कारे हयशीर्षीय-श्री-नारायण-व्यूह-स्तवः—

न धर्मं कामम् अर्थं वा मोक्षं वा वरदेश्वर ।
प्रार्थये तव पादाब्जे दास्यम् एवाभिकामये ॥
पुनः पुनर् वरान् दित्सुर् विष्णुर् मुक्तिं न याचितः ।
भक्तिर् एव वृता येन प्रह्लादं तं नमाम्य् अहम् ॥
यदृच्छया लब्धम् अपि विष्णोर् दाशरथेस् तु यः ।
नैच्छन् मोक्षं विना दास्यं तस्मै हनुमते नमः ॥ इति ।

पुनर् जितं-ते-स्तोत्रं च—

धर्मार्थ-काम-मोक्षेषु नेच्छा मम कदाचन ।
तत्-पाद-पङ्कजस्याधो जीवितं दीयतां मम ॥ इति ।

न च तादृश-भगवत्-प्रीत्या तत्-तत्-पुरुषार्थ-तिरस्कारोऽद्भूत इव । यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः [भा।पु। ५.१८.१२] इति भक्ति-स्वाभाविक-भूत-कारुण्य-गुणेनाप्य् असौ श्रूयते । यथाह—

न कामयेऽहं गतिम् ईश्वरात् पराम्
अष्ट-र्द्धि-युक्ताम् अपुनर्-भवं वा ।
आर्तिं प्रपद्येऽखिल-देह-भाजाम्
अन्तः-स्थितो येन भवन्त्य् अदुःखाः ॥ [भा।पु। ९.२१.१२]

स्पष्टम् ।

न चात्र यथा दया-वीरस्यास्य दया-मात्रेणान्य-परित्यागः, न तु सारासारत्व-ज्ञानेन, तथा उपस्थित-महार्थ-परित्यागित्वाद् दान-वीराणां तेषाम् अपि भगवत्-प्रीति-जनोत्साह-मात्रेणेत्य् आशङ्क्यम् । सर्व-तत्त्वानुभविनां परमार्थैक-निष्ठा-ग्रहाणां श्री-शुक-देवादीनाम् अपि तत्रोदाहृतत्वाद् । तस्माद् अस्त्य् एव भगवत्-प्रीतेः सर्वस्माद् अप्य् अपवर्गाद् उपादेयत्वम् ॥

॥ ९.२१ ॥ रन्ति-देवः ॥ ३२ ॥

[३३]

अत एवान्येषाम् अपि वैदिकानां साधनानां सैव मुख्यं फलम् इति निर्दिशति—

पूर्तेन तपसा यज्ञैर्
दानैर् योग-समाधिना ।
राद्धं निःश्रेयसं पुंसां
मत्-प्रीतिस् तत्त्वविन्-मतम् ॥ [भा।पु। ३.९.४१]

टीका च—न च मत्-प्रीतेर् अप्य् अधिकं किञ्चिद् अस्ति इत्य् आहुः पूर्तादिभी राद्धं सिद्धं यन् निःश्रेयसं फलम् । तत् मत्-प्रीतिर् एवेति तत्त्व-विदां मतम् इत्य् एषा । अन्यत्21 तु फलम् अतत्त्वविदां मतम् इति भावः । तत्र तेषां साधनत्वं च भक्ति-द्वारेति ज्ञेयम् ॥

[३४]

तद् एव कथम् तत्त्व-विदां मतम् ? तत्राह—22

अहम् आत्मात्मनां धातः प्रेष्ठः सन् प्रेयसाम् अपि ।
अतो मयि रतिं कुर्याद् देहादिर् यत्-कृते प्रियः ॥ [भा।पु। ३.९.४२]****

आत्मनां रश्मि-स्थानीयानां शुद्ध-जीवानाम् अपि आत्मा मण्डल-स्थानीयः परमात्मा अहम् । कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् [भा।पु। १०.१४.५५] इति च वक्ष्यते । अतः प्रेयसाम् आत्मनाम् अपि प्रेष्ठः सन् निरवद्यः । येषाम् आत्मनां कृते देहादिर् अर्थोऽपि प्रियो भवति । कुर्यात् सर्व एव कर्तुम् अर्हतीत्य् अर्थः । अतो मद्-अज्ञान-दोषेणैव न करोतीत्य् भावः॥

॥ ३.९ ॥ श्री-गर्भोदशायी ब्रह्माणम् ॥ ३३-३४ ॥

[३५]

अत एव शुद्ध-प्रीतिमत एव सर्वतः श्रैष्ठ्यम् आह—

रजोभिः सम-सङ्ख्याताः पार्थिवैर् इह जन्तवः ।
तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥
प्रायो मुमुक्षवस् तेषां केचनैव द्विजोत्तम ।
मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति ॥
मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [भा।पु। ६.१४.३-५]****

श्रेयः पर-लोक-सुख-साधनं धर्मादि । मुच्येत जीवन्-मुक्तो भवति । जीवन्-मुक्तस्य च यस्य भगवद्-आद्य्-अपराधो दैवान् न स्यात् स एव सिध्यति, तत्-तल्-लक्षणाम् अन्तिमां मुक्तिं प्राप्नोति ।

आरुह्य कृच्छ्रेण परं पदं ततः
पतन्त्य् अधोऽनादृत-युष्मद्-अङ्घ्रयः ॥ [भा।पु। १०.२.३२]
जीवन्-मुक्ताः प्रपद्यन्ते पुनः संसार-वासनाम् ।
यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥23
नानुव्रजति यो मोहाद् व्रजन्तं परमेश्वरम् ।
ज्ञानाग्नि-दग्ध-कर्मापि स भवेद् ब्रह्म-राक्षसः ॥

इत्य्-आदि भक्ति-सन्दर्भे (१११, १२१) दर्शित-प्रमाणेभ्यः । तत्र जीवन्-मुक्तानां सिद्ध-मुक्तानां च याः कोटयः, तास्व् अपि नायं सुखापो भगवान् [भा।पु। १०.९.२१] इत्य्-आदेः, मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भा।पु। ५.६.१८] इत्य् अतश् च नारायण-परायणः सुदुर्लभ एव, यतः स एव प्रशान्तात्मा प्रकृष्ट-भगवत्-तत्त्व-निष्ठा-वरिष्ठ इत्य् अर्थः । शमो मन्-निष्ठता बुद्धेः [भा।पु। ११.१९.१६] इति श्री-भगवता स्वयं व्याख्यातत्वात् ।

॥ ६.१४ ॥ राजा श्री-शुकम् ॥ ३५ ॥

[३६]

अत एव—

प्रायेण मुनयो राजन् निवृत्ता विधि-षेधतः ।
नैर्गुण्य-स्था रमन्ते स्म गुणानुकथने हरेः ॥ [भा।पु। २.१.७]

इत्य्-आदि-त्रयेणात्माराम-श्रेष्ठानां भक्तिं प्रदर्श्य, तद्-अभाववतां निन्दा—तद्-अश्म-सारं हृदयं बतेदं [भा।पु। २.३.२४] इत्य्-आदिना । अत एवाह—

तथापि ब्रूमहे प्रश्नांस् तव राजन् यथा-श्रुतम् ।
सम्भाषणीयो हि भवान् आत्मनः शुद्धिम् इच्छता ॥ [भा।पु। ७.१३.२३]****

शुद्धिं शुद्ध-भक्ति-वासना-रूपाम् ।

॥ ७.१३ ॥ श्री-दत्तात्रेयः श्री-प्रह्लादम् ॥ ३६ ॥

[३७]

अत एव—

वाग्-गद्गदा द्रवते यस्य चित्तं
रुदत्य् अभीक्ष्णं हसति क्वचिच् च ।
विलज्ज उद्गायति नृत्यते च
मद्-भक्ति-युक्तो भुवनं पुनाति ॥ [भा।पु। ११.१४.२४]

स्पष्टम् ।

[३८]

तथा—

निरपेक्षं मुनिं शान्तं निर्वैरं सम-दर्शनम् ।
अनुव्रजाम्य् अहं नित्यं पूयेयेत्य् अङ्घ्रि-रेणुभिः ॥ [भा। ११.१४.१६]

निरपेक्षं निष्किञ्चन-भक्तम् । अत एव शान्तं क्षोभ-रहितम्, अत एवान्यत्र निर्वैरं, सम-दर्शनं च हेयोपादेय-भावना-रहितं मुनिं श्री-नारदादिम् अनुव्रजामि । यतस् तस्य तादृश-निष्कपट-भक्ति-मय-साधुत्व-दर्शनेन ममापि तत्र भक्ति-विशेषो जायते । कथं गोपनीयः ? इत्य् आह—पूयेय इति । मद्-भक्त्य्-अनिष्कृति-दोषात् पवित्रितः स्याम् इति भावेनेति भावः ॥

॥ ११.१४ ॥ श्री-भगवान् ॥ ३७-३८ ॥

[३९]

अत एवाह—

गुणैर् अलम् असङ्ख्येयैर् माहात्म्यं तस्य सूच्यते ॥
वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ [भा।पु। ७.४.३६]

तस्य श्री-प्रह्लादस्य ।

॥ ७.४ ॥ श्री-शुकः ॥ ३९ ॥

[४०]

तस्मात् प्रीतेर् एव पुरुषार्थ-श्रेष्ठत्वं सिद्धम् । यथाहुर् गद्येन—

अथ ह वाव तव महिमामृत-रस-समुद्र-विप्रुषा सकृद् अवलीढया स्व-मनसि निष्यन्दमानानवरत-सुखेन विस्मारित-दृष्ट-श्रुत-विषय-सुख-लेशाभासाः परम-भागवता एकान्तिनो भगवति सर्व-भूत-प्रिय-सुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृत-मनसः कथम् उ ह वा एते मधुमथन पुनः स्वार्थ-कुशला ह्य् आत्म-प्रिय-सुहृदः साधवस् त्वच्-चरणाम्बुजानुसेवां विसृजन्ति, न यत्र पुनर् अयं संसार-पर्यावर्तः [भा।पु। ६.९.३९] इति ।

सकृद् अपि इति चित्तं ब्रह्म-सुख-स्पृष्टं नैवोत्तिष्ठेत कर्हिचित् [भा।पु। ७.१५.३५] इतिवद् अत्रापि सूचितम् । आत्मा त्वम् एव प्रियः सुहृच् च येषां ते ।

॥ ६.९ ॥ देवाः श्री-पुरुषोत्तमम् ॥ ४० ॥

[४१]

अत एवाह—

तस्यैव हेतोः प्रयतेत कोविदो
न लभ्यते यद् भ्रमताम् उपर्य् अधः ।
तल् लभ्यते दुःखवद् अन्यतः सुखं
कालेन सर्वत्र गभीर-रंहसा ॥
न वै जनो जातु कथञ्चनाव्रजेन्
मुकुन्द-सेव्य् अन्यवद् अङ्ग संसृतिम् ।
स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर्
विहातुम् इच्छेन् न रस-ग्रहो जनः ॥ [भा।पु। १.५.१८-१९]****

स्पष्टम् ।

॥ १.५ ॥ श्री-नारदः ॥ ४१ ॥

[४२]

तथा—

भजन्त्य् अथ त्वाम् अत एव साधवो
व्युदस्त-माया-गुण-विभ्रमोदयम् ।
भवत्-पदानुस्मरणाद् ऋते सतां
निमित्तम् अन्यद् भगवन् न विद्महे ॥ [भा।पु। ४.२०.२९]****

टीका च—यतस् त्वं दीन-वत्सलः अत एव साधवो निष्कामाः । अथ ज्ञानानन्तरम् अपि त्वां भजन्ति । कथम्-भूतम् ? माया-गुणानां विभ्रमो विलासः तस्य्ओदयः कार्यं, स निरस्तो यस्मिन्, तम् । ते किम्-अर्थं भजन्ति ? तत्राह—भवत्-पदानुस्मरण्आदिना अन्यत् तेषां फलं न विद्महे ॥ इत्य् एषा ।

॥ ४.२० ॥ पृथुः श्री-विष्णुम् ॥ ४२ ॥

[४३]

तस्मात् तत्-तद्-भक्तानां तत्-प्रीति-मनोरथ एवोपादेयः । तद् अन्यस् तु सर्वोऽपि हेय इत्य् आह—

सुखोपविष्टः पर्यङ्के राम-कृष्णोरु मानितः ।
लेभे मनोरथान् सर्वान् पथि यान् स चकार ह ॥
किम् अलभ्यं भगवति प्रसन्ने श्री-निकेतने ।
तथापि तत्-परा राजन् न हि वाञ्छन्ति किञ्चन ॥ [भा।पु। १०.३९.१-२]

सोऽक्रूरः । यान्

किं मयाचरितं भद्रं किं तप्तं परमं तपः ।
किं वाथाप्य् अर्हते दत्तं यद् द्रक्ष्याम्य् अद्य केशवम् ॥ [भा।पु। १०.३८.३]

इत्य्-आदि-भक्ति-वासना-मयान् । ननु मुक्त्य्-आदिकम् अपि कथं न प्रार्थितम् ? तत्राह—किम् अलभ्यम् इति ।

॥ १०.३९ ॥ श्री-शुकः ॥ ४३ ॥

[४४]

यथैवाह—

पुनश् च भूयाद् भगवत्य् अनन्ते
रतिः प्रसङ्गश् च तद्-आश्रयेषु ।
महत्सु यां याम् उपयामि सृष्टिं
मैत्र्य् अस्तु सर्वत्र नमो द्विजेभ्यः ॥ [भा।पु। १.१९.१६]

सृष्टिं जन्म, अन्यत्र तु सर्वत्र मैत्री अविषमा दृष्टिर् अस्तु । ब्राह्मणेषु त्वादर-विशेषोऽस्त्व् इत्य् आह नम इति ।

॥ १.१९ ॥ राजा ॥ ४४ ॥

[४५]

अत एवाह—

न वै मुकुन्दस्य पदारविन्दयो
रजो-जुषस् तात भवादृशा जनाः ।
वाञ्छन्ति तद्-दास्यम् ऋतेऽर्थम् आत्मनो
यदृच्छया लब्ध-मनः-समृद्धयः ॥ [भा।पु। ४.९.३६]

यदृच्छया अनायासेनैव लब्धा मनः-समृद्धिर् येषां ते । स्वतो भक्ति-माहात्म्य-बलेन सर्व-पुरुषार्थ-प्रतीक्षित-कृपा-दृष्टि-लेशा अपीत्य् अर्थः । एतद्-अनुसारेण, नैच्छन् मुक्ति-पतेर् मुक्तिं तेन तापम् उपेयिवान् [भा।पु। ४.९.२९] इत्य् अत्र श्री-ध्रुवम् उद्दिश्य पूर्वोक्तेऽपि पद्ये मुक्ति-शब्देन दास्यम् एव वाच्यम् । तद् उक्तं—विष्णोर् अनुचरत्वं हि मोक्षम् आहुर् मनीषिणः [प।पु। ६.२२९.५९] इति ।

॥ ४.९ ॥ श्री-मैत्रेयः ॥ ४५ ॥

[४६]

एतद् एवान्य-निन्दा-शुद्ध-भक्तस् तवाभ्यां द्रढयति गद्य-पञ्चकेन—

यत् तद् भगवतानधिगतान्योपायेन याच्ञा-च्छलेनापहृत-स्व-शरीरावशेषित-लोक-त्रयो वरुण-पाशैश् च सम्प्रतिमुक्तो गिरि-दर्यां चापविद्ध इति होवाच ॥२३॥
नूनं बतायं भगवान् अर्थेषु न निष्णातो योऽसाव् इन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस् तम् अतिहाय स्वयम् उपेन्द्रेणात्मानम् अयाचतात्मनश् चाशिषो नो एव तद्-दास्यम् अतिगम्भीर-वयसः कालस्य मन्वन्तर-परिवृत्तं कियल् लोक-त्रयम् इदम् ॥२४॥
यस्यानुदास्यम् एवास्मत्-पितामहः किल वव्रे न तु स्व-पित्र्यं यद् उताकुतोभयं पदं दीयमानं भगवतः परम् इति भगवतोपरते खलु स्व-पितरि ॥२५॥
तस्य महानुभावस्यानुपथम् अमृजित-कषायः को वास्मद्-विधः परिहीण-भगवद्-अनुग्रह उपजिगमिषतीति ॥२६॥ [भा।पु। ५.२४.२३-२६]

[२३] टीका च—तस्यैकान्त-भक्तिं स-प्रपञ्चम् आह इत्य्-आदिका । यत् तद् अतिप्रसिद्धम् । इति एतद् उवाच श्री-बलिः । तम् उपेन्द्रं प्रति ।

[२४] अतिहाय पुरुषार्थत्वेनानभिलष्य । स्वयम् उपेन्द्रेणैव द्वार-भूतेन आत्मानं मां परम-क्षुद्रं प्रति परम-क्षुद्रं लोक-त्रयम् अयाचत

[२५] अनुदास्यं, नय मां निज-भृत्य-पार्श्वम् [भा।पु। ७.९.२४] इत्य् अनेन तद्-दास-दास्यम् । स्व-पित्र्यं त्रैलोक्य-राज्यम् । यद् उत अकुतो-भयं पदं मोक्षम् । तन् न तु वव्रे । कथं भगवतः परम् अन्यद् इदम् इति कृत्वा । तद्-अंशाभासं24 तद्-अंश-मात्रात्मकत्वात् तयोः। कदैवं व्यवहृतम् ? इत्य् आशङ्क्याह—भगवतेति ।

॥ ५.२४ ॥ श्री-शुकः ॥ ४६ ॥

[४७]

अत एवान्य-सुख-दुःख-नैरपेक्ष्येणैव शुद्धत्वं भक्तानाम् इति सिद्धम् । तद् उक्तं नारायण-पराः सर्वे [भा।पु। ६.१७.२८] इत्य्-आदि । श्री-भगवान् अपि तथाविधानुकम्प्यानां सर्वम् अन्यद् दूरीकरोति । यथोक्तं स्वयम् एव, ब्रह्मन् यम् अनुगृह्णामि तद्-विशो विधुनोम्य् अहम् [भा।पु। ८.२२.२४] इति । यथाह—

त्रैवर्गिकायास-विघातम् अस्मत्-
पतिर् विधत्ते पुरुषस्य शक्र ।
ततोऽनुमेयो भगवत्-प्रसादो
यो दुर्लभोऽकिञ्चन-गोचरोऽन्यैः ॥ [भा।पु। ६.११.२३]****

पुरुषस्य स्वात्यन्तिक-भक्तस्य यदि कथञ्चित् त्रैवर्गिकायास आपतति, तदा स्वयम् एव तद्-विघातं विधत्त इत्य् अर्थः । अकिञ्चनस् तु गोचरो विषयो यस्येत्य् अनेन मोक्षायासस्यापि विघात-विधानं व्यञ्जितम् । अकिञ्चन-शब्दस्य शुद्ध-भक्तार्थत्वं हि भक्ति-सन्दर्भे दर्शितम्।

॥ ६.११ ॥ श्रीमान् वृत्रः शत्रुम् ॥ ४७ ॥

[४८]

तद् एवं तादृशानाम् अपि यदि कदाचिद् अन्यत् प्रार्थनं दृश्यते तदा तत्-प्रीति-सेवोपयोगितयैव न तु स्वार्थत्वेन तद् इति मन्तव्यम् । यथा—

यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः ।
पारमेष्ठ्य-कामो नृपतिस् तद् भवान् अनुमोदताम् ॥ [भा।पु। १०.७०.४१] इति ।

परमेष्ठि-शब्देनात्र श्री-द्वारका-पतिर् उच्यते । यथा पृथुकोपाख्याने—

तावच् छ्रीर् जगृहे हस्तं तत्-परा परमेष्ठिनः । [भा।पु। १०.८१.१०] इति ।

ततः पारमेष्ठ्य-शब्देन द्वारकैश्वर्यम् उच्यते । ततश् च पारमेष्ठ्य-काम इति तत्-समानैश्वर्यं कामयमानः इत्य् अर्थः । तत्-कामना च द्वारकावद् इन्द्रप्रस्थेऽपि श्री-कृष्ण-निवासन-योग्य-सम्पत्ति-सिद्ध्य्-अर्थैव ज्ञेया नान्यार्था । तान् उद्दिश्यैव—-

किं ते कामाः सुर-स्पार्हा मुकुन्द-मनसो द्विजाः ।
अधिजह्रुर् मुदं राज्ञः क्षुधितस्य यथेतरे ॥ [भा।पु। १.१२.६] इत्य्-आद्य्-उक्तेः ।

श्री-भगवत्-प्रसादत इहैव च तथैव तत्-प्राप्तिर् अपि तस्य दृश्यते—

सभायां मय-कॢप्तायां क्वापि धर्म-सुतोऽधिराट् ।
वृतोऽनुगैर् बन्धुभिश् च कृष्णेनापि स्व-चक्षुषा ॥
आसीनः काञ्चने साक्षाद् आसने मघवान् इव ।
पारमेष्ठ्य-श्रिया जुष्टः स्तूयमानश् च वन्दिभिः ॥ [भा। १०.७५.३४-३५] इत्य् अत्र ।

अत्र स्व-चक्षुषा इति विशेषणम् अपि तेषाम् अनन्य-कामत्वायोपजीव्यम् । यथा चक्षुष्मता जनेनान्ध-जनागोचर-सम्पत्ति-विशेषश् चक्षुर् अर्थम् एव काम्यते, कदाचित् तन्-मुद्रणादौ तु स सर्वोऽपि वृथैव । तथा कृष्ण-नाथैर् अपीति भावः । तथोक्तं श्रीमत्-पाण्डवान् उद्दिश्य श्री-परीक्षितं प्रति मुनिभिः, न वा इत्य्-आदौ, येऽध्यासनं राज-किरीट-जुष्टं सद्यो जहुर् भगवत्-पार्श्व-कामाः [भा।पु। १.१९.२०] इति । अत एव तद् भवान् अनुमोदताम् [भा।पु। १०.७०.४१] इति नारद-वाक्यानुसारेण परमैकान्तिषु श्री-भगवान् अपि तद् अनुमोदते । अन्यत्र च तथैव स्वयम् आह—

यान् यान् कामयसे कामान् मय्य् अकामाय भामिनि ।
सन्ति ह्य् एकान्त-भक्तायास् तव कल्याणि नित्यदा ॥ [भा।पु। १०.६०.५०]****

न विद्यते कामो यत्रेति विग्रहेन शुद्ध-प्रीतिमय-भक्ति-लक्षणोऽर्थः खल्व् अत्राकाम इत्य् उच्यते । अकामः सर्व-कामो वा [भा।पु। २.३.१०] इत्य्-आदौ भक्ति-मात्र-काम इव । तथोक्तं भक्ति-लक्षणं वदता श्री-प्रह्लादेन, भृत्य-लक्षण-जिज्ञासुः [भा।पु। ७.१०.३] इत्य्-आदौ । तस्माद् अकामाय प्रीति-सेवा-सम्पत्त्य्-अर्थं यान् यान् अर्थान् कामयसे, हे देवि ! ते तव नित्य-लक्ष्मी-देवी-रूप-प्रेयसीत्वात् नित्यं सन्त्य् एवेति व्याख्येयम् । तत्रैकान्त-भक्ताया इति स्वार्थ-कामना-निषेधः । कामिनी इति मद्-एक-कामिनीत्य् अर्थः । कल्याणि इति तादृश-सेवा-सम्पत्तेर् अविघ्नत्वं दर्शयतीति ज्ञेयम् ।

॥ १०.६० ॥ श्री-भगवान् रुक्मिणीम् ॥ ४८ ॥

[४९]

एवं सद्यो जहुर् भगवत्-पार्श्व-कामाः [भा।पु। १.१९.२०] इत्य् अत्र तत्-सामीप्य-कामनापि व्याख्येया । तत्-प्रीति-विशेषातिशयवतां हि तेषां तत्-कृतार्ति-भरेणैव तत्-स्फूर्ताव् अप्य् अतृप्तौ सत्यां, तत्-सामीप्य-प्राप्तेश् च तत्-प्राप्ति-विघातक-संसार-बन्धन-त्रोटनस्य च प्रार्थनं दृश्यते । पितृ-मातृ-प्रीत्य्-एक-सुखिनां विदूर-बद्धानां बालकानाम् इव । यथाह—

त्रस्तोऽस्म्य् अहं कृपण-वत्सल दुःसहोग्र-
संसार-चक्र-कदनाद् ग्रसतां प्रणीतः ।
बद्धः स्व-कर्मभिर् उशत्तम तेऽङ्घ्रि-मूलं
प्रीतोऽपवर्ग-शरणं ह्वयसे कदा नु ॥ [भा।पु। ७.९.१६]****

त्वद्-बहिर्मुख-व्याकार-मयत्वाद्25 दुःख-सहम् अनुशीलयितुम् अशक्यम् । त्वद्-भक्ति-विरोधि-व्याकार-मयत्वात् तूग्रं भयानकं यत् संसार-चक्रं, तस्माद् यत् कदनं लोकानां मनो-दौःस्थ्यं, तस्माद् अहं त्रस्तोऽस्मि, तद्-अभिमुखीभवितुं न पारय इत्य् अर्थः । एवम् एव वक्ष्यते—

श्री-नारद उवाच—
भक्ति-योगस्य तत् सर्वम् अन्तरायतयार्भकः ।
मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥
श्री-प्रह्राद उवाच—
मा मां प्रलोभयोत्पत्त्या सक्तं कामेषु तैर् वरैः ।
तत्-सङ्ग-भीतो निर्विण्णो मुमुक्षुस् त्वाम् उपाश्रितः ॥ [भा।पु। ७.१०.१-२] इत्य् अनेन ।

यद्यप्य् एवं त्रस्तोऽस्मि, तथाप्य् अहो ग्रसतां भगवद्-विरोधित्वेन मादृश-सर्वङ्गिलानाम् एषाम् असुराणां मध्ये स्व-कर्मभिर् बद्धः सन् प्रणीतो निक्षिप्तोऽस्मि । ततस् तव विरह-दूनतया इदं याचे । कदा नु प्रीतः सन् अपवर्ग-भूतम् अरणं शरणं तवाङ्घ्रि-मूलं त्वत्-समीपं प्रति माम् आह्वास्यसीति ॥

॥ ७.९ ॥ प्रह्लादः श्री-नृसिंहम् ॥ ४९ ॥

[५०]

अत एव विष्णु-पुराणे तस्य श्रीमत्-प्रह्लादस्य केवल-प्रीति-वर-याच्ञापि नानेन विरुद्धा, यथा—

नाथ योनि-सहस्रेषु येषु येषु व्रजाम्य् अहम् ।
तेषु तेष्व् अच्युता भक्तिर् अच्युतेऽस्तु सदा त्वयि ॥
या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी ।
त्वाम् अनुस्मरतः सा मे हृदयान् मापसर्पतु ॥
कृत-कृत्योऽस्मि भगवन् वरेणानेन यत् त्वयि ।
भवित्री त्वत्-प्रसादेन भक्तिर् अव्यभिचारिणी ॥
धर्मार्थ-कामैः किं तस्य मुक्तिस् तस्य करे स्थिता ।
समस्त-जगतां मूले यस्य भक्तिः स्थिरा त्वयि ॥ [वि।पु। १.२०.१८-१९, २६-२७]

तत्र श्रीमत्-परमेश्वर-वाक्यम् अपि तथैव—

यथा ते निश्चलं चेतो मयि भक्ति-समन्वितम् ।
तथा त्वं मत्-प्रसादेन निर्वाणं परम् आप्स्यसि ॥ [वि।पु। १.२०.२८]

यथा येन प्रकारेण, तथा तेन प्रकारेणैव परं मदीय-चरण-सेवोचितत्वेन महद् इत्य् अर्थः, सेवानुरक्त-मनसाम् अभवोऽपि फल्गुः [भा।पु। ५.१४.४४] इत्य् उक्तत्वात् । तथा वक्ष्यमाणाभिप्रायेणैवेतद् आह—

अहं किल पुरानन्तं प्रजार्थो भुवि मुक्ति-दम् ।
अपूजयं न मोक्षाय मोहितो देव-मायया ॥ [भा।पु। ११.२.८]****

सुतपो-नाम्ना निजांशेनाहम् अनन्तम् अन्यत्र मुक्तिदम् अपि तल्-लक्षण-प्रजा-प्रयोजनक एवापूजयम्, न तु मोक्षायापूजयम् । यतो देवे तस्मिन् तद्-दर्शनोत्थिता या माया कृपा पुत्र-भावस् तेन मोहितः । माया दम्भे कृपायां च इति विश्व-प्रकाशात् । किलेति सूती-गृहे श्री-कृष्ण-वाक्यम् अपि प्रमाणीकृतम् ।

अथ यथा विचित्र-व्यसनात् [भा।पु। ११.२.९] इत्य्-आदि-तद्-वाक्यान्तरेषु च । व्यसनं श्री-कृष्ण-विच्छेद-हेतुः । भयं भावि-तद्-विच्छेद-शङ्केति व्याख्येयम् । तत्र, मन्येऽकुतश्चित् [भा।पु। ११.२.३३] इत्य्-आदि-श्री-नारदोदाहृत-वाक्यम् उत्तरं गम्यम् । अत्र हि विश्व-शब्दाद् उक्त-भय-निवर्तनम् अपि प्रतिपद्यामहे । संवादान्ते त्वम् अप्य् एतान् [भा।पु। ११.५.४५] इत्य्-आदि-द्वयं चातिदेशेन साक्षात् श्री-कृष्ण-प्राप्ति-गमकम् एव तयोर् इति ।

॥ ११.२ ॥ श्रीमद्-आनकदुन्दुभिः श्री-नारदम् ॥ ५० ॥

[५१]

तद् एवं तेषां तत्-तत्-प्रार्थनम् अपि तत्-प्रीति-विलास एव । अत्रेदं तत्त्वम्—एकान्तिनस् तावद् द्विविधाः—अजात-जात-प्रीतित्व-भेदेन । जात-प्रीतयश् च त्रिविधाः—

१। एके तदीयानुभव-मात्र-निष्ठाः शान्त-भक्तादयः; २। अन्ये तदीय-दर्शन-सेवनादि-रस-मयाः परिकर-विशेषाभिमानिनः; ३। स्वयं परिकर-विशेषाश् च । तत्र तेषु अजात-प्रीतिभिः सर्व-पुरुषार्थत्वेन तत्-प्रीतिर् एव प्रार्थनीया ।

अथ जात-प्रीतिषु शान्त-भक्तादयस् तु कदाचिद् दर्शनादिकं वा प्रार्थयन्ते सेवादिकं विनैव, तद्-वासनाया अभावात् । सकृद् अपि कृपा-दृष्ट्य्-आदि-लाभेन तृप्ताश् च भवन्ति, नातिक्षामं भगवतः स्निग्धापाङ्ग-विलोकनात् [भा।पु। ३.२१.४६] इति श्री-कर्दम-वर्णनात् । अत एव तत्-सामीप्यादिकेऽपि तेषाम् अनाग्रहः । ये तु तत्-परिकर-विशेषाभिमानिनस् ते खलु तत्-तत्-प्रीति-विशेषोत्कण्ठिनो यदा भवन्ति, तदा तत्-तत्-सेवा-विशेषेच्छया प्रार्थयन्त एव तत्-सामीप्यादिकम्। तत्-प्रार्थना च प्रीति-विलास-रूपैव । पुष्णाति च ताम् इति गुण एव । यदा च तेषां दैन्येन तत्-प्राप्त्य्-असम्भावना जायते, तदापि च तत्-प्रीत्य्-अविच्छेद-मात्रं प्रार्थयन्ते । सोऽपि च गुण एव । यत् तु केवल-संसार-मोक्ष-तत्-सामीप्यानन्द-विशेष-प्रार्थनं प्रीति-विकारता-शून्यं तत् पुनः सर्वथा केषांचिद् अप्य् एकान्तिनां नाभिरुचितम् ।

अत एव सर्वं मद्-भक्ति-योगेन [भा।पु। ११.२०.३३] इत्य्-आदौ कथञ्चिद् भक्त्य्-उपयोगित्वेनैवेति । एवं “सालोक्य-सार्ष्टि” [भा।पु। ३.२९.१३] इत्य्-आदौ तेषां मध्ये सेवनं विना यत्, तन् न गृह्णन्ति इति कथ्यते । तत्रैकत्व-लक्षणं सायुज्यं तु स्वरूपत एव तद्-विनाभूतम्, अन्यत् तु वासना-भेदेन । सारूप्यस्य तु सेवोपकारित्वं शोभा-विशेषेण, श्री-वैकुण्ठेऽपि तदीय-नित्य-सेवकानां तथैव तादृशत्वम् । लोकेऽपि किशोर-विदग्ध-क्षिति-पति-पुत्रैः समान-रूप-वयस्का सेवकाः सङ्गृहीता दृश्यन्ते श्लाघ्यन्ते च लोकैः । तस्माद् यथा तथा श्रीमत्-प्रीतेर् एव पुरुषार्थत्वम् इत्य् आयातम् । ते प्रीत्य्-एक-पुरुषार्थिनोऽपि भाव-विशेषेणान्यद् वाञ्छन्तु न वाञ्छन्तु वा स्व-स्व-भक्ति-जात्य्-अनुरूपा भक्ति-परिकराः पदार्थाः संसार-ध्वंस-पूर्वकम् उदयन्त एव । न ते कदाचिद् व्यभिरचन्ति च । तद् एतद् उक्तम्—

अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी ।
जरयत्य् आशु या कोशं निगीर्णम् अनलो यथा ॥
नैकात्मतां मे स्पृहयन्ति केचिन्
मत्-पाद-सेवाभिरता मद्-ईहाः ।
येऽन्योन्यतो भागवताः प्रसज्य
सभाजयन्ते मम पौरुषाणि ॥
पश्यन्ति ते मे रुचिराण्य् अम्ब सन्तः
प्रसन्न-वक्त्रारुण-लोचनानि ।
रूपाणि दिव्यानि वर-प्रदानि
साकं वाचं स्पृहणीयां वदन्ति ॥
तैर् दर्शनीयावयवैर् उदार-
विलास-हासेक्षित-वाम-सूक्तैः ।
हृतात्मनो हृत-प्राणांश् च भक्तिर्
अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते ॥
अथो विभूतिं मम माययाचिताम्26
ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्तम् ।
श्रियं भागवतीं वास्पृहयन्ति भद्रां
परस्य मे तेऽश्नुवते तु लोके ॥
न कर्हिचिन् मत्-पराः शान्त-रूपे
नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ।
येषाम् अहं प्रिय आत्मा सुतश् च
सखा गुरुः सुहृदो दैवम् इष्टम् ॥ [भा।पु। ३.२५.३३-३८] इति ।

अण्वीं [३.२५.३६] दुर्ज्ञेयां पार्षद-लक्षणाम् इत्य् अर्थः । तद् एवं तत्-क्रतु-न्यायेन च शुद्ध-भक्तानाम् अन्या गतिर् नास्त्य् एव । श्रुतिश् च—यथा क्रतुर् अस्मिन् लोके पुरुषो भवति, तथेतः प्रेत्य भवति [छा।उ। ३.१४.१] इति, क्रतुर् अत्र सङ्कल्प इति भाष्य-काराः । श्रुत्य्-अन्तरं च—स यथा-कामो भवति, तत् क्रतुर् भवति । यत्-क्रतुर् भवति, तत् कर्म कुरुते । यत् कर्म कुरुते, तद् अभिसम्पद्यते [बृ।आ।उ। ४.४.६] इति । अन्यच् च, यद् यथा यथोपासते तद् एव भवन्ति इति । श्री-भगवत्-प्रतिज्ञा च—ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इति । तथैव ब्रह्म-वैवर्ते—यदि मां प्राप्तुम् इच्छन्ति प्राप्नुवन्त्य् एव नान्यथा इति ।

तत्र श्री-व्रज-देवीनां सा गतिः श्री-कृष्ण-सन्दर्भे (१६८) सङ्गमितैवास्ति ।

मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते
दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥ [भा।पु। १०.८२.४४]

इत्य्-आदि-बलेन वचनान्तराणाम् अर्थान्तर-स्थापनेन च ।

तथैव ताः प्रति स्वयम् अभ्युपगच्छति—

सङ्कल्पो विदितः साध्व्यो भवतीनां मद्-अर्चनम् ।
मयानुमोदितः सोऽसौ सत्यो भवितुम् अर्हति ॥
न मय्य् आवेशित-धियां कामः कामाय कल्पते ।
भर्जिताः क्वथिता धाना प्रायो बीजाय नेष्यते ॥ [भा।पु। १०.२२.२५-२६]

मद्-अर्चनं पति-भाव-मय-मद्-आराधनात्मको भवतीनां सङ्कल्पो विदितोऽनुमोदितश् च सन् सत्यः सर्वदा तादृश-मद्-अर्चनाव्यभिचारी भवितुम् अर्हति युज्यत एव ।

स च परम-प्रेमवतीनां नान्यवत् फलान्तरापेक्षः, किन्तु स्वयम् एवास्वाद्यः । यतः—न मय्य् आवेशित-धियाम् इति । मय्य् आवेशित-धियाम् एकान्त-भक्त-मात्राणां कामो मद्-अर्चनात्मकः सङ्कल्पः कामाय फलान्तराभिलाषाय न कल्पते, किन्तु स्वयम् एवास्वाद्यो भवतीत्य् अर्थः ।

तत्रार्थान्तर-न्यासः—भर्जिता इति । प्राय इति वितर्के । धाना भृष्ट-यवाः, ताः स्वरूपत एव भर्जिताः, पुनः स्वाद-विशेषार्थं घृतेन वा भर्जिता गुडादिभिः क्वथिताश् च सत्यो बीजाय बीजत्वाय नेशते न कल्पन्ते । यववत् ताभिर् अन्य-यव-फलनं नेष्यते, किन्तु ता एवास्वाद्यन्त इत्य् अर्थः । तस्मात् तादृश-मद्-अर्चनम् एव भवतीनां परम-फलम् इति भावः । यच् च विषय-महिम्ना शान्तिर् एवासां भविष्यतीति शान्तानाम् उत्प्रेक्षितम् । तच् च ताभिः स्वयम् एवानुभूयान्य-विषयत्वेनैव, इतर-राग-विस्मारणम् [भा।पु। १०.३१.१४] इत्य् अनेन । श्री-कृष्ण-विषयत्वे तु तद् अशान्तिर् एव दर्शिता, सुरत-वर्धनम् [भा।पु। १०.३१.१४] इत्य् अनेन ।

॥ १०.२२ ॥ श्री-भगवान् व्रज-कुमारीः ॥ ५१ ॥

[५२]

तथा श्री-पट्ट-महिष्य्-आदीनां श्री-यादवादीनां च गतिस् तथैव सङ्गमितास्ति—एते हि यादवाः सर्वे मद्-गणा एव भामिनि [प।पु।] इत्य्-आदि, रेमे रमाभिर् निज-काम-सम्प्लुतः [भा।पु। १०.५९.४३] इत्य्-आदि-वचन-बलेन । जयति जननिवासः [भा।पु। १०.९०.४८] इत्य्-आदि-स्फुटार्थ-दर्शनेन लीलान्तरस्यैन्द्रजालिकत्वात् । कूर्म-पुराण-गत-साक्षात्-सीता-हरण-प्रत्याख्यायि-मायिक-सीता-हरणाख्यान-तुल्यत्व-स्थापनाय च27 । तथैव तदीय-नित्य-गण-विशेषाणां श्रीमत्-पाण्डवानाम् अपि गतिर् व्याख्येया । तत्र श्रीमद्-अर्जुनस्य, यथा—

एवं चिन्तयतो जिष्णोः कृष्ण-पाद-सरोरुहम् ।
सौहार्देनातिगाढेन शान्तासीद् विमला मतिः ॥
वासुदेवाङ्घ्र्य्-अनुध्यान- परिबृंहित-रंहसा ।
भक्त्या निर्मथिताशेष- कषाय-धिषणोऽर्जुनः ॥
गीतं भगवता ज्ञानं यत् तत् सङ्ग्राम-मूर्धनि ।
काल-कर्म-तमो-रुद्धं पुनर् अध्यगमत् प्रभुः ॥
विशोको ब्रह्म-सम्पत्त्या सञ्छिन्न-द्वैत-संशयः ।
लीन-प्रकृति-नैर्गुण्याद् अलिङ्गत्वाद् असम्भवः ॥ [भा।पु। १.१५.२८-३१]

शान्ता चेतसि चक्षुषीव भगवद्-आविर्भावेन दुःख-रहिता । अत एव विमला तद्-वृत्ति-भूता ये कालुष-विशेषास् तैर् अपि रहिता । वासुदेवेत्य्-आदिनोत्तर-पद्य-द्वयेन तस्यैव विवरणम् । तत्र अनुध्यानं पूर्वोक्ता चिन्तैव । कषायः पूर्वोक्तं मलम् एव ।

गीतं “माम् एवैष्यसि” [गीता १८.६५] इत्य्-अन्तम् । कालो भगवल्-लीलेच्छा-मयः । कर्म तल्-लीला । तमस् तल्-लीलावेशेन तद्-अननुसन्धानम्। अध्यगमत् तन्-महा-विच्छेदस्य तस्यान्तेऽपि तथा तत्-प्राप्तः पुनर् “माम् एवैष्यसि” इत्य् एतद्-वाक्यं यथार्थत्वेनानुभूतवान् ।

ततश् च कृतार्थोऽभवद् इत्य् आह—विशोक इत्य्-आदि । ब्रह्म-सम्पत्त्या श्रीमन्-नराकार-पर-ब्रह्म-साक्षात्कारेण । संछिन्न इयं मम चेतसि स्फूर्तिर् एव, साक्षात्कारस् त्व् अन्य इति द्वैते संशयो येन सः । तदा भगवत्-प्राप्तौ नान्यवज् जन्मान्तर-प्राप्ति-काल-सन्धिर् अप्य् अन्तरायोऽभवद् इत्य् आह—लीनेति । लीना पलायिता प्रकृतिर् गुण-कारणं यस्माद् एवम्भूतं यन् नैर्गुण्यं, तस्माद् धेतोः, गुण-तत्-कारणातीतत्वाद् इत्य् अर्थः । तथैव अलिङ्गत्वात् प्राकृत-शरीर-रहितत्वाच् च । असम्भवो जन्मान्तर-रहितः । तस्माद् अनन्तरं चक्षुष्य् आविर्भवतीत्य् एव विशेष इति भावः ।

अतः कलिं प्रति श्री-परीक्षिद्-वचनं चाग्रे—यस् त्वं दूरं गते कृष्णे सह गाण्डीव-धन्वना [भा।पु। १.१७.६] इति । एवं—येऽध्यासनं राज-किरीट-जुष्टं सद्यो जहुर् भगवत्-पार्श्व-कामाः [भा।पु। १.१९.२०] इति श्री-मुनि-वृन्द-वाक्यं च । तस्मात् सर्वेषां पाण्डवानां तदीयानां च सैव गतिः व्याख्येया । श्री-विदुरादीनां यम-लोकादि-गतिश् च तत्-तद्-अंशेनैव स्व-स्वाधिकार-पालनार्थं लीलया काय-व्यूहेनेति ज्ञेयम् । तद् इत्थम् एव श्री-भागवत-भारतयोर् अविरोधः स्याद् इति ॥

॥ १.१५ ॥ श्री-सुतः ॥ ५२ ॥

[५३]

अथ श्री-परीक्षितो गतिश् च—

स वै महा-भागवतः परीक्षिद्
येनापवर्गाख्यम् अदभ्र-बुद्धिः ।
ज्ञानेन वैयासकि-शब्दितेन
भेजे खगेन्द्र-ध्वज-पाद-मूलम् ॥ [भा।पु। १.१८.१६] इत्य् अनेन दर्शिता ।

एवम् एवाहुः—

सर्वे वयं तावद् इहास्महेऽथ
कलेवरं यावद् असौ विहाय ।
लोकं परं विरजस्कं विशोकं
यास्यत्य् अयं भागवत-प्रधानः ॥ [भा।पु। १.१९.२१]

लोक-शब्देन चात्र नान्यल् लक्ष्यते, भगवत्-पार्श्व-कामाः (१.१९.२०) इति तेषाम् एवोक्ति-स्वारस्यात्, श्री-भागवत-प्रधान इति च । तस्माद् अन्ते चेद् ब्रह्म-कैवल्यं मन्यते, तथापि क्रम-भगवत्-प्राप्ति-रीत्या तद्-अनन्तरं भगवत्-प्राप्तिस् त्व् अवश्यं मन्येतैव, यथाजामिलस्य दर्शितम् ।

॥ १.१९ ॥ श्री-मुनयः ॥ ५३ ॥

[५४]

अथ सम्पद्यमानम् आज्ञाय भीष्मं ब्रह्मणि निष्कले [भा।पु। १.९.४४] इत्य् अत्रापि पूर्ववद् एव समाधानम् । किं वा, निष्कल-ब्रह्म-शब्देन मायातीतो नराकृति-पर-ब्रह्म-भूतः श्री-कृष्ण एवोच्यते । तस्मिन् सम्पद्यमानता तत्-सङ्गतिर् एव । तथाह—

अधोक्षजालम्भम् इहाशुभात्मनः
शरीरिणः संसृति-चक्र-शातनम् ।
तद् ब्रह्म-निर्वाण-सुखं विदुर् बुधास्
ततो भजध्वं हृदये हृद्-ईश्वरम् ॥ [भा।पु। ७.७.३७]

हृदये वर्तमानं हृदि भजध्वम्

॥ ७.७ ॥ श्री-प्रह्लादोऽसुर-बालकान् ॥ ५४ ॥

[५५]

सा च कृष्ण-सङ्गतिस् तस्य प्रापञ्चिकागोचरतयापि कृष्ण-रूपेणैवानन्तधा-प्रकाशमानस्य28 श्री-कृष्णस्यैव प्रकाशान्तरे सम्भवेत् । अन्यथा विजय-सखे रतिर् अस्तु मेऽनवद्या [भा।पु। १.९.३३] इति सङ्कल्पानुरूपा फल-प्राप्तिर् विरुध्येत ।

अथ श्री-पृथोर् गतिर् अपि श्री-परीक्षिद्वद् एव व्याख्येया । तस्यापि ब्रह्म-धारणान्तरं ब्रह्म-कैवल्य-विलक्षणां श्री-कृष्ण-लोक-प्राप्तिम् एव तद्-भार्याया अर्चिषो गति-दर्शनया सूचयन्ति—

अहो इयं वधूर् धन्या या चैवं भू-भुजां पतिम् ।
सर्वात्मना पतिं भेजे यज्ञेशं श्रीर् वधूर् इव ॥
सैषा नूनं व्रजत्य् ऊर्ध्वम् अनु वैन्यं पतिं सती ।
पश्यतास्मान् अतीत्यार्चिर् दुर्विभाव्येन कर्मणा ॥ [भा।पु। ४.२३.२५-२६]****

टीका च—

त्रयोविंशे स-भार्यस्य वने नित्य-समाधितः ।
विमानम् अधिरुह्याथ वैकुण्ठ-गतिर् ईर्यते ॥ इत्य् एषा ॥

॥ ४.२ ॥ देव्यः परस्परम् ॥ ५५ ॥

[५६]

श्री-भरतस्यान्ते भक्ति-निष्ठाया एव सूचितत्वात् नान्या गतिश् चिन्त्या । यथा तम् उद्दिश्य तत्रापि इत्य्-आदि गद्ये—

भगवतः कर्म-बन्ध-विध्वंसन-श्रवण-स्मरण-गुण-विवरण-चरणारविन्द-युगलं मनसा विदधद् [भा।पु। ५.९।] इत्य्-आदि ।

स्पष्टम् ॥

॥ ५.९ ॥ श्री-शुकः ॥ ५६ ॥

[५७]

रहूगण-महिमानम् उद्दिश्य च—

एवं हि नृप भगवद्-आश्रिताश्रितानुभावः [भा।पु। ५.१३.२५] इति ।

स्पष्टम् ।

॥ ५.१३ ॥ श्री-शुकः ॥ ५७ ॥

[५८]

यो दुस्त्यज [भा।पु। ५.१४.४४] इत्य्-आदौ

मधुद्विट्-सेवानुरक्त-मनसाम् अभवोऽपि फल्गुः इति च ।

स्पष्टम् ।

॥ ५.१४ ॥ श्री-शुकः ॥ ५८ ॥

[५९]

अतो विष्णु-पुराणाद्य्-उक्ता ज्ञानि-भरताद्याः कल्प-भेदेनान्ये एव ज्ञेयाः ।

तद् एवम् अन्येषाम् अपि महा-भक्तानां प्रीतेर् उदासीना गतिर् न भवत्य् एव, किम् उत विरुद्धा । तद्-अनुकूला सम्पत्तिश् चाप्रार्थितैव भवतीति स्थितम् । प्रीतिमतां चायम् अतिशयः । यदि भगवता सा न दीयते, तदा तेनादानेनापि प्रीतेर् उल्लास एव भवति । यदि वा दीयते, तदा तेनापीति । यथा –

अधनोऽयं धनं प्राप्य माद्यन्न् उच्चैर् न मां स्मरेत् ।
इति कारुणिको नूनं धनं मेऽभूरि नाददात् ॥ [भा।पु। १०.८१.२०]****

अभूर्य् अपि । यथा च—

नूनं बतैतन् मम दुर्भगस्य
शश्वद् दरिद्रस्य समृद्धि-हेतुः
महा-विभूतेर् अवलोकतोऽन्यो
नैवोपपद्येत यदूत्तमस्य ॥ [भा।पु। १०.८१.३३] इत्य् अनन्तरम्,

नन्व् अब्रुवाणो दिशते समक्षम् [भा।पु। १०.८१.३४] इत्य्-आदिकं, किञ्चित् करोत्य् उर्व् अपि यत् स्वदत्तम् [भा।पु। १०.८१.३५] इत्य्-आदिकं चोक्त्वा तद्-गुणोद्दीपित-प्रीतिर् आह—

तस्यैव मे सौहृद-सख्य-मैत्री-
दास्यं पुनर् जन्मनि जन्मनि स्यात् ।
महानुभावेन गुणालयेन
विषज्जतस् तत्-पुरुष-प्रसङ्गः ॥ [भा।पु। १०.८१.३६]****

निरुपाधिकोपकार-मयं सौहृदम् । सह-विहारिता-मयं तद् एव सख्यम्मैत्री स्निग्धत्वम् । दास्यं सेवकत्व-मात्रम् अपि स्यात् । द्वन्द्वैक्यम् । महानुभावेन तेनैव । अत एव सा सम्पत्तिर् अपि भगवत्-सेवार्थम् एव तेन नियुक्तेत्य् आयातम् ।

॥ १०.८१ ॥ श्रीदाम-विप्रः ॥ ५९-६० ॥

[६१]

(६१.१) तद् एवं भगवत्-प्रीतेर् एव परम-पुरुषार्थता स्थापिता ।

(६१.२) अथ तस्याः स्वरूप-लक्षणं श्री-विष्णु-पुराणे प्रह्लादेनातिदेश-द्वारा दर्शितम्—

या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी ।
त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥ [वि।पु। १.२०.१९] इति ।

या यल्-लक्षणा, सा तल्-लक्षणा इत्य् अर्थः । न तु या सैवेति वक्ष्यमाण-लक्षणैक्यात्, तथापि पूर्वस्या माया-शक्ति-वृत्तिमयत्वेन, उत्तरस्याः स्वरूप-शक्ति-मयत्वेन भेदात् ।

एतद् उक्तं भवति—प्रीति-शब्देन खलु मुत्-प्रमोद-हर्षानन्दादि-पर्यायं सुखम् उच्यते । भाव-हार्द-सौहृदादि-पर्याया प्रियता चोच्यते । तत्र उल्लासात्मको ज्ञान-विशेषः सुखम् । तथा विषयानुकूल्यात्मकस् तद्-आनुकूल्यानुगत-तत्-स्पृहा-तद्-अनुभव-हेतुकोल्लास-मय-ज्ञान-विशेषः प्रियता । अत एवास्यां सुखत्वेऽपि पूर्वतो वैशिष्ट्यम् ।

तयोः प्रतियोगिणौ च क्रमेण दुःख-द्वेषौ । अतः सुखस्य उल्लास-मात्रात्मकत्वाद् आश्रय एव विद्यते, न तु विषयः । एवं तत्-प्रतियोगिनो दुःखस्य च । प्रियतायास् त्व् आनुकूल्य-स्पृहात्मकत्वाद् विषयश् च विद्यते, एवं प्रातिकूल्यात्मकस्य तत्-प्रतियोगिनो द्वेषस्य च । तत्र सुख-दुःखयोर् आश्रयौ सुष्ठु-दुष्ट-कर्माणौ जीवौ । प्रियता-द्वेषयोर् आश्रयौ प्रीयमाण-द्विषन्तौ, विषयौ च तत्-प्रिय-द्वेष्यौ ।

(६१.३) तत्र प्रीत्य्-अर्थानां क्रियाणां विषयस्याधिकरणत्वम् एव दीप्त्य्-अर्थवत्, द्वेषार्थानां तु विषयस्य कर्मत्वं हन्त्य्-अर्थवत् ।

एतद् उक्तं भवति—कर्तुर् ईप्सिततमं खलु कर्म । ईप्सिततमत्वं च या क्रियारभ्यते, साक्षात् तयैव साधयितुम् इष्टतमत्वम् । साधनं चोत्पाद्यत्वेन, विकार्यत्वेन, संस्कार्यत्वेन, प्राप्यत्वेन च सम्पादनम् इति चतुर्-विधम् । तस्माद् अन्तर्-भूत-ण्य्-अर्थो29 यो धातुः, स एव स-कर्मकः स्यात्, नान्यः । यथा घटं करोतीत्य् उक्ते घट उत्पद्यते तम् उत्पादयतीति गम्यते । तण्डुलं पचतीति तण्डुलो विक्लिद्यति तं विक्लेदयतीत्य्-आदि । सत्ता-दीप्त्य्-आदीनां तु न तादृशत्वं गम्यत इत्य् अकर्मकत्वम् एवेति । न च प्रीतेर् ज्ञान-रूपत्वेन सकर्मकत्वम् आशङ्क्यं, चेतति-प्रभृतीनां तद्-विनाभाव-दर्शनात् । अतो ब्रह्म-ज्ञानवद् भूत-रूपोऽयम् अर्थो, न च यज्ञादि-ज्ञानवद् भव्य-रूपो विधि-सापेक्ष इति सिद्धम् ।

तद् एवं प्रीति-शब्दस्य सुख-पर्यायत्वे प्रियता-पर्यायत्वे च स्थिते, या प्रीतिर् अविवेकानाम् इत्य् अत्र तूत्तरत्रत्वम् एव स्पष्टम्, न पूर्वत्वम् । पूर्वत्वे सति विषयेष्व् अनुभूयमानेषु या प्रीतिः सुखम् इत्य् अर्थः, उत्तरत्वे तु विषयेषु या प्रीतिः प्रियतेत्य् अर्थः । ततश् चानुभूयमानेष्व् इत्य् अध्याहार-कल्पनया क्लिष्टा प्रतिपत्तिर् इति ।

तद् एवं पुत्रादि-विषयक-प्रीतेस् तद्-आनुकूल्याद्य्-आत्मकत्वेन भगवत्-प्रीतेर् अपि तथा-भूतत्वेन समान-लक्षणत्वम् एव । तत्र पूर्वस्या माया-शक्ति-वृत्तिमयत्वम् इच्छा द्वेषः सुखं दुःखम् [गीता १३.६]30 इत्य्-आदिना श्री-गीतोपनिषद्-आदौ व्यक्तम् अस्ति । उत्तरस्यास् तु स्वरूप-शक्ति-वृत्तिमयत्वम् अन्तिके [६५] दर्शयिष्यामः । तस्मात् साधु व्याख्यातं या यल्-लक्षणा सा तल्-लक्षणा इति ।

(६१.४) इयम् एव भगवत्-प्रीतिर् भक्ति-शब्देनाप्य् उच्यते परमेश्वर-निष्ठत्वात् पित्रादि-गुरु-विषयक-प्रीतिवत् । अत एव तद्-अव्यवहित-पूर्व-पद्ये भक्ति-शब्देनैवो पादाय प्रार्थितासौ—नाथ योनि-सहस्रेषु [वि।पु। १.२०.१८]31 इत्य्-आदौ । अत्र या प्रार्थिता, सैव हि स्वरूप-निर्देश-पूर्वकम् उत्तर-श्लोकेन या प्रीतिर् इत्य्-आदिना विविच्य प्रार्थिता । अत एव न पौनरुक्त्यम् अपि । अतो द्वयोर् ऐक्याद् एव श्रीमत्-परमेश्वरेणाप्य् अनुगृह्णता तयोर् एकयोक्त्यैवानुभाषितम्—भक्तिर् मयि तवास्त्य् एव भूयोऽप्य् एवं भविष्यति [वि।पु। १.२०.२०] इति ।32 तयोर् भेदे तु तद्वत् प्रीतिर् अप्य् अनुभाष्येत।

अत एव “हे माप! लक्ष्मी-पते! सा विषय-प्रीतिर् मम हृदयात् सर्पतु पलायताम्” इति विरक्ति-प्रार्थना-मयोऽर्थोऽपि न सङ्गच्छते । तस्या अप्य् अनुभाषणाभावात्, “नापसर्पतु” इति प्रसिद्ध-पाठान्तर-विरोधाच् च । ततस् तद्-भक्तेर् अपि तत्-प्रीति-पर्यायत्वे स्थितेऽपि प्रीणातिवन् न भजतिः सर्व-प्रत्ययान्त एव प्रीतिं33 वदति प्रयोगादर्शनात् । प्रयोगस् तु क्तिन्-क्त-प्रत्ययान्त एव दृश्यते । यदा च प्रीत्य्-अर्थ-वृत्तिस् तदा प्रीणातिवद् अकर्मक एव भवतीति ।

तद् एवं विषय-प्रीति-दृष्टान्तेन श्री-भगवद्-विषयानुकूल्यात्मकस् तद्-अनुगत-स्पृहादि-मयो ज्ञान-विशेषस् तत्-प्रीतिर् इति लक्षितम् । विषय-माधुर्यानुभववत् भगवन्-माधुर्यानुभवस् तु ततोऽन्यः ।

(६१.५) अत एव भक्तिर् विरक्तिर् भगवत्-प्रबोधः [भा।पु। ११.२.४३] इति भेदेनाम्नातम्।

भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ [गीता ११.५४]

अथैनं भगवत्-प्रीतिं साक्षाद् एव लक्षयति सार्धेन—

देवानां गुण-लिङ्गानाम् आनुश्रविक-कर्मणाम् ।
सत्त्व एवैक-मनसो वृत्तिः स्वाभाविकी तु या ॥
अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी ॥ [भा।पु। ३.२५.३२-३३]

पूर्वं श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति [भा।पु। ३.२५.२५] इत्य् उक्तम् । अत्र यद्यपि रति-भक्त्योर् द्वयोर् अपि तारतम्य-मात्र-भेदयोः प्रीतित्वम् एव, तथापि प्रीत्य्-अतिशय-लक्षणायां प्रेमाख्यायां भक्तौ तद् अतिस्फुटं स्याद् इति कृत्वा, भक्ति-पदेन ताम् उपादाय लक्षयति ।

अर्थश् चायम्—गुण-लिङ्गानां गुण-त्रयोपाधीनाम् । आनुश्रविकं श्रुति-पुराणादि-गम्यं कर्माचरितं येषां ते तथोक्ताः । तेषां देवानां श्री-विष्णु-ब्रह्म-शिवानां मध्ये सत्त्वे सान्निध्य-मात्रेण सत्त्व-गुणोपकारके स्वरूप-शक्ति-वृत्ति-भूत-शुद्ध-सत्त्वात्मके वा श्री-विष्णौ । एतच् चोपलक्षणम् । श्री-भगवद्-आद्य्-अनन्ताविर्भावेष्व् एकस्मिन्न् अपीत्य् अर्थः । एव-कारेण नेतरत्र, न च तत्रापि च, इतरत्रापि च । एक-मनसः पुरुषस्य या वृत्तिः, तद्-आनुकूल्यात्मको ज्ञान-विशेषः । अनिमित्ता फलाभिसन्धि-शून्या । स्वाभाविकी स्वरसत एव विषय-सौन्दर्याद् अयत्नेनैव जायमाना, न च बलाद् आपाद्यमाना । सा भागवती भक्तिः प्रीतिर् इत्य् अर्थः ।

प्रीति-सम्बन्धाद् एवानन्यस्या भक्तेः स्वाभाविकत्वं स्यात् । तस्माद् वृत्ति-शब्देन प्रीतिर् एवात्र मुख्यत्वेन ग्राह्येति । सा च सिद्धेर् मोक्षाद् गरीयसी, सालोक्य-सार्ष्टि- [भा।पु। ३.२९.१३] इत्य्-आदि-श्रवणात् । अत एव ज्ञान-साध्यस्यापि तिरस्कार-प्रसिद्धेर् ज्ञान-मात्र-तिरस्कारार्थं सिद्धेर् ज्ञानाद् इति व्याख्यानम् असदृशम् । अत्र मोक्षाद् गरीयस्त्वत्वेन तस्या वृत्तेर् गुणातीतत्वं ततोऽपि घन-परमानन्दत्वं श्री-भगवत्-प्रसाद-विशेषेणैव मनस्य् उदित्वरत्वम्,34 तत् तादात्म्येनैव तद्-वृत्ति-व्यपदेश्यत्वं च दर्शितम् ।

॥ ३.२५ ॥ श्री-कपिल-देवः ॥ ६१ ॥

[६२]

अथ तद् एव गुणातीतत्वादिकं दर्शयितुं पुनः प्रक्रिया । तत्र तस्यां भगवत्-सम्बन्धि-ज्ञान-रूपत्वेन तत्-सम्बन्धि-सुख-रूपत्वेन च गुणातीतत्वं श्री-भगवतैव दर्शितम्—

कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् ।
प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् ॥ [भा।पु। ११.२५.२४] इति ।
सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् ॥ [भा।पु। ११.२५.२९] इति च ।

एवम् एव च श्री-प्रह्लादस्य सर्वाध-धूनन-ब्रह्मानुभवानन्तरं परम-प्रेमोदयो दर्शितः । तथास्याः स्वाभाविकानिमित्त-तद्-भक्ति-रूपत्वेन च निर्गुणत्वं सिद्धम् अस्ति मद्-गुण-श्रुति-मात्रेण [भा।पु। ३.२९.११] इत्य्-आदि श्री-कपिल-देव-वाक्येन । एतद्-अनन्तरं च सालोक्य- [३.२९.१३] इत्य्-आदि-पद्ये सर्वाभ्योऽपि मुक्तिभ्यः परमानन्द-रूपत्वं दर्शितम् ।

अन्येषु च तस्याः परम-पुरुषार्थता-निर्णय-वाक्येषु परितस् तद् एव व्यक्तम् । तत्र यथा वर्ण-विधानम् [भा।पु। ५.१९.१९] इत्य्-आदि-गद्ये तस्या अपवर्गत्व-निर्देशेन गुणातीतत्वं नित्यत्वं च दर्शितम् ।

मुक्तिं ददाति कर्हिचित् [भा।पु। ५.६.१८] इत्य्-आदौ मुक्ति-दानम् अतिक्रम्यापि भगवत्-प्रसाद-विशेषमयत्वेन तत् त्रयम् ।

वरान् विभो [भा।पु। ४.२०.२३] इत्य्-आदि-द्वयेऽपि, कथं वृणीते गुण-विक्रियात्मनाम् इत्य् अत्रागुण-विकारत्वं तत एव नित्यत्वम् । न कामये नाथ [भा।पु। ४.२०.२४] इत्य्-आदौ ततोऽप्य् आनन्दातिशयो दर्शितः ।

यस्यां वै श्रूयमाणायाम् [भा।पु। १.७.७] इत्य्-आदौ परमार्थ-वस्तु-प्रतिपादक-श्री-भागवतस्य फलत्वेनापि तत् त्रयम् । तत्रैवात्मारामाणाम् अपि तत्-सुख-श्रवणेन ताद्-दार्ढ्यम् । मायातीत-वैकुण्ठादि-वैभव-गतानां तत्-पार्षदानां तच्-छ्रवणेन तु किम् उत ।

तथैव तुष्टे च तत्र [भा।पु। ७.६.२५] इत्य्-आदौ, किं तैर् गुण-व्यतिकराद् इह ये स्वसिद्धाः धर्मादयः इत्य् उक्त्वा गुणातीतत्वं, किम् अगुणेन च काङ्क्षितेन [तत्रैव] इत्य् उक्त्वा मोक्षाद् अपि परमानन्द-रूपत्वं दर्शितम् ।

प्रत्यानीता [भा।पु। ७.८.४२] इत्य् अत्रान्यस्य काल-ग्रस्तत्वम् उक्त्वा मुक्तेस् तस्याश् चाकाल-ग्रस्तत्वेन साम्येऽपि तस्या आनन्दाधिक्यम् उक्तम् ।

एवं नात्यन्तिकं विगणयन्ति [भा।पु। ३.१५.४८] इत्य्-आदौ, मत्-सेवया प्रतीतं ते [भा।पु। ९.४.६७] इत्य्-आदौ, या निर्वृतिस् तनु-भृताम् [भा।पु। ४.९.१०] इत्य्-आदि श्री-ध्रुव-वाक्येऽपि योज्यम् ।

सर्वम् एतत् यस्याम् एव कवयः" [भा।पु। ५.६.१७] इत्य्-आदि-गद्ये व्यक्तम् अस्ति । तत्रैव तया परया निर्वृत्या इत्य् अनेन साक्षाद् एव तस्या मोक्षाद् अपि परमत्वम् आनन्दैक-रूपत्वं च निगदेनैवोक्तम् अस्ति ।

किं बहुना ? परमानन्दैक-रूपस्य सर्वानन्द-कदम्बावलम्बस्य श्री-भगवतोऽप्य् आनन्द-चमत्कारिता तस्याः प्रीतेः श्रूयते । यथोक्तं—प्रीतः स्वयं प्रीतिम् अगाद् गायस्य [भा।पु। ५.१५.१३] इति ।

तथा चाह—

अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज ।
साधुभिर् ग्रस्त-हृदयो भक्तैर् भक्त-जन-प्रियः ॥ [भा।पु। ९.४.६३]

यथा ह्य् अस्वतन्त्रो जीवः पराधीनो भवति, तथैव्आहं स्वतन्त्रोऽपि भक्त-पराधीन इत्य् अर्थः । तत्र हेतुः— भक्ताख्यैः साधुभिर् मुमुक्षा-पर्यन्त-कैतव-रहितैर् ग्रस्तं भक्त्या वशीकृतं हृदयं यस्य सः । तत्र हेतुः—भक्त-जनेषु प्रियः तत्-प्रीति-लाभेनातिप्रीतिमान् ।

[६३]

भगवद्-आनन्दः खलु द्विधा—स्वरूपानन्दः स्वरूप-शक्त्य्-आनन्दश् च । अन्तिमश् च द्विधा—मानसानन्द ऐश्वर्यानन्दश् च । तत्रानेन तदीयेषु मानसानन्देषु भक्त्य्-आनन्दस्य साम्राज्यं दर्शितम् । स्वरूपानन्देषु ऐश्वर्यानन्देषु चाह पद्याभ्याम्—

नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना ।
श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिर् अहं परा ॥ [भा।पु। ९.४.६४]

नाशासे न स्पृहयामि ॥

॥ ९.४ ॥ श्री-विष्णुर् दुर्वाससम् ॥ ६२-६३ ॥

[६४]

तथैव भक्त-श्रेष्ठत्वेन श्रीमद्-उद्धवं लक्ष्यीकृत्याह—

न तथा मे प्रियतम आत्म-योनिर् न शङ्करः ।
न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् ॥ [भा।पु। ११.१४.१५]****

यथा भक्तत्वातिशय-द्वारा भवान् मे प्रियतमः, तथा आत्म-योनिर् ब्रह्मा पुत्रत्व-द्वारा न प्रियतमः । न च शङ्करो गुणावतारत्व-द्वारा, न च सङ्कर्षणो भ्रातृत्व-द्वारा, न च श्रीर् जायात्व-व्यवहार-द्वारा, न च आत्मा परमानन्द-घन-स्वरूपता-द्वारेत्य् अर्थः ॥

॥ ११.१४ ॥ श्री-भगवान् ॥ ६४ ॥

[६५]

अथ श्रुतौ—भक्तिर् एवैनं नयति, भक्तिर् एवैनं दर्शयति भक्ति-वशः पुरुषो भक्तिर् एव भूयसी [माठर-श्रुतिः] इति श्रूयते । तस्माद् एवं विविच्यते—या चैवं भगवन्तं स्वानन्देन मदयति, सा किं-लक्षणा स्यात्? इति । न तावत् साङ्ख्यानाम् इव प्राकृत-सत्त्व-मय-मायिकानन्द-रूपा, भगवतो मायानभिभाव्यत्व-श्रुतेः स्वतस्-तृप्तत्वाच् च । न च निर्विशेष-वादिनाम् इव भगवत्-स्वरूपानन्द-रूपा, अतिशयानुपपत्तेः । अतो नतरां जीवस्य स्वरूपानन्द-रूपा, अत्यन्त-क्षुद्रत्वात् तस्य । ततः—

ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रये ।
ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ [वि।पु। १.१२.६९]

इति विष्णु-पुराणानुसारेण ह्लादिन्य्-आख्य-तदीय-स्वरूप-शक्त्य्-आनन्द-रूपैवेत्य् अवशिष्यते, यया खलु भगवान् स्वरूपानन्दम् अनुभवति, यद्-आनन्देनानन्द-विशेषी-भवति,35 ययैवं तं तम् आनन्दम् अन्यान् अप्य् अनुभावयतीति ।

अथ तस्या अपि भगवति सदैव वर्तमानतयातिशयानुपपत्तेस् त्व् एवं विवेचनीयं, श्रुतार्थान्यथानुपपत्त्य्-अर्थापत्ति-प्रमाण-सिद्धत्वात् । तस्या ह्लादिन्या एव कापि सर्वानन्दातिशायिनी वृत्तिर् नित्यं भक्त-वृन्देष्व् एव निक्षिप्यमाणा भगवत्-प्रीत्य्-आख्यया वर्तते । अतस् तद्-अनुभवेन श्री-भगवान् अपि श्रीमद्-भक्तेषु प्रीत्य्-अतिशयं भजत इति ।

अत एव तत्-सुखेन भक्त-भगवतोः परस्परम् आवेशम् आह—

साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् ।
मद्-अन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि ॥ [भा।पु। ९.४.६८]****

मह्यं मम । हृदयेन स्वस्य सामानाधिकरण्ये बीजम् आह—मद्-अन्यद् इति । अत्यन्तावशेनैकतापत्त्या ज्वलल्-लोहादाव् अग्नि-व्यपदेशवद् अत्राप्य् अभेद-निर्देश इत्य् अर्थः ।

॥ ९.४ ॥ श्री-विष्णुर् दुर्वाससम् ॥ ६५ ॥

[६६]

तेनैव परस्परं वशवर्तित्वम् आह—

अजित जितः सम-मतिभिः
साधुभिर् भवान् जितात्मभिर् भवता ।
विजितास् तेऽपि च भजताम्
अकामात्मनां य आत्मदोऽतिकरुणः ॥ [भा।पु। ६.१६.३४]****

टीका च—हे अजित ! अन्यैर् अजितोऽपि भवान् साधुभिर् भक्तैर् जितः । स्वाधीन एव कृतः । यतो भवान् अतिकरुणः । तेऽपि च निष्कामा अपि भवता विजिताः । यो भवान् अकामात्मनाम् आत्मानम् एव ददाति इत्य् एषा ।

हरि-भक्ति-सुधोदये च प्रह्लादं प्रति श्री-मुख-वाक्यम्—

स-भयं सम्भ्रमं वत्स मद्-गौरव-कृतं त्यज ।
नैष प्रियो मे भक्तेषु स्वाधीन-प्रणयी भव ॥
अपि मे पूर्ण-कामस्य नवं नवम् इदं प्रियम् ।
निःशङ्क-प्रणयाद् भक्तो यन् मां पश्यति भाषते ॥
सदा मुक्तोऽपि बद्धोऽस्मि भक्तेषु स्नेह-रज्जुभिः ।
अजितोऽपि जितोऽहं तैर् अवश्योऽपि वशीकृतः ॥
त्यक्त-बन्धु-जन-स्नेहो मयि यं कुरुते रतिम् ।
एकस् तस्यास्मि स च मे न चान्योऽस्त्य् आवयोः सुहृत् ॥ [ह।भ।सु। १४.२७-३०] इति ।

तस्मात् साधु व्याख्यातं भगवत्-प्रीति-रूपा वृत्तिर् मायादिमयी न भवति । किं तर्हि ? स्वरूप-शक्त्य्-आनन्द-रूपा यद्-आनन्द-पराधीनः श्री-भगवान् अपीति । यथा च श्रीमती गोपालोत्तर-तापनी श्रुतिः—विज्ञान-घन आनन्द-घनः सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति [गो।ता।उ। २.७९] इति ।

॥ ६.१६ ॥ चित्रकेतुः श्री-सङ्कर्षणम् ॥ ६६ ॥

[६७]

तद् एवं तस्याः स्वरूप-लक्षणम् उक्तम् । तटस्थ-लक्षणम् अप्य् आह—

स्मरन्तः स्मारयन्तश् च
मिथोऽघौघ-हरं हरिम् ।
भक्त्या सञ्जातया भक्त्या
बिभ्रत्य् उत्पुलकां तनुम् ॥ [भा।पु। ११.३.३१]

स्पष्टम् ।

॥ ११.३ ॥ श्री-प्रबुद्धो निमिम् ॥ ६७ ॥

[६८]

तथा—

कथं विना रोम-हर्षं
द्रवता चेतसा विना ।
विनानन्दाश्रु-कलया
शुध्येद् भक्त्या विनाशयः ॥ [भा।पु। ११.१४.२३]****

टीका च—रोमहर्षादिकं विना कथं भक्तिर् गम्यते ? भक्त्याविना कथम् आशयः शुद्ध्येत्? इत्य् एषा ।

॥ ११.१४ ॥ श्री-भगवान् ॥ ६८ ॥

[६९]

तद् एवं प्रीतेर् लक्षणं चित्त-द्रवस् तस्य च श्री-रोमहर्षादिकम् । कथञ्चिज्-जातेऽपि चित्त-द्रवे रोमहर्षादिके वा न चेद् आशय-शुद्धिस् तदापि न भक्तेः सम्यग्-आविर्भाव इति ज्ञापितम् । आशय-शुद्धिर् नाम चान्य-तात्पर्य-परित्यागः प्रीति-तात्पर्यं च । अत एव अनिमित्ता स्वाभाविकी [भा।पु। ३.२५.३२] च इति तद्-विशेषणम् । यथाहाक्रूरम् उद्दिश्य–

देहं-भृताम् इयान् अर्थो
हित्वा दम्भं भियं शुचम् ।
सन्देशाद् यो हरेर् लिङ्ग-
दर्शन-श्रवणादिभिः ॥ [भा।पु। १०.३८.२७]

टीका च—ननु किम्-अर्थम् एवं व्यलुठत् ? नास्ति प्रेम-संरम्भे फलोद्देश इत्य् आह—देहं-भृताम् इति । देह-भाजाम् एतावान् एव पुरुष्आर्थः, कंसस्य सन्देशाद् आरभ्य हरेर् लिङ्ग-दर्शन-श्रवणादिभिर् योऽयम् अक्रूरस्य वर्णितः इत्य् एषा ।

अत्र दम्भं शुचं भयं हित्वा योऽयं जात इति योजनिकया चैवं गम्यते । यथाक्रूरस्य तत्र दम्भो नासीत्, न मय्य् उपैष्यत्य् अरि-बुद्धिम् अच्युत [भा।पु। १०.३८.१८] इत्य्-आदि-चिन्तनात् । तथान्तः-सुखान्तर-तात्पर्य-लक्षणो यदि दम्भो न स्यात्, यथा च कंस-प्रतापितो यो बन्धु-वर्गः, तत्-प्रतापयितव्यश् च यः, तस्य तस्य हेतोर् निज-कुल-रक्षावतीर्ण-श्री-कृष्ण-पुरतो व्यञ्जितः शोको भीश् च तादृशावेशे हेतुर् नासीत्, तद्-दर्शनाह्लाद- [भा।पु। १०.३८.२६] इत्य्-आद्य्-उक्तेः, प्रेम-विभिन्न-धैर्यः [भा।पु। ३.१.३२] इत्य्-आद्य्-उक्तेश् च । तथा यदि निज-दुःख-हानि-तात्पर्यं न स्यात्, तदाक्रूरस्य योऽयं प्रेमावेशो जातः, स इयान् एतावान् अपि देहिनाम् अर्थः परम-पुरुषार्थः स्यात्, किम् उत ततोऽपि भूयान् इति ॥

॥ १०.३८ ॥ श्री-शुकः ॥ ६९ ॥

[७०]

लौकिक-शुद्ध-प्रीति-निदर्शनेनापि स्वयं तथैव द्रढयति—

मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते ।
न तत्र सौहृदं धर्मः स्वार्थार्थं तद् धि नान्यथा ॥
भजन्त्य् अभजतो ये वै करुणाः पितरो यथा ।
धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः ॥ [भा।पु। १०.३२.१७-१८]

स्पष्टम् ।

[७१]

ततोऽपि स्व-प्रीतेर् वैशिष्ट्यम् आह—

नाहं तु सख्यो भजतोऽपि जन्तून्
भजाम्य् अमीषाम् अनुवृत्तिवृत्तये ।
यथाधनो लब्ध-धने विनष्टे
तच् चिन्तयान्यन् निभृतो न वेद ॥ [भा।पु। १०.३२.२०]

भजन्त्य् अभजतः [भा।पु। १०.३२.१८] इत्य् अत्र न करुणादीनां दयनीयादि-कर्तृक-प्रीत्य्-आस्वादापेक्षा । तथा दयनीयादीनां करुणादि-विषया या प्रीतिः, सा करुणादि-भजन-जीवना स्याद् इत्य् आयाति । अत्र तु श्री-कृष्णस्य स्व-भक्तेषु स्व-प्रेमातिशयोदये प्रयत्नः । तद्-उदये च सति, तद्-आस्वादाद् भक्त-विषयक-प्रेम-चमत्कारोऽतिशयेन स्याद् इति तद्-भक्तानां च तत्-कृतौदासीन्येऽपि प्रेम्णोर् एव वृद्धिः स्याद् इति वैशिष्ट्यम् आगतम् ।

॥ १०.३२ ॥ श्री-भगवान् व्रज-देवीः ॥ ७०-७१ ॥

[७२]

सा च शुद्धा प्रीतिः श्रीमतो वृत्रस्य दृश्यते । यथा—

अहं हरे तव पादैक-मूल-
दासानुदासो भवितास्मि भूयः ।
मनः स्मरेतासु-पतेर् गुणांस् ते
गृणीत वाक् कर्म करोतु कायः ॥ [भा।पु। ६.११.२४]****
न नाक-पृष्ठम् [भा।पु। ६.११.२५] इत्य्-आदि ।
अजात-पक्षा इव मातरं खगाः
स्तन्यं यथा वत्सतराः क्षुधार्ताः ।
प्रियं प्रियेव व्युषितं विषण्णा
मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥
ममोत्तमश्लोक-जनेषु सख्यं
संसार-चक्रे भ्रमतः स्व-कर्मभिः ।
त्वन्-माययात्मात्मज-दार-गेहेष्व्
आसक्त-चित्तस्य न नाथ भूयात् ॥ [भा।पु। ६.११.२६-२७]

अजातेति । अत्र अजात-पक्षा इत्य् अनेनानन्याश्रयत्वं, तद्-अनुगमनासमर्थत्वं च । तथा तत्-सहितेन मातरम् इत्य् अनेन अनन्य-स्वाभाविक-दयालुत्वं तदीय-दयाधिक्यं च व्यञ्जितम् । तेन तेन च मातरि तेषाम् अपि प्रीत्य्-अतिशयो दर्शितः । ततस् तत्-साम्येन तद्वद् आत्मनोऽपि भगवति प्रीत्य्-आधिक्य-हेतुका दिदृक्षा व्यञ्जिता ।

तथापि तन्-मात्रा यद् वस्त्व्-अन्तरम् उपक्रियते, तद् एव तेषाम् उपजीव्यम् आस्वाद्यं चेति केवल-तन्-निष्ठत्वाभावाद् अपरितोषेण दृष्टान्तरम् आह—स्तन्यम् इति । अत्र दिदृक्षा-योजनार्थं मातरम् इत्य् एवानुवर्तयितव्ये स्तन्यम् इत्य् उक्तिः, तस्यास् तैस् तद्-अंशतया च तद्-अभेद-विवक्षार्था । ततः स्तन्यं स्तन्य-रूप-तद्-अंश-मयीं मातरम् इत्य् एव लब्धे, तादृशी मातैव तैर् उपजीव्यते आस्वाद्यते चेति पूर्वतः श्रैष्ठ्यं दर्शितम् । तथा वत्सतरा अत्यन्त-बाल-वत्साः, तत एव स्वामि-बद्धतया तद्-अनुगताव् असमर्था इति साधारण्येऽपि बहु-समयातिक्रमात् । क्षुधार्ता इत्य् अनेन पूर्वतो वैशिष्ट्यम् । तथा गो-जातेः स्नेहातिशय-स्वाभाव्येन च तद्-अनुसन्धेयम् ।

अथ तथाप्य् उत्तर-दृष्टान्ते स्तन्य-गवोः कार्य-कारण-भावेन भेदं वितर्क्य, दृष्टान्त-द्वयेऽप्य् अजात-पक्षत्वादि-विशेषणैर् आयत्यां तादृश-प्रीतेर् अस्थिरतां चालोक्य, दृष्टान्तान्तरम् आह—प्रियम् इति । सत्स्व् अपि वाचकान्तरेषु, तयोः प्रिय-शब्देनैव निर्देशात् स्वाभाविकाव्यभिचारि-प्रीतिमन्ताव् एव तौ गृहीतौ, यत्र वार्धक्ये बाल्येऽपि सह-मरणादिकं दृश्यते । ततस् तादृशी कापि प्रिया यथा तादृशं प्रियं व्युषितं विदूर-प्रोषितं सन्तम् अनन्योपजीवित्वेन विषण्णा सती दिदृक्षते लोचन-द्वारा तद्-आस्वादाय भृशम् उत्कण्ठते, तथा मम मनोऽपि त्वाम् इत्य् अर्थः । अत्र दार्ष्टान्तिकेऽपि स्व-कर्तृत्वम् अनुक्त्वा मनः-कर्तृत्वोल्लेखेनाबुद्धि-पूर्वक-प्रवृत्ति-प्राप्तौ प्रीतेः स्वाभाविकत्वेनाव्यभिचारित्वं व्यक्तम् । तथारविन्दाक्षेति मनसो भ्रमर-तुल्यता-सूचनेन भगवतः परम-मधुरिमोल्लेखेन च तस्यैवोपजीव्यत्वम् आस्वाद्यत्वं च दर्शितम् ।

अथ तद्-दर्शन-भाग्यं स्वस्यासम्भवयन्न् इदम् अपि मम स्याद् इति स-बाष्पम् आह ममोत्तमेति । तद् एतच् छुद्ध-प्रेमोद्गारमयत्वेनैव श्रीमद्-वृत्र-वधोऽसौ विलक्षणत्वाच् छ्री-भागवत-लक्षणेषु पुराणान्तरेषु गण्यते, वृत्रासुर-वधोपेतं तद् भागवतम् इष्यते [अग्नि।पु। २७२.६] इति ।

॥ ६.११ ॥ श्री-वृत्रः ॥ ७२ ॥

[७३]

तस्मात् केवल-तन्-माधुर्य-तात्पर्यत्वेनैव प्रीतित्वे सिद्धे तात्पर्यान्तरादौ सति प्रीतेर् असम्यग्-आविर्भाव इति सिद्धम् । स च द्विविधः—(१) तद्-आभासस्यैवोदयः (२) ईषद्-उद्गमश् च । अन्त्यश् च द्विविधः—(१) कदाचिद् उद्भवत्-तच्-छवि-मात्रत्वं, (२) तस्या एवोदयावस्था च । तत्र यत्रान्य-तात्पर्यं, तत्र तद्-आभासत्वम् । यत्र प्रीति-तात्पर्याभावस् तत्र कदाचिद् उद्भवत्-तच्-छवि-मात्रत्वम् । यत्र तत्-तात्पर्यम् अन्यासङ्गस् तु दैवात्, तत्र तस्या उदयावस्था च ।

अन्यासङ्गस्य गौणत्वम् । तच् च द्विविधम्—(१) नष्ट-प्रायत्वम् (२) आभास-मात्रत्वं च । तयोः पूर्वत्र तस्याः प्रथमोदयावस्था । उत्तरत्र प्रकटोदयावस्था । तस्मात् प्रथमोदय-पर्यन्त एवासम्यग्-आविर्भावः । प्रकटोदयस्य तु सम्यक्त्वम् एव । यत्र त्व् अन्यासङ्ग एव न विद्यते, तत्र दर्शित-प्रभाव-नामान आविर्भावा ज्ञेयाः । तत्र प्रकटोदयम् आरभ्यैव भक्त्य्-आरब्धेऽपवर्गे जीवन्-मुक्ताः । प्राप्तायां भगवत्-पार्षदतायां परमम् उक्ताः । नित्य-पार्षदास् तु नित्य-मुक्ता ज्ञेयाः । तत्राभासम् आह—

एवं हरौ भगवति प्रतिलब्ध-भावो
भक्त्या द्रवद्-धृदय उत्पुलकः प्रमोदात् ।
औत्कण्ठ्य-बाष्प-कलया मुहुर् अर्द्यमानस्
तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते ॥ [भा।पु। ३.२८.३४]****

एवं पूर्वोक्त-योग-मिश्र-भक्त्य्-अनुष्ठानेन हरौ प्रतिलब्ध-भावो भवति । तत्र लिङ्गं— भक्त्या इत्य्-आदि । भक्त्या स्मरणादिना अपि एवम् अपि लब्ध-ध्येय-मधुरत्वस्य भावेन तादृशतापन्नं तस्य चित्तं शनकैर् वियुङ्क्ते विमुक्तम् अपि भवति । येन योगाङ्गतया भक्तिर् अनुष्ठिता, तस्मात् कैवल्येच्छा-कैतव-दोषाद् एवेति भावः । यथोक्तं—धर्मः प्रोज्झित-कैतवोऽत्र परमः [भा।पु। १.१.२] इत्य् अत्र प्र-शब्देन मोक्षाभिसन्धिर् अपि कैतवम् इति । अत एव बडिश-शब्देन काठिन्यम् अरसवित्त्वं दाम्भिकत्वं स्वार्थ-मात्र-साधनत्वं च व्यञ्जितम् । शुद्ध-भक्तास् तु न कदाचित् तथा तं ध्येयं त्यजन्ति । यथोक्तं राज्ञा—

धौतात्मा पुरुषः कृष्ण-पाद-मूलं न मुञ्चति ।
मुक्त-सर्व-परिक्लेशः पान्थः स्व-शरणं यथा ॥ [भा।पु। २.८.६] इति ।

श्री-नारदेन च—

न वै जनो जातु कथञ्चनाव्रजेन्
मुकुन्द-सेव्य् अन्यवद् अङ्ग संसृतिम् ।
स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर्
विहातुम् इच्छेन् न रस-ग्रहो जनः ॥ [भा।पु। १.५.१९] इति ।

यो रस-ग्रहः, स तु न त्यजतीत्य् अनेनान्येषां लौह-पाषाणादि-तुल्यत्वं सूचितम् । न तु भगवान् अपि ततोऽन्यथा कुर्यात् । यद् उक्तं श्री-ब्रह्मणा—

भक्त्या गृहीत-चरणः परया च तेषां
नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम् ॥ [भा।पु। ३.९.५] इति ।

आविर्होत्रेण च—

विसृजति हृदयं न यस्य साक्षाद्
धरिर् अवशाभिहितोऽप्य् अघौघ-नाशः ।
प्रणय-रशनया धृताङ्घ्रि-पद्मः
स भवति भागवत-प्रधान उक्तः ॥ [भा। ११.२.५५]

अत एव पूर्वत्र स्व-पुंसाम् [३.९.५] इत्य् अत्र स्वेति विशेषणम् ।

तद् एवम् आभासोदाहरणे श्री-कपिल-देवस्यैव वाक्यं भक्त्या पुमान् जात-विरागः [भा।पु। ३.२५.२६] इत्य्-आदिकम् अपि ज्ञेयम् । तथा हि, अस्य पूर्वत्र श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति [भा।पु। ३.२५.२५] इति भक्ति-मात्रं दर्शितम् । उत्तरत्र तस्या लक्षणे पृष्टे तल्-लक्षणं वदतानेन भक्तिः सिद्धेर् गरीयसी [भा।पु। ३.२५.३२] इति । नैकात्मतां मे स्पृहयन्ति केचित् [भा।पु। ३.२५.३४] इति च मोक्ष-निरपेक्षतयैव तस्य मुख्याभिधेयत्वम् उक्तम् । जरयत्य् आशु या कोषम् [भा।पु। ३.३५.३३] इति च माया-कोष-ध्वंसनस्य तु तद्-आनुषङ्गिक-गुणत्वम् उक्तम् ।

अत्र भक्त्या पुमान् [३.२५.२६] इत्य्-आदौ तु तादृश्या अपि तस्या भक्तेर् ज्ञानादि-साहाय्येनैव मोक्ष-मात्र-साधकत्वम् उक्त्वा गौणाभिधेयत्वम् उक्तम् । तस्माद् अत्रापि तस्याः भक्तेर् आभास एव प्रथमतो दर्शितः ।

एवं—

दृष्ट्वा तम् अवनौ सर्व ईक्षणाह्लाद-विक्लवाः ।
दण्डवत् पतिता राजऽ छनैर् उत्थाय तुष्टुवुः ॥ [भा।पु। ६.९.३]

इत्य् अत्रापि वृत्राख्य-शत्रु-नाश-स्वाराज्य-प्राप्ति-तात्पर्यवतां देवानां भक्त्य्-आभासत्वम् उदाहार्यम् ।

॥ ३.२८ ॥ श्री-कपिल-देवः ॥ ७३ ॥

[७४]

अथ कदाचिद् उद्भवत्-तच्-छवि-मात्रत्वम् आह—

सकृन् मनः कृष्ण-पदारविन्दयोर्
निवेशितं तद्-गुण-रागि यैर् इह ।
न ते यमं पाश-भृतश् च तद्-भटान्
स्वप्नेऽपि पश्यन्ति हि चीर्ण-निष्कृताः ॥ [भा।पु। ६.१.१९]

रागो रञ्जन-मात्रम्, न तु तद्-गुण-माधुरी-याथार्थ्य-ज्ञानेन साक्षात् प्रीतिः । अत एव तत्र तात्पर्याभावात् सकृद् अपीत्य् उक्तम् । तथाप्य् अस्त्य् अजामिलादिभ्यो विशेष इत्य् आह—न ते यमम् इत्य्-आदि ।

॥ ६.१ ॥ श्री-शुकः ॥ ७४ ॥

[७५]

अथ प्रथमोदयावस्थाम् आह—

यत्रानुरक्ताः सहसैव धीरा
व्यपोह्य देहादिषु सङ्गम् ऊढम् ।
व्रजन्ति तत् पारम-हंस्यम् अन्त्यं
यस्मिन्न् अहिंसोपशमः स्व-धर्मः ॥ [भा।पु। १.१८.२२]

अन्त्यं पारमहंस्यं भागवत-परमहंसत्वम् । तस्यानुषङ्गिको गुणः यस्मिन्न् इति ।

॥ १.१८ ॥ श्री-सूतः ॥ ७५ ॥

[७६]

प्रकटोदयावस्थां श्री-प्रियव्रतम् अधिकृत्याह—

प्रियव्रतो भागवत आत्मारामः कथं मुने ।
गृहेऽरमत यन्-मूलः कर्म-बन्धः पराभवः ॥ [भा।पु। ५.१.१] इत्य्-आद्एः,
संशयोऽयं महान् ब्रह्मन् दारागार-सुतादिषु ।
सक्तस्य यत् सिद्धिर् अभूत् कृष्णे च मतिर् अच्युता ॥ [भा।पु। ५.१.४]

इत्य् अन्त्यस्य राज-प्रश्नस्यानन्तरेण गद्येन—

बाढम् उक्तं भगवत उत्तमश्लोकस्य श्रीमच्-चरणारविन्द-मकरन्द-रस आवेशित-चेतसो भागवत-परमहंस-दयित-कथां किञ्चिद् अन्तराय-विहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति [भा।पु। ५.१.५] इति ।

टीका च—अङ्गीकृत्य परिहरति बाढम् इति । बाढम् अभिनिवेशादिकं नास्तीति सत्यम् एव तथापि विघ्न-वशेन तेषां प्रवृत्तिः पूर्वाभ्यास-बलेन पुनर् निवृत्तिश् च सङ्गच्छत इत्य् आह भगवत इत्य्-आदिका ।

अत एवोक्तं पृथुं प्रति श्री-विष्णुना—दृष्टासु सम्पत्सु विपत्सु सूरयो; न विक्रियन्ते मयि बद्ध-सौहृदाः [भा।पु। ४.२०.१२] इति । अगस्त्यस्य चेन्द्रद्युम्ने स्वावमाननया न कोपः । किन्तु वैष्णवोचित-महद्-आदर-चर्यायाः परित्यागे शिक्षार्थम् एव मन्तव्यः । तयोर् अनुग्रहार्थाय शापं दास्यन्न् इदं जगौ [भा।पु। १०.१०.७] इतिवत् ।

अथ परीक्षितो ब्राह्मणावमानना तु श्री-कृष्णस्य तद्-व्याजेन स्व-पार्श्व-नयनेच्छाद् एव ।

तस्यैव मेऽघस्य परावरेशो
व्यासक्त-चित्तस्य गृहेष्व् अभीक्ष्णम् ।
निर्वेद-मूलो द्विज-शाप-रूपो
यत्र प्रसक्तो भयम् आशु धत्ते ॥ [भा।पु। १.१९.१४] इति तद्-उक्तेः ।

एवम् अन्यत्रापि योजनीयम् । तस्माच् छ्री-प्रियव्रतस्यापि अभिनिवेशाद्य्-आसङ्गाभासत्वम् एवायातम् । तद् अपि दुःखदम् एव तद्-विधानाम् इति चाग्रे तन्-निर्वेदेन दर्शयिष्यते, अहो असाध्व् अनुष्ठितम् [भा।पु। ५.१.३७] इत्य्-आदिना ।

॥ ५.१ ॥ श्री-शुकः ॥ ७६ ॥

[७७]

प्रकटोदयावस्थायाश् चिह्नान्तरम् आह—

स उत्तम-श्लोक-पदारविन्दयोर्
निषेवयाकिञ्चन-सङ्ग-लब्धया ।
तन्वन् परां निर्वृतिम् आत्मनो मुहुर्
दुःसङ्ग-दीनस्य मनः शमं व्यधात् ॥ [भा।पु। ७.४.४२]****

टीका च—आत्मनः परां निर्वृतिं तन्वन् दुःसङ्ग-दीनस्य अपि मनः शमं शान्तं व्यधायि इत्य् एषा । समं स्व-मनसस् तुल्यम् इति वा व्याख्येयम् ।

॥ ७.४ ॥ श्री-नारदो युधिष्ठिरं प्रति ॥ ७७ ॥

[७८]

अथ दर्शित-प्रभावास् तद्-आविर्भावास् तु श्री-शुकदेवादिषु द्रष्टव्याः । यथा च श्री-नारायण-पञ्चरात्रे—

भावोन्मत्तो हरेः किञ्चिन् न वेद सुखम् आत्मनः ।
दुःखं चेति महेशानि परमानन्द आप्लुतः ॥ इति ।

तद् एवं स-भेदा प्रीत्य्-आख्या भक्तिर् दर्शिता । एषा श्री-गीतोपनिषत्सु च स्वरूप-द्वारा गुण-द्वारा च कथिता—

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भाव-समन्विताः ॥
मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् ।
कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ॥
तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् ।
ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥ [गीता १०.८-१०] इति ।

अथ श्री-भगवत्-प्रीति-लक्षण-वाक्यानां निष्कर्षः—

निखिल-परमानन्द-चन्द्रिका-चन्द्रमसि
सकल-भुवन-सौभाग्य-सार-सर्वस्व-सत्त्व-गुणोपजीव्यानन्त-विलास-मयामायिक-विशुद्ध-सत्त्वानवरतोल्लासाद् असमोर्ध्व-मधुरे श्री-भगवति
कथम् अपि चित्तावताराद् अनपेक्षित-विधिः स्वरसत एव समुल्लसन्ती,
विषयान्तरैर् अनवच्छेद्या,
तात्पर्यान्तरम् असहमाना,
ह्लादिनी-सार-वृत्ति-विशेष-स्वरूपा,
भगवद्-आनुकूल्यात्मक-तद्-अनुगत-तत्-स्पृहादि-मय-ज्ञान-विशेषाकारा,
तादृश-भक्त-मनो-वृत्ति-विशेष-देहा,
पीयूष-पूरतोऽपि सरसेन स्वेनैव स्व-देहं सरसयन्ती,
भक्त-कृतात्म-रहस्य-सङ्गोपन-गुण-मय-रशना-बाष्प-मुक्तादि-व्यक्त-परिष्कारा,36
सर्व-गुणैक-निधान-स्वभावा,
दासीकृताशेष-पुरुषार्थ-सम्पत्तिका,
भगवत्-पातिव्रत्य-व्रत-वर्या-पर्याकुला,
भगवन्-मनोहरणैकोपाय-हारि-रूपा,
भगवति भागवती प्रीतिस् तम् उपसेवमाना विराजत इति ।

सेयम् अखण्डापि निजालम्बनस्य भगवत आविर्भाव-तारतम्येन स्वयं तारतम्येनैवाविर्भवति ।

तद् एवं सति श्री-कृष्णस्यैव स्वयं-भगवत्त्वेन तत्-सन्दर्भे दर्शितत्वात् तत्रैव तस्या परा प्रतिष्ठिता । अत एव बाहुल्येन तत्-प्रीति-परिपाटीम् एवाधिकृत्य प्रक्रिया दर्शयितव्या । या च क्वचिद् अन्याधिकर्तव्या सा खलु कैमुत्येन तस्या एव पोषणार्थं ज्ञेया ।

अथ श्री-कृष्णे स्वयं भगवत्य् एवाविर्भाव-पूर्णत्व-दर्शनेन तस्याः पूर्णत्वं दर्शयति—

अद्य नो जन्म-साफल्यं विद्यायास् तपसो दृशः ।
त्वया सङ्गम्य सद्-गत्या यद् अन्तः श्रेयसां परः ॥ [भा।पु। १०.८४.२१]

सतां त्वद्-एक-निष्ठानां तद्-विशेषाणां गत्या त्वया श्री-कृष्णाख्येन सङ्गम्य नोऽस्माकं वशिष्ठ-चतुःसन-वामदेव-मार्कण्डेय-नारद-कृष्ण-द्वैपायनादीनां ब्रह्मानुभवतां भगवदीय-नाना-भक्ति-रस-विदां दृष्ट-नाना-भगवद्-आविर्भावानाम् अपि अद्य ईदृश-प्राकट्यावच्छिन्नेऽस्मिन्न् एवावसरे जन्मनः साफल्यं जातम् । यद् एव साफल्यं पूर्व-लब्धानां तत्-तद्-आविर्भाव-जात-तत्-तत्-साफल्य-रूपाणां श्रेयसां परम-पुरुषार्थानां परोऽन्तः परमोऽवधिर् इति ।

॥ १०.८४ ॥ महा-मुनयः श्री-भगवन्तम् ॥ ७८ ॥

[७९]

एवम् अन्यत्रापि—

अथ ब्रह्मात्म-जैर् देवैः प्रजेशैर् आवृतोऽभ्यगात् ।
भवश् च भूत-भव्येशो ययौ भूत-गणैर् वृतः ॥ [भा।पु। ११.६.१]

इत्य्-आदिकम् उपक्रम्याह—

व्यचक्षतावितृप्ताक्षः कृष्णम् अद्भुत-दर्शनम् । [भा।पु। ११.६.५] इति ।

अत्राप्य् अद्भुतत्वं प्राकट्यान्तरापेक्षयैव ॥

॥ ११.६ ॥ श्री-शुकः ॥ ७९ ॥

[८०]

किं च—

यन् मर्त्य-लीलौपयिकं स्व-योग-
माया-बलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभग-र्द्धेः
परं पदं भूषण-भूषणाङ्गम् ॥ [भा।पु। ३.२.१२]****

स्व-योगमाया-बलं स्व-चिच्-छक्तेर् वीर्यम् । एतादृश-सौभाग्यस्यापि प्रकाशिकेयं भगवतीत्य् एवं-विधं दर्शयता आविष्कृतम् ।

सकल-स्व-वैभव-विद्वद्-गण-विस्मापनायेति भावः । न केवलम् एतावत् स्वस्यैव रूपान्तरे तादृशत्वाननुभवात् । तत्रापि प्रतिक्षणम् अप्य् अपूर्व-प्रकाशात् स्वस्यापि विस्मापनम् । यतः सौभग-र्द्धेः परं पदं परा प्रतिष्ठा ।

ननु तस्य भूषणं त्व् अस्ति सौभग-हेतुः ? इत्य् आह—भूषणेति । कीदृशं ? मर्त्य-लीलौपायिकं नराकृतीत्य् अर्थः । तस्मात् सुतरां युक्तम् उक्तं श्री-महा-काल-पुराधिपेनापि—द्विजात्मजा मे युवयोर् दिदृक्षुणा मयोपनीताः [भा।पु। १०.८९.५८] इत्य्-आदि । श्री-हरि-वंशे श्री-कृष्ण-वचनेन च—मद्-दर्शनार्थं ते बाला हृतास् तेन महात्मना [ह।वं। २.११४.८] इति ।

॥ ३.२ ॥ श्रीमान् उद्धवो विदुरम् ॥ ८० ॥

[८१]

अत एव परीक्षिद्-गुण-वर्णने तद्-गुणोपमात्वेनैकम् एकं गुणं श्री-राम-रमेशयोर् दर्शयित्वा सर्व-साद्गुण्योपमात्वेन श्री-कृष्णं दर्शयितुम् अत्यन्तोत्कर्ष-दृष्ट्याशङ्कमानैर् ब्राह्मणैः “एष कृष्णम् अनुव्रतः” [भा।पु। १.१२.२४] इत्य् एवोक्तं, न तु स इवेति ।

अत एव परम-प्रेम-जनक-स्वभावत्वम् अपि तस्य दृश्यते—विजय-रथ-कुटुम्बः [भा।पु। १.९.३९] इत्य्-आदौ, यम् इह निरीक्ष्य हता गताः सरूपम्37 इत्य् अनन्तरं,

ललित-गति-विलास-वल्गुहास-
प्रणय-निरीक्षण-कल्पितोरु-मानाः ।
कृत-मनु-कृत-वत्य उन्मदान्धाः
प्रकृतिम् अगन् किल यस्य गोप-वध्वः ॥ [भा।पु। १.९.४०]****

तत्-स्वभाव-महिम्नः सारूप्य-प्रापणत्वं नाम कियान् उत्कर्षः ? यत एतावतोऽपि प्रेम्नो जनकत्वं दृश्यत इत्य् आह—ललितेति । अत्र कृतानुकरणं नाम लीलाख्यो नायिकानुभावः । तद् उक्तं क्रियानुकरणं लीला [उ।नी। १०.२८] इति । प्रकृतिं स्वभावम् । तादृश-प्रेमावेशो जातः । येन तत्-स्वभाव-निज-स्वभावयोर् ऐक्यम् एव तासु जातम् इत्य् अर्थः । यथा श्रीमद्-उज्ज्वल-नीलमणौ महा-भावोदाहरणम्—

राधाया भवतश् च चित्त-जतुनी स्वेदैर् विलाप्य क्रमात्
युञ्जन्न् अद्रि-निकुञ्ज-कुञ्जर-पते निर्धूत-भेद-भ्रमम् ।
चित्राय स्वयम् अन्वरञ्जयद् इह ब्रह्माण्ड-हर्म्योदरे
भूयोभिर् नव-राग-हिङ्गुल-भरैः शृङ्गार-कारुः कृती ॥ [उ।नी। १५.१५५] इति ।

॥ १.९ ॥ भीष्मः श्री-भगवन्तम् ॥ ८१ ॥

[८२]

तथा—

यस्याननं मकर-कुण्डल-चारु-कर्ण-
भ्राजत्-कपोल-सुभगं सविलास-हासम् ।
नित्योत्सवं न ततृपुर् दृशिभिः पिबन्त्यो
नार्यो नराश् च मुदिताः कुपिता निमेश् च ॥ [भा।पु। ९.२४.६५]****

टीका च—तत्र प्रदर्शनार्थं मुख-शोभाम् आह इत्य्-आदिका । तद्-दर्शनेऽपि निमेष-कर्तृत्वेन निमेर् नियमे कुपिता बभूवुः । इयं खलु महाभावस्य गतिः । सा च तत्-स्वभावतः सिद्धेत्य् अभिधानाद् युक्तम् अत्रास्योदाहरणम् ।

॥ ९.२४ ॥ श्री-शुकः ॥ ८२ ॥

[८३]

किं च,

का स्त्र्य् अङ्ग ते कलपदायत- इत्य्-आदौ यद् गो-द्विज-द्रुम-मृगाः पुलकान्य् अभिभ्रन् [भा।पु। १०.२९.४०] इति ।

अन्यत्र च, अस्पन्दनं गतिमतां पुलकस् तरूणाम्" [भा।पु। १०.२९.४०] इत्य्-आदि । अत एवोक्तं श्री-बिल्वमङ्गलेन—

सन्त्व् अवतारा बहवः पुष्कर-नाभस्य सर्वतो-भद्राः ।
कृष्णाद् अन्यः को वा लतास्व् अपि प्रेमदो भवति ॥ [कृ।क। २.८५] इति ।

॥ १०.२९ ॥ श्री-व्रज-देव्यः श्री-भगवन्तम् ॥ ८३ ॥

[८४]

[८४.१] तद् एवं श्री-भगवद्-आविर्भाव-तारतम्येन तत्-प्रीतेर् आविर्भाव-तारतम्यं दर्शितम् । अथ तस्या एव गुणान्तरोत्कर्ष-तारतम्येन तारतम्यान्तरं भेदाश् च दर्श्यन्ते । तत्र गुणाः द्विविधाः । भक्त-चित्त-संस्क्रिया-विशेषस्य हेतव एके, तद्-अभिमान-विशेषस्य हेतवश् चान्ये ।

तत्र पूर्वेषां गुणानां स्वरूपाणि तैस् तस्यास् तारतम्यं भेदाश् च यथा, प्रीतिः खलु भक्त-चित्तम्॥।

उल्लासयति,
ममतया योजयति,
विस्रम्भयति,
प्रियत्वातिशयेनाभिमानयति,
द्रावयति,
स्व-विषयं प्रत्य् अभिलाषातिशयेन योजयति,
प्रतिक्षणम् एव स्व-विषयं नव-नवत्वेनानुभावयति,
असमोर्ध्व-चमत्कारेणोन्मादयति च ।

तत्रोल्लास-मात्राधिक्य-व्यञ्जिका प्रीतिः रतिः यस्यां जातायां तद्-एक-तात्पर्यम् अन्यत्र तुच्छत्व-बुद्धिश् च जायते ।

ममतातिशयाविर्भावेन समृद्धा प्रीतिः प्रेमा । यस्मिन् जाते तत्-प्रीति-भङ्ग-हेतवो यदीयम् उद्यमं स्वरूपं वा न ग्लपयितुम् ईशते । ममतातिशयेन प्रीति-समृद्धिश् चान्यत्रापि दृश्यते । यथोक्तं मार्कण्डेये—

मार्जार-भक्षिते दुःखं यादृशं गृह-कुक्कुटे ।
न तादृङ्-ममता-शून्ये कलविङ्केऽथ मूषिके ॥ इति ।

अत एव प्रेम-लक्षणायां भक्तौ प्रचुर-हेतुत्व-ज्ञापनार्थं ममताया एव भक्तित्व-निर्देशः पञ्चरात्रे—

अनन्य-ममता विष्णौ ममता प्रेम-सङ्गता ।
भक्तिर् इत्य् उच्यते भीष्म-प्रह्लादोद्धव-नारदैः ॥ [भ।र।सि। १.४.२] इति ।

अन्य-ममता-वर्जिता ममेत्य् अन्वयः । तद् उक्तं सत्त्व एवैक-मनसः [भा।पु। ३.२५.३२] इत्य् एव-कारेण ।

[८४.२] अथ विस्रम्भातिशयात्मकः प्रेमा प्रणयः, यस्मिन् जाते सम्भ्रमादि-योग्यतायाम् अपि तद्-अभावः ।

प्रियत्वातिशयाभिमानेन कौटिल्याभास-पूर्वक-भाव-वैचित्रीं दधत् प्रणयो मानः, यस्मिन् जाते श्री-भगवान् अपि तत्-प्रणय-कोपात् प्रेम-मयं भयं भजते ।

चेतो-द्रवातिशयात्मकः प्रेमैव स्नेहः, यस्मिन् जाते तत्-सम्बन्धाभासेनापि महा-बाष्पादि-विकारः प्रिय-दर्शनाद्य्-अतृप्तिस् तस्य परम-सामर्थ्यादौ सत्य् अपि केषांचिद् अनिष्टाशङ्का च जायते ।

स्नेह एवाभिलाषातिशयात्मको रागः, यस्मिन् जाते क्षणिकस्यापि विरहस्यात्यन्तैवासहिष्णुता । तत्-संयोगे परं दुःखम् अपि सुखत्वेन भाति, तद्-वियोगे तद्-विपरीतम् ।

स एव रागोऽनुक्षणं स्व-विषयं नव-नवत्वेनानुभावयन् स्वयं च नव-नवीभवन्न् अनुरागः, यस्मिन् जाते परस्पर-वशीभावातिशयः । प्रेम-वैचित्त्यं तत्-सम्बन्धिन्य् अप्राणिन्य् अपि जन्म-लालसा, विप्रलम्भे विस्फूर्तिश् च जायते ।

अनुराग एवासमोर्ध्व-चमत्कारेणोन्मादको महा-भावः । यस्मिन् जाते योगे निमेषासहता कल्प-क्षणत्वम् इत्य्-आदिकम् । वियोगे क्षण-कल्पत्वम् इत्य्-आदिकम् । उभयत्र महोद्दीप्ताशेष-सात्त्विक-विकारादिकं जायते इति संस्कार-हेतवो गुणा दर्शिताः ।

[८४.३] अथ भक्ताभिमान-विशेष-हेतवो गुणास् तत्-कृताः प्रीतेर् भक्तानां च भेदास् तारतम्यं च यथा—सैव खलु प्रीतिर् भगवत्-स्वभाव-विशेषाविर्भाव-योगम् उपलभ्य कञ्चिद् अनुग्राह्यत्वेनाभिमानयति, कञ्चिद् अनुकम्पित्वेन, कञ्चिन् मित्रत्वेन, कञ्चित् प्रियात्वेन च । भगवत्-स्वभाव-विशेषाविर्भाव-हेतुश् च यस्य भगवत्-प्रिय-विशेषस्य सङ्गादिना लब्धा प्रीतिः, तस्य प्रीतेर् एव गुण-विशेषो बोद्धव्यः । नित्य-परिकराणां नित्यम् एव तद् द्वयम् । तत्रानुग्राह्यताभिमान-मयी प्रीतिर् भक्ति-शब्देन प्रसिद्धा । आराध्यत्वेन ज्ञानं भक्तिर् इति हि तद्-अनुगतम् । यथैवोक्तं माया-वैभवे—

स्नेहानुबन्धो यस् तस्मिन् बहु-मान-पुरः-सरः ।
भक्तिर् इत्य् उच्यते सैव कारणं परमेशितुः ॥ इति ।

_स्नेहो_ऽत्र प्रीति-मात्रम् । एवं पाद्मे—महित्व-बुद्धिर् भक्तिस् तु स्नेह-पूर्वाभिधीयते इति । तथापि भक्तेर् भगवति प्रीति-सामान्य-पर्यायता मुनिभिर् भक्त्या प्रयुज्यत इति पूर्वम् उक्तम् । क्वचिद् विशेष-वाचका अपि सामान्ये प्रयुज्यन्ते । जीव-सामान्ये नृ-प्रभृति-शब्दवत् । क्वचिद् भक्त्य्-अतिशय-लक्षण-प्रेमण्य् अपि भक्ति-शब्द-प्रयोगो ब्राह्मण-गोष्ठीषु ब्राह्मण्यातिशयवति अयं ब्राह्मण इतिवत् ।

यथोक्तं पाञ्चरात्रे—

माहात्म्य-ज्ञान-पूर्वस् तु सुदृढः सर्वतोऽधिकः ।
स्नेहो भक्तिर् इति प्रोक्तस् तया सार्ष्ट्य्-आदि नान्यथा ॥ इति ।

मनो-गति-ममतादीनां तु तत्-सम्बन्धेनैव क्वचिद् भक्ति-शब्द-वाच्यतोक्ता । तद्-अनुग्राह्यताभिमान-मयी प्रीतिर् एव भक्ति-शब्दस्य मुख्योऽर्थः । ते चानुग्राह्याभिमानिनो द्विविधाः । पोषणम् अनुकम्पा चेत्य् अनुग्रहस्य द्वैविध्यात् । पोषणम् अत्र भगवता स्वरूप-द्वारा स्व-गुण-द्वारा चानन्दनम् । अनुकम्पा च पूर्णेऽपि स्वस्मिन् निज-सेवाद्य्-अभिलाषं सम्पाद्य सेवकादिषु सेवादि-सौभाग्य-सम्पादिका भगवतश् चित्तार्द्रतामयी तद्-उपकारेच्छा । तेषु द्विविधेषु केषुचिद् भगवति निर्ममाः केषुचित् सममाश् च । तत्र भगवति परमात्म-पर-ब्रह्म-भावेनानन्दनीयाभिमानिनो निर्ममा ज्ञानि-भक्ताः श्री-सनकादयः । तेषां तद्-अभिमानित्वेऽपि तत्र निर्ममत्वम्—

सत्य् अपि भेदापगमे नाथ तवाहं न मामकीनस् त्वम् ।
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ इतिवत् ।

तत्र चन्द्र-दर्शनवन् ममतां विनापि तेषां भगवद्-दर्शनं प्रीतिदं स्यात् । आनुकूल्यं चात्र तत्-प्रवणत्व-तत्-स्तुत्य्-आदिना ज्ञेयम् । एषां प्रीतिश् च ज्ञान-भक्त्य्-आख्या । ज्ञानत्वं ब्रह्म-घनत्वेनैवानुभवात् । एषैव शान्त्य्-आख्ययोच्यते, शम-प्रधानत्वात् । शमो मन्-निष्ठता बुद्धेः [भा।पु। ११.१९.३६] इति भगवद्-वाक्यम् ।

[८४.४] अथानुकम्प्याः स-ममा भक्ताः । एषां हि अस्माकं प्रभुर् अयम् इति भावेन ममतोद्भूता । एतद् अभिप्रेत्यैवानन्य-ममतेत्य् आदि-वक्तृत्वं केवल-भक्तानां श्री-भीष्मोद्धव-प्रह्लाद-नारदादीनाम् एवोक्तं न तु सनकादीनाम् अपि । अतो ममतोद्भवाद् एवानुकम्प्यास् तद्-अभिमानिनश् च ते।

अनुकम्प्यत्वं त्रिविधं—पाल्यत्वं भृत्यत्वं लाल्यत्वं च । तत्-त्रैविध्येन क्रमात् ते श्री-भगवति पालक इति भावा द्वारका-प्रजादयः, सेव्य इति भावाः श्री-दारुकादि-सेवकाः, गुरुर् इति भावाः श्री-प्रद्युम्न-गद-प्रभृति-पुत्रानुजादय इति । एषां त्रिविधानाम् अपि प्रीतिर् भक्तिर् एव । पूर्वापेक्षया चैषां प्रीतेर् आनुकूल्यात्मताधिक्याद् आवृत-ज्ञानांशत्वेनास्याम् एव श्री-रसामृत-सिन्धौ प्रीतिर् इत्य् एवाख्या कृता ।

सा च भक्तिः क्रमेण पाल्यानाम् आश्रयात्मिका, भृत्यानां दास्यात्मिका, लाल्यानां प्रश्रयात्मिका ज्ञेया । या तु महद्-बुद्ध्या चित्तादर-लक्षण-भक्तिर् नमस्कारादि-कार्य-व्यङ्ग्या सा खलु प्रीतिर् न भवतीति नात्र गण्यते । तत्-तद्-भावं विनैव केवलादर-मयी प्रीतिश् चेद् भक्ति-सामान्यत्वेन ज्ञेया ।

अथ “पुत्रोऽयम्” इत्य्-आदि-भावेनानुकम्पित्वाभिमान-मयी प्रीतिर् वात्सल्यम् । वत्सं वक्षो लातीति निरुक्तिर् हि तत्रैव झटिति प्रतीतिं गमयति । प्रीति-मात्रे तु तद्-उपलक्षणत्वेनैव प्रयोगः । लौकिक-रसज्ञाश् च केचिद् अत्रैव वत्सलाख्यं रसं मन्यन्ते । तथोदाहृतं श्री-देवहूत्याः पुत्र-वियोगे वत्से गौर् इव वत्सला [भा।पु। ३.३३.२१] इति । तस्माद् वात्सल्यं श्री-व्रजेश्वरादीणाम् ।

अथ “मत्-सम-मधुर-शीलवान् अयं निरुपाधि-मत्-प्रणयाश्रय-विशेषः” इति भावेन मित्रत्वाभिमान-मयी प्रीतिः मैत्र्य्-आख्या द्विविधाः—परस्पर-निरुपाधिकोपकार-रसिकता-मयी सौहृदाख्या, सह-विहार-शालि-प्रणय-मयी सख्याख्या चेति । ततो मित्राणि च द्वि-विधानि–सुहृदः सखायश् चेति । तत्र सौहृदं श्री-युधिष्ठिर-भीष्म-द्रौपदी-पद्यादिष्व् अंशेन दृश्यते, सख्यं श्रीमद्-अर्जुन-श्रीदामादिषु ।

[८४.५] अथ कान्तोऽयम् इति प्रीतिः कान्त-भावः । एष एव प्रियता-शब्देन श्री-रसामृत-सिन्धौ परिभाषिता । प्रियाया भावः प्रियतेति । लौकिक-रसिकैर् अत्रैव रति-संज्ञा स्वीक्रियते । एष एव काम-तुल्यत्वात् श्री-गोपिकासु कामादि-शब्देनाप्य् अभिहितः । स्मराख्य-काम-विशेषस् त्व् अन्यः, वैलक्षण्यात् । काम-सामान्यं खलु स्पृहा-सामान्यात्मकम् । प्रीति-सामान्यं तु विषयानुकूल्यात्मकस् तद्-अनुगत-विषय-स्पृहादि-मयो ज्ञान-विशेष इति लक्षितम् । ततो द्वयोः सामान्य-प्राय-चेष्टत्वेऽपि काम-सामान्यस्य चेष्टा स्वीयानुकूल्य-तात्पर्या । तत्र कुत्रचिद् विषयानुकूल्यं च स्व-सुख-कार्य-भूतम् एवेति तत्र गौण-वृत्तिर् एव प्रीति-शब्दः । शुद्ध-प्रीति-मात्रस्य चेष्टा तु प्रियानुकूल्य-तात्पर्यैव । तत्र तद्-अनुगतम् एव चात्म-सुखम् इति मुख्य-वृत्तिर् एव प्रीति-शब्दः ।

अत एव यथा-पूर्वं सुख-प्रीति-सामान्ययोर् उल्लासात्मकतया साम्येऽप्य् आनुकूल्यांशेन प्रीति-सामान्यस्य वैशिष्ट्यं दर्शितम् । तथा काम-प्रीति-सामान्ययोर् अपि स्पृहा-विशेषात्मकतया साम्येऽपि तेनैव वैशिष्ट्यं सिद्धम् । अत्र तु—यत् ते सुजात-चरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु [भा।पु। १०.३१.१९] इत्य्-आदिभिर् अतिक्रम्यापि स्वानुकूल्यं प्रियानुकूल्य-तात्पर्यस्यैव दर्शितत्वात् शुद्ध-प्रीति-विशेष-रूपत्वम् एव लभ्यते । अतस् तद्-विशेषत्वं च स्पृहा-विशेषात्मकत्वात् सिद्धम् । ततोऽत्र श्री-कृष्ण-विषयत्वेन कुब्जादि-सम्बन्धि-कामवद् अप्राकृत-कामत्वस्याप्य् अनभ्युपगमे सति प्राकृत-कामत्वं तु सुतराम् असिद्धम् । तथा दर्शितं च—

विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः
श्रद्धान्वितो यः शृणुयाद् अथ वर्णयेद् वा ।
भक्तिं परां भगवति परिलभ्य कामं
हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ [भा।पु। १०.३३.४०] इत्य् अनेन ।

यद् विक्रीडितं खलु निज-श्रवण-द्वाराप्य् अन्येषां दूर-देश-काल-स्थितानाम् अपि शीघ्रम् एव यं कामम् अपनयत् परमं प्रेमाणं वितनोति । तत् पुनस् तत् काम-मयं न स्यात् । अपि तु परम-प्रेम-विशेष-मयम् एव । न हि पङ्केन पङ्कं क्षाल्यते । न तु स्वयम् अस्नेहः स्नेहयति ।

अत एव तस्य भावस्य शुद्ध-प्रेम-मयत्वं निगदेनैवोक्त्वा शुद्धत्वे हेतुतया पुनस् तेन भगवत्-प्रसादश् च दर्शितः । “भगवान् आहता वीक्ष्य शुद्ध-भाव-प्रसादितः” [भा।पु। १०.२२.१८] इति । तस्यात्मराम-शिरोमणेस् तेन रमणं च दर्शितम्—“कृत्वा तावन्तम् आत्मानम्” [भा।पु। १०.३३.१९] इत्य्-आदिभिः ।

वशीकृतत्वं च स्वयं दर्शितं—न पारयेऽहं निरवद्य-संयुजाम् [भा।पु। १०.३२.२२] इत्य्-आदिना । तत्र निरवद्येति प्रीतेः शुद्धत्वम् । स्व-साधुकृत्यम् इति परमोत्तमोत्कृष्टत्वम् । न पारय इति स्ववशीकारत्वम् । अतः शुद्ध-प्रेम-जातिषु तस्य परमत्वाद् एव श्रीमद्-उद्धवेनाप्य् एवम् उक्तम्—वाञ्छन्ति यद् भव-भियो मुनयो वयं च [भा।पु। १०.४७.५८] इति । तस्मात् सर्वतः परमैव कान्त-भाव-रूपा प्रीतिर् इति स्थितम् ।

[८४.६] तद् एवं ज्ञान-भक्तिर् भक्तिर् वात्सल्यं मैत्री कान्त-भाव इति तद्-भावाभिमानयोर् भेदेन पञ्च-विधा प्रीतिः । एताश् च ज्ञान-भक्त्य्-आदयः क्वचित् मिश्रतयापि वर्तन्ते । तत्र श्री-भीष्मादौ ज्ञान-भक्त्य्-आश्रय-भक्ती । श्री-युधिष्ठिरे सौहृद्यान्तर्भूते आश्रय-भक्ति-वात्सल्ये । श्री-भीमस्य सख्यम् अपि । श्री-कुन्त्याम् आश्रय-भक्त्य्-अन्तर्भूतं वात्सल्यम् । श्री-वसुदेव-देवक्योर् भक्ति-सामान्य-वात्सल्ये । तथा तथा दर्शनात् ।

श्रीमद्-उद्धवस्य दास्यान्तर्भूतं सख्यं—त्वं मे भृत्यः सुहृत् सखा [भा।पु। ११.११.४८] इति श्री-भगवद्-उक्तेः । श्री-बलदेवस्य सख्य-वात्सल्य-भक्तयः । तत्र वात्सल्य-सख्ये—

क्वचित् क्रीडा-परिश्रान्तं गोपोत्सङ्गोपबर्हणम् ।
स्वयं विश्रमयत्य् आर्यं पाद-संवाहनादिभिः ॥
नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः ।
गृहीत-हस्तौ गोपालान् हसन्तौ प्रशशंसतुः ॥ [भा।पु। १०.१५.१४-१५] इत्य्-आदिषु ।

भक्तिश् च प्रायो मायास्तु मे भर्तुः [भा।पु। १०.१३.३७] इत्य्-आदि-तद्-उक्तिषु । अत्र च तस्य व्रजे सख्यान्तर्भूते वात्सल्य-भक्ती ज्ञेये, बाल्यम् आरभ्य सह-विहारातिशयात् । यदु-पुर्यां च भक्त्य्-अन्तर्भूते वात्सल्य-सख्ये, ऐश्वर्य-प्रकाश-मय-लीलाविष्कारात् । व्रजे तस्याग्रजत्वं श्री-वसुदेव-नन्दनयोर् भ्रातृत्व-प्रसिद्धेः । श्रीमन्-नन्देन पुत्रतया पालनाच् च । यथोक्तं—

भ्रातर् मम सुतः कच्चिन् मात्रा सह भवद्-व्रजे ।
तातं भवन्तं मन्वानो भवद्भ्याम् उपलालितः ॥ [भा।पु। १०.५.२७] इति ।

वदन्ति तावका ह्य् एते कुमारास् तेऽग्रजोऽप्य् अयम् [भा।पु। १०.८.३४] इति च ।

एवं श्री-पट्ट-महिषीषु दास्य-मिश्रः कान्त-भावः । श्रीमद्-व्रज-देवीषु सख्य-मिश्र इत्य्-आदिकं ज्ञेयम् ।

[८४.७] अथ तत्-तद्-भावाभिमानौ विना तु या प्रीतिः सा सामान्या तादृशत्वायोग्यानां भवति । यथा मिथिला-प्रयाणे—

आनर्त-धन्व-कुरु-जाङ्गल-कङ्क-मत्स्य-
पाञ्चाल-कुन्ति-मधु-केकय-कोशलार्णाः ।
अन्ये च तन्-मुख-सरोजम् उदार-हास-
स्निग्धेक्षणं नृप पपुर् दृशिभिर् नृ-नार्यः ॥ [भा।पु। १०.८६.२०] इत्य् अत्र केषांचित् ।

एते च निर्ममा ज्ञेयाः । किं च तेष्व् एतेषु भगवत्-प्रियेषु सामान्य-शान्तौ तटस्थाख्यौ । अनयोः प्रीतिश् च तटस्थाख्या । ताभ्याम् अन्ये परिकराः । तेषां प्रीतिश् च ममत-प्राचुर्यान् ममताख्या । तेषु च पाल्य-भृत्यौ अनुगतौ । तयोर् भक्तिश् च सम्भ्रम-प्रीत्य्-आख्या । लाल्यादयस् तु बान्धवाः । तेषां प्रीतिश् च बान्धवताख्या ज्ञेया ।

तैर् एतैः प्रीति-भेदैः प्रिय-भेदान् प्रति स्वस्य भजनीयता-भेदा उक्ताः—येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् [भा।पु। ३.२५.३८] इति । प्रियः कान्तः । आत्मा परमात्मा । सुतः पुत्र-भ्रातृजादि-रूपः अनुज-रूपश् च । सखा प्रणय-पूर्वकः सह खेलति यः । गुरुः पित्रादि-रूपः । सुहृदो द्विविधाः सम्बन्धिनो निरुपाधि-हित-कारिणश् च । तत्र पूर्वेषां प्रियत्वादौ प्रवेशाद् उत्तरे गृह्यन्ते । दैवम् इष्टम् आश्रयणीयः सेव्यश् चेत्य् अर्थः । एतान् भावांश् च विना सामान्य-प्रीति-विषय इति भावः ।

[८४.८] अथ पूर्वोक्ता रत्य्-आदि-भावा उदाह्रियन्ते । तत्र रतिम् आह—

तत्रान्वहं कृष्ण-कथाः प्रगायताम्
अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मेऽनुपदं विशृण्वतः
प्रियश्रवस्य् अङ्ग ममाभवद् रुचिः ॥
तस्मिंस् तदा लब्ध-रुचेर् महा-मते
प्रियश्रवस्य् अस्खलिता मतिर् मम ।
ययाहम् एतत् सद्-असत् स्व-मायया
पश्ये मयि ब्रह्मणि कल्पितं परे ॥ [भा।पु। १.५.२६-२७]****

मयि शुद्ध-जीवे व्यष्टि-रूपं परे ब्रह्मणि च समष्टि-रूपम् अध्यारोपितम् ।

॥ १.५ ॥ श्री-नारदः श्री-व्यासम् ॥ ८४ ॥

[८५]

प्रेमाणम् आह—

उपलब्धं पति-प्रेम पाति-व्रत्यं च तेऽनघे ।
यद् वाक्यैश् चाल्यमानाया न धीर् मय्य् अपकर्षिता ॥ [भा।पु। १०.६०.५१]****

यद् यस्माद् धीर् मदीय-ज्ञानं मयि नापकर्शिता, ममौदासीन्य-वाक्येनायं मय्य् उदासीन इत्य् आशङ्क्य ततः किञ्चिद् अपि न्यूनत्वं त्वया न प्रापिता, किन्तु यथा सदा वर्तते तथैवावर्ततेत्य् अर्थः ॥

॥ १०.६० ॥ श्री-भगवान् रुक्मिणी-देवीम् ॥ ८५ ॥

[८६]

प्रणयम् आह—

उवाह कृष्णो भगवान् श्रीदामानं पराजितः [भा।पु। १०.१८.२४] इति ।****

स्पष्टम् ॥

॥ १०.१८ ॥ श्री-शुकः ॥ ८६ ॥

[८७]

मानम् आह—एका भ्रू-कुटिम् आबद्ध्य प्रेम-संरम्भ-विह्वला [भा।पु। १०.३२.६] इति । स्पष्टम् ॥

॥ १०.३२ ॥ श्री-शुकः ॥ ८७ ॥

[८८]

स्नेहम् आह—

सत्-सङ्गान् मुक्त-दुःसङ्गो हातुं नोत्सहते बुधः ।
कीर्त्यमानं यशो यस्य सकृद् आकर्ण्य रोचनम् ॥
तस्मिन् न्यस्त-धियः पार्थाः सहेरन् विरहं कथम् ।
दर्शन-स्पर्श-संलाप- शयनासन-भोजनैः ॥
सर्वे तेऽनिमिषैर् अक्षैस् तम् अनु द्रुत-चेतसः ।
वीक्षन्तः स्नेह-सम्बद्धा विचेलुस् तत्र तत्र ह ॥
न्यरुन्धन्न् उद्गलद् बाष्पम् औत्कण्ठ्याद् देवकी-सुते ।
निर्यात्य् अगारान् नोऽभद्रम् इति स्याद् बान्धव-स्त्रियः ॥ [भा।पु। १.१०.११-१४]

विचेलुः अर्हणाद्य्-आनयनार्थम् इतस् ततश् चलन्ति स्म । अभद्रं यात्रा-समये दुःशकुनं प्राभूद् इति न्यरुन्धन् आच्छादितवत्यः ।

॥ १.१० ॥ श्री-सूतः ॥ ८८ ॥

[८९]

रागम् आह—

विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्-गुरो ।
भवतो दर्शनं यत् स्याद् अपुनर् भव-दर्शनम् ॥ [भा।पु। १.८.२५]****

भवतः कर्म-भूतस्य दर्शनम् अवलोकनम् । यत् यासु । अपुनर्भवम् अन्यत्र कुत्रापि तादृश-माधुर्याभावात् पुनर् न जातं दर्शनं साम्य-प्रतीतिर् यस्य, तद् अपूर्वम् इत्य् अर्थः ।

॥ १.८ ॥ श्री-कुन्ती श्री-भगवन्तम् ॥ ८९ ॥

[९०]

अनुरागम् आह—

यद्यप्य् असौ पार्श्व-गतो रहो-गतस्
तथापि तस्याङ्घ्रि-युगं नवं नवम् ।
पदे पदे का विरमेत तत्-पदाच्
चलापि यच् छ्रीर् न जहाति कर्हिचित् ॥ [भा।पु। १.११.३४]****

असौ श्री-कृष्णः । तासां श्री-महिषीणां पार्श्व-गतः समीपस्थः । तत्रापि रहो-गतः एकान्ते वर्तते । पदे पदे प्रतिक्षणम् । तच् च तासां स्वाभाविकानुरागवतीनां नाश्चर्यम्, यतः का वा अन्यापि तत्-पदाद् विरमेत तत्-पदास्वादेन तृप्ता भवेत् । तत्र कैमुत्येनोदाहरणं—चलापीति । जगति चञ्चल-स्वभावत्वेन दृष्टापि । अत्रोदाहरण-पोषार्थं प्राकृताप्राकृत-श्रियोर् अभेद-विवक्षा ।

॥ १.११ ॥ श्री-सूतः ॥ ९० ॥

[९१]

महाभावम् आह—

गोपीनां परमानन्द आसीद् गोविन्द-दर्शने ।
क्षणं युग-शतम् इव यासां येन विनाभवत् ॥ [भा।पु। १०.१९.१६]****

स्पष्टम् ।

॥ १०.१९ ॥ श्री-शुकः ॥ ९१ ॥

[९२]

[९२.१] एषा प्रीति-जाती रति-मात्रात्मा ज्ञानि-भक्तेषु, परमानन्द-घन-मात्रतया अनुभव-सुखस्य ममत्वाभावेन अतिशय-कारणत्वायोगात् । एवं सामान्येष्व् अपि । कामं भवः स्व-वृजिनैर् निरयेषु नः स्तात् [भा।पु। ३.१५.४९] इत्य्-आदौ तु सनकादीनां तादृश-राग-प्रार्थनैव, न तु साक्षाद् एव राग इति समाधेयम् ।

अथ पाल्येषु प्रेम-पर्यन्तैव, ममतायाः स्पष्टत्वात्, न तु स्नेहादि-पर्यन्ता, विदूर-सम्बन्धेन तस्या अनौचित्यात् । यत् तु यर्ह्य् अम्बुजाक्षापससार भो भवान् [भा।पु। १.११.९] इत्य्-आदौ, तत्राब्द-कोटि-प्रतिमः क्षणो भवेत् इति द्वारका-प्रजा-वाक्ये तद्-अतिशयः प्रतीयते । तत् खलु तत्रैव केषांचिन् नापित-मालाकारादीनां साक्षात् तत्-सेवा-भाग्यवतां भाव-विशेष-धारिणाम् उक्तित्वेन सङ्गतम् ।

अथ श्रीमद्-भृत्येषु राग-पर्यन्तापि सम्भाव्यते, तेषां ममताधिक्येन सन्तत-तत्-सेवा-लम्पटत्वेन तद्-एक-जीवनत्वात् । लाल्येषु साक्षाच्-छ्री-विग्रह-सम्बन्धेन ततोऽपि ममता-विशेषोर्जितत्वात् रागातिशयो मन्तव्यः ।

तेभ्यः सखिभ्योऽपि ममताधिक्याद् वत्सल-मुख्ययोः पित्रोः सर्वतस् तद्-अतिशयः । अन्यत्रापि प्रायः विपदः सन्तु ताः शश्वत् [भा।पु। १.८.२५] इत्य्-आदि श्री-कुन्ती-वाक्यात् सखिषु प्रणयोत्कर्षांशेन तु तद्-आधिक्यम् अस्ति । सुहृत्सु नातिसन्निकर्षात् प्रेमातिशय एव । प्रणय-मानौ तु सखि-प्रेयस्योर् एव सम्भवतः ।

[९२.२] अथ श्री-प्रेयसीषु श्रीमत्-पट्ट-महिषीणां महा-भावतोन्मुखानुराग-पर्यन्तैव । यद्-विवर्त-विशेषः प्रेम-वैचित्त्याख्यो विप्रलम्भ-शृङ्गारः, तासां ऊचुर् मुकुन्दैक-धियः [भा।पु। १०.९०.१४] इत्य्-आदिना, इतीदृशेन भावेन [भा।पु। १०.९०.२५] इत्य्-अन्तेन वर्णितः । ततोऽधिकं न च श्रूयते, ताभ्योऽन्यत्र त्व् अनुरागोऽपि न श्रूयते ।

ननु, सताम् अयं सार-भृतां निसर्गः [भा।पु। १०.१३.२] इत्य्-आदौ अन्यत्राप्य् अनुरागो वर्ण्यते, प्रतिक्षणं नव्यत्व-स्फुरणात् ? नैवं, अनुरागस्य न तादृश-स्फुरण-मात्र-लक्षणत्वं, किन्तूल्लासादि-दुःख-सुखत्व-भान-पर्यन्त-रत्य्-आदि-गुण-लक्षणत्वम् अपि । अत्र तु सर्वत्र तत्-तल्-लक्षणोदयासम्भावनया नानुरागो निर्णीयते इति । तथा नव्यवद् इत्य् उक्तं, न च नव्यम् इति।

श्री-व्रज-देवीनां तु महा-भाव-पर्यन्तता—

तास् ताः क्षपाः प्रेष्ठतमेन नीता
मयैव वृन्दावन-गोचरेण ।
क्षणार्धवत् ताः पुनर् अङ्ग तासां
हीना मया कल्प-समा बभूवुः ॥ [भा।पु। ११.१२.११] इत्य्-आदि-प्रसिद्धेः ।

निमेषासहत्वं तासाम् एव—

कुटिल-कुन्तलं श्री-मुखं च ते
जड उदीक्षितां पक्ष्म-कृत् दृशाम् [भा।पु। १०.३१.१५] इति ।

यस्याननम् [भा।पु। ९.२४.३५] इत्य्-आदिकस्य, नार्यो नराश् च मुदिताः कुपिता निमेश् च इत्य् अत्र सामान्यतो नरा नार्यश् च तावन् मुदिता बभूवुः । च-कारात् तत्रैव काश्चिच् छ्री-गोप्यो निमेर् नियमे निमेष-कर्त्रे कुपिता बभूवुर् इत्य् अर्थः, अन्यत्र तद्-अश्रवणाद् एव । अन्यथा कुरुक्षेत्र-यात्रायां—

गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं
यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतं शपन्ति ।
दृग्भिर् हृदी-कृतम् अलं परिरभ्य सर्वास्
तद्-भावम् आपुर् अपि नित्य-युजां दुरापम् ॥ [भा।पु। १०.८२.३९] इति ।

अत्र यत्-प्रेक्षणे इत्य्-आदौ वैशिष्ट्यानापत्तिश् च स्यात् । यद्यपि श्री-कृष्णस्य तादृश-भाव-जनकत्वं स्वभाव एव, तथाप्य् आधार-गुणम् अप्य् अपेक्षते, स्वात्य्-अम्बुनो मुक्तादि-जनकत्वम् इव । अत्र च तद्-भावम् आपुर् इति श्री-कृष्ण-विषयक-महा-भाव-विशेषाभिव्यक्तिं दधुर् इत्य् अर्थः । अत एव नित्य-युजां दुरापम् इत्य् उक्तम् । नित्य-युक्-शब्देनाप्य् अत्र तत्-स-लक्षणाः पट्ट-महिष्य एव लभ्यन्ते, न तद्-विलक्षणा अन्ये, दूर-प्रतीतत्वात् । ततश् च नित्य-युजाम् “एता विरहिण्यो, वयं तु प्रिय-संयोगं दिनं दिनम् एव प्राप्नुमः” इति प्रेष्ठं-मन्यानाम् अपीत्य् अर्थः ।

अत एव—

श्रुत्वा पृथा सुबल-पुत्र्य् अथ याज्ञसेनी
माधव्य् अथ क्षितिप-पत्न्य उत स्व-गोप्यः ।
कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं
सर्वा विसिस्मयुर् अलम् अश्रु-कलाकुलाक्ष्यः ॥ [भा।पु। १०.८४.१]

इत्य् अत्र क्वचिद् अन्यत्रादृष्ट-चरेण व्रज-स्त्रियो यद् वाञ्छन्ति [भा।पु। १०.८३.४३] इत्य्-आदि-तदीय-पूर्वोक्त-रीत्या स्वीय-भाव-तुल्यता-स्पर्शिना प्रणयानुबन्धेन विस्मितानाम् अपि श्री-गोपीनां विशेषणत्वेन स्व-शब्दः पठितः परमान्तरङ्गता-बिबोधिषया । तथा अहो अलं श्लाघ्यतमं यदोः कुलम् [भा।पु। १.१०.२६] इत्य्-आदि-पद्य-त्रयात्मके प्रथम-स्कन्ध-सम्बन्धिनि पुर-स्त्री-वाक्येऽपि, तेषु प्रथम-द्वयं सर्वस्य मथुरा-व्रज-द्वारका-वासिनो जनस्य भाग्य-महिमा-प्रतिपादकम् । तृतीयं खलु—

नूनं व्रत-स्नान-हुतादिनेश्वरः
समर्चितो ह्य् अस्य गृहीत-पाणिभिः ।
पिबन्ति याः सख्य् अधरामृतं मुहुर्
व्रज-स्त्रियः सम्मुमुहुर् यद्-आशयाः ॥ [भा।पु। १.१०.२८] इत्य् एतत् ।

अत्र पट्ट-महिषीणां भाग्य-श्लाघायाम् अपि श्री-व्रज-देवीनाम् एव हि परमोत्कृष्टत्वम् आस्वादाभिज्ञतरत्वं चायातम् । यस्यामृतस्य माधुर्य-स्मरणे देवा अपि मुह्यन्ति, तन् मनुष्येणाप्य् अनेनास्वाद्यत इतिवत् । तस्मात् तासाम् एव सर्वोत्तम-भावना ।

[९२.३] अयम् अत्र सन्दर्भः—श्री-भगवतः स्वभावस् तावद् उभय-विधः—ब्रह्मत्व-लक्षणो, भगवत्त्व-लक्षणश् चेति । भक्ताश् च सामान्यतो द्विविधा उक्ताः—तटस्थाः परिकराश् चेति । तत्रैके तटस्था ब्रह्मता-पुरस्कारेण तत्-स्वभावेन प्रीयमाणाः शान्ताख्याः । अन्ये च तटस्थाः परिकरवद् भगवत्ता-विशेषेणापि प्रीयमाणाः परिकरत्वाभिमानम् अप्राप्ताः । ततः स्फुटम् एवैते परिकरात् प्रीति-निर्हीनाः38

अथाद्या अपि प्रीति-कारणस्य प्रीति-कार्यस्य च निर्हीनत्वात् परिकरात् प्रीति-निर्हीनाः । कारणं चात्र साहाय्यम् । सहायो द्विविधः—ममता-लक्षणोऽर्थस् तद्-अङ्गं, ब्रह्मत्वानुभवादयस् तद्-उपाङ्गानीति । अत्र तेषां ममत्वं नास्तीति दर्शितम् एव । तच् च युक्तं, सम्बन्ध-विशेषास्फुरणात् । ततोऽङ्ग-निर्हीणत्वम् । उपाङ्गेषु च तेषां ब्रह्म-ज्ञानम् एव मुख्यं, तद्-अनुशीलन-स्वाभाव्यात् । भगवत्ता-ज्ञानं तु तद्-अनुगतं, तस्या एव तादृश-भावेन तेषाम् आकर्षणात् । यद् उक्तम्—आत्मारामाश् च इत्य्-आदौ, इत्थम्भूत-गुणो हरिः [भा।पु। १.७.११] इति ।

वस्तुतस् तु प्रीति-साहाय्ये भगवत्ताया एव मुख्यत्वं तैर् अनुभूतम्, तस्यारविन्द-नयनस्य पदारविन्द- [भा।पु। ३.१५.४३] इत्य्-आदौ, चकार तेषां सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः इति । तथापि तादृश-स्वभावत्वापरित्यागाद् उपाङ्ग-निर्हीनत्वम् ।

अथ प्रीति-कार्यम् अपि तेषां निर्हीनत्वम् । यतः प्रायशो भगवत्-स्मरणम् एव तत्-कार्यम् । तद्-दर्शनं तु कादाचित्कम् एव । परिकराणां पुनः साक्षात् तद्-अङ्ग-सेवादिकम् अपि सन्ततम् एव। अत एव तेषाम् एव सौभाग्यातिशय-वर्णनम् । श्री-जय-विजय-शाप-प्रस्तावे—

तस्मिन् ययौ परमहंस-महा-मुनीनाम् ।
अन्वेषणीय-चरणौ चलयन् सह-श्रीः ॥ [भा।पु। ३.१५.३७] इत्य् उक्त्वा,
तं त्व् आगतं प्रतिहृतौपयिकं स्व-पुम्भिस्
तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् । [भा।पु। ३.१५.३८] इति ।

तथा—विनता-सुतांसे विन्यस्त-हस्तम् [भा।पु। ३.१५.४०] इति । तथा तदा जय-विजययोर् एव भगवत आत्मीयत्वं स्पष्टम् अस्ति, मुनिषु तु गौरवम् । तत्र श्री-ब्रह्म-वाक्ये—

एवं तदैव भगवान् अरविन्द-नाभः ।
स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः ॥ [भा।पु। ३.१५.३७] इति ।

श्री-वैकुण्ठ-नाथ-वाक्ये च—

तद् वः प्रसादयाम्य् अद्य ब्रह्म दैवं परं हि मे ।
तद् धीत्य् आत्म-कृतं मन्ये यत् स्व-पुम्भिर् असत्-कृताः ॥ [भा।पु। ३.१६.४]

तच् च परिकराणां सौभाग्यं स्वयम् अपि दृष्ट्वा ते मुनयश् च तयोः स्व-कृत-शापाद् अलज्जन्त—

यं वानयोर् दमम् अधीश भवान् विधत्ते
वृत्तिं नु वा तद् अनुमन्महि निर्व्यलीकम् ।
अस्मासु वा य उचितो ध्रियतां स दण्डो
येऽनागसौ वयम् अयुङ्क्ष्महि किल्बिषेण ॥ [भा।पु। ३.१६.२५]

तथा तयोस् तस्यात्मीयत्वेनैव सह-कारुण्यम् अपि मुनिषु निर्गतेषु व्यक्तम् अस्ति—

भगवान् अनुगाव् आह यातं मा भैष्टम् अस्तु शम् ।
ब्रह्म-तेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ [भा।पु। ३.१६.२९] इति ।

तस्मात् कार्य-निर्हीनत्वम् अपि । तेभ्यश् च सर्व-निर्हीनत्वेभ्यस् तटस्थान् अतिक्रम्य परिकराणां प्रीत्य्-उत्कर्षो दर्शितः ।

[९२.५] ननु निरुपाधि-प्रेमास्पदस्य प्रीतौ परिकरत्वाभिमान उपाधिः स्यात् ? ततो ज्ञानात्मिकां सामान्यां च प्रीतिम् अपेक्ष्य तद्-अभिमानि-प्रीतयो गौण्य एव स्युः ? किं च, ममतायाः प्रीति-हेतुत्वे जाते च यस्यात्मनः सम्बन्धात् प्रीतिर् भवेत्, तस्मिन्न् एव तद्-आधिक्यं स्यात् ?

नैवं श्री-भगवतो येन स्वभावेनैवानुभूतेनाभिमान-विशेषं विनापि तेषां प्रीतिर् उदयते, तेनापि परिकराणाम् उदयते । तथा निज-स्वभाव-सिद्धो वा तात्कालिको वा योऽभिमान-विशेषः, तेनाप्य् उदयते । समुच्चये को विरोधः ? प्रत्युतोल्लास एव । तत्र भगवत्-स्वभावमयत्वं भक्त-तात्कालिकाभिमान-विशेषमयत्वं चाह—

गो-गोपीनां मातृतास्मिन्न् आसीत् स्नेह-र्द्धिकां विना ।
पुरोवद् [भा।पु। १०.१३.२५] इति । स्पष्टम् ।

॥ १०.१३ ॥ श्री-शुकः ॥ ९२ ॥

[९३]

उभय-स्वभावमयत्वम् आह—

यथा भ्राम्यत्य् अयो ब्रह्मन्
स्वयम् आकर्ष-सन्निधौ ।
तथा मे भिद्यते चेतश्
चक्र-पाणेर् यदृच्छया ॥ [भा।पु। ७.५.१४]****

स्पष्टम् ।

॥ ७.५ ॥ श्री-प्रह्लादः ॥ ९३ ॥

[९४]

किं च, भक्ताभिमान-विशेषमयश् च प्रेमा भगवत्-स्वभावाविर्भूत एवेति ब्रूमः । भगवति हि स्वरूप-सिद्धाः सर्वे प्रकाशा नित्यम् एव वर्तन्ते इति श्री-भगवत्-सन्दर्भादौ दर्शितम् अस्ति । आगमादाव् अपि नानोपासनाः श्रूयन्ते । तत्र यथा यत्र प्रकाशः, तथा तत्राभिमान-विशेषमयी प्रीतिर् उदयते । प्रकाश-वैशिष्ट्य-हेतुश् च भक्त-विशेष-सङ्ग एव नित्य-सिद्धेषु तु नित्य-सिद्ध एव तथा-प्रकाशः प्रीतिर् अभिमानश् च ।

अथ प्रीत्यैव सहोदयात् तादृशोऽभिमानोऽपि प्रीति-वृत्ति-विशेष इत्य् उक्तम् । तस्माद् अपि न तत्-समवायेन प्रीति-हानिः प्रत्युतात्यन्त-सन्निकर्ष-व्यञ्जकेन तत्-तद्-अभिमानेन तस्या उल्लास एव । किं च, लौकिकोऽपि ममता-विशेष आत्मनोऽप्य् आधिक्येन स्वास्पदे प्रीतिं जनयति । पुत्राद्य्-अर्थम् आत्म-व्ययादिकं दृश्यते । तथैवोक्तं व्रजेश्वरं प्रति श्री-भगवतैव—पित्रोर् अप्य् अधिका प्रीतिर् आत्मजेष्व् आत्मनोऽपि हि [भा।पु। १०.४५.२१] इति । भगवद्-विषया ममता तु स्वात्म-गत-तदीयाभिमान-विशेष-हेतुकैव । तद्-अभिमान-विशेषश् च तत्-स्वभाव-विशेष-हेतुक इत्य् उक्तम् । स च प्रथमम् आविर्भवति । तद्-अनन्तरम् एव ममता-विशेष आविर्भवतीति । तस्माद् यथा तथा तत्-स्वभाव एव तत्-प्रीतेर् मूल-कारणम्—

ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् ।
योऽभूत-पूर्व-स्तोकेषु स्वोद्भवेष्व् अपि कथ्यताम् ॥ [भा।पु। १०.१४.४९]

इति राज-प्रश्नोत्तरं श्री-शुकदेवेन श्री-कृष्ण-प्रीतौ तत्-स्वभाव-सिद्धत्वम् उक्तम् । तत्-स्वभावाविर्भाव-विशेषाविर्भूत-ममता-विशेषेण तु केवल-ममता-हेतुक-प्रीतिम् अतिक्रम्य वैशिष्ट्यं चाभिप्रेतम् । तस्मात् सर्वथा ममता-सम्बन्धेन प्रीतेर् वैशिष्ट्यम् एव भवतीति सिद्धम् । भगवत्-सम्बन्धेनात्मन्य् अपि तेषां प्रीतिर् जायते। तथैवाहुः—

सुदुस्तरान् नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो ।
न शक्नुमस् त्वच्-चरणं सन्त्यक्तुम् अकुतो-भयम् ॥ [भा।पु। १०.१७.२४]

टीका च—न मृत्योर् बिभीमः, किन्तु त्वच्-चरण-वियोगाद् इत्य् आहुः—न शक्नुम इति इत्य् एषा । न च त्वच्-चरणं निज-वियोग-भयं न दूरीकर्तुम् अर्हतीत्य् आहुः—अकुतो-भयम् इति । यद् वा, तव चरण-सन्निधाने सत्य् अस्माकं सर्वम् एव सुखाय कल्पते, अन्यदा तु दुःखायैवेत्य् आहुः—न विद्यते कुतश्चिद् भयं येनेति ।

॥ १०.१७ ॥ श्री-व्रजौकसः श्री-भगवन्तम् ॥ ९४ ॥

[९५]

तथा तत्-प्रीतेर् एव तत्-तद्-अभिमानोल्लासित्वम् । ततः श्री-भगवतोऽपि तत्-तद्-अभिमानित्वम् आह—एष वै भगवान् साक्षाद् [भा।पु। १.९.१८] इत्य्-आदौ—

यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।
अकरोः सचिवं दूतं सौहृदाद् अथ सारथिम् ॥
सर्वात्मनः सम-दृशो ह्य् अद्वयस्यानहङ्कृतेः ।
तत्-कृतं मति-वैषम्यं निरवद्यस्य न क्वचित् ॥
तथाप्य् एकान्त-भक्तेषु पश्य भूपानुकम्पितम् ।
यन् मेऽसूंस् त्यजतः साक्षात् कृष्णो दर्शनम् आगतः ॥ [भा।पु। १.९.२०-२२]

सौहृदात् तादृश-प्रेम्ण एव हेतोः । यं मातुलेयं मन्यसे प्रियं प्रीति-विषयं मित्रं प्रीति-कर्तारं सुहृत्तमम् उपकारानपेक्षोपकारकं च मन्यसे । अथ सारथिं सारथिम् अपीत्य् अर्थः । स एष साक्षाद् भगवान् [भा।पु। १.९.१८] इत्य्-आदिकः पूर्वेणान्वयः ।

ननु भवतु प्रीति-विशेषेणास्माकं तस्मिंस् तथा मतिः, तस्य सर्वेषां परम् आत्मनः, तस्माद् एव समदृशः, परमात्मत्वाद् एव सर्वेषां तच्-छक्ति-वैभव-रूपाणाम् आत्मनां, ततोऽनन्यत्वाद् अद्वयस्य, तस्माद् एव मातुलेयोऽहम् इत्य्-आद्य्-अभिमान-शून्यस्य, तथा निर्दोषस्य च कथम् अहम् अस्य मातुलेयः ? न त्व् अमुष्येत्य्-आदि-रूपं मातुलेयत्वादि-कृतं मति-वैषम्यं स्याद् इत्य्-आदि-पूर्व-पक्षोट्टङ्कन-पूर्वकं सिद्धान्तयति—सर्वात्मन इत्य्-आदि-द्वाभ्याम् ।

यद्यपि तादृशस्य तन् न सम्भवति, तथापि हे भूप एकान्त-भक्तेषु युष्मासु अनुकम्पां पश्य । येषां भक्ति-विशेषेण पर-वशः सन्न् असाव् अपि तथा तथात्मानं बाढम् एवाभिमन्यत इत्य् अर्थः । यः खलु शरीरस्यापि सम्बन्ध-हेतुः, सोऽभिमान एव हि सम्बन्ध-हेतुर् मुख्यः, न शरीरम् । एवं सति, स्वाविर्भावादिना शरीर-सम्बन्धेऽपि तस्य मातुलेयत्वादिकं सुतराम् एव सिध्यतीति तात्पर्यम् । तत्र हेतु-गर्भो दृष्टान्तः—यन् मेऽसून् इति। यस्मात् युष्मत्-सम्बन्धाद् एव हेतोः ।

तद् एवं परमोपादेयत्व-ज्ञानाद् एव तत्-सम्बन्धात्मक एव श्री-भगवानुत्क्रान्ताव् अपि मुहुर् एव निजालम्बनी-कृतः विजय-सखे रतिर् अस्तु मेऽनवद्या [भा।पु। १.९.३३] इति, पार्थ-सखे रतिर् ममास्तु [भा।पु। १.९.३५] इति, विजय-रथ-कुटुम्बः [भा।पु। १.९.३९] इत्य् आरभ्य भगवति रतिर् अस्तु मे मुमूर्षोः इति च ।

॥ १.९ ॥ भीष्मः श्री-युधिष्ठिरम् ॥ ९५ ॥

[९६]

तम् एवाभिमान-ममताभ्यां प्रीतेर् अतिशयं दर्शयति—

राजन् पतिर् गुरुर् अलं भवतां यदूनां
दैवं प्रियः कुल-पतिः क्व च किङ्करो वः ।
अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ [भा।पु। ५.६.१८]

यस्याम् एव कवयः [भा।पु। ५.६.१७] इत्य्-आदि-प्राक्तन-गद्ये मुक्त्य्-अधिकतया सामान्या प्रीति-लक्षण-भक्तिर् उक्ता । अत्र तु, हे राजन् भवतां यदूनाम् अपि पत्य्-आदि-रूपो भगवान्एवं नाम दूरेऽस्तु श्री-भगवतस् तादृशत्व-प्रापकस्य प्रेम-विशेषस्यास्य वार्ता, सर्वेषाम् अपि दूरे स्थितेत्य् अर्थः । यतोऽन्येषां नित्यं भजताम् अपि मुकुन्दोऽसौ मुक्तिम् एव ददाति, न तु भक्ति-योगं पूर्वोक्त-महिम-प्रीति-सामान्यम् अपीति पतित्वादि-भावमय्यां परम-वैशिष्ट्यम् उक्तम् । अतस् तेष्व् एव यत्-किञ्चिद्-रूपत्वम् अपि श्री-ब्रह्मणा प्रार्थितं—तद् अस्तु मे नाथ स भूरि-भागः [भा।पु। १०.१४.३०] इत्य्-आदिना ।

॥ ५.६ ॥ श्री-शुकः ॥ ९६ ॥

[९७]

अथ परिकराणाम् अपि भावेषु तारतम्यं विवेचनीयं, येषां भगवत्तैवोपजीव्या । तत्र भगवत्ता तावत् सामान्यतो द्विविधैव । परमैश्वर्य-रूपा परम-माधुर्य-रूपा चेति । ऐश्वर्यं प्रभुता । माधुर्यं नाम च शील-गुण-रूप-वयो-लीलानां सम्बन्ध-विशेषाणां च मनोहरत्वं, परमत्वं च चासमोर्ध्वत्वम् ।

अथ भक्तादि-चतुर्-विधाः परिकरा अपि द्विविधाः । परमैश्वर्यानुभव-प्रधानाः परम-माधुर्यानुभव-प्रधानाश् च । तत्रैश्वर्य-मात्रस्य साध्वस-सम्भ्रम-गौरव-बुद्धि-जनकत्वं माधुर्य-मात्रस्य प्रीति-जनकत्वम् इति सर्वानुभव-सिद्धम् एव । ततस् तत्रैश्वर्य-माधुर्ययोः परमत्वम् इति ताभ्यां यथा-सङ्ख्यं साध्वसादीनां प्रीतेश् च परमत्वम् एव स्यात् । अत एव—

देवकी वसुदेवश् च विज्ञाय जगद्-ईश्वरौ ।
कृत-संवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ [भा।पु। १०.४४.५१]

पितराव् उपलब्धार्थौ विदित्वा पुरुषोत्तमः ।

मा भूद् इति निजां मायां ततान जन-मोहिनीम् ॥

उवाच पितराव् एत्य साग्रजः सात्वतर्षभः ।

प्रश्रयावनतः प्रीणन्न् अम्ब तातेति सादरम् ॥

[भा।पु। १०.४५.१-२] इत्य्-आद्य्-अनन्तरम्,

इति माया-मनुष्यस्य हरेर् विश्वात्मनो गिरा ।

मोहिताव् अङ्कम् आरोप्य परिष्वज्यापतुर् मुदम् ॥

सिञ्चन्ताव् अश्रु-धाराभिः स्नेह-पाशेन चावृतौ ।

न किञ्चिद् ऊचतू राजन् बाष्प-कण्ठौ विमोहितौ ॥

[भा।पु। १०.४५.१०-११]

उपलब्धो जातो जगदीश्वरत्व-लक्षणोऽर्थो याभ्यां, तथा-भूतौ ज्ञात्वा । मा भूद् इति समारूढ-पितृत्व-पदवीकत्वेन ज्ञानि-भक्त-जन-केवल-भक्त-जनादि-दुर्लभ-परम-प्रेमैक-योग्ययोस् तयोस् तद्-आच्छादकं तज्-ज्ञानं न भवत्व् इति निजां मायाम् आवरण-शक्तिं निज-जगदीश्वरत्वाच्छादनाय ततान विस्तारितवान् । तद्-अनन्तरं निज-तादृश-प्रेम-पोषकं माधुर्यम् एव व्यञ्जितवान् इत्य् आह—उवाच इत्य्-आदि ।

अथवा माया दम्भे कृपायां च इति विश्व-प्रकाशात् निजां स्व-विषयां मायां कृपां, तद्-आत्मिकां वात्सल्याख्यां प्रीतिं, तयोस् ततान आविर्भावितवान् । कीदृशीं ? या निज-माधुर्येण सर्वम् एव जनं मोहयति ताम् । कथं ततान ? इत्य् आशङ्क्य निजैश्वर्याच्छादक-निज-माधुर्य-प्रकाशनेनेत्य् आह—उवाचेति ।

अथवा, माया वयुनं ज्ञानम् इति निघण्टु-दृष्ट्या निजां तादृश-प्रेम-जनकत्वेनान्तरङ्गां मायां निज-माधुर्य-ज्ञानं ततान । तत्-प्रकारम् आह—उवाचेति । माया-मनुष्यस्य अशेष-विद्या-प्रचुरस्य नराकृति-पर-ब्रह्मण इति ।

॥ १०.४५ ॥ श्री-शुकः ॥ ९७ ॥

[९८]

तद् एवं पारमैश्वर्यस्य भक्तौ यत् क्वचिद् उद्दीपनत्वं, तत् तु सम्भ्रम-गौरवादि तद्-अवयवस्यैव । तत्राप्य् अवयविनि प्रीत्य्-अंशे तु माधुर्यस्यैवोद्दीपनत्वम् । उभय-समाहारस्य पुनः परमेश्वर-भक्ति-जनकत्वम् इति विवेक्तव्यम् ।

तद् एवं माधुर्यस्यैव प्रीति-जनकत्वे स्थिते, तद्-अनुभवश् च श्रीमद्-गोकुलस्य स्वभाव-सिद्धः । आगन्तुकः खल्व् ऐश्वर्यानुभवः । तथैव श्री-गोवर्धनोद्धरणानन्तरे—

एवं-विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते ।
अतद्-वीर्य-विदः प्रोचुः समभ्येत्य सुविस्मिताः ॥ [भा।पु। १०.२६.१]

इत्य्-आद्य्-अध्याये,

दुस्त्यजश् चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् ।
नन्द ते तनयेऽस्मासु तस्याप्य् औत्पत्तिकः कथम् ॥ [भा।पु। १०.२६.१३]

इति श्री-गोप-गण-प्रश्ने, श्री-व्रजेश्वरेण च तद्-ऐश्वर्यम् आप्त-वाक्य-द्वारैव तेषां समाधानायोक्तं, माधुर्यं तु स्वानुभव-सिद्धत्वेन व्यञ्जितम् । यथाह—

श्रूयतां मे वचो गोपा व्येतु शङ्का च वोऽर्भके ।
एनं कुमारम् उद्दिश्य गर्गो मे यद् उवाच ह ॥ [भा।पु। १०.२६.१५] इत्य्-आदि,

इत्य् अद्धा मां समादिश्य

गर्गे च स्व-गृहं गते ।

मन्ये नारायणस्यांशं

कृष्णम् अक्लिष्ट-कारिणम् ॥

[भा।पु। १०.२६.२३] इत्य् अन्तम् ।

अथ गर्गो मां यद् उवाच ह इति शब्द-द्वारा परोक्षं ज्ञानम् उक्तम् । तत्रापि मन्ये इति वितर्क एव । अर्भक-कुमार-शब्द-प्रयोगस् तु बाल-भाव-मय-माधुर्ये स्व-स्वभावानुभवस्य सूचक इत्य् अवगम्यते ।

॥ १०.२६ ॥ श्री-व्रजेश्वरः ॥ ९८ ॥

[९९]

तथा, मत्-कामा रमणं जारम् अस्वरूप-विदोऽबलाः [भा।पु। ११.१२.१३] इति श्री-भगवता चोक्तम्****।**** न चैवं तेषाम् अज्ञानं च वक्तव्यम् । माधुर्य-ज्ञानेनैव परम-भगवत्ता-ज्ञान-सद्-भावात् । यत एव तेषाम् अन्यत्रानावेशः । यद् एव खल्व् आत्मारामाणाम् अपि मोदनम्।

न च सर्वापि भगवत्ता सर्वेणोपास्यते अनुभूयते वा । अपि तु स्व-स्वाधिकार-प्राप्तैव अनन्तत्वाद् अनुपयुक्तत्वाच् च । अत एव वेदान्तेऽपि गुणोपासना-वाक्येषु तत्-तद्-विद्यायां गुण-समाहारः पृथक् पृथग् एव सूत्र-कारेण व्यवस्थापितः । तथैवोक्तं—

यस्य यस्य हि यः कामस् तस्य तस्य ह्य् उपासनम् ।
तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥ इति ।

तथा मल्लानाम् अशनिः [भा।पु। १०.४३.१७] इत्य्-आदौ च टीका चूर्णिका—तत्र च शृङ्गारादि-सर्व-रस-कदम्ब-मूर्तिर् भगवांस् तत्-तद्-अभिप्रायानुसारेण बभौ, न साकल्येन सर्वेषाम् इत्य् आह इत्य् एषा । अत्र परम-तत्त्वतया जानताम् अपि न सम्यग्-ज्ञानम् इत्य् आयातम् । युक्तं चेदं तत्-तन्-माधुर्य-विशेषाननुभवात् । माधुर्यानुभाविनां भक्तानां तु—यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः [भा।पु। ५.१८.१२] इत्य्-आदि-न्यायेनानादृतम् अपि सर्वं ज्ञानं समय-प्रतीक्षकम् एव स्यात् । पूर्वत्रैव पद्ये तेषां परम-विद्वत्ताम् अभिप्रैति । यथा—

मल्लानाम् अशनिर् नृणां नर-वरः स्त्रीणां स्मरो मूर्तिमान्
गोपानां स्वजनोऽसतां क्षिति-भुजां शास्ता स्व-पित्रोः शिशुः ।
मृत्युर् भोज-पतेर् विराड् अविदुषां तत्त्वं परं योगिनां
वृष्णीनां पर-देवतेति विदितो रङ्गं गतः साग्रजः ॥ [भा।पु। १०.४३.१७]

अत्र खलु पद्ये त्रिविधा जना उक्ताः प्रतिकूल-ज्ञानाः, मूढाः, विद्वांसश् च । तत्र निरुपाधि-परम-प्रेमास्पदता-स्वभावे तस्मिन् विरोध-लिङ्गेन मल्लानां कंस-पक्षीय्आसत्-क्षिति-भुजां कंसस्य च प्रतिकूल-ज्ञानत्वं बोध्यते । विराड् अविदुषाम् इति पृथग्-उपादानेन विराट्त्व-ज्ञानिनाम् एव मूढत्वम् । पारिशेष्य-प्रमाणेनान्येषां तु विद्वत्तैव । तत्र विराट्त्वं नाम विराद्-अंशे-भौतिक-देहत्वं यत्-किञ्चिन्-नर-दारकत्वम् इत्य् अर्थः । अतस् तत्र मूढता । ते च भगवद्-याच्ञाम् अश्रद्दधानैर् याज्ञिक-विप्रैः सदृशाः ।

केचित् तद्-अवज्ञातारो न द्वेष्टारो न च प्रीयमाणाः । अत्र तेषां भौतिकत्व-स्फूर्तौ भक्तानां जुगुप्सा जायत इति बीभत्स-रसश् च भगवता पोष्यते । नर-वरत्वे तु तन्-माधुर्य-प्रभावयोर् अंशेनैव नरेषु तस्य श्रेष्ठत्वम् अनुभूतम् इति तद्-अनुभव-सद्-भावात् साधारण-नॄणाम् अपि विद्वत्ता । अत एव च सामान्य-भक्ताः । यथैव तेषां प्रीतिर् वर्णिता ।

निरीक्ष्य ताव् उत्तम-पुरुषौ जना
मञ्च-स्थिता नागर-राष्ट्रका नृप ।
प्रहर्ष-वेगोत्कलितेक्षणाननाः [भा।पु। १०.४३.२०] इत्य्-आदिना ।

एतेषां प्रजात्वेऽपि प्रायस् तदानीम् अजात-ममत्वान् न पाल्यान्तः-प्रवेशः । अथैवं तेषाम् अपि विद्वत्तायाम् अन्येषां सुतराम् एव सा । तत्रापि किम् उत श्री-गोपानां । तथा हि तत्र ने᳡णां सामान्य-भक्तानां योगिनां तल्-लीला-दिदृक्षा-गताकाशादि-स्थित-चतुःसन-प्रभृति-ज्ञानि-भक्तानां च ममत्व-सूचक-पद-विन्यासो न कृतः । तथा—

तद् बलाबलवद् युद्धं समेताः सर्व-योषितः ।
ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥ [भा।पु। १०.४४.६] इत्य्-आदौ,

क्व वज्र-सार-सर्वाङ्गौ [भा।पु। १०.४४.८] इत्य्-आदि-तद्-वाक्योदाहृतानुकम्पामय-परम-प्रीति-विकाराणां नाना-भाव-स्त्रीणां मध्ये स्मरत्वेन विदित-कृष्णानां गोप्यस् तपः किम् अचरन् [भा।पु। १०.४४.१४] इत्य्-आदिक-गिरां स्त्री-विशेषाणां कान्त-भावाख्य-प्रीतेर् लोक-प्रसिद्ध-स्मरेणापि मिश्रत्वेन श्री-व्रज-देवीवच् छुद्धत्वाभावः । तत्-काल-दृष्टत्वेन ममत्वाभावश् चागतश् च । वृष्णि-पितृ-गोपानां तु तत्-तच्-छब्दैर् ममता-विशेषः सूचितः ।

तस्माद् एतेष्व् एव परम-माधुर्यानुभवेषूत्तमत्वं मतम् । तत्र च गोपानां स्वजनो वृष्णीनां पर-देवतेत्य् अनेन श्री-गोपानां बान्धव-भावापादक-माधुर्य-ज्ञानं स्वाभाविकं, वृष्णीनां तु पर-देवताभावापादकैश्वर्य-ज्ञानं स्वाभाविकम् इत्य् अङ्गीकृतम् । सम्बन्धाद् वृष्णयः [भा।पु। ७.१.३०] इति तु तथा गौणस्यापि बन्धु-भावस्य तद्-अनुगतौ स्वतः प्राबल्यापेक्षयोक्तम् ।

किं च, तेषु यथा कंसादयः प्रतिकूल-ज्ञाना वृष्ण्य्-अधमाः, तथैवाविद्वांसः शतधन्व-प्रभृतयः सन्ति । तद्-अपेक्षयैव, न यं विदन्त्य् अमी भूपा एकारामाश् च सात्वताः [भा।पु। १०.८४.२३] इत्य्-आदिकं ज्ञेयम् ।

अत उत्तम-वृष्णितया सामान्यतो लब्धम् ऐश्वर्य-ज्ञानम् उत्तमम् एव श्री-वसुदेव-देवक्योः सम्मतम् । ततस् तत्-संसृष्टत्वेऽपि लीला-विशेषाद् एव पित्रोः शिशुर् इत्य् अनेन माधुर्य-ज्ञानं व्यज्यते । अतो गौणत्वाद् एव—

नातिचित्रम् इदं विप्रा वसुदेवो बुभुत्सया ।
कृष्णं मत्वार्भकं यन् नः पृच्छति श्रेय आत्मनः ॥ [भा।पु। १०.८४.३०] इत्य्-आदौ श्री-नारदेन तन् नानुमोदितम् ।

राज्ञा तु स्वाभाविकत्वात् श्री-व्रजेश्वरयोस् तद्-अनुमोदितम्, नन्दः किम् अकरोद् ब्रह्मन् [भा।पु। १०.८.४६] इत्य्-आदौ । तयोर् ऐश्वर्य-ज्ञानस्य स्वाभाविकत्वं च जन्म-क्षणम् आरभ्य तादृश-स्तुत्य्-आदौ प्रसिद्धम् । अत एव पितराव् उपलब्धार्थौ विदित्वा [भा।पु। १०.४५.१] इत्य् अत्र टीका-कारैर् अपि तयोर् ऐश्वर्य-ज्ञानं सिद्धम् एव, पुत्रतया प्रेम तु दुर्लभम् इत्य् उक्तम् । तथा श्री-गोपानां स्वजनत्वं सामान्यतो निर्दिष्टम् । तच् च वृष्णि-कंसादिवन् न व्रजे क्वचिद् अपि जने व्यभिचरति—

आबाल-वृद्ध-वनिताः सर्वेऽङ्ग पशु-वृत्तयः ।
निर्जग्मुर् गोकुलाद् दीनाः कृष्ण-दर्शन-लालसाः ॥ [भा।पु। १०.१६.१५] इत्य्-आदि-दर्शनात् ।

तद् एवं सति स्वयम् एव गोप-राजे कदाप्य् अव्यभिचारि-वात्सल्ये वैशिष्ट्यम् आयातम् इति तस्यापि शिशुर् इति किं वक्तव्यम् इति भावः ।

॥ १०.४३ ॥ श्री-शुकः ॥ ९९ ॥

[१००]

तद् एवं परम-माधुर्यातिशयानुभव-स्वभावत्वेन परम-ज्ञानित्वम् एव श्री-गोपालानाम् अङ्गीकृतम् । अत एव दृष्ट-चतुर्भुजाद्य्-अनन्त-तद्-आविर्भावेनापि ब्रह्मणा तेषाम् आलम्बनं रूपम् एव निजालम्बनीकृतम्, नौमीड्य तेऽभ्र-वपुषे [भा।पु। १०.१४.१] इत्य्-आदिना । तेषाम् अपि यत्-स्वभावत्वेनैव सकल-प्रीति-जाति-चूडामणि-रूपा परा प्रीतिः स्वभावत एवोदयते । यत्-स्वभावत्वेनैव चागन्तुकाद् अन्य-ज्ञानात् नासौ प्रीतिर् व्यभिचरति, प्रत्युत तद् एव तिरस्करोति । तेनान्तराय-प्राये वर्धते च विषयिणां विषय-प्रीतिर् इव । यतो विषयिणां विषयेषु स-दोषत्वे श्रुते दृष्टेऽपि राग-प्राप्त-गुणवत्त्व-बुद्धिः प्रबला दृश्यते । तथैवोक्तं—या प्रीतिर् अविवेकानां [वि।पु। १.२०.१९] इति । अत्र च श्री-सङ्कर्षणं प्रति श्रीमन्-नन्द-यशोदा-वचनम्—

चिरं नः पाहि दाशार्ह सानुजो जगद्-ईश्वरः ।
इत्य् आरोप्याङ्कम् आलिङ्ग्य नेत्रैः सिषिचतुर् जलैः ॥ [भा।पु। १०.६५.३] इत्य्-आदि ।

येन वसुदेव-पुत्रत्वे क्षत्रियत्वे परमेश्वरत्वे च व्यक्ते श्री-बलदेवस्यापि तत्-पुत्रोचित-भावो नान्यथा जातः । यथा तत्-पूर्वम् उक्तम्—

बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः ।
सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥
परिष्वक्तश् चिरोत्कण्ठैर् गोपैर् गोपीभिर् एव च ।
रामोऽभिवाद्य पितराव् आशीर्भिर् अभिनन्दितः ॥ [भा।पु। १०.६५.१-२] इति ।

परमैश्वर्यादि-ज्ञान-स्वभावानाम् अपि प्रीति-प्राबल्य-समये तत्-तिरस्कारो दृश्यते । यथा श्री-देवहूत्याः—

वनं प्रव्रजिते पत्याव् अपत्य-विरहातुरा ।
ज्ञात-तत्त्वाप्य् अभून् नष्टे वत्से गौर् इव वत्सला ॥ [भा।पु। ३.३३.२१] इति ।

श्री-देवकी-देव्याः—समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीरधीः [भा।पु। १०.३.२९] इति । श्री-युधिष्ठिरस्य—

अजात-शत्रुः पृतनां गोपीयाय मधु-द्विषः ।
परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्ते चतुरङ्गिणीम् ॥ [भा।पु। १.१०.३२]

इयं च तस्य प्रशंसाम् अर्थम् एवोक्तम्—

अथ दूरागतान् शौरिः
कौरवान् विरहातुरान् ।
संनिवर्त्य दृढ-स्निग्धान्
प्रायाद् स्व-नगरीं प्रियैः ॥[भा।पु। १.१०.३३] इत्य् उक्त-वाक्येऽपि तादृग्-अभिप्रायात् ।

तथा श्री-सङ्कर्षणस्य च—

श्रुत्वैतद् भगवान् रामो विपक्षीय-नृपोद्यमम् ।
कृष्णं चैकं गतं हर्तुं कन्यां कलह-शङ्कितः ॥
बलेन महता सार्धं भ्रातृ-स्नेह-परिप्लुतः ।
त्वरितः कुण्डिनं प्रागाद् गजाश्व-रथ-पत्तिभिः ॥ [भा।पु। १०.५३.२०-२१]

भगवान् सर्वज्ञोऽपीत्य् अर्थः । अत एव कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयोऽर्भकाः [भा।पु। १०.११.४९] इत्य्-आदिकम् अपि ।

तद् एवं माधुर्य-ज्ञानस्यैव बलवत्-सुखमयत्वे स्थिते तस्मिंश् च श्री-गोपानाम् एव स्वाभाविकतया लब्धे ब्रह्मत्वेश्वरत्वानुभवम् अतिक्रम्य तेषाम् एव भाग्येन श्री-शुकदेवोऽपि युक्तम् एव चमत्कृतिम् अवाप—इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.१२.११] इत्य्-आदौ, नेमं विरिञ्चो न भवः [भा।पु। १०.९.२०] इत्य्-आदौ, नायं सुखाप इत्य्-आदिकस्य गोपिका-सुत [भा।पु। १०.९.२१] इत्य् अत्र, नायं श्रियोऽङ्ग [भा।पु। १०.४७.६०] इत्य्-आदौ च ।

क्वचिच् च तादृश-स्वभावेषु तेष्व् ऐश्वर्य-प्रकटनम् अपि विस्मय-द्वारा माधुर्य-ज्ञानम् एव पुष्णाति । अस्माकं पुत्रादि रूपोऽयं कथम् ईदृश-क्रियावान् इति । तथा—

नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः ।
कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [भा।पु। १०.२८.१७] इत्य्-आदि ।

तद् एवं शुद्धत्वाच् छ्री-गोकुल-वासिनाम् एव प्रीतिः प्रशस्ता । यथोक्तं, एषां घोष-निवासिनाम् उत भवान् [भा।पु। १०.१४.३५] इति । यत्रैव पशूनाम् अपि परमः स्नेहो दृश्यते । यथा काली-ह्रदावगाहे—

गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः ।
कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे ॥ [भा।पु। १०.१६.११] इति ।

तथा तत उत्थाने, नरा गावो वृषा वत्सा लेभिरे परमां मुदाम् [भा।पु। १०.१७.१६] इति । तथा स्थावराणाम् अपि तत्रैव कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि [भा।पु। १०.१७.१५] इति।

अत एव श्री-ब्रह्मणापि प्रार्थितम्—

तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां
यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् । [भा।पु। १०.१४.३४] इति ।

तद् एवं परम-माधुर्यैक-ज्ञान-निधौ श्रीमति गोकुलेऽपि अनुगता बान्धवाश् चेति द्विविधानां तत्-प्रियाणां मध्ये ममता-विशेष-धारित्वाद् अन्त्यानां महान् एवोत्कर्षः । यथोक्तं—अहो भाग्यम् अहो भाग्यम् [भा।पु। १०.१४.३२] इत्य्-आदिना । अत्र व्रजौकसां कनिष्ठेष्व् अपि तेन मित्रतया स्वीकार इति यद् उच्यते तत् खलु मित्रतायाः प्रशंसाम् एवावहतीति ।

अथ तेष्व् अपि सखीनां तावद् उत्कर्षम् आह—

इत्थं सतां ब्रह्म-सुखानुभूत्या
दास्यं गतानां पर-दैवतेन ।
मायाश्रितानां नर-दारकेण
साकं विजह्रुः कृत-पुण्य-पुञ्जाः ॥ [भा।पु। १०.१२.११]****

सतां ज्ञानिनां ब्रह्मत्वेन स्फुरंस् तावद् विरल-प्रचारः । दास्यं गतानां

मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [भा।पु। ६.१४.३-५]

इत्य् अनुसारेण पर-दैवत्वेन स्फुरंस् ततोऽपि विरल-प्रचारः । मायाश्रितानां तु ज्ञान-भक्ति-मैत्री-हीनानां चिद्-एक-रूपत्वेन न स्फुरति, न च परमेश्वरत्वेन, न च प्रेमास्पदत्वेन ततस् तदीयासाधारणता-स्फूर्तौ योग्यताश्रयाभावात् । अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् [गीता ९.११] इति न्यायेन अलभ्य एवेति पाद-त्रयेण तस्योदय-मात्र-दौर्लभ्यं विवक्षितम् ।

ततश् चैवम्भूतो योऽसुलभ-स्फूर्तिः श्री-कृष्णः, तेन समं साक्षाद् एव प्रेम-भूमिकोत्कर्षम् अधिरूढेन परम-सख्येनापि विजह्रुर् इति श्री-शुकदेवस्य चमत्कारः ।

अथवा, योऽयम् अहो तदानीं विषूचीनया कृपया मायाश्रितानां साधारण-जनानाम् अपि दर्शित-सर्वाकारातिक्रमि-माहात्म्येन साक्षान् नराकृति-पर-ब्रह्मत्वेन स्फुरंस् ततोऽपि तथा तथा लब्धे लाभे बन्धु-भावस् तु तैर् न लब्धः । सोऽयं महोत्कर्षः । ततश् चैवम् उत्कृष्टतरे उत्कृष्टतमेऽपि तथा तथा लब्धे लाभे बन्धु-भावस् तु तैर् न लब्धः । 39

सखायस् तु तथा-भूतेन तेन सार्धं बन्धु-भावोत्कर्ष-रूपेण सख्येन विजह्रुर् इत्य् अतस् त एव कृत-पुण्य-पुञ्जाः श्री-भगवत्-पारितोषिकानेक-सत्-कर्म-कारि-वृन्देषु परम-श्रेष्ठा इत्य् अर्थः । अत एव बान्धवान्तरेषु नेदृशं सख्यम् अस्तीति तेभ्योऽपि माहात्म्यम् आयातम् ।

अत एव किम् एषां सखीनां साक्षात् तेन समं प्रणय-लक्षण-हार्द-विशेषेण विहरतां भाग्यं वर्णनीयम् ? ये साधारणा अपि व्रज-वासिनस् तेषाम् अप्य् आस्तां तत् तद् अन्यद् भाग्यम् । तद्-दर्शन-मात्र-भाग्यम् अपि परेषां महा-मुनीनां परम-दुर्लभम् एवेत्य् अभिप्रायेण यत्-पादांशुर् बहु-जन्म-कृच्छ्रत [भा।पु। १०.१२.१२] इत्य् अनन्तर-पद्यम् अपि व्याकृत्यैतद् एव सखीनां महा-भाग्य-वर्णनं पोषणीयम् । अत एवाक्रूरेण अथावरूढः [भा।पु। १०.३८.१५] इत्य् अत्र नमस्य आभ्यां च सखीन् वनौकस इति चोक्तम् ।

तद् एतत् तावद् अस्तु येषु सखिषु वत्सेष्व् अपि ब्रह्मणा हृतेषु अन्यान् सृज्यांस् तत् तुल्यान् अदृष्ट्वा स्वयम् एवैतत् तया40 बभूव । तेष्व् अपि परितोषम् अप्राप्य तान् सखीन् एवानिनायेत्य् अप्य् अनुसन्धेयम् ।

॥ १०.१२ ॥ श्री-शुकः ॥ १०० ॥

[१०१]

अथ तेभ्योऽपि श्री-पित्रोर् उक्तं—

ततो भक्तिर् भगवति पुत्री-भूते जनार्दने ।
दम्पत्योर् नितराम् आसीद् गोप-गोपीषु भारत ॥ [भा।पु। १०.८.५१] इत्य् अनेन ।

भक्तिः प्रेम । नितरां स्नेह-राग-पराकाष्ठाध्यारूढत्वात् । गोपाः सर्वे । गोप्यस् तत्-प्रेयसी-वर्ग-वनिताः । वक्ष्यमाणानुरोधात् ।

अथ सर्वेभ्योऽपि मुनि-गण-प्रशस्तत्या सर्वतोऽपि प्रेम-प्रणय-मान-राग-वैशिष्ट्य-पुष्टया विशेषतोऽनुराग-महाभाव-सम्पत्ति-धारिण्या स्व-प्रीत्या वशीकृत-कृष्णानां श्री-व्रज-देवीनां त्व् असमोर्ध्वम् एव तद्-वैभवम् । एतत्-क्रमेणैवोद्धवस्याप्य् अनुज्ञापन-क्रमो दृश्यते । यथा—

अथ गोपीर् अनुज्ञाप्य यशोदां नन्दम् एव च ।
गोपान् आमन्त्र्य दाशार्हो यास्यन्न् आरुरुहे रथम् ॥ [१०.४७.६४] स्पष्टम् ।

॥ १०.४७ ॥ श्री-शुकः ॥ १०१ ॥

[१०२]

अत एव सर्वम् अपि श्री-गोकुलम् अतिक्रम्य,

दृष्ट्वैवम्-आदि गोपीनां कृष्णावेशात्म-विक्लवम् ।
उद्धवः परम-प्रीतस् ता नमस्यन्न् इदं जगौ ॥
एताः परं तनु-भृतो भुवि गोप-वध्वो
गोविन्द एव निखिलात्मनि रूढ-भावाः ।
वाञ्छन्ति यद् भव-भियो मुनयो वयं च
किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥

परं केवलम् एतास् तनु-भृतः सफल-जन्मानः । अतोऽखिलात्मनि परमात्मत्वेन सर्वेषाम् अपि दुर्लभ-स्फूर्ति-मात्रे स्व-सन्निधौ तु गोविन्दे साक्षात् श्री-गोकुलेन्द्रतया विराजमाने एवम् ईदृश-भाव-विशेष-माधुर्येण रूढ-भावाः, उद्भूत-महा-भावा जाताः । यद् एव महाभाव-पर्यान्त-गति-समर्थं41 भाव-विशेष-माधुर्यं यदि यदृच्छया वर्णन-द्वारा कर्ण-गोचरं स्यात्, तदा स्व-स्वभावं परित्यज्य, यद् अयं भावं प्रेम्णः पराकाष्ठेयम् इत्य् अनुभाव-महिम-द्वारा वितर्क्य, भव-भियो मुमुक्षवो मुनयो प्राप्नुमः । एतासाम् इवास्माकं तन्-माधुर्य-विशेषास्वाद-योग्यत्वाभावाद् इति भावः । तत्र तद्-अवाञ्छकं निन्दति—अनन्तस्य अनन्त-लीलस्य श्री-कृष्णस्य कथासु कथा-मात्रेषु, किम् उत ईदृशीषु कथासु अरसो रसाभावो यस्य, तस्यासाङ्ख्यैर् विरिञ्च-जन्मभिर् अपि किम्, न किञ्चिद् अपीत्य् अर्थः ॥५८॥

[१०३]

ननु ते मुक्ता मुमुक्षवश् च तत्-तद्-भावेन शास्त्र-प्रशस्ता एव । भक्तास् त्व् अतितमाम् । तर्हि तद्-विधानां कथम् अन्यत्र वाञ्छा । तत्राह—

क्वेमाः स्त्रियो वन-चरीर् व्यभिचार-दुष्टाः
कृष्णे क्व चैष परमात्मनि रूढ-भावः ।
नन्व् ईश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच्
छ्रेयस् तनोत्य् अगद-राज इवोपयुक्तः ॥ [भा।पु। १०.४७.५९]****

तत्र तासु श्रीमद्-उद्धवस्योपक्रमोपसंहारादिषु महा-भक्तेर् एव स्पष्टत्वात्, तासां श्र्१ई-कृष्ण-भजने व्यभिचारित्वस्य सुतरां, तद्-दोषस्य च रासान्ते—

गोपीनां तत्-पतीनां च सर्वेषाम् अपि देहिनाम् ।
योऽन्तश् चरति सोऽध्यक्षः क्रीडनेनेह देह-भाक् ॥ [भा।पु। १०.३३.३५]

इत्य्-आदिना निराकृतत्वात् । स्वयम् एवाधुनापि परमात्मनीति तस्यैव सूच्यमानत्वात् । दुर्धियां मते वा तासां व्यभिचार-शीलत्वस्य तु आर्य-पथं हित्वा [भा।पु। १०.४७.६१] इति प्राप्यस्यैव परित्यागोपपत्तेः स्वयम् एव निराक्रियमाणत्वाद् अन्यथार्थस्याप्रस्ताव्यत्वम् इति वक्ष्यमाण एवार्थः समञ्जसः । यथा—इमा वनचर्यः वृन्दावन-विहारिण्यः स्त्रियः कृष्णे तद्-रूपे आश्रये क्व कां वा भूमिकाम् अधिकृत्य वर्तन्ते । तया व्यभिचार-दुष्टा एतादृश-भावोत्कर्षाभावेन यो व्यभिचारो गाढ-तद्-आसक्त्य्-अभावस् तेन दुष्टा अन्ये भव-भी-प्रभृतयो वयं वा तस्मिन् क्व कां भूमिकाम् अधिकृत्य वर्तामहे । ततो महद् एवान्तरम् इति भावः । कथम् ? एष श्री-गोप-वधूष्व् एतासु दृश्यमानः परमात्मनि सर्वेषाम् एव भजनीयत्वेन स्पृहास्पदे परमेश्वरे रूढ-भावः उद्भूत-महा-भावः समुज्जृम्भते, न त्व् अस्मास्व् इति ।

तर्हि ताभिर् अनुभूयमानस्य तादृश-भाव-जनकस्य श्री-कृष्ण-गुण-विशेषस्यानभिज्ञा यूयं कथं तद्-वाञ्छयापि तत् प्राप्स्यथ, तत्राह नन्व् इति । अविदुञोऽपि । तत्र ममैव अकस्मात् स्वयम् अत्र प्रस्थापितस्य दृष्टान्तत्वम् इति भावः। यथोक्तं स्वयम् एव—विरहेण महाभागा महान् मेऽनुग्रहः कृतः [भा।पु। १०.४७.२७] इति ।

अथवा—पूर्वम् एवार्थं तद्-रस-विमुखीनां महा-पतिव्रतानाम् अपि निन्दया द्रढत्यति—क्वेमा इति । इमाः श्री-वृन्दावन-विहारिण्यः श्री-कृष्ण-प्रेयस्यः स्त्रियः क्व? अ-कार-प्रश्लेषेण याश् च वन-चर्यस् तद्-वन-विहारिणीभ्यस् ताभ्यो भिन्नाः । अथ च स्त्रियो व्रतैस् त्वाम् [भा।पु। ५.१८.१९] इत्य्-आदि केतुमाल-वर्ष-वर्णन-स्थित-लक्ष्मी-वचन-रीत्या परमात्मनि स्वतः सर्व-पतौ श्री-कृष्णे वैमुख्येन व्यभिचार-दुष्टाः स्त्रियः क्व ? महद् एवान्तरम् इति भावः । यतश् चैतास्व् एष सर्व-पुरुषार्थ-शिरोमणि-रूपो रूढ-भावो दृश्यते, न तु तास्व् इव तल्-लेशस्याप्य् अभाव इति । एवं परम-प्रेमवतीष्व् आसु तस्य सौहृदम् अपि परम-काष्ठापन्नं भवेत् । यतो भक्त-मात्राणां स्वभावत एव सुहृद् असाव् इत्य् आह—नन्व् इति ।

[१०४]

किं बहुना—

नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः
स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽन्याः ।
रासोत्सवेऽस्य भुज-दण्ड-गृहीत-कण्ठ-
लब्धाशिषां य उदगाद् व्रज-सुन्दरीणाम् ॥ [भा।पु। १०.४७.६०]****

अङ्गे तदीये श्री-वैकुण्ठ-नाथाख्य-श्री-विग्रह-विशेषे परम-प्रेयसी-रूपायाः श्रियो या नितान्त-रतिः प्रगाढः कान्त-भावः, तस्या अपि अयं एतावान् प्रसादः सौख्य-प्रकाशो नास्ति । यदि श्रियोऽपि नास्ति, तदा नलिनस्य तत्रत्य-दिव्य-स्वर्ण-कमलस्येव गन्धो रूक् कान्तिश् च यासां, तादृशीनाम् अपि स्वर्-योषितां वैकुण्ठ-पुराङ्गनानाम्, अन्यासां सुतराम् एव नास्ति । ततः कुतोऽन्याः ? अन्याः पुनर् दूरतोऽपि निरस्ता इत्य् अर्थः।

कासाम् इव कियान् प्रसादो नास्ति, तत्राह—रासेति । अस्य श्री-व्रजेन्द्र-नन्दन-रूपस्य । यद्-वाञ्छया श्रीर् ललनाचरत् तपः [भा।पु। १०.१६.३६] इत्य्-उक्त-दिशा तस्या अपि स्पृहणीयस्य इत्य् अर्थः। ततो न केवलं विप्रलम्भ एवासाम् ईदृशो भावोत्कर्षः, परन्तु सम्भोगेऽपि लक्ष्म्या अपि स्पृहणीयाः । तेन मद्-विधानां का वार्ता ? इति भावः । भुज-दण्ड-गृहीत-कण्ठ-लब्धाशिषां परमावेशेन गृहीत-कण्ठतया प्राप्त-परम-मनोरथानां रासोत्सवे यः यावान् उदगात् सततं निगूढमन्तः सन्न् अपि प्राकट्यं प्रापेति । अपि यत् स्पृहा श्रीः [भा।पु। १०.१५.८] इत्य् अत्र लक्ष्मी-स्पर्धामय-वाक्ये व्रज-सुन्दरीणाम् इति सुन्दरी-पद-विन्यासः सौन्दर्यादिकम् अपि तासां तद्वद् अधिकम् इति सूचयति । तच् च युक्तं, यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा।पु। ५.१८.१२] इति न्यायेन तद्-उत्कर्षत उत्कर्ष-प्राप्तेः ।

अत्र सर्व-भाव-शिरोमणिना कान्त-भावांशेनैवोभयत्र तारतम्यं दर्शितम् । न तु, न च सङ्कर्षणो न श्रीः [भा।पु। ११.१४.१५] इत्य्-आदाव् इव भक्ति-जायात्वांशाभ्याम् । ततो नान्येन साधारण्यं मन्तव्यम् । श्री-कृष्ण-लक्षण-स्वयं-भगवद्-विषयतया विशेषान्तरं त्व् अस्त्य् एवेति ज्ञेयम् ।

[१०५]

तस्माद् आस्तां तावद् आसां भाव-च्छवि-लाभाभिलाषः । मम त्व् इदम् एव प्रार्थनीयम् इत्य् आह—

आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां
वृन्दावने किम् अपि गुल्म-लतौषधीनाम् ।
या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा
भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ॥ [भा।पु। १०.४७.६१]****

तस्माद् आस्तां तावद् आसां भाव-च्छवि-लाभाभिलाषः । मम त्व् इदम् एव प्रार्थनीयम् इत्य् आह—आसाम् इति । अयम् अर्थः—मय्य् आसां श्री-कृष्ण-प्रेम-विशेष-च्छवि-स्पर्शोऽपि न सम्भवत्य् एव, विजातीय-जन्म-वासनत्वात् । ततश् च साक्षाच्-चरण-स्पर्शोऽपि नेति किं वक्तव्यम् । यद्य् एवं, तदा आसां चरणस्य यो रेणुस् तस्य स्पर्श-भाग-धेयानां श्री-गुल्म-लतौषधीनां मध्ये किम् अपि यत् किञ्चिद् अनादृत-रूपम् इति स्याम् इति । अहो इत्य् अभिलाष-कृत-हृदयार्तौ ।

कथं-भूतानां ? इत्य् आह—या इति । याः खलु कुल-वधूत्वाद् आपात-विचारेण स्वयं दुस्त्यजं स्वजनम् आर्य-पथं च हित्वा रागातिशयेन लोक-वेद-मर्यादाम् उल्लङ्घ्येत्य् अर्थः । वस्तुतस् तु श्रुतिभिर् विमृग्यां सर्व-श्रुति-समन्वयेन परम-पुरुषार्थ-शिरोमणितया निर्णेयाम् ईदृश-परम-प्रेम-लक्षणां मुकुन्दस्य प्रस्तुतत्वात् श्री-व्रजेन्द्र-नन्दन-रूपस्य पदवीं तदीय-संयोगानन्द-पद्धतिं भेजुर् इति । तद् एवम् “आर्य-पथं त्यजाम” इति तु तासां भ्रम एवेति भावः ॥

[१०६]

य एव तत्-संयोगानन्दः श्री-प्रभृतीनां परम-दुर्लभ एवेति स्वयम् एव व्यनक्ति—

या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर्
योगेश्वरैर् अपि यद् आत्मनि रास-गोष्ठ्याम् ।
कृष्णस्य तद् भगवतश् चरणारविन्दं
न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ [भा।पु। १०.४७.६२]****

या रास-गोष्ठ्यां विराजमानस्य श्री-कृष्णस्य भगवतः परम-माधुर्य-सार-भगवत्ता-प्रकाशिनस् तद्-अनिर्वचनीय-माधुर्यैक-प्रकृष्टं पदारविन्दं न्यस्तं, तेन स्वयम् अर्पितं परिरभ्य तापं साक्षात् तद्-अप्राप्ति-हेतुकम् आधिं जहुः । तत् तु योगेश्वरैर् भक्ति-योग-प्रवीणैः श्री-शुकादिभिर् अपि आत्मनि मनस्य् एव अर्चितम् । यद्-वाञ्छया श्रीर् ललनाचरत् तपः [भा।पु। १०.१६.३६] इत्य्-उक्त-दिशा श्रियापि यत् प्राप्तुं मनस्य् एवार्चितम् । तच् च सदैवानादित एव, न तु कदाचिद् अपि साक्षात् प्राप्तम्। तद्-अश्रवणाद् इति भावः ॥

[१०७]

एवं तासाम् एव साक्षान् नमस्कारे कृत-चित्ततया तथा-विधं गायन्न् एवासौ पुनर् अपि महा-महिम-स्फूर्तेर् अतिदैन्य-भर-सङ्कुचिततया तत्राप्य् आत्मनोऽनधिकारितां मन्यमानस् तत्-पाद-रेणुम् एव नमस्कुर्वन् तत्रापि दैन्येन तद्-एक-वर्ग-सम्बन्धात् साधारण-व्रज-स्त्रीणाम् एव नमस्करोति—

वन्दे नन्द-व्रज-स्त्रीणां
पाद-रेणुम् अभीक्ष्णशः ।
यासां हरि-कथोद्गीतं
पुनाति भुवन-त्रयम् ॥ [भा।पु। १०.४७.६३]****

उत्तरार्धेन तादृशीनाम् अप्य् आसां साक्षाद् एव पाद-रेणुं वन्दे, तद् एतद् अप्य् अहो अस्माकं भाग्यम् अस्तीत्य् एतद् अपि महद् अद्भुतम् इति भावः । अत्रैतद् उक्तं भवति—

एते हि यादवाः सर्वे मद्-गणा एव भामिनि । [प।पु। ६.८९.२२]
सर्वदा मत्-प्रिया देवि मत्-तुल्य-गुण-शालिनः ॥

इति पाद्म-कार्तिक-माहात्म्य-दृष्ट-श्री-भगवद्-वाक्यानुसारेण शय्यासनाटनालाप- [भा।पु। १०.९०.४६] इत्य्-आद्य्-अनुसारेण च यादवा एव तावत् स्वयं भगवतः श्री-कृष्ण-देवस्य परम-प्रेष्ठाः । अतः प्रादुर्भावान्तर-भक्तास् तु स्वतो दूरत एव स्थिताः ।

अथ भक्तान्तरेषु यादवेष्व् अपि त्वं तु भागवतेष्व् अहम् [भा।पु। ११.१६.२९], त्वं मे भृत्यः सुहृत् सखा [भा।पु। ११.११.४९], नोद्धवोऽण्व् अपि मन्-न्यूनः [भा।पु। ३.४.३१], न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् [भा।पु। ११.१४.१५] इत्य्-आदिकासकृच्-छ्री-कृष्ण-वाक्यानुसारात् भक्त्य्-अंशेन तु सर्वतोऽप्य् उद्धव एव श्रेयान्, तस्य तु श्री-व्रज-देवीष्व् एवैवं दैन्य-वचनं, न जातु महिषीष्व् अपीति जातान्धस्यापि चाक्षुषम् एवेदं तासां यशो-राका-चन्द्रमः-सौन्दर्यम् इति ॥

॥ १०.४७ ॥ श्री-उद्धवः ॥ १०२-१०७ ॥

[१०८]

तत्र स्वेभ्यः षोडश-सहस्र-सङ्ख्याभ्यः श्री-यदु-देवस्य पत्नीभ्यस् तथाष्टभ्यः पट्ट-महीषिभ्यश् च तासां माहात्म्यं वदन्त्यः परम-काष्ठापन्नतया श्री-राधिका-देव्या आहुः—

न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यम् अप्य् उत ।
वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥
कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः ।
कुच-कुङ्कुम-गन्धाढ्यं मूर्ध्ना वोढुं गदा-भृतः ॥
व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः ।
गावश् चारयतो गोपाः पाद-स्पर्शं महात्मनः ॥ [भा।पु। १०.८३.४१-४३]

हे साध्वि ! साम्राज्यादिकं न कामयामहे । तत्र साम्राज्यं सार्वभौमं पदम् । स्वाराज्यं ऐन्द्रं पदम् । भौज्यं तद्-उभय-भोग-भाक्त्वम्, भुनक्तीति भुक् तस्य भाव इति । विविधं राजत इति विराट्, तस्य भावो वैराज्यम्, अणिमादि-सिद्धि-भाक्त्वम् इत्य् अर्थः । पारमेष्ठ्यं ब्रह्म-पदम् । आनन्त्यं,42 ये ते शतम् [तै।उ। २.८.२] इत्य्-आदि-श्रुति-रीत्या मनुष्यानन्दम् आरभ्य शत-शत-गुणितत्वेन प्राजापत्यस्य गणनायाः परां काष्ठां दर्शयित्वा, पर-ब्रह्मणि तु यतो वाचो निवर्तन्ते [तै।उ। २.४.१] इत्य् अनेन यद् आनन्दस्यानन्त्यं दर्शितं, तद् अपीत्य् अर्थः । किं बहुना, हरेः श्री-पतेः पदं सामीप्यादिकम् अपि यत्, तद् एतद् अपि न कामयामहे, नाधीनं कर्तुम् इच्छाम इत्य् अर्थः ।

तर्हि किम् अधिकं लब्धुं कामयध्वे ? तत्राहुः—एतस्य अस्मत्-पतित्वेन सर्व-विज्ञातस्य गदा-भृतः श्रीमत्-पाद-रज एव तावन् मूर्ध्ना वोढुं कामयामहे । तत्रापि यत् श्रियः कुच-कुङ्कुम-गन्धेन आढ्यं तद्-गन्धेन प्राप्त-सम्पद्-विशेषं तत् पुनर् अधिकं कामयामह इत्य् अर्थः ।

ननु, श्रीपतेर् एव पदं श्री-कुङ्कुम-गन्धाढ्यं तत्-सामीप्यादि-त्यागात् तत् तु भवत्यस् त्यक्तवत्य एव । यदि च श्रीर् अत्र रुक्मिण्य् अभिप्रेयते, तर्हि तत् तु भवतीनां प्राप्तम् एव । तस्मात् तत्-तद्-विलक्षणाया एव श्रियः कुच-कुङ्कुम-गन्धाढ्यम् तत् स्याद् इति गम्यते । ततस् तद्-अवबोधनाय पुनर् विशिष्यताम् । तत्राहुः—व्रज-स्त्रिय इति । पूर्णाः पुलिन्द्य उरुगाय [भा।पु। १०.२१.१७] इत्य्-आदि-स्व-वाक्याद्य्-अनुसारेण व्रज-स्त्र्य्-आदयो यद् वाञ्छन्ति ववाञ्छुर् इत्य् अर्थः । वर्तमान-प्रयोगेण तत्-तद्-अविच्छेद उत्प्रेक्ष्यते ।

अत्र पुलिन्द्य्-आदि-निर्देशस् तु स्वेषाम् अपि तत्-प्राप्ति-योग्यता-विवक्षया । तृण-वीरुधो दूर्वाद्याः । आसां तादृग्-अनुभवश् च तत्-कुच-कुङ्कुम-सौरभ-वासितत्वाविच्छिन्न-तत्-पाद-प्रभावाद् एवेति भावः । गावो गाः । चारयतश् चारयन्तः । गोपा इत्य् अन्ते निर्देशस् तु केषाञ्चित् प्रिय-नर्म-सखादीनां तद्-अनुमोदन-कारित्वेऽपि पुरुषत्वात् तत्रायोग्यता-विवक्षया ।

अयं भावः—श्रीत्वेन प्रसिद्धायाः श्रियस् तत्र कामनैव श्रूयते, न तु सङ्गतिः । यद्-वाञ्छया श्रीर् [भा।पु। १०.१६.३६] इति नाग-पत्नीनां, या वै श्रियार्चितम् [भा।पु। १०.४७.६२] इत्य् उद्धवस्याप्य् उक्तेः ।

न च रुक्मिणीत्वेन प्रसिद्धायाः श्रियस् तत्र सङ्गतिः, काल-देशयोर् अन्यतमत्वात् । न च व्रज-स्त्रीणां श्री-सम्बन्ध-लालसा युक्ता—नायं श्रियोऽङ्ग [भा।पु। १०.४७.६०] इत्य्-आदिना ततोऽपि परमाधिक्य-श्रवणात् । तस्माद् रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने [म।पु। १३.३८] इति मात्स्यानुसारेण रुक्मिण्या सह पठिता । शास्त्र-दृष्ट्या तूपदेशो वाम-देववत् [वे।सू। १.१.३०] इति न्याय-रीत्या महेन्द्रेण परमेश्वर इव दुर्गयाप्य् अहङ्ग्रहोपासना-शास्त्र-दृष्ट्या स्वाभेदेनोपदिष्टा । श्री-राधा तु सर्वतः पूर्णा तल्-लक्ष्मीः ।

तथा देवी कृष्णमयी प्रोक्ता राधिका इत्य्-आदि-बृहद्-गौतमीयानुसारेण, राधया माधवो देवो माधवेनैव राधिका इत्य्-आदि-ऋक्-परिशिष्टानुसारेण च तासु राधात्वेन प्रसिद्धा सर्वतो विलक्षणा या श्रीर् विराजते, ताम् उद्दिश्यैव तासां तद् इदं वाक्यम् । यथा च—अनयाराधितो नूनं भगवान् [भा।पु। १०.३०.२८] इत्य्-आदि, अप्य् एणपत्न्य्-उपगत [भा।पु। १०.३०.११] इत्य्-आदि-द्वयं च । ततश् च तासां यथा तत्र स्पृहा-स्पन्दता, तथास्माकं चेति ।

तद् एवं तादृश-प्रेम-स्फूर्तिमय-तद्-गन्धाढ्यतायाः सम्प्रत्य् अप्य् अस्मासु प्रकाशः स्याद् इति दर्शितम् । न केवलं तादृशं तद्-रज एव वाञ्छन्ति, अपि तु तादृश-पाद-स्पर्शं च । अतो वयम् अपि तं कामयामह इत्य् अर्थः । यद् वा, तद्-रजस एव विशेषणं पाद-स्पर्शम् इति। तद्-अव्यभिचारि-फलत्वाद् अभिन्नम् एवेत्य् अर्थः ।

एतस्य तत्र कीदृशस्य ? महान् सर्वत्रत्याद् अपि स्वभावाद् उत्तम आत्मा सौन्दर्यादि-प्रकाश-मयः स्वभावो यस्य तादृशस्य तत्रातिशुशुभे ताभिर् भगवान् [भा।पु। १०.३३.६] इति श्री-शुकोक्तेः ॥

॥ १०.८३ ॥ श्री-महिष्यो द्रौपदीम् ॥ १०८ ॥

[१०९]

अथ तत्रैव श्री-राधा-देव्याः, आदि-पुराणे—

त्रैलोक्ये पृथिवी धन्या तत्र वृन्दावनं पुनः ।
तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम ॥ इति ।

पाद्मे कार्त्तिक-माहात्म्ये—

यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा ।
सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ इति ।

अत एव तस्या एव प्रेमाधिक्यं वर्णितम् आग्नेये वासना-भाष्योद्धृतं वचनम्—

गोप्यः पप्रच्छुर् उषसि कृष्णानुचरम् उद्धवम् ।
हरि-लीला-विहारांश् च तत्रैकां राधिकां विना ।
राधा तद्-भाव-संलीना वासनाया विरामिता ॥ इति ।

नवमावस्था-प्राप्तत्वेन प्रश्नादि-वासनाया विरामिता तस्याम् असमर्थ्येत्य् अर्थः । तस्माद् अनेन सर्व-व्रज-देवीष्व् अपि श्रैष्ठ्यादि-चिह्नेन श्री-रास-विहारे ताभिर् एव स्वयं कस्याः पदानि [भा।पु। १०.३०.२७] इत्य्-आदिना वर्णित-सौभाग्यातिशया श्री-राधिकैव भवेत् । अतस् तन्-नाम्नैव ताः सूचयामासुः—

अनयाराधितो नूनं भगवान् हरिर् ईश्वरः ।
यन् नो विहाय गोविन्दः प्रीतोऽयम् अनयद् रहः ॥ [भा।पु। १०.३०.२८]****

अनया राधया भगवान् राधितः साधितो वशीकृत इत्य् अर्थः । नूनम् इति वितर्के । यतश् च राधयतीति निरुक्त्या तस्या राधेति संज्ञापि जातेति भावः । राधितत्वे हेतुः—यन् न इति । गोविन्दः श्री-गोकुलेन्द्रः ॥

॥ १०.३० ॥ श्री-व्रज-देव्यः ॥ १०९ ॥

[११०]

तद् एवं तथाभूत-श्री-भगवत्-प्रीति-माधुरीषु श्री-राधायास् तन्-माधुरी-सर्वोर्ध्वम् अधिरूढेत्य् एतावत् तत्-परावस्था-स्थापना-पर्यन्तेन सन्दर्भेण तत्-प्रीति-जाति-तारतम्यं दर्शितम् ।

एषा च तत्-प्रीतिर् लौकिक-काव्य-विदां रत्य्-आदिवत् कारण-कार्य-सहायैर् मिलित्वा रसावस्थाम् आप्नुवती स्वयं स्थायी भाव उच्यते । कारणाद्याश् च क्रमेण विभावानुभाव-व्यभिचारिण उच्यन्ते । तत्र तस्या भाव प्रीति-रूपत्वाद् एव । स्थायित्वं च—

विरुद्धैर् अविरुद्धैर् वा भावैर् विच्छिद्यते न यः ।
आत्म-भावं नयत्य् अन्यान् स स्थायी लवणाकरः ॥ [दश-रूपक ४.३४] इति रस-शास्त्रीय-लक्षण-व्याप्तेः ।

अन्येषां विभावत्वादिकं च तद्-विभावनादि-गुणेन दर्शयिष्यमाणत्वात् । ततः कारणादि-स्फूर्ति-विशेष-व्यक्त-स्फूर्ति-विशेषा तन् मिलिता भगवत्-प्रीतिस् तदीय-प्रीतिमय-रस उच्यते । भक्तिमयो रसो भक्ति-रस इति च । यथाहुः—भावा एवाभिसम्पन्नाः प्रयान्ति रस-रूपताम् इति।

यत् तु प्राकृत-रसिकै रस-सामग्री-विरहाद् भक्तौ रसत्वं नेष्टं, तत् खलु प्राकृत-देवादि-विषयम् एव सम्भवेत् । सामग्री हि रसत्वापत्तौ त्रिविधा । स्वरूप-योग्यता, परिकर-योग्यता, पुरुष-योग्यता च । तत्र लौकिकेऽपि रसे रत्य्-आदेः स्थायिनः स्वरूप-योग्यता । स्थायि-भाव-रूपत्वात् सुख-तादात्म्याङ्गीकाराद् एव च । भगवत्-प्रीतौ तु स्थायि-भावत्वं तद्-विधाशेष-सुख-तरङ्गार्णव-ब्रह्म-सुखाद् अधिकतमत्वं च प्रतिपादितम् एव ।

तथा तत्र कारणादयस् तत्-परिकराश् च लौकिकत्वाद् विभावनादिषु स्वतोऽक्षमाः । किन्तु सत्-कवि-निबन्ध-चातुर्याद् एवालौकिकत्वम् आपन्नास् तत्र योग्या भवन्ति । तत्र तु ते स्वत एवालौकिकाद्भुत-रूपत्वेन दर्शिता दर्शनीयाश् च ।

पुरुष-योग्यता च श्री-प्रह्लादादीनाम् इव तादृश-वासना । तां विना च लौकिक-काव्येनापि तन्-निष्पत्तिं न मन्यते । यथोक्तम्—पुण्यवन्तः प्रमिण्वन्ति योगिवद् रस-सन्ततिम् ॥ [सा।द। ३.२] इति । न जायते तद्-आस्वादो विना रत्य्-आदि-वासनाम् ॥ [सा।द। ३.८] इति च ।

लौकिक-रसस्योत्पत्तिः स्वरूपम् आस्वाद-प्रकारश् चैवम् एवोच्यते । यथा—

सत्त्वोद्रेकाद् अखण्ड-स्वप्रकाशानन्द-चिन्-मयः ।
वेद्यान्तर-स्पर्श-शून्यो ब्रह्मास्वाद-सहोदरः ॥
लोकोत्तर-चमत्कार-प्राणः कैश्चित् प्रमातृभिः ।
स्वाकारवद् अभिन्नत्वेनायम् आस्वाद्यते रसः ॥ [सा।द। ३.२] इति ।

अत्र तु अप्राकृत-विशुद्ध-सत्त्व-हेतुत्वं सत्त्वं विशुद्धं वसुदेव-शब्दितम् [भा।पु। ४.३.२३] इत्य्-आदेः । दर्शितं चास्य सत्त्वस्याप्राकृतत्वं भगवत्-सन्दर्भे (८) । तथा ब्रह्मास्वादाद् अप्य् अधिकत्वं या निर्वृतिस् तनु-भृतां [भा।पु। ४.९.१०] इत्य्-आदेः । नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादम् [भा।पु। ३.१५.४८] इत्य्-आदेश् च । ततश् चमत्कारश् च सुतराम् एव । विस्मापनं स्वस्य च सौभग-र्द्धेः [भा।पु। ३.२.१२] इत्य्-आदेः ।

किं चालौकिक-रस-विदां प्राचीनानाम् अपि मतानुसारेण सिध्यत्य् असौ रसः । तत्र सामान्यतः श्री-भगवन्-नाम-कौमुदी-कारैर् दर्शितः । तस्य विशेषतस् तु शान्तादिषु पञ्चसु भेदेषु वक्तव्येषु श्री-स्वामि-चरणैर् मल्लानाम् अशनिर् [भा।पु। १०.४३.१७] इत्य्-आदौ ते पञ्चैव दर्शिताः । स्त्रीणां शृङ्गारः । सम-वयसां गोपानां हास्य-शब्द-सूचित-नर्म-मय-सख्य-स्थायी सख्य-मयः प्रेयान् । ततस् तन्-मते गोपानां श्रीदामादीनाम् इत्य् एवार्थः । पित्रोर् दयापर-पर्याय-वात्सल्य-स्थायी वत्सलः । योगिनां ज्ञान-भक्ति-मयः शान्तः । वृष्णीनां भक्तिमय इति । तथा सामान्य-प्रीति-मय-रसश् च नॄणां दर्शितः । तत्राद्भुतत्व-निर्देशश् च सर्वस्यैव रसस्य तत्-प्राणत्वात् शान्तत्वादि-वैशिष्ट्याभावे तद् एव निर्दिष्टम् इति । यथाह धर्म-दत्तः—

रसे सारश् चमत्कारः सर्वत्राप्य् अनुभूयते ।
तच्-चमत्कार-सारत्वे सर्वत्राप्य् अद्भुतो रसः ।
तस्माद् अद्भुतम् एवाह कृती नारायणो रसम् ॥ [सा।द। ३.२] इति ।

ये तु मल्लादीनां रौद्रादि-रसास् तत्रैव स्वामिभिर् अङ्गीकृतास् ते खलु प्रीतेर् विरोधित्वान् नात्रादृताः । तद् एतद् अलौकिक-रसविन्-मतम् । तथा कैश्चिल् लौकिक-रसविद्भिर् भोज-राजादिभिः प्रेयान् वत्सलश् च रसः सम्मतोऽस्ति । तथा चोक्तम्—स्नेह-स्थायि-भावः प्रेयान् । यथा—

यद् एव रोचते मह्यं तद् एव कुरुते प्रिया ।
इति वेत्ति न जानाति तत्-प्रियं यत् करोति सा ॥ [सरस्वती-कण्ठाभरणम् ५**।**७४] इति ।

दम्पत्योर् अनयोः सख्य-विशेष-विवक्षया तद् इदम् उदाहृतम् । एवं—

स्फुटं चमत्कारितया वत्सलं च रसं विदुः ।
स्थायी वत्सलतास्येह पुत्राद्य्-आलम्बनं मतम् ॥ [सा।द। ३.२०१] इत्य्-आदि ।

तथा सुदेवाद्यैर् भक्ति-मयश् चेति । किं च लौकिकस्य रत्यादेः सुख-रूपत्वं यथा-कथञ्चिद् एव वस्तु-विचारे दुःख-पर्यवसायित्वात् । तद् उक्तं स्वयं भगवता सुखं दुःख-सुखात्ययः दुःखं काम-सुखापेक्षा [भा।पु। ११.१९.४१] इति । तदीयः शमोऽपि शमो मन्-निष्ठता बुद्धेः [भा।पु। ११.१९.३६] इति वदता तेनैवानादृतः । जुगुप्सादीनां तु सुख-रूपता लौकिकैर् अपि द्वेष्या । तत्-तन्-निन्दा भागवत-रस-श्लाघा च श्री-नारद-वाक्ये—

न यद् वचश् चित्र-पदं हरेर् यशो
जगत्-पवित्रं प्रगृणीत कर्हिचित् ।
तद् वायसं तीर्थम् उशन्ति मानसा
न यत्र हंसा निरमन्त्य् उशिक्-क्षयाः ॥
तद्-वाग्-विसर्गो जनताघ-विप्लवो
यस्मिन् प्रति-श्लोकम् अबद्धवत्य् अपि ।
नामान्य् अनन्तस्य यशोऽङ्कितानि यत्
शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ [भा।पु। १.५.१०-११] इति ।

श्री-रुक्मिणी-वाक्येऽपि—

त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर्
मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् ।
जीवच्-छवं भजति कान्त-मतिर् विमूढा
या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥ [भा।पु। १०.६०.४५] इति ।

तस्माल् लौकिकस्यैव विभावादेः रस-जनकत्वं न श्रद्धेयम् । तज्-जनकत्वे च सर्वत्र बीभत्स-जनकत्वम् एव सिध्यति । श्री-भागवत-रसस्य तु विषयिणम् आरभ्य मुक्त-पर्यन्ते जने तद्वद् अहो अनिन्द्रिये चैतन्य-शून्येऽपि विकार-हेतुत्वात् कथं तत्रासम्भावनापि स्यात् ? यथोक्तं—निवृत्त-तर्षैर् उपगीयमानात् [भा।पु। १०.१.४] इत्य्-आदि, अस्पन्दनं गति-मतां पुलकस् तरूणां [भा।पु। १०.२१.१९] इति, कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि [भा।पु। १०.१७.१५] इति ।

तद् एतद् अभिप्रेत्य श्री-भगवत्-प्रीत्य्-एक-व्यञ्जकस्य श्री-भागवत-पुराणस्य रसात्मकत्वं शब्देनैव निर्दिशति—

निगम-कल्प-तरोर् गलितं फलं
शुक-मुखाद् अमृत-द्रव-संयुतम् ।
पिबत भागवतं रसम् आलयं
मुहुर् अहो रसिका भुवि भावुकाः ॥ [भा।पु। १.१.३] इत्य्-आदि ।

हे भावुकाः परम-मङ्गलायनाः ! ये रसिका भगवत्-प्रीति-रसज्ञा इत्य् अर्थः, ते यूयं वैकुण्ठात् क्रमेण भुवि पृथिव्याम् एव गलितम् अवतीर्णं निगम-कल्प-तरोः सर्व-फलोत्पत्ति-भुवः शाखोपशाखाभिर् वैकुण्ठम् अध्यारूढस्य वेद-रूप-तरोर् यत् खलु रस-रूपं श्री-भागवताख्यं फलं तत् भुव्य् अपि स्थिताः पिबत आस्वाद्यान्तर्गतं कुरुत। अहो इत्य् अलभ्य-लाभ-व्यञ्जना भागवताख्यं यच् छास्त्रं, तत् खलु रसवद् अपि रसैकमयता-विवक्षया रस-शब्देन निर्दिष्टम् । भागवत-शब्देनैव तस्य रसस्यान्यदीयत्वं व्यावृत्तम् । भागवतस्य तदीयत्वेन रसस्यापि तदीयत्वाक्षेपात् । शब्द-श्लेषेण च भगवत्-सम्बन्धि-रसम् इति गम्यते । स च रसो भगवत्-प्रीति-मय एव, यस्यां वै श्रूयमाणायाम् [भा।पु। १.७.७] इत्य्-आदि-फल-श्रुतेः । यन्-मयत्वेनैव श्री-भगवति रस-शब्दः श्रुतौ प्रयुज्यते रसो वै सः [तै।उ। २.७.१] इति । स एव च प्रशस्यते रसं ह्य् एवायं लब्ध्वानन्दी भवति इति । तत्र रसिका इत्य् अनेन प्राचीनार्वाचीन-संस्काराणाम् एव तद्-विज्ञत्वं दर्शितम् ।

गलितम् इत्य् अनेन तस्य सुपाकिमत्वेनाधिक-स्वादुमत्त्वम् उक्त्वा शास्त्र-पक्षे सुनिष्पन्नार्थत्वेनाधिक-स्वादुत्वं दर्शितम् । रसम् इत्य् अनेन फल-पक्षे त्वग्-अष्ट्य्-आदि-राहित्यं व्यज्य, अत्र च पक्षे हेयांश-राहित्यं दर्शितम् । तथा भागवतम् इत्य् अनेन सत्स्व् अपि फलान्तरेषु निगमस्य परम-फलत्वेनोक्त्वा तस्य परम-पुरुषार्थत्वं दर्शितम् ।

एवं तस्य रसात्मकस्य फलस्य स्वरूपतोऽपि वैशिष्ट्ये सति, परमोत्कर्ष-बोधनार्थं वैशिष्ट्यान्तरम् आह—शुकेति । अत्र फल-पक्षे कल्प-तरु-वासित्वाद् अलौकिकत्वेन शुकोऽप्य् अमृत-मुखोऽभिप्रेयते । ततस् तन्-मुखं प्राप्य यथा तत् फलं विशेषतः स्वादु भवति, तथा परम-भागवत-मुख-सम्बन्धं भगवद्-वर्णनम् अपि । ततस् तादृश-परम-भागवत-वृन्द-महेन्द्र-श्री-शुकदेव-मुख-सम्बन्धं किम् उतेति भावः । अत एव परम-स्वाद-परम-काष्ठा-प्राप्तत्वात् स्वतोऽन्यतश् च तृप्तिर् अपि न भविष्यतीत्य् आलयं मोक्षानन्दम् अप्य् अभिव्याप्य पिबत इत्य् उक्तम् । तथा च वक्ष्यते—परिनिष्ठितोऽपि [भा।पु। २.१.९] इत्य्-आदि । अनेन आस्वाद्यान्तरवन् नेदं कालान्तरेऽप्य् आस्वादक-बाहुल्येऽपि व्ययिष्यतीत्य् अपि दर्शितम् ।

यद् वा, तत्र तस्य रसस्य भगवत्-प्रीतिमयत्वेऽपि द्वैविध्यम्—तत्-प्रीत्य्-उपयुक्तत्वं, तत्-प्रीति-परिणामत्वं चेति । यथोक्तं द्वादशे—

कथा इमास् ते कथिता महीयसां
विताय लोकेषु यशः परेयुषाम् ।
विज्ञान-वैराग्य-विवक्षया विभो
वचो-विभूतीर् न तु पारमार्थ्यम् ॥
यत् तूत्तमः-श्लोक-गुणानुवादः
सङ्गीयतेऽभीक्ष्णम् अमङ्गल-घ्नः ।
तम् एव नित्यं शृणुयाद् अभीक्ष्णं
कृष्णेऽमलां भक्तिम् अभीप्समानः ॥ [भा।पु। १२.३.१४-१५] इति ।

ततः सामान्यतो रसत्वम् उक्त्वा विशेषतोऽप्य् आह—अमृतेति । अमृतं तल्-लीला-रसः । हरि-लीला-कथा-व्रातामृतानन्दित-सत्-सुरम् [भा।पु। १२.१३.११] इति द्वादशे श्री-भागवत-विशेषणात्, लीला-कथा-रस-निषेवणम् [भा।पु। १२.४.४०] इति तस्यैव रसत्व-निर्देशाच् च । सत्-सुरम् इति सन्तोऽत्रात्मारामाः, इत्थं सताम् [भा।पु। १०.१२.११] इत्य्-आदिवत् । त एव सुराः, अमृत-मात्र-स्वादित्वात् । अत्र त्व् अमृत-द्रव-पदेन लीला-रसस्य सार एवोच्यते ।

तस्माद् एवं व्याख्येयम्—यद्यपि प्रीति-मय-रस एव श्रेयान्, तथाप्य् अस्त्य् अत्र विवेकः । रसानुभविनो ह्य् अत्र द्विविधाः—पिबतेत्य् उपदेश्याः, स्वतस् तद्-अनुभविनो लीला-परिकराश् च । तत्र लीला-रसानुभविनो ह्य् अत्र परिकरा एव तस्य सारम् अनुभवन्ति अन्तरङ्गत्वात् । परे तु यत् किञ्चिद् एव बहिरङ्गत्वात् । यद्यप्य् एवं, तथापि तद्-अनुभव-मयं रस-सारं स्वानुभव-मयेन रसेनैकतया विभाव्य पिबत । यतस् तादृशतया तादृश-शुक-मुखाद् गलितं प्रवाह-रूपेण वहन्तम् इत्य् अर्थः ।

तद् एवं भगवत्-प्रीतेः परम-रसत्वापत्तिः शब्दोपात्तैव । अन्यत्र च सर्व-वेदान्त-सारं हि [भा।पु। १२.१३.१५] इत्य्-आदौ, तद्-रसामृत-तृप्तस्य इत्य्-आदि । एवम् एवाभिप्रेत्य भावुका इत्य् अत्र रस-विशेष-भावना-चतुरा इति टीका । तथा स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर् विहातुम् इच्छेन् न रस-ग्रहो जनः [भा।पु। १.५.१९] इत्य्-आदि ।

॥ १.१ ॥ श्री-वेद-व्यासः ॥ ११० ॥

[१११]

एवं विभावादि-संयोगेन भगवत्-प्रीति-मयो रसो व्यक्तीभवति । तत्र लौकिक-नाट्य-रस-विदाम् अपि पक्ष-चतुष्कम् । रसस्य मुख्यया वृत्त्यानुकार्ये प्राचीने नायक एव वृत्तिः । नटे तूपचाराद् इत्य् एकः पक्षः । पूर्वत्र लौकिकत्वात् पारिमित्याद् भयादि-सान्तरायत्वाच् चानुकर्तरि नट एव द्वितीयः । तस्य शिक्षा-मात्रेण शून्य-चित्ततयैव तद्-अनुकर्तृत्वात् सामाजिकेष्व् एवेति तृतीयः । यदि च द्वितीये सचेतस् त्वं तदोभयत्रापि कथं न स्याद् इति चतुर्थ इति । श्री-भागवतानां तु सर्वत्रैव तत्-प्रीतिमय-रस-स्वीकारः । लौकिकत्वादि-हेतोर् अभावात् । तत्रापि विशेषतोऽनुकार्येषु तत्-परिकरेषु येषां नित्यम् एव हृदयम् अध्यारूढः पूर्णो रसोऽनुकर्त्रादिषु सञ्चरति । तत्र भगवत्-प्रीतेर् अलौकिकत्वम् अपरिमितत्वं च स्वत एव सिद्धम् । न तु लौकिक-रत्य्-आदिवत् काव्य-कॢप्तम् । तच् च स्वरूप-निरूपणे स्थापितम् । भयाद्य्-अनवच्छेद्यत्वं श्री-प्रह्लादादौ श्री-व्रज-देव्य्-आदौ च व्यक्तम् । जन्मान्तराव्यव-च्छेद्यत्वं श्री-वृत्र-गजेन्द्रादौ दृष्टं, श्री-भरतादौ वा । किं बहुना, ब्रह्मानन्दाद्य्-अनवच्छेद्यत्वम् अपि श्री-शुकादौ प्रसिद्धम् । एवं तत्-कारणादेश् चालौकिकत्वं ज्ञेयम् । तत्रालम्बन-कारणस्य श्री-भगवतोऽसमोर्ध्वातिशयि-भगवत्त्वाद् एव सिद्धम् । तत्-परिकरस्य च तत्-तुल्यत्वाद् एव । तच् च श्रुति-पुराणादि-दुन्दुभि-घोषितम् ।

अथोद्दीपन-कारणानां तदीयानां च तदीयत्वाद् एव । तच् च यथा दर्शितम्—तस्यारविन्द-नयनस्य [भा।पु। ३.१५.४३] इत्य्-आदौ, चकार तेषां संक्षोभम् अक्षर-जुषाम् अथ चित्त-तन्वोः इति, गोप्यस् तपः किम् अचरन् [भा।पु। १०.४४.१४] इत्य्-आदि, का स्त्र्य् अङ्ग [भा।पु। १०.२९.४०] इत्य्-आदौ, यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत् इति, विविध-गोप-चरणेषु विदग्ध [भा।पु। १०.३५.१४] इत्य्-आदि वेणु-वाद्य-वर्णने—

सवनशस् तद्-उपधार्य सुरेशाः
शक्र-शर्व-परमेष्ठि-पुरोगाः ।
कवय आनत-कन्धर-चित्ताः
कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥ [भा।पु। १०.३५.१५] इति ।

आगन्तुका अपि तच्-छक्त्य्-उपबृंहितत्वेन सादृश्यात् तत्-स्फूर्तिमयत्वेन चालौकिकीं दशाम् आप्नुवन्ति । यथोक्तं—

प्रावृट्-श्रियं च तां वीक्ष्य सर्व-काल-सुखावहाम्
भगवान् पूजयां चक्रे आत्म-शक्त्य्-उपबृंहिताम् ॥ [भा।पु। १०.२०.३१]

यथा मेघादयश् च, तथा कार्य-रूपाः पुलकादयोऽप्य् अलौकिकाः । ये खलु अस्पन्दनं गति-मतां पुलकस् तरूणाम् [भा।पु। १०.२१.१९] इत्य्-आदौ तर्व्-आदिष्व् अप्य् उद्भवन्तो मनुष्येषु स्वस्यात्यद्भुतोदयम् एव ज्ञापयन्ति ।

एवं निर्वेदाद्याः सहायाश् चालौकिका मन्तव्याः । यत्र लोक-विलक्षण-वैचित्त्य-विप्रलम्भादि-हेतव उन्मादादय उदाहरिष्यन्ते । क्वचित् तु सर्वेषाम् अपि स्वत एवालौकिकत्वम् । श्री-ब्रह्म-संहितायाम्—

श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवो
द्रुमा भूमिश् चिन्तामणि-गण-मयि तोयम् अमृतम् ।
कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखि
चिद्-आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च ॥
स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु-महान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं
विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥ [ब्र।सं। ५.६७-६८] इति ।

गानं नाट्यम् इति तद्वद् रसाधायकम् इत्य् अर्थः ।

तद् एवम् अलौकिकत्वादिनानुकार्येऽपि रसे रसत्वापादान-शक्तौ सत्यां प्रीति-कारणादयस् ते तदापि विभावाद्याख्यां भजन्ते । तथैव हि तेषां तत्-तद्-आख्या । यथोक्तं—

विभावनं रत्य्-आदेर् विशेषेणास्वादाङ्कुर-योग्यतानयनम् । अनुभावनम् एवम्भूतस्य रत्यादेः समनन्तरम् एव रसादि-रूपतया भावनम् । सञ्चारणे तथाभूतस्य तस्यैव सम्यक् चारणम् [सा।द। ३.१३] इति ।

किं च, स्वाभाविकालौकिकत्वे सति यथा लौकिक-रस-विदां लौकिकेभ्योऽपि काव्य-संश्रयाद् अलौकिक-शक्तिं दधानेभ्यो विभावाद्य्-आख्याप्राप्त-कारणादिभ्यः शोकादाव् अपि सुखम् एव जायते इति रसत्वापत्तिस् तथैवास्माभिर् वियोगादाव् अपि मन्तव्यम् । तत्र बहिस् तदीय-वियोग-मय-दुःखेऽपि परमानन्द-घनस्य भगवतस् तद्-भावस्य च हृदि स्फूर्तिर् विद्यत एव । परमानन्द-घनत्वं च तयोस् त्यक्तुम् अशक्यत्वात् । ततः क्षुधातुराणाम् अत्युष्ण-मधुर-दुग्धवन् न तत्र रसत्व-व्याघातः । तदा तद्-भावस्य परमानन्द-रूपस्यापि वियोग-दुःख-निमित्तत्वं चन्द्रादीनां तापनत्वम् इव ज्ञेयम् ।

तथा तस्य दुःखस्य च भावाननन्द-जन्यत्वाद् आयत्यां संयोग-सुख-पोषकत्वाच् च सुखान्तःपात एव । तथा तदीयस्य करुणस्यापि रसस्य सर्वज्ञ-वचनादि-रचित-प्राप्त्य्-आशामयत्वात् संयोगावशेषत्वात् तत्र तथैव गतिः सिद्धा ।

तद् एवम् अनुकार्ये रसोदयः सिद्धः । स एव च मुख्यः, श्रवणजानुरागाद् दर्शनजानुरागस्य श्रेष्ठत्वात्—

श्रुत-मात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
उरु-गायोरु-गीतो वा पश्यन्तीनां च किं पुनः ॥ [भा।पु। १०.९०.२६] इति न्यायेन ।

अतस् तव विक्रीडितं ब्रह्मन् [भा।पु। ११.६.४४] इत्य्-आदिकोद्भव-वचन-मयं पद्य-द्वयं चाहार्यम् ।

अथ अनुकर्ता अप्य् अत्र भक्त एव सम्मतः, अन्येषां सम्यक् तद्-अनुकरणासामार्थ्यात् । ततस् तत्रापि तद्-रसोदयः स्याद् एव । किन्तु भक्तेर् भक्त-विषयको भगवद्-रसः प्रायो नोदयते भक्ति-विरोधाद् एव । ततो नानुक्रियते च । तद्-अनुभवश् च भगवत्-सम्बन्धित्वेनैव भवति, नात्मीयत्वेन । स च भक्ति-रसोद्दीपकत्वेनैव चरितार्थताम् आपद्यते । ततः क्वचिच् छुद्ध-भक्तानाम् अपि यदि तद्-अनुभावानुकरणं स्यात्, तदा तदीयत्वेनैव तैस् तद् भाव्यते, न तु स्वीयत्वेनेति समाधेयम् । यत्र तु भक्त्य्-अविरोधः, यथा गदादि-तुल्य-भावानां वसुदेवादौ, तत्रोदयतेऽपि ।

अथ सामाजिका अपि भक्ता एवेष्टा इति । तत्रापि सिद्धिः । इति दृश्य-काव्येषु रस-भावना-विधिः । श्रव्य-काव्येष्व् अपि वर्णनीय-वर्णक-श्रोतृ-भेदेन यथायथं बोधव्यः । किं च, अत्र प्रायस् तत्-तद्-अपेक्षा रत्य्-अङ्कुरवताम् एव । प्रेमादिमतां तु यथा-कथञ्चित् स्मरणम् अपि तत्र हेतुः, येषां षड्जादिमय-स्वर-मात्रम् अपि तत्र हेतुर् भवति । यथोक्तं श्री-नारदम् उद्दिश्य षष्ठे—

स्वर-ब्रह्मणि निर्भात- हृषीकेश-पदाम्बुजे ।
अखण्डं चित्तम् आवेश्य लोकान् अनुचरन् मुनिः ॥ [भा।पु। ६.५.२२] इति ।

ततः प्रेमादि-भाव एव तेषु सर्वां सामग्रीम् उद्भावयति । यथोक्तं श्री-प्रह्लादम् उद्दिश्य—क्वचिद् रुदति वैकुण्ठ-चिन्ता-शवल-चेतनः [भा।पु। ७.४.३९] इत्य्-आदिना—

क्वचिद् उत्पुलकस् तूष्णीम् आस्ते संस्पर्श-निर्वृतः ।
अस्पन्द-प्रणयानन्द- सलिलामीलितेक्षणः ॥ [भा।पु। ७.४.४१] इत्य् अन्तेन ।

लौकिक-रसज्ञैर् अपि हीनाङ्गत्वेऽपि तत्-तद्-अङ्ग-समाक्षेपाद् रस-निष्पत्तिर् अभिमता ।

किं च, भगवत्-प्रीति-रसिकाः द्विविधाः—तदीय-लीलान्तः-पातिनस् तद्-अन्तः-पातिताभिमानिनश् च । तत्र पूर्वेषां प्राक्तन-युक्त्या स्वत एव सिद्धो रसः । उत्तरेषां तु द्विविधा गतिः । तत्-तल्-लीलान्तः-पाति-सहित-भगवच्-चरित-श्रवणादिनैका । भगवन्-माधुर्यादि-श्रवणादिना चान्या । तत्र पूर्वत्र यदि समान-वासनस् तल्-लीलान्तः-पाती भवेत् तदा स्वयं सदृशो भाव एव तस्य तल्-लीलान्तः-पाति-विशेषस्य विभावादिकं तादृशत्वाभिमानिनि साधारणी करोति । यथा—

परस्य न परस्येति ममेति न ममेति च ।
तद्-आस्वादे विभावादेः परिच्छेदो न विद्यते ॥ [सा।द। ३.१२] इति ।

यदि तु विलक्ष्ण-वासनस् तदा विभावानां सञ्चारिणाम् अनुभावानां च प्रायश एव साधारण्यं भवति । तेन तद्-भाव-विशेषस्योद्दीपन-मात्रं स्यात्, न तु रसोद्बोधः । यदि तु विरुद्ध-वासनः स्यात्, यथा वत्सलेन प्रेयसी, तदापि तस्य प्रीति-सामान्यस्यैव वात्सल्यादि-दर्शनेनोद्दीपनं भवति । न भाव-विशेषस्य । न च रसोद्बोधो जायते ।

अथोत्तरत्र श्री-भगवन्-माधुर्यादि-श्रवणादौ तल्-लीलान्तः-पातिवत् स्वतन्त्र एव रसोद्बोध इति। तद् एवं भगवत्-प्रीते रसत्वापत्तौ सिद्धायाम् एवं विभाव्यते—विभावादिभिः संवलिता तत्-प्रीतिस् तत्-प्रीतिमयो रस इति । तद् उक्तं—

यथा खण्ड-मरिचादीनां सम्मेलनाद् अपूर्व एव कश्चिद् आस्वादः प्रपानक-रसे जायते, विभावादि-सम्मेलनाद् इहापि तथा [सा।द। ३.१५] इति ।

स चायं रसो भगवन्-माधुर्यानुकूल्यानुभव-लक्षणास्वादेनोद्दीपन-विभाव-रूपेण स्वांशेनास्वाद-रूपः । भगवद्-आदि-लक्षणालम्बन-विभावादि-रूपेणास्वाद्य-रूपश् च । अत उभयथा व्यपदेशः ।

तत्र विभावा द्विविधाः । आलम्बनम् उद्दीपनश् च । यथोक्तम् अग्नि-पुराणे—

विभाव्यते हि रत्य्-आदिर् यत्र येन विभाव्यते ।
विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः ॥ [अग्नि।पु। ३३९**।**३५-३६]

आलम्बनो द्विविधः । प्रीति-विषयत्वेन स्वयं भगवान् श्री-कृष्णः । तत्-प्रीत्य्-आधारत्वेन तत्-प्रिय-वर्गश् च । उभयत्रैव यत्रेति सप्तम्य्-अर्थत्व-व्याप्तेः ।

तत्र श्री-कृष्णो यथा पूर्वम् उदाहृतः यस्याननं मकर-कुण्डलं [भा।पु। ९.२४.६५] इत्य्-आदिना। गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपम् [भा।पु। १०.४४.२४] इत्य्-आदिना च । तस्य तत्-तन्-माधुर्यानभिव्यक्ताव् अपि स्वभावत एव प्रियतमत्वं स्वयं दर्शयति—

प्राण-बुद्धि-मनः-स्वात्म-
दारापत्य-धनादयः ।
यत्-सम्पर्कात् प्रिया आसंस्
ततः को न्व् अपरः प्रियः ॥ [भा।पु। १०.२३.२७]****

स्वः शुद्धो जीवः । आत्मा देहः । यस्य मम सम्पर्कात् परम्परा-सम्बन्धात् । अहं तावत् परमानन्द-घन-रूप इति स्वतः प्रियः । स्वस्य ममांशत्वाद् अन्तर्यामी पुरुषोऽपि प्रियः। तस्य च जीव-रूपोऽंश इति मत्-सम्बन्ध-परम्परया प्रियः । तद्-अध्यास-सम्बन्ध-परम्परया च प्राणादयः प्रिया इत्य् अर्थः । एवं व्यक्तीकृत-रूपान्तरेऽपि श्री-रामेणानुभूतम्—

किम् एतद् अद्भुतम् इव वासुदेवेऽखिलात्मनि ।
व्रजस्य सात्मनस् तोकेष्व् अपूर्वं प्रेम वर्धते ॥ [भा।पु। १०.१३.३६] इति ।

ततः—

श्यामं हिरण्य-परिधिं वन-माल्य-बर्ह-
धातु-प्रवाल-नट-वेषम् अनुव्रतांसे ।
विन्यस्त-हस्तम् इतरेण धुनानम् अब्जं
कर्णोत्पलालक-कपोल-मुखाब्ज-हासम् ॥ [भा।पु। १०.२३.२२]

इत्य् एतल्-लक्षणेषु ममाविर्भावेषु युष्माकं प्रीत्य्-उत्कर्षोदयो नापूर्व इति भावः ।

॥ १०.२३ ॥ श्री-भगवान् यज्ञपत्नीः ॥ १११ ॥

[११२-११४]

तथा तत्-प्रिय-वर्गश् च पूर्वं दर्शितः । तुलयाम लवेनापि [भा।पु। १.१८.१३] इत्य्-आदिना । अस्य भगवद्-विषय-प्रीत्य्-आलम्बनत्वम् अपि युक्तम् । स्मरणादि-पथं गते ह्य् अस्मिंस् तद्-आधारा सा प्रीतिर् अनुभूयते । आलम्बन-शब्दश् च विषयाधारयोर् वर्तन इति । अत एवोक्तं—

तत् कथ्यतां महा-भाग यदि कृष्ण-कथाश्रयम् ।
अथवास्य पदाम्भोज- मकरन्द-लिहां सताम् ॥ [भा।पु। १.१६.६] इति ।

तद् एवम् अपि यम् आश्रित्य श्री-भगवति स प्रीति-विशेषः प्रवर्तते, स एवालम्बनो ज्ञेयः । अन्ये तूद्दीपनाः । अथैवं स-वासन-भिन्न-वासनक-द्विध-तत्-प्रिय-वर्ग-विषया च या प्रीतिः, सापि तत्-प्रीत्य्-आधारत्वेनैव, न तु स्व-सम्बन्धादिना । अत एव तत्-प्रिय-वर्गेऽपि स्व-सम्बन्ध-हेतुकां प्रीतिं निषिध्य श्री-भगवत्य् एव ताम् अभ्यर्थ्य पुनस् तत्-प्रिय-वर्गे तद्-आधारत्वेनैव प्रीतिम् अङ्गीकरोति ।

अथ तत्र निषेधः

अथ विश्वेश विश्वात्मन् विश्व-मूर्ते स्वकेषु मे ।
स्नेह-पाशम् इमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ [भा।पु। १.८.४१]

अथ अभ्यर्थना—

त्वयि मेऽनन्य-विषया मतिर् मधु-पतेऽसकृत् ।
रतिम् उद्वहताद् अद्धा गङ्गेवौघम् उदन्वति ॥ [भा।पु। १.८.४२]

अथ अङ्गीकारः

श्री-कृष्ण कृष्ण-सख वृष्ण्य्-ऋषभावनि-ध्रुग्-
राजन्य-वंश-दहनानपवर्ग-वीर्य ।
गोविन्द गो-द्विज-सुरार्ति-हरावतार
योगेश्वराखिल-गुरो भगवन् नमस् ते ॥ [भा।पु। १.८.४३]

॥ १.८ ॥ श्री-कुन्ती श्री-भगवन्तम् ॥ ११२-११४ ॥

[११५]

एवं वृक्णः इत्य्-आदि-द्वयं श्रीमद्-उद्धव-वाक्यम् अपि सङ्गमनीयम् । यथा—

वृक्णश् च मे सुदृढः स्नेह-पाशो
दाशार्ह-वृष्ण्य्-अन्धक-सात्वतेषु ।
प्रसारितः सृष्टि-विवृद्धये त्वया
स्व-मायया ह्य् आत्म-सुबोध-हेतिना ॥
नमोऽस्तु ते महा-योगिन् प्रपन्नम् अनुशाधि माम् ।
यथा त्वच्-चरणाम्भोजे रतिः स्याद् अनपायिनी ॥ [भा।पु। ११.२९.३९-४०]****

सृष्टि-विवृद्धये त्वया स्वाधीनया मायया यो देहादि-सम्बन्धजः स्नेह-पाशः प्रसारितः स वृक्णश् छिन्नः । केन ? आत्म-सुबोध-हेतिना, त्वदीय-प्रीत्य्-उत्पादक-शोभन-ज्ञान-लक्षण-शस्त्रेण । अधुना त्वत्-सम्बन्धेनैव स भातीत्य् अर्थः । अत एवोत्तर-पद्यम् अपि तथैव । इयं चोक्तिः श्रीमद्-उद्धवस्य सिद्धत्वान् न सम्भवतीति स्व-व्याजेनान्यान् उद्दिश्यैवेति ज्ञेयम् ।

अथ श्री-कुन्ती-वाक्यस्यान्यावतारिका, यथा गमने पाण्डवानाम् अकुशलं अगमने वृष्णीनाम् इत्य् उभयतो व्याकुल-चित्ता सती । तेषु स्नेह-निवृत्तिं प्रार्थयते अथेति । एवम् अप्य् उभयेषां तादृश-तद्-एकालम्बनता-दर्शनेन तेष्व् अधिक-भगवत्-प्रीत्य्-आधारत्वं स्वस्याधिक-स्नेह-हेतुर् इति43 । तेषु स्नेह-च्छेद-व्याजेनोभयेषाम् अपि त्वद्-अविच्छेद एव क्रियताम् इति च व्यज्यते । ततश् चोत्तरत्र श्री-सुत-वाक्ये तां बाढम् इत्य् उपामन्त्र्ये [भा।पु। १.८.४५] इत्य् अत्र भगवद्-अभ्युपगमोऽपि सर्वत्रैव सङ्गच्छते । तथाप्य् अस्य वृक्णश् चेत्य् आदि-वाक्यस्य सङ्गमनार्थं तत् तथैवावतारितम् ।

॥ ११.२९ ॥ श्रीमद्-उद्धवः ॥ ११५ ॥

[११६]

एवं श्री-देवक्याः षड्-गर्भानयने तान् प्रति यः स्नेहो दृश्यते, स खलु स्व-पीत-शेष-स्तन्य-प्रसादेन तद्-उद्धरणार्थं श्री-भगवतैव प्रपञ्चितः । यथोक्तम्—

अपाययत् स्तनं प्रीता सुत-स्पर्श-परिस्नुतम् ।
मोहिता मायया विष्णोर् यया सृष्टिः प्रवर्तते ॥
पीत्वामृतं पयस् तस्याः पीत-शेषं गदा-भृतः ॥ [भा।पु। १.८५.५४-५५] इत्य्-आदि ।

ययुर् विहायसा धाम [भा।पु। १०.८५.५६] इत्य् अन्तम् । तथापि तन्-माया तत्-सहोदरता-स्फूर्तिम् एवावलम्ब्य तां मोहितवतीति मन्तव्यम् ।

अथ श्री-रुक्मिण्या रुक्मिण्य् अपि स्नेहस् तद्-दैन्यादि-कौतुकं दिदृक्षुणा श्री-भगवतैव वा तद्-अर्थं तल्-लीला-शक्त्यैव वा रक्षितोऽस्तीति लभ्यते । स च भक्ति-स्फोरणांशम् एवावलम्ब्य, तस्या ह्य् ऐश्वर्य-ज्ञान-संवलितत्वाद् अन्तःकरणम् एवं जातम्—“अयं परमेश्वरः । अयं त्व् अतिनिकृष्टः । तस्माद् अस्मिन्न् अयं विप्रकुर्वन्न् अपि किञ्चित् कर्तुम् अशक्त एव । ततोऽतिदीनोऽयम् इति तथा श्री-भगवच्-चरणाश्रिताया मम देह-सम्बन्धवान् इति, दीन-दयालोर् भक्त-सम्बन्ध-परम्परा-मात्रेणाभयदाद् अस्मात् तन् नार्हति” इति । एवं ह्य् ऐश्वर्य-दृष्ट्यैव तत्-प्रार्थनं— योगेश्वराप्रमेयात्मन् [भा।पु। १०.५४.३३] इत्य्-आदि ।

अथ श्री-बलदेवस्य स्व-शिष्यीभूत-दुर्योधन-पक्ष-पातोऽप्य् एवं मन्तव्यः । क्वचित् तत्र तत्-क्षय-करः क्रोधोऽपि दृश्यते । यथा लक्ष्मणा-हरणे । सर्वम् एतत् तु वैचित्री-पोषार्थं श्री-भगवल्-लीला-शक्त्यैव प्रपञ्च्यते इत्य् उक्तम् ।

अथ उद्दीपनाः । यद्-विशिष्टतया श्री-कृष्ण आलम्बनस् त एव भाव-विभावन-हेतुत्वेन पृथङ्-निर्दिष्टा उद्दीपनाः कथ्यन्ते । ते च तस्य गुण-जाति-क्रिया-द्रव्य-काल-रूपाः । गुणाश् च त्रिविधाः काय-वाङ्-मानसाश्रयाः । सर्व एवैते न प्राकृता इत्य् उक्तम्—

मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियम् आत्मानं साम्यासङ्गादयोऽगुणाः ॥ [भा।पु। ११.१३.४०] इत्य्-आदिना ।

तान् एव श्री-कृष्णम् आलम्बनी-कृत्य समुद्दिश्य—

सत्यं शौचं दया क्षान्तिस् त्यागः सन्तोष आर्जवम् ।
शमो दमस् तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥
ज्ञानं विरक्तिर् ऐश्वर्यं शौर्यं तेजो बलं स्मृतिः ।
स्वातन्त्र्यं कौशलं कान्तिर् धैर्यं मार्दवम् एव च ॥
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।
गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर् मानोऽनहङ्कृतिः ॥
एते चान्ये च भगवन् नित्या यत्र महा-गुणाः ।
प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् ॥

[भा।पु। १.१६.२८-३१]

सत्यं यथार्थ-भाषणम् । शौचं शुद्धत्वम् । दया पर-दुःखासहनम् अनेन शरणागत-पालकत्वम् भक्त-सुहृत्त्वं च । क्षान्तिः क्रोधापत्तौ चित्त-संयमः । त्यागो वदान्यता । सन्तोषः स्वतस् तृप्तिः । आर्जवम् अवक्रता, अनेन सर्व-शुभङ्करत्वं च । शमो मनो-नैश्चल्यम् अनेन सुदृढत्वं च । दमो बाह्येन्द्रिय-नैश्चल्यम् । तपः क्षत्रियत्वादि-लीलावतारानुरूपः स्व-धर्मः । साम्यं शत्रु-मित्रादि-बुद्ध्य्-अभावः । तितिक्षा स्वस्मिन् परापराध-सहनम् । उपरतिर् लाभ-प्राप्ताव् औदासीन्यम् । श्रुतं शास्त्र-विचारः ।

ज्ञानं पञ्च-विधम्—बुद्धिमत्त्वं कृतज्ञत्वं देश-काल-पात्रज्ञत्वं सर्वज्ञत्वम् आत्मज्ञत्वं च । विरक्तिर् असद्-विषय-वैतृष्ण्यम् । ऐश्वर्यं नियन्तृत्वम् । शौर्यं सङ्ग्रामोत्साहः । तेजः प्रभावः । अनेन प्रतापश् च । स च प्रभाव-विख्यातिः । बलं दक्षत्वम् । तच् च दुष्कर-क्षिप्र-कारित्वम् । धृतिर् इति पाठे क्षोभ-कारणे प्राप्तेऽव्याकुलत्वम् । स्मृतिः कर्तव्यार्थानुसन्धानम् । स्वातन्त्र्यम् अपराधीनता ।

कौशलं त्रिविधं—क्रिया-निपुणता, युगपद्-भूरि-समाधान-कारिता-लक्षणा चातुरी, कला-विलास-विद्वत्ता-लक्षणा वैदग्धी च । कान्तिः कमनीयता । एषा चतुर्-विधा—अवयवस्य हस्ताद्य्-अङ्गादि-लक्षणस्य वर्ण-रस-गन्ध-स्पर्श-शब्दानाम् । तत्र रसश् चाधार-चरण-स्पृष्ट-वस्तु-निष्ठो ज्ञेयः, वयसश् चेति । एतया नारी-गण-मनोहारित्वम् अपि । धैर्यम् अव्याकुलता । मार्दवं प्रेमार्द्र-चित्तत्वम्, अनेन प्रेम-वश्यत्वं च ।

प्रागल्भ्यं प्रतिभातिशयः, अनेन वावदूकत्वं च । प्रश्रयो विनयः, अनेन ह्रीमत्त्वं, यथा-युक्त-सर्व-मान-दातृत्वं, प्रियंवदत्वं च । शीलं सुस्वभावः, अनेन साधु-समाश्रयत्वं च । सहो मनः-पाटवम् । ओजो ज्ञानेन्द्रिय-पाटवम् । बलं कर्मेन्द्रिय-पाटवम् । भगस् त्रिविधः—भोगास्पदत्वं सुखित्वं सर्व-समृद्धिमत्त्वं च ।

गाम्भीर्यं दुर्विबोधाशयत्वम् । स्थैर्यम् अचञ्चलता । आस्तिक्यं शास्त्र-चक्षुष्ट्वम् । कीर्तिः साद्गुण्य-ख्यातिः । अनेन रक्त-लोकत्वं च । मानः पूज्यत्वम् । अनहङ्कृतिस् तथापि गर्व-रहितत्वम् । च-काराद् ब्रह्मण्यत्वम् । सर्व-सिद्धि-निषेवितत्वम् । सच्-चिद्-आनन्द-घन-विग्रहत्वादयो ज्ञेयाः । महत्त्वम् इच्छद्भिः प्रार्थ्या इति महा-गुणा इति च । वरीयस्त्वम् अपि गुणान्तरम् ।

एतेन तेषां गुणानां अन्यत्र स्वल्पत्वं चञ्चलत्वं च । तत्रैव पूर्णत्वम् अविनश्वरत्वं चोक्तम् । अत एव श्री-सूत-वाक्यम्—

नित्यं निरीक्षमाणानां यद् अपि द्वारकौकसाम् ।
न वितृप्यन्ति हि दृशः श्रियो धामाङ्गम् अच्युतम् ॥ [भा।पु। १.११.२६] इति ।

तथा नित्या इति न वियन्तीति सदा स्वरूप-गुणान्तरम् । अन्ये च जीवालभ्या यथा तत्राविर्भाव-मात्रत्वेऽपि सत्य-सङ्कल्पत्वम् । वशीकृताचिन्त्यमायत्वम् । आविर्भाव-विशेषत्वेऽप्य् अखण्ड-सत्त्व-गुणस्य केवल-स्वयम्-अवलम्बनत्वम् । जगत्-पालकत्वम् । यथा तथा हतारि-स्वर्ग-दातृत्वम् । आत्माराम-गणाकर्षित्वम् । ब्रह्म-रुद्रादि-सेवितत्वम् । परमाचिन्त्य-शक्तित्वम् । आनन्त्येन नित्य-नूतन-सौन्दर्याद्य्-आविर्भावत्वम् । पुरुषावतारत्वेऽपि माया-नियन्तृत्वम् । जगत्-सृष्ट्य्-आदि-कर्तृत्वम् । गुणावतारादि-बीजत्वम् । अनन्त-ब्रह्माण्डाश्रय-रोम-विवरत्वम् । वासुदेवत्व-नारायणत्वादि-लक्षण-भगवत्त्वाविर्भावेऽपि स्वरूप-भूत-परमाचिन्त्याखिल-महा-शक्तिमत्त्वम् । स्वयं भगवल्-लक्ष्ण-कृष्णत्वे तु हतारि-मुक्ति-भक्ति-दायकत्वम् । स्वस्यापि विस्मापक-रूपादि-माधुर्यवत्त्वम् । अनिन्द्रियाचेतन-पर्यन्ताशेष-सुख-दातृ-स्व-सान्निध्यत्वम् इत्य्-आदयः ।

॥ १.१६ ॥ ॥ श्री-पृथिवी धर्मम् ॥ ११६ ॥

[११७]

तद् एतद् दिङ्-मात्र-दर्शनम् । यत आह—गुणात्मनस् तेऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरेऽस्य [भा।पु। १०.१४.७] इत्य्-आदि । स्पष्टम् ।

॥ १०.१४ ॥ ब्रह्मा श्री-भगवन्तम् ॥ ११७ ॥

[११८]

ते च तस्य गुणाः केचिन् मिथो विरुद्धा अपि अचिन्त्य-शक्तित्वेनैकाश्रयाः । श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.२७] इति न्यायेन । मल्लानाम् अशनिः [भा।पु। १०.४३.१७] इत्य्-आदि-दर्शनात् । शिशोर् अनोऽल्पक-प्रवाल-मृद्व्-अङ्घ्रि-हतं व्यवर्तते [भा।पु। १०.७.७] इत्य्-आदेश् च । तत्र केवल-कौमल्य-गुणाविष्कारे सति क्वचित् पल्लव-तल्पेषु नियुद्ध-श्रम-कर्षितः [भा।पु। १०.१५.१६] इत्य्-आदिकम् अपि यथार्थम् एव ।

एवम् एव श्रीदाम-विप्रानीत-कदन्न-भोजन-निवारणे लक्ष्म्या अपि प्रवृत्तिः । यथैव तच्-चरितेन व्यक्तम्—बाल-व्यजनम् आदाय रत्न-दण्डं सखी-करात् [भा।पु। १०.६०.७] इत्य्-आदौ। अत एव इति मुष्टिम् [भा।पु। १०.८१.१०]44 इत्य्-आदौ, सा तत्-परा इत्य् उक्तम् । अत्र च एतेनैव मद्-अंश-लेश-रूपाया विभूतेर् अनुग्रह-भाजन-मयं जात इति कदन्न-भोजनेनालम् इति भावः । विरुद्धार्थ-सद्-भावेऽपि न तु दोषास् तत्र सम्भाव्याः, अयम् आत्मापहत-पाप्मा [छा।उ। ८.१.५] इति श्रुतेः । यथा चोक्तं कौर्मे—

ऐश्वर्य-योगाद् भगवान् विरुद्धार्थोऽभिधीयते ।
तथापि दोषाः परमे नैवाहार्याः समन्ततः ॥ इति ।

ततस् तद्-गुणानाम् अन्यदीयानाम् इव दोष-मिश्रत्वं निषेधति—

ततस् ततो नूपुर-वल्गु शिञ्जितैर्
विसर्पती हेम-लतेव सा बभौ ।
विलोकयन्ती निरवद्यम् आत्मनः
पदं ध्रुवं चाव्यभिचारि-सद्-गुणम् ।
गन्धर्व-सिद्धासुर-यक्ष-चारण-
त्रैपिष्टपेयादिषु नान्वविन्दत ॥ [भा।पु। ८.८.१९-२०]****

सा लक्ष्मीः । पदम् आश्रयं ध्रुवं नित्यम् । अव्यभिचारिणो नित्याः सन्तश् च गुणा यस्मिन् ।

[११९]

तद् एव व्यनक्ति त्रिभिः—

नूनं तपो यस्य न मन्यु-निर्जयो
ज्ञानं क्वचित् तच् च न सङ्ग-वर्जितम् ।
कश्चिन् महांस् तस्य न काम-निर्जयः
स ईश्वरः किं परतो व्यपाश्रयः ॥
धर्मः क्वचित् तत्र न भूत-सौहृदं
त्यागः क्वचित् तत्र न मुक्ति-कारणम् ।
वीर्यं न पुंसोऽस्त्य् अज-वेग-निष्कृतं
न हि द्वितीयो गुण-सङ्ग-वर्जितः ॥
क्वचिच् चिरायुर् न हि शील-मङ्गलं
क्वचित् तद् अप्य् अस्ति न वेद्यम् आयुषः ।
यत्रोभयं कुत्र च सोऽप्य् अमङ्गलः
सुमङ्गलः कश् च न काङ्क्षते हि माम् ॥ [भा।पु। ८.८.२१-२३]****

अत्र तप-आदिभिर् अपि न साम्यं विवक्षितम् । असाम्य-प्रसिद्धेः । यथोक्तं इमे च [भा।पु। १.१६.३०] इत्य्-आदौ प्रार्थ्या महत्त्वम् इच्छद्भिर् इति । किन्त्व्45 अन्यदीय-तप-आदि-लेशानां सताम् अपि दोषान्तरोपरक्तत्वम् इत्य् एवम् अत्यन्तासाम्यम् एव विवक्षितम् । यस्य दुर्वास-आदेः । क्वचिद् गुरु-शुक्रादौ । कश्चिद् ब्रह्म-सोमादिः । यः परतो व्यपाश्रयः परापेक्ष इन्द्रादिः । स किम् ईश्वरः ?

क्वचित् परशुरामादि-तुल्ये तदानीन्तने न भूत-सौहृदम् । शिबि-राज-तुल्ये न मुक्ति-कारणं त्यागःपुंसः कार्तवीर्यादि-तुल्यस्य वीर्यम् अस्ति, किन्त्व् अज-वेग-निष्कृतं काल-वेग-परिहृतं न भवति । यतस् तेषां तत्-तद्-गुणत्वम् अपि माया-गुण-कृतम् एव, न तु तद्-अतीत-तत्-तद्-गुणत्वम् इति परामृशति—न हीति । हि यस्मात् । द्वितीयः श्री-मुकुन्दाद् अन्यः । अनेन सनकादय आत्मारामा अपि परिहृताः, तेषां शम-दमादि-गुणानां मायिकत्वात् । तथा शिवोऽपि परिहृतः, शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः [भा।पु। १०.८८.३] इति, हरिर् हि निर्गुणः साक्षात् [भा।पु। १०.८८.५] इत्य्-आद्य्-उक्तेः ।

अथ प्रकारान्तरेण शिवं परिहर्तुम् उपक्रमते । क्वचिन् मार्कण्डेयादौ चिरायुश् चिर-जीविता । शील-मङ्गल-शब्देनात्र भोग उच्यते, इन्द्रिय-दमन-शीलत्वाद् इति टीकायां हेतु-विन्यासात्, अभोगिनो ह्य् अमङ्गल-स्वभावत्वेन लोके नामाग्रहण-दर्शनाच् च । यद् वा, क्वचिन्-मय-दानवादौ चिर-जीवितास्ति, शीले स्वभावे मङ्गलं माङ्गल्यं नास्तीत्य् अर्थः, असुर-स्वभावत्वाद् एव ।

बलि-प्रभृतिषु शील-मङ्गलम् अप्य् अस्ति, किन्त्व् आयुषो वेद्यं वेदनं नास्ति, मरणानिश्चयात् । यत्र शिवे मङ्गलः स्वभावो नित्यत्वाच् च, आयुषो वेद्यत्वं चेत्य् उभयम् अप्य् अस्ति । सोऽप्य् अमङ्गलः बहिः श्मशान-वासाद्य्-अमङ्गल-चेष्टितः ।

श्री-मुकुन्दं लक्ष्यीकृत्याह—कश् च कोऽपि तत्-तद्-गुणातिक्रम्य्-अनन्त-गुणत्वात् तत्-तद्-दोष-हीनत्वाच् च सुमङ्गलः अतिशयेन सर्वेषां मङ्गल-निधान-रूपः । स तु मां स्वरूपेण परमानन्द-रूपां शक्त्या च सर्व-सम्पत्ति-दायिनीम् अपि हि काङ्क्षति । स एव स्वरूप-गुण-सम्पत्तिभिः पूर्ण इत्य् अर्थः । अथ च “प्रेम-वशोऽसौ प्रेमवतीं मां कथं नाकाङ्क्षेत् ?” इत्य् अभिप्रेत्य श्लेषेण कश्चन कोऽपि सुमङ्गलोऽसौ हि निश्चितं मां काङ्क्षतीत्य् अपि भावितम्॥

[१२०]

इदम् अत्र तत्त्वम् । परमानन्द-रूपे तस्मिन् गुणादि-सम्पल्-लक्षणानन्त-शक्ति-वृत्तिका स्वरूप-शक्तिर् द्विधा विराजते । तद्-अन्तरेऽनभिव्यक्त-निज-मूर्तित्वेन तद्-बहिर् अप्य् अभिव्यक्त-लक्ष्म्य्-आख्य-मूर्तित्वेन । इयं च मूर्तिर् मती सती सर्व-गुण-सम्पद्-अधिष्ठात्री भवति । ततः स्वस्मिन् परमानन्दत्वस्य सर्व-गुण-सम्पत्तेश् च स्वरूप-सिद्ध-परम-पूर्णत्वाद् उभयथापि न तां पृथग्-भूय स्थितां मूर्तिमतीम् अपेक्षते यथा खल्व् अन्यः । किन्तु भक्त-वश्यता-स्वभावेन तां प्रेमवतीम् अपेक्षत एवेति प्रकरणं निगमयति—

एवं विमृश्याव्यभिचारि-सद्-गुणैर्
वरं निजैकाश्रयतयागुणाश्रयम् ।
वव्रे वरं सर्व-गुणैर् अपेक्षितं
रमा मुकुन्दं निरपेक्षम् ईप्सितम् ॥ [भा।पु। ८.८.२३]****

मुकुन्दः वरं वव्र इत्य् अन्वयः । तं विशिनष्टि—अव्यभिचारिभिः सद्भिर् निर्दोषैश् च गुणैर् वरं सर्वोत्तमम् । निजैकाश्रयतया अन्य-निरपेक्षत्वेनैव च गुणाश्रयं स्वरूप-सिद्ध-तत्-तद्-गुणम् इत्य् अर्थः । अत एव तेषां गुणानां प्रकृति-सम्बन्धित्वम् अपि खण्डितम् । स्वतः परमानन्द-घन-रूपत्वात् सर्व-गुणैर् अपेक्षितं स्वयं निरपेक्षम् । अत एव निजाभीप्सितम् इति ।46

॥ ८.८ ॥ श्री-शुकः ॥ ११८-१२० ॥

[१२१]

अथ पूर्वोक्त-गुण-विरोधित्वाद् दोष-मात्रं तस्मिन् नास्त्य् एव । तत्र सामान्यैश्वर्ये दया-विपरीतं परम-समर्थस्य तस्याभक्त-नरकादि-संसार-दुःखानुद्धारित्वं प्राकृत-दुःखास्पृष्ट-चित्तत्वेन परमात्म-सन्दर्भादौ परिहृतम् अस्ति । पाण्डवादिवत् क्वचित् प्राकृत-दुःखाभासात्47 तद्-वियोगाद् वोत्थिते भक्ति-रस-सञ्चारि-लक्षण-भक्त-दैन्येऽपि कदाचित् तत्-प्रसाद-दर्शनाभावश् च, तेन पुष्टेन सञ्चारिणा भक्ति-रस-पोषणार्थ एव—भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः [भा।पु। १.८.२०] इति तस्यैव मुख्य-प्रयोजनत्वात् । ब्रह्मन् यम् अनुगृह्णामि तद्-विशो विधुनोम्य् अहम् [भा।पु। ८.२२.२४] इति । सुदुस्तरान् नः स्वान् पाहि [भा।पु। १०.१७.२४] इत्य्-आदौ । न शक्नुमस् त्वच्-चरणं सन्त्य् उक्तम् इति । विपदः सन्तु ताः शश्वत् [भा।पु। १.८.२५] इति । नाहं तु सख्यो भजतोऽपि [भा।पु। १०.३२.२०] इति च दैन्येन तत्-पोषण-श्रवणात् ।

एवम् एव श्रीमद्-व्रज-बालानां ब्रह्म-द्वारा मोहनम् अपि व्याख्येयम् । तस्मिन् बहिर् मोहेऽपि तेषां मनसि भोजन-मण्डलावस्थितम् आत्मानम् अनुसन्दधानानां वत्सान्वेषणार्थागत-श्री-कृष्ण-प्रत्यागमन-भावना सातत्येन प्रेम-रस-पोषणात् । यथोक्तम्—

ऊचुश् च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा ।
नैकोऽप्य् अभोजि कबल एहीतः साधु भुज्यताम् ॥ [भा।पु। १०.१४.४५] इति ।

यज्ञ-पत्नीनाम् अस्वीकारस् तासां ब्राह्मणीत्वात् तादृश-लीलायां सर्वेषाम् अनभिरुचेः, भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत् [भा।पु। १०.३३.३६] इति न्यायात्।

नैतत् पूर्वैः कृतं त्वद् ये न करिष्यन्ति चापरे ।
यस् त्वं दुहितरं गच्छेर् अनिगृह्याङ्गजं प्रभुः ॥
तेजीयसाम् अपि ह्य् एतन् न सुश्लोक्यं जगद्-गुरो । [भा।पु। ३.१२.३०-३१]

इत्य् अत्र तेजीयसाम् अपि तद्-अनुचितता श्रूयते इति। एवम् एवाह—

न प्रीतयेऽनुरागाय ह्य् अन्ग-सन्गो नृणाम् इह ।
तन् मनो मयि युञ्जाना अचिरान् माम् अवाप्य्स्यथ ॥ [भा।पु। १०.२३.३२]****

इह ब्राह्मण-जन्मनि भवतीनाम् अङ्ग-सङ्गः साक्षान् मत्-परिचर्या-रूपोऽर्थो नृणाम् एतच्-चरित-द्रष्टृ-श्रोतॄणां प्रीतये रुचि-मात्राय भविष्यति, किम् उत नानुरागाय इति । तत् तस्माद् अचिराद् अनन्तर-जन्मनि इति ।

॥ १०.२३ ॥ श्री-भगवान् यज्ञपत्नीः ॥ १२१ ॥

[१२२]

अनेन क्वचित् भक्त-सुहृत्त्व-वैपरीत्याभासोऽपि व्याख्यातः । किं च, भक्ता द्विविधाः दूरस्थाः परिकराश् च । तत्र दूरस्थ-भक्तार्थं क्वचिद् भक्त-सुहृत्त्व-लक्षणेन परम-प्रबलेन गुणेन ब्रह्मण्यत्वाद्य्-आवरणम् अपि प्रायो दृश्यते श्रीमद्-अम्बरीष-चरितादौ । परिकरार्थं तु न दृश्यते श्री-जय-विजय-शापादौ । स्कान्द-द्वारका-माहात्म्य-गत-दुर्वाससो दुर्वृत्त-विशेषे च । उभयम् अपि तत्र तत्र सुहृत्त्वस्यैव चिह्नम् । तथैव हि पूर्वत्रात्मीयत्वम् उत्तरत्र चात्मैकत्वं प्रसिध्यति । तथोक्तं अहं भक्त-पराधीनः [भा।पु। ९.४.६३] इत्य्-आदिना । तद् धि ह्य् आत्म-कृतं मन्ये यत् स्व-पुम्भिर् असत्-कृता [भा।पु। ३.१६.४] इत्य्-आदिना च ।

तद् एवं भक्त-सुहृत्त्व-मात्रस्य तादृशत्वे स्थिते प्रेमार्द्रत्वं तद्-वश्यत्वं च सुतराम् एव सर्वाच्छादकम् । तच् च प्रेम्णः स्वरूप-निरूपणे दर्शितम् । अत एव सर्वोद्दीपन-गुण-मुख्यत्वेन तत्र तत्र स-चमत्कारम् अनुस्मृतम् । तत्रोद्भास्वराख्येनानुभावेन व्यञ्जितं तस्य प्रेमार्द्रत्वं, यथा—

भगवान् अथ विश्वात्मा पृथुनोपहृतार्हणः ।
समुज्जिहानया भक्त्या गृहीत-चरणाम्बुजः ॥
प्रस्थानाभिमुखोऽप्य् एनम् अनुग्रह-विलम्बितः ।
पश्यन् पद्म-पलाशाक्षो न प्रतस्थे सुहृत् सताम् ॥
स आदिराजो रचिताञ्जलिर् हरिं
विलोकितुं नाशकद् अश्रु-लोचनः । [भा।पु। ४.२०.१९-२१] इत्य्-आदि

स्पष्टम् ।

॥ ४.२० ॥ श्री-शुकः ॥ १२२ ॥

[१२३]

अथ सात्त्विकेनापि व्यञ्जितं यथा । तत्र भक्त्य्-आर्द्रत्वम् आह—

यस्मिन् भगवतो नेत्रान् न्यपतन्न् अश्रु-बिन्दवः ।
कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् ॥
तद् वै बिन्दुसरो नाम [भा।पु। ३.२१.३८-३९] इत्य्-आदि ।

भगवतः श्री-शुक्लाख्यस्य । प्रपन्ने भक्ते श्री-कर्दमाख्ये ॥

॥ ३.१२ ॥ श्री-मैत्रेयः ॥१२३॥

[१२४]

वात्सल्यार्द्रत्वम् आह—

कृष्ण-रामौ परिष्वज्य पितराव् अभिवाद्य च ।
न किञ्चनोचतुः प्रेम्णा साश्रु-कण्ठौ कुरूद्वह ॥ [भा।पु। १०.८२.३]****

पितरौ कुरुक्षेत्र-मिलितौ श्री-यशोदा-नन्दाख्यौ माता-पितरौ ।

॥ १०.८२ ॥ श्री-शुकः ॥ १२४ ॥

[१२५]

मैत्र्यार्द्रत्वम् आह—

तं विलोक्याच्युतो दूरात्
प्रिया-पर्यङ्कम् आस्थितः ।
सहसोत्थाय चाभ्येत्य
दोर्भ्यां पर्यग्रहीन् मुदा ॥
सख्युः प्रियस्य विप्रर्षेर्
अङ्ग-सङ्गाति-निर्वृतः ।
प्रीतो व्यमुञ्चद् अब्-बिन्दून्
नेत्राभ्यां पुष्करेक्षणः ॥ [भा।पु। १०.८०.१८-१९]

तं श्रीदाम-विप्रम् ॥

॥ १०.८० ॥ श्री-शुकः ॥ १२५ ॥

[१२६]

कान्त-भावार्द्रत्वम् आह—

तासाम् अतिविहारेण श्रान्तानां वदनानि सः ।
प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ [भा।पु। १०.३३.२१]

तासां श्री-गोपीनाम् । प्रेम्णा करुणः साश्रु-णेत्र इत्य् अर्थः । सात्त्विकान्तरं चोक्तं वैष्णवे—

गोपी-कपोल-संश्लेषम् अभिपत्य हरेर् भुजौ ।
पुलकोद्गम-शस्याय स्वेदाम्बु-घनतां गतौ ॥ [वि।पु। ५.१३.५५]

॥ १०.३३ ॥ श्री-शुकः ॥ १२६ ॥

[१२७]

अथ प्रेम-वश्यत्वं, यथा तत्र श्री-भक्ति-वश्यत्वम् आह गद्येन—यस्य भगवान् स्वयम् अखिल-जगद्-गुरुर् नारायणो द्वारि गदा-पाणिर् अवतिष्ठते निज-जनानुकम्पित-हृदयः [भा।पु। ५.२४.२७] इति । यस्य श्री-बलेः ।

॥ ५.२४ ॥ श्री-शुकः ॥ १२७ ॥

[१२८]

वात्सल्य-वश्यत्वम् आह—

गोपीभिः स्तोभितोऽनृत्यद्
भगवान् बालवत् क्वचित् ।
उद्गायति क्वचिन् मुग्धस्
तद्-वशो दारु-यन्त्रवत् ॥ [भा।पु। १०.११.७] इत्य्-आदि ।

स्पष्टम् ।

॥ १०.११ ॥ श्री-शुकः ॥ १२८ ॥

[१२९]

मैत्री-वश्यत्वम् आह—

सारथ्य-पारषद-सेवन-सख्य-दौत्य-
वीरासनानुगमन-स्तवन-प्रणामान् ।
स्निग्धेषु पाण्डुषु जगत्-प्रणतिं च विष्णोर्
भक्तिं करोति नृ-पतिश् चरणारविन्दे ॥ [भा।पु। १.१६.१६]****

स्निग्धेषु पाण्डुषु विष्णोर् यानि सारथ्यादीनि कर्माणि, तानि शृण्वंस् तथा विष्णोर् जगत्-कर्तृकां प्रणतिं च शृण्वन् नृपतिः परीक्षिद् विष्णोश् चरणारविन्दे भक्तिं करोतिपारषदं पार्षदत्वं सभा-पतित्वम् । सेवनं चित्तानुवृत्तिः । वीरासनं रात्रौ खड्ग-हस्तस्य तिष्ठतो जागरणम् ॥

॥ १.१६ ॥ श्री-सूतः ॥ १२९ ॥

[१३०]

कान्त-भाव-वश्यत्वम् आह—

न पारयेऽहं निरवद्य-संयुजां
स्व-साधु-कृत्यं विबुधायुषापि वः ।
या माभजन् दुर्जर-गेह-शृङ्खलाः
संवृश्च्य तद् वः प्रतियातु साधुना ॥ [भा।पु। १०.३२.२२]****

निरवद्या परम-शुद्ध-भाव-विशेष-मात्रेण प्रवृत्तत्वात् परम-शुद्धा संयुक् संयोगे यासांम्, तासां वः स्व-साधु-कृत्यं तद्-अनुरूप-मदीय-परम-सुखद-सेवां न पारये, न प्रत्युपकारेणानुकर्तुं शक्नोमीत्य् अर्थः । केनापि न पारये । विगतो बुधो गणना-विज्ञो यस्मात्, तेन स्वभाव-नित्येनाप्य् आयुषा इत्य् अर्थः । तासाम् अनुरागस्य साधिष्ठत्वं लोक-धर्मातिक्रान्तत्वाद् आह—या इति । तस्माद् वः साधुना सौशील्येनैव तत् प्रतियातु प्रत्युपकृतं भवतु । अहं तु भवतीनां ऋणी एवेति भावः ॥

॥ १०.३२ ॥ श्री-शुकः ॥ १३० ॥

[१३१]

तद् एवं तस्य प्रेमार्द्रत्वादिके स्थिते तद्-आदिकस्य तस्मिन् परम-साधु-गुणे च परम-हृद्य-सुखदत्वात् तद्-धेतुकं कादाचित्कं सत्यादि-वैपरीत्यम् अपि परम-गुण-शिरोमणि-शोभां भजते । तत्र सत्य-विरोध्य् अपि गुणो यथा—

स्व-निगमम् अपहाय मत्-प्रतिज्ञाम्
ऋतम् अधिकर्तुम् अवप्लुतो रथस्थः ॥ [भा।पु। १.९.३७]****

स्पष्टम् ।

॥ १.९ ॥ श्री-भीष्मः ॥ १३१ ॥

[१३२]

शौच-विरोधी यथा—अंस-न्यस्त-विषाणोऽसृङ्- मद-बिन्दुभिर् अङ्कितः [भा।पु। १०.४३.१५]48 इत्य्-आदि । स्पष्टम् ॥

॥ १०.४३ ॥ श्री-शुकः ॥ १३२ ॥

[१३३]

क्षान्ति-विरोधी च, यथा यस् तान् द्वेष्टि स मां द्वेष्टि यस् तान् अनु स माम् अनु49 [म।भा। ९१.२८] इत्य्-आदि-महाभारत-स्थ-श्री-भगवद्-वाक्यात् । यथा,

धनं हरत गोपानाम् [भा।पु। १०.४४.३२] इत्य्-आद्य्-अनन्तरम्
एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः [भा।पु। १०.४४.३४] ।50

स्पष्टम् ।

॥ १०.४४ ॥ श्री-शुकः ॥ १३३ ॥

[१३४]

सन्तोष-विरोधी च अपि मे पूर्ण-कामस्य [ह।भ।सु। १४.२८] इत्य्-आदेः भक्ति-सुधोदय-स्थ-भगवद्-वाक्यात् । यथा—

तम् अङ्कम् आरूढम् अपाययत् स्तनं
स्नेह-स्नुतं स-स्मितम् ईक्षती मुखम् ।
अतृप्तम् उत्सृज्य [भा।पु। १०.९.५] इत्य्-आदि ।

एवं जघास हैयङ्गवम् अन्तरं गतः [भा।पु। १०.९६] इत्य्-आदौ रहोऽपि तत्-तल्-लीलावेशः।

॥ १०.९ ॥ श्री-शुकः ॥ १३४ ॥

[१३५]

एवं बालि-प्रभृताव् आर्जवादि-गुण-विरोधी च सुग्रीव-हनुमद्-आदि-पक्ष-पात-मयो ज्ञेयः । सर्व-शुभङ्करत्वं च क्रोधोऽपि देवस्य वरेण तुल्यः51 इति न्यायेन सिद्धम् ।

अथ शम-विरोधी कामश् च तस्य प्रेष्ठ-जन-विशेष-रूपासु तासु प्रेम-विशेष-रूप एव । तथा हि—

स एष नर-लोकेऽस्मिन्न् अवतीर्णः स्व-मायया ।
रेमे स्त्री-रत्न-कूटस्थो भगवान् प्राकृतो यथा ॥ [भा।पु। १.११.३६]****

स्वेषु निज-जनेषु या माया कृपा तत्-सुख-चिकीर्षा-मय-प्रेमा, तया लोकेऽवतीर्ण इति तस्या एव सर्वावतार-प्रयोजन-निमित्तत्वात् । स्त्री-रत्न-कूटस्थोऽपि तादृश-रमण-वश-कारि-प्रेम-विशेष-रूपया52 तयैव रेमे, न तु प्रसिद्ध-कामेनेत्य् अर्थः । अत्र रत्न-पदेन तासाम् अपि तद्-योग्यत्वं बोधयित्वा तादृश-प्रेम-विशेष-मयत्वं बोधितम् । एवं भाव-वैलक्षण्येऽपि क्रियया साम्यम् इत्य् आह प्राकृतो यथा इति । अत्र श्री-भगवतोऽप्य् अप्राकृतत्वं दर्शयित्वा तद्वत् काम-विषयत्वं निराकृतम् ।

[१३६]

अथ पुनर् अपि तादृश-प्रेमवतीषु तास्व् अपि प्राकृत-कामाधिकारो नास्तीति दर्शनेन तस्यापि कामुक-वैलक्षण्येन तद् एव स्थापयति—


उद्दाम-भाव-पिशुनामल-वल्गु-हास-

व्रीडावलोक-निहतो मदनोऽपि यासाम्
सम्मुह्य चापम् अजहात् प्रमदोत्तमास् ता
यस्येन्द्रियं विमथितुं कुहकैर् न शेकुः ॥ [भा।पु। १.११.३७]****

मदनः प्राकृतः कामः । उद्भट-भाव-सूचक-निर्मल-मनोहराभ्यां हास-व्रीडावलोकाभ्यां निहतस् तन्-महिम-दर्शनेन स्वयम् एवोक्तार्थीकृत-स्वास्त्रादि-बलोऽभूत् । अत एव संमुह्य चापम् अजहात्

भ्रू-पल्लवं धनुर् अपाङ्ग-तरङ्गितानि
बाणा गुणाः श्रवण-पालिर् इति स्मरेण ।
तस्याम् अनङ्ग-जय-जङ्गम-देवतायाम्
अस्त्राणि निर्जित-जगन्ति किम् अर्पिताणि ॥ [गी।गो। ३.१३]53 इत्य्-आदिवत् ।

तत्र निजास्त्र-प्रयोगं न कुरुत एवेत्य् अर्थः । तथा-भूता अपि प्रमदोत्तमाः प्रमदेन प्रकृष्ट-प्रेमानन्द-विशेषेण परमोत्कृष्टास् ताः स्व-वृन्द एव याः स्वतोऽप्य् उत्कृष्ट-प्रेमवत्यः, तासां साम्येच्छया कुहकैस् तादृश-प्रेमाभावेन कपटांश-प्रयुक्तैः सद्भिः कपटादिभिर् यस्येन्द्रियं विमथितुं तद्वद् विशेषेण मथितुं न शेकुः, किन्तु स्व-प्रेमानुरूपम् एव शेकुर् इति । तस्मात् प्रेम-मात्रोत्थायि-विकारत्वात्54 तस्य कामुक-वैलक्षण्यम् इति भावः ॥

[१३७]

तस्माद् एतत् तत्त्वम् अविज्ञायैव—

तम् अयं मन्यते लोको
ह्य् असङ्गम् अपि सङ्गिनम् ।
आत्मौपम्येन मनुजं
व्यापृण्वानं यतोऽबुधः ॥ [भा।पु। १.११.३८]****

अयं साधारणो लोकः असक्तम् अपि प्राकृत-गुणेष्व् अनासक्तम् अपि । यत आत्मौपम्येन मनुजं व्यापृण्वानं कामादि-व्यापार-युक्तं मन्यते । यथा आत्मनः प्राकृत-मनुष्यत्वादि, तथैव मन्यत इत्य् अर्थः । अत एव अबुधः एवासौ लोक इति ॥

[१३८]

प्राकृत-गुणेष्व् असक्तत्वे हेतुः—

एतद् ईशनम् ईशस्य प्रकृति-स्थोऽपि तद्-गुणैः ।
न युज्यते सदात्म-स्थैर् यथा बुद्धिस् तद्-आश्रया ॥ [भा।पु। १.११.३९]****

अवतारादौ प्रकृति-गुण-मये प्रपञ्चे तिष्ठन्न् अपि सदैव तद्-गुणैर् न युज्यते इति यद्, एतद् ईशस्य ईशनम् ऐश्वर्यम् । तत्र व्यतिरेके दृष्टान्तः—यथा इति तथा इति । अन्वये वा—तद्-आश्रया श्री-भगवद्-आश्रया परम-भागवतानां बुद्धिर् यथा प्रकृति-स्था कथञ्चित् तत्र पतितापि न युज्यते, तद्वत् । एवम् एवोक्तं श्रीमद्-उद्धवेन तृतीये—

भगवान् अपि विश्वात्मा लोक-वेद-पथानुगः ।
कामान् सिषेवे द्वार्वत्याम् असक्तः साङ्ख्यम् आस्थितः ॥ [भा।पु। ३.३.१९]

[१३९]

ननु तादृशम् ऐश्वर्यं तस्य ताः किं जानन्ति । यदि जानन्ति तदा रहो-लीलायां त्रुट्यत्य् एव तादृश-प्रेमेत्य् आशङ्क्याह—

तं मेनिरेऽबला मूढाः
स्त्रैणं चानुव्रतं रहः ।
अप्रमाण-विदो भर्तुर्
ईश्वरं मतयो यथा ॥ [भा।पु। १.११.४०]****

ईश्वरम् अपि तं रह एकान्त-लीलायां मौढ्यात् तादृश-प्रेम-मोहाद् भर्तुर् अप्रमाण-विदस् तादृशैश्वर्य-ज्ञान-रहिताः स्त्रैणम् आत्म-वश्यम् अनुव्रतम् अनुसृतं च मेनिरे । तच् च नायुक्तम् इत्य् आह—यथा तासां मतयः प्रेम-वासनाः, तथैव स इति ये यथा माम् [गीता ४.११] इत्य्-आदेः । स्वेच्छामयस्य [भा।पु। १०.१४.२] इत्य्-आदेश् च प्रामाण्याद् इति भावः ।

॥ १.११ ॥ श्री-सूतः ॥ १३५-१३९ ॥

[१४०]

तथा चान्यत्र—

गृहाद् अनपगं वीक्ष्य
राज-पुत्र्योऽच्युतं स्थितम् ।
प्रेष्ठं न्यमंसत स्वं स्वं
न तत्-तत्त्व-विदः स्त्रियः ॥ [भा।पु। १०.६१.२]****

आत्मानं प्रत्येकम् एव प्रेष्ठं सर्वतः प्रियतमम् अमंसत इत्य् अर्थः । अत एव अतत्त्व-विदः, ऊर्ध्वोर्ध्व-प्रेयसी-सद्-भावात् ॥

[१४१]

नन्व् आत्मारामस्य कथं पत्नीषु प्रेम ? उच्यते । तासु रमणत्वेनैव लोकवन् न तस्य प्रेम, किन्तु शुद्ध-प्रेम-सम्बन्धेनैव । तथा हि—

चार्व्-अब्ज-कोश-वदनायत-बाहु-नेत्र-
स-प्रेम-हास-रस-वीक्षित-वल्गु-जल्पैः ।
सम्मोहिता भगवतो न मनो विजेतुं
स्वैर् विभ्रमैः समशकन् वनिता विभूम्नः ॥ [भा।पु। १०.६१.३]****

अत्र स-प्रेम इति तासु श्री-कृष्ण-प्रेम दर्शितम् । अत एव वनिता-शब्द-प्रयोगः, वनिता-जनितात्यर्थानुरागायां च योषिति इति नानार्थ-वर्गात् । तेन तस्मिंस् तासां च प्रेम दर्शितम् । अतस् तत्-प्रेम-मात्र-विजितं यद् भगवतो मनस् तत् तु स्वैः केवल-स्त्री-जातीयैर् विभ्रमैर् विजेतुं न शेकुर् इत्य् अर्थः ॥

[१४२]

स्त्री-जातीय-विभ्रमानुवाद-पूर्वकं पूर्वार्थम् एव विशदयति—-

स्मायावलोक-लव-दर्शित-भाव-हारि-
भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः ।
पत्न्यस् तु षोडश-सहस्रम् अनङ्ग-बाणैर्
यस्येन्द्रियं विमथितुं करणैर् न शेकुः ॥ [भा।पु। १०.६१.४]

स्वयम् एव अनङ्ग-बाण-रूपैः करणैर् भाव-हावादिभिर् न शेकुः । तानि विशिनष्टि—स्मायेति। स्मायः स्मितम् । भावोऽभिप्रायः । तादृश-भ्रू-मण्डलैः प्रहिता विक्षिप्ताश् च ते सौरत-मन्त्रैः सुरत-रूपार्थ-साधक-मन्त्रैः शौण्डाः प्रगल्भाश् च ते, तादृशैः ॥

॥ १०.६१ ॥ श्री-शुकः ॥ १४१-१४२ ॥

[१४३]

अथ श्री-रघुनाथ-चरिते स्त्री-सङ्गिनां गतिम् इति प्रथयंश् चचार [भा।पु। ९.१०.११] इत्य्-आदिक-वाक्येष्व् अन्तस् तत्-प्रेम-वश एव स्त्री-सङ्गिनां कामिनां गतिं प्रथयन् क्रिया-साम्येन बहिर् विख्यापयन् इत्य् एवाभिप्रायः । उक्तं च तद्-अध्यायान्ते—

प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती ।
भिया ह्रिया च भाव-ज्ञा भर्तुः सीताहरन् मनः ॥ [भा।पु। ९.१०.५६] इति ।

तद्-अनन्तराध्यायेऽपि—

तच् छ्रुत्वा भगवान् रामो रुन्धन्न् अपि धिया शुचः ।
स्मरंस् तस्या गुणांस् तांस् तान् नाशक्नोद् रोद्धुम् ईश्वरः ॥ [भा।पु। ९.११.१६]

इत्य् अनेनान्तस् तत्-प्रेम-वशतां भक्ति-विशेष-सौख्याय व्यज्य बहिः कामुक-क्रिया-साम्य-दर्शनया साधारण-जन-वैराग्य-जननायोक्तम्—स्त्री-पुं-प्रसङ्ग एतादृक् सर्वत्र त्रासम् आवहः [भा।पु। ९.११.१७] इत्य्-आदि ।

युक्तं चोभय-विधत्वं भगवच्-चरितस्य चतुरस्र-हितत्वात् । तस्मात् तत्-कामस्य प्रेयसी-विषयक-प्रीति-विशेष-मात्र-शरीरत्वम् । अतो न दोषश् च । तन्-मात्र-शरीरत्वेनैवं विशिष्योक्तम्—रेमे रमाभिर् निज-काम-सम्प्लुतः [भा।पु। १०.५९.४३] इति, स सत्य-कामोऽनुरताबला-गणः [भा।पु। १०.३३.२५] इति ।

अथ साम्यम् अपि भक्ताद् अन्यत्रैव ।

समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [गीता ९.२९] इत्य्-आद्ः ।

अथ भक्त-प्रेम-विशेष-मय-नर-लीलावेश-मये क्वचित् तत्-प्रकाश-विशेषे कदाचित् सर्वज्ञत्वादि-विरोधि-मोहादिकोऽपि दृश्यते । सोऽपि गुण एव । तादृश-मोहादिकस्य तल्-लीला-माधुर्य-वाहित्वेन विदुषाम् अपि प्रीति-सुखदत्वात् न तु दोषः । स्वेच्छयाङ्गीकृतत्वात् । अत एवाह—

रक्षो विदित्वाखिल-भूत-हृत्-स्थितः
स्वानां निरोद्धुं भगवान् मनो दधे ॥ [भा।पु। १०.१२.२५]****
तावत् प्रविष्टास् त्व् असुरोदरान्तरं
परं न गीर्णाः शिशवः स-वत्साः ॥ [भा।पु। १०.१२.२६] इति ।

तथा ततो वत्सान् अदृष्ट्वैत्य [भा।पु। १०.१३.१६] इत्य्-आदि ।

॥ १०.१२ ॥ श्री-शुकः ॥ १४३ ॥

[१४४]

यदा च तस्य स्वेच्छा न भवति प्रतिकूलैर् मोहादिना योजयितुम् इष्यते च सः । तदा सर्वथा तेन न युज्यत एव । यथा शाल्व-मायया तस्य मोहाभावं स्थापयन्न् आह—एवं वदन्ति राजर्षे ऋषयः के च नान्विताः [भा।पु। १०.७७.३०] इत्य्-आदौ ।

क्व शोक-मोहौ स्नेहो वा
भयं वा येऽज्ञ-सम्भवाः ।
क्व चाखण्डित-विज्ञान-
ज्ञानैश्वर्यस् त्व् अखण्डितः ॥ [भा।पु। १०.७७.३१] इत्य्-आदि ।

पूर्वोक्त-रीत्यैवोक्तं ये त्व् अज्ञ-सम्भवाः परमायादि-पारवश्य-मात्र-कृताः शोकादयस् ते क्व ? इति ।

॥ १०.७७ ॥ श्री-शुकः ॥ १४४ ॥

[१४५]

भक्त-प्रेम-पारावश्य-सम्बन्धेन तु शोकादयोऽपि वर्णिता एव—श्रुत्वा तां भगवान् रामः [भा।पु। ९.११.१६] इत्य्-आदौ श्री-राम-चरिते । सख्युः प्रियस्य विप्रर्षेः [भा।पु। १०.८०.१९] इत्य्-आदौ श्री-दामादि-विप्र-चरिते । तथाह—

गोप्य् आददे त्वयि कृतागसि दाम तावद्
या ते दशाश्रु-कलिलाञ्जन-सम्भ्रमाक्षम् ।
वक्त्रं निनीय भय-भावनया स्थितस्य
सा मां विमोहयति भीर् अपि यद् बिभेति ॥ [भा।पु। १.८.३१]****

तत्र भीर् अपि यद् बिभेति इत्य् उक्त्या तस्य ऐश्वर्य-ज्ञानं व्यक्तम् । ततो यदि सा भीः सत्या न भवति तदा तस्या मोहोऽपि न सम्भवेद् इति गम्यते । स्फुटम् एव चान्तर्भयम् उक्तं भय-भावनया स्थितस्येति ॥

॥ १.८ ॥ श्री-कुन्ती श्री-भगवन्तम् ॥ १४५ ॥

[१४६]

अथ स्वान्तन्त्र्यं भक्त-सम्बन्धं विनैव अहं भक्त-पराधीनः [भा।पु। ९.४.६३] इत्य्-आदेः । अथ गोचारणादाव् अपि सुखित्व-गुणानुकूल्यम् एव मन्तव्यम् । तद्-व्याजेन नाना-क्रीडा-सुखम् एव ह्य् उपचीयते । यथाह—

व्रज-विक्रीडतोर् एवं गोपाल-च्छद्म-मायया ।
ग्रीष्मो नामर्तुर् अभ्वन् नातिप्रेयान् शरीरिणाम् ॥
स च वृन्दावन-गुणैर् वसन्त इव लक्षितः ॥ [भा।पु। १०.१८.२-३]

क्रिया-कृतस्य दुःखस्य निषेधः । व्रजे विक्रीडतोर् इति । छद्म व्याजः । माया वञ्चनम् । गोपाल-व्याजेन यद् वञ्चनं तेन विक्रीडतोः । प्रातस् तद्-व्याजेन नाना-जनान् वञ्चयित्वा व्रजाद् वनं गत्वा स्वच्छन्दं निजाभीष्टाः क्रीडाः कुर्वतोर् इत्य् अर्थः । सायं व्रजावासागमने चान्या इति । काल-कृतस्य दुःखस्य निषेधः । स चेति । अनेन देश-कृतस्य च इति ज्ञेयः ।

॥ १०.१८ ॥ श्री-शुकः इति ॥ १४६ ॥

[१४७]

अथ पूर्ववत् स्थैर्य-विरोधी बाल्यादि-चाञ्चल्यम् अपि गुणत्वेनैव स्फुटं दृश्यते । यथा वत्सान् मुञ्चन् क्वचिद् असमये [भा।पु। १०.८.२९] इत्य्-आदि ।

अथ रक्त-लोकत्वं च यथाह—

स्निग्ध-स्मितावलोकेन वाचा पीयूष-कल्पया ।
चरित्रेणानवद्येन श्री-निकेतेन चात्मना ॥
इमं लोकम् अमुं चैव रमयन् सुतरां यदून् ।
रेमे क्षणदया दत्त-क्षण-स्त्री-क्षण-सौहृदः ॥ [भा।पु। ३.३.२०-२१]****

रजन्या दत्तावसरः स्त्रीणां क्षणं उत्सव-रूपं सौहृदं यस्य ॥

॥ ३.३ ॥ श्रीमान् उद्धवः ॥ १४७ ॥

[१४८]

अत्र एवं लीला-नर-वपुः [भा।पु। १०.२३.३३] इत्य्-आदिकम् अपि उदाहार्यम् । एवम् अपि यद् असुराणाम् अपरक्तत्वम् । तत्र कारणम् आह—

पापच्यमानेन हृदातुरेन्द्रियः
समृद्धिभिः पूरुष-बुद्धि-साक्षिणाम् ।
अकल्प एषाम् अधिरोढुम् अञ्जसा
परं पदं द्वेष्टि यथासुरा हरिम् ॥ [भा।पु। ४.३.२१]****

स्पष्टम् ।

॥ ४.३ ॥ श्री-शिवः ॥ १४८ ॥

[१४९]

यद्यप्य् एषां गुणानां सर्वेषाम् अपि भगवति नित्यत्वम् एव, तथापि तत्-तल्-लीला-सिद्ध्य्-अर्थं तेषां क्वचित् कस्यचित् प्रकाशः कस्यचिद् अप्रकाशश् च भवति । अत एवाह—

अश्रूयन्ताशिषः सत्यास् तत्र तत्र द्विजेरिताः ।
नानुरूपानुरूपाश् च निर्गुणस्य गुणात्मनः ॥ [भा।पु। १.१०.१९]

निर्गुणस्य मध्य-पद-लोपेन निर्गता गुणेभ्यो गुणा यस्य तस्य, प्राकृत-गुणातीत-नित्य-गुणस्य नानुरूपाः नित्य-तत्-परिपूर्णत्वेन लाभान्तरायोगात् । गुणात्मनः तदाशीर्वादाङ्गीकार-द्वारा तत्-तद्-गुण-विशेष-प्रवर्तक-निवर्तकस्य अनुरूपाश् च । तद्-अङ्गीकारे हेतुः—सत्या इति ।

तद् एवं प्रकाशनाप्रकाशन-हेतोर् एव श्री-भगवतश् चन्द्र-पर-परार्धोज्ज्वलतादिके सत्य् अपि तल्-लीला-माधुर्य-विस्तारकस् तमिस्रादि-व्यवहारः सिध्यति ।

॥ १.१० ॥ श्री-सूतः ॥ १४९ ॥

[१५०]

अत एवावसर-विशेषं प्राप्य तत्-तद्-गुण-समुदाय-विशेषाविर्भावाद् एक एवासौ तत्र तत्र पृथक् पृथग् इव धीरोदात्तादि-व्यवहार-चतुष्टयम् अपि प्रकाशयति । तत्र धीरोदात्तो यथा—

गम्भीरो विनयी क्षन्ता करुणः सुदृढ-व्रतः ।
अकत्थनो गूढ-गर्वो धीरोदात्तः सु-सत्त्व-भृत् ॥ [भ।र।सि। २.१.२२६] इति ।

एते च गुणा गोवर्धनोद्धारणादि-शक्र-सम्भाषान्त-लीलायां व्यक्ताः सन्ति । अथ धीर-ललितः—

विदग्धो नव-तारुण्यः परिहास-विशारदः ।
निश्चिन्तो धीर-ललितः स्यात् प्रायः प्रेयसी-वशः ॥ [भ।र।सि। २.१.२३०]

एते च श्रीमद्-व्रज-देवी-सहित-लीलायां सुष्ठु व्यक्ताः । अथ धीर-शान्तः—

शम-प्रकृतिकः क्लेश-सहनश् च विवेचकः ।
विनयादि-गुणोपेतो धीर-शान्त उदीर्यते ॥ [भ।र।सि। २.१.२३३]

एते च तादृशानां युधिष्ठिरादीनां सन्निधौ तत्-पालन-लीलायाम् उज्जृम्भते । अथ धीरोद्धतः—

मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः ।
विकत्थनश् च विद्वद्भिर् धीरोद्धत उदाहृतः ॥ [भ।र।सि। २.१.२३६]

एते च तादृशान् असुरान् प्राप्य क्वचिद् उदयन्ते । अत एव दुष्ट-दण्डन-हेतुत्वाद् एषां गुणत्वं च । तद् एवम् उद्दीपनेषु गुणा व्याख्याताः । अथ तेषु जातिर् द्विविधाः । तस्य तत्-सम्बन्ध-सम्बन्धिनां चेति । तत्र तस्य जातिर् गोपत्व-क्षत्रियत्वादिका । श्यामत्व-किशोरत्वादिकम् अन्यत्र तद्-उपमा-बुद्धि-जनकत्वं च । तत्-सम्बन्धिनां जातिस् तु गोत्वादिका ज्ञेया ।

अथोद्दीपनेषु क्रिया लीला एव । ताश् च द्विविधाः । तत्र तत्-सान्निध्येन मायया दर्शिताः। सृष्ट्य्-आदयो मायिक्यः । तदीय-श्री-विग्रह-चेष्टास् तु स्मित-विलास-खेला-नृत्य-युद्धादयः स्वरूप-शक्तिमय्यः । श्री-विग्रहस्य स्वरूपानन्दैक-रूपत्वात् । रमयात्म-शक्त्या यद् यत् करिष्यति [भा।पु। ३.९.२३]55 इति तृतीय-स्थ-ब्रह्म-स्तवाच् च । ईश्वरस्यापि तस्य वर्तत एव स्वाभाविकं तद्-इच्छा-कौतुकं लोकवत् तु लीला-कैवल्यम् [वे।सू। २.१.३३] इति न्यायेन । यथाह—

एक एवेश्वरस् तस्मिन् सुर-कार्ये सुरेश्वरः ।
विहर्तु-कामस् तान् आह समुद्रोन्मथनादिभिः ॥ [भा।पु। ८.६.१७]

एक एवेश्वरः समर्थोऽपि इति टीका च । अत एव तत्-तज्-जाति-लीलाभिनिवेशः श्रूयते, यथा विष्णु-धर्मोत्तरे—

यस्यां यस्यां यदा योनौ प्रादुर्भवति कारणात् ।
तद्-योनि-सदृशं वत्स तदा लोके विचेष्टते ॥
संहर्तुं जगद्-ईशानः समर्थोऽपि तदा नृप ।
तद्-योनि-सदृशोपायैर् वध्यान् हिंसति यादव ॥ [वि।ध।उ।पु। १.१७२.१०-११] इत्य्-आदि ।

॥ ८.६ ॥ श्री-शुकः ॥ १५० ॥

[१५१]

तत्र श्री-विग्रह-चेष्टा द्विविधाः । ऐश्वर्यमय्यो माधुर्य-मय्यश् चेति । तत्र निज-जन-प्रेममयत्वान् माधुर्य-मय्य एव रमणाधिक्ये हेतवः । यथैव परम-विस्मय-हर्षाभ्याम् आह—

एवं निगूढात्म-गतिः स्व-मायया
गोपात्मजत्वं चरितैर् विडम्बयन् ।
रेमे रमा-लालित-पाद-पल्लवो
ग्राम्यैः समं ग्राम्यवद् ईश-चेष्टितः ॥ [भा।पु। १०.१५.१९]

श्री-नारायणादि-रूपेषु स्वाविर्भावेषु रमा-लालित-पाद-पल्लवोऽपि स्वेषु अलौकिकेष्व् अपि व्रज-वासिषु निरीक्ष्य तद्-वपुर् अलम् अम्बरे चरत् [भा।पु। १०.१८.२७]56 इत्य्-आदौ हलधर ईषद् अत्र सत् इति न्याय-लब्धेन तल्-लीला-माधुर्य-विशेषावेशेन लौकिकवद् व्यवहरत्सु या माया कृपा, साधवो हृदयं मह्यं [भा।पु। ९.४.६८]57 इत्य्-आदि-न्यायेन तत्-कृतैक्य-व्यवहारः, तया निगूढात्म-गतिस् तिरोहित-पारमैश्वर्य-स्थितिः सन् लौकिकं यद् गोपात्मजत्वं, तद् एव अलौकिक-गोपात्मजमयैश् चरितैर् विडम्बयन् अनुकुर्वन् रेमे स्वयम् अपि रतिम् उवाह । अतस् तादृश-रमणेषु यथा तद्-इच्छा, न तथा रमा-लालित-पाद-पल्लवत्वेऽपीति दर्शितम् ।

रमणम् एव दर्शयति । यथाधुनापि ग्राम्यैर् बालकैः समं कश्चिद् ग्रामाधिप-बालको रमते, तद्वत् । तत्-तल्-लीला-प्रधान एव रमते, न त्व् ऐश्वर्य-प्रधान इत्य् अर्थः । दृश्यते च तत्-तल्-लीलावेशः, स जात-कोप-स्फुरितारुणाधरः [भा।पु। १०.९.६]58 इत्य्-आदौ, रहोऽपि जात-तादृश-भावात्, तान् वीक्ष्य कृष्णः [भा।पु। १०.१२.२७]59 इत्य्-आदौ बालानां स्व-करापच्युतता जातानुतापाद् दिष्ट-कृतत्व-मननाच् च । अत एव तस्य तत्-तल्-लीलासु लोकानुसारि यद् यद् बुद्धि-कर्म-सौष्ठवं, तत् तत् सुष्ठु मुनिभिर् अपि स-चमत्कारं वर्ण्यते । यथोक्तं श्री-शुकेन जरासन्ध-युद्धान्ते—

स्थित्य्-उद्भवान्तं भुवन-त्रयस्य यः
समीहितेऽनन्त-गुणः स्व-लीलया ।
न तस्य चित्रं पर-पक्ष-निग्रहस्
तथापि मर्त्यानुविधस्य वर्ण्यते ॥ [भा।पु। १०.५०.३०] इति ।

तेषु चरितेषु यद् अलौकिकम् आसीत्, तद् अपि तत्-तल्-लीला-रस-मात्रासक्तस्य तस्य स्वभाव-सिद्धैश्वर्यत्वेन लीलाख्या शक्तिर् एव स्वयं सम्पादितवतीत्य् आह—ईशं तत्-तल्-लीलोचित-सुघट-दुर्घट-सर्वार्थ-साधकं चेष्टितं लीलैव यस्य स इति । यथोक्तम्—

अथोवाच हृषीकेशं नारदः प्रहसन्न् इव ।
योग-मायोदयं वीक्ष्य मानुषीम् ईयुषो गतिम् ॥ [भा।पु। १०.६९.३७]

यथा च—

यद्य् एवं तर्हि व्यादेहीत्य् उक्तः स भगवान् हरिः ।
व्यादत्ताव्याहतैश्वर्यः क्रीडा-मनुज-बालकः ॥ [भा।पु। १०.८.३६]

सा तत्र ददृशे विश्वम् [भा।पु। १०.८.३७]60 इति । अत्र यदि सत्य-गिरस् तर्हि समक्षं पश्य मे मुखम् [भा।पु। १०.८.३५]61 इत्य्-अन्ता तदीय-सरस-कृतैव लीला पूर्वम् उक्ता । अव्याहतैश्वर्य इत्य्-आदिका तु तत्-तल्-लीला-शक्ति-कृतैव । सा च श्री-व्रजेश्वर्या वात्सल्य-पोषिके विस्मय-शङ्के पुष्णाति । नाहं भक्षितवान् अम्ब [भा।पु। १०.८.३५] इति सम्भ्रमेण मिथ्यैव कृष्ण-वाक्यं च सत्यापयति ।

एवं श्री-दामोदर-लीलायां यावत् तस्य बन्धनेच्छा न जातासीत्, तावद् रज्जु-परम्पराभ्यस् तस्मिन् द्व्य्-अङ्गुलाधिकत्व-प्रकाशः । तद् उक्तं तद्-दामा [भा।पु। १०.९.१५]62 इत्य्-आदिना । यदा तु मातृ-श्रमेण तद्-इच्छा जाता तदा न तत्-प्रकाशः । तद् उक्तं—स्व-मातुः स्विन्न-गात्रायाः [भा।पु। १०.९.१८]63 इत्य्-आदिना ।

एवं श्री-कृष्ण-कृपा-दृष्टि-प्रभावेणैव विषमय-मोहात् सखीनां समुद्धरणं तद्-आवेशेनैव दावाग्नि-पाने चिकीर्षित-मात्रे स्वयं तन्-नाश इत्य्-आदिकं ज्ञेयम् । क्रीडा-मनुज-बालक_ _[भा।पु। १०.८.३६] इति क्रीडया लीलया मनुज-बालक-स्थितिं प्राप्तोऽपीत्य् अर्थः । अन्यत्र च क्रीडा-मानुष-रूपिणः [भा।पु। १०.१६.६८]64 इति । एवं कार्य-मानुषः [भा।पु। १०.१६.६०]65 इत्य् अत्रापि कार्यं क्रीडैव । तस्मात् साधु व्याख्यातम् एवं निगूढात्म-गतिः इत्य्-आदि ।

॥ १०.१५ ॥ श्री-शुकः ॥ १५१ ॥

[१५२]

अन्यत्र च पूर्व-रीत्यैवाह—

कृत्वा तावन्तम् आत्मानं यावतीर् गोपयोषितः ।
रेमे स भगवांस् ताभिर् आत्मारामोऽपि लीलया ॥ [भा।पु। १०.३३.२०]

तादृशोऽपि ताभिः सह रेमे । तस्यारविन्द-नयनस्य [भा।पु। ३.१५.४३] इत्य्-आदौ, चकार तेषां सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः इतिवत् । तत्र सर्वाभिर् एव युगपल्-लीलेच्छा यदा जाता, तदैव तावत्-प्रकाशा अपि तथैव लीला-शक्त्या घटिता इत्य् आह—कृत्वा इति । लीलया लीला-शक्ति-द्वारैव, न तु स्व-द्वारा । तावन्तम् आत्मानम् आत्मनः प्रकाशं कृत्वा प्रकटय्य ।

॥ १०.३३ ॥ श्री-शुकः ॥ १५२ ॥

[१५३]

तद् एवं माधुर्य-मय्या लीलाया उत्कर्षो दर्शितः । अस्यां माधुर्य-मय्यां च युगपद् विचित्र-लीला-विधानस्य तस्यापि रमणाधिक्य-हेतुत्वेन पूर्व-दर्शित-विलास-मय्य् एव श्री-शुकदेवादीनाम् अपि श्री-शिव-ब्रह्मादीनाम् अपि परम-मधुरत्वेन भासते । पूर्वत्र यथा इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.१२.११] च तादृशत्वेन वर्णनात् । उत्तरत्र शक्र-शर्व-परमेष्ठि-पुरोगाः [भा।पु। १०.३५.१५] , कश्मलं ययुर् इत्य्-आदिषु तत्रैव मोह-श्रवणाच् च ।

अथ क्रीडा-मानुष-रूपिणस् तस्यान्या लोक-मर्यादा-मयी धर्मानुष्ठान-लीला तु धर्म-वीरादि-भक्तानाम् एव मधुरत्वेन भासते न तादृशानाम् । यथाह—

ब्रह्मन् धर्मस्य वक्ताहं कर्ता तद्-अनुमोदिता ।
तच् छिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः ॥ [भा।पु। १०.६९.६०]****

तत्र हि श्री-नारदो नाना-क्रीडान्तर-दर्शनेन सुखं लब्धवान् धर्मानुष्ठान-दर्शनेन तु खेदं तत्राह—ब्रह्मन्न् इति ।

॥ १०.६९ ॥ श्री-भगवान् नारदम् ॥ १५३ ॥

[१५४]

अथ पूर्ववद् एव कनिष्ठ-ज्ञानि-भक्तानाम् एव मधुरत्वेन भासमानां तद्-औदासीन्य-लीलाम् अप्य् आह—

तस्यैवं रममाणस्य संवत्सर-गणान् बहून् ।
गृहमेधेषु योगेषु विरागः समजायत ॥ [भा।पु। ३.३.२२]****

गृह-मेधेषु गार्हस्थ्योचित-धर्मानुष्ठानेषु वैराग्यम् औदासीन्यम् ।

॥ ३.३ ॥ श्रीमान् उद्धवो विदुरम् ॥ १५४ ॥

[१५५]

अथोद्दीपनेषु तदीय-द्रव्याणि च परिष्कारास्त्र-वादित्र-स्थान-चिह्न-परिवार-भक्त-तुलसी-निर्माल्यादीनि । तत्र परिष्कारा वस्त्रालङ्कार-पुष्पादयः । ते च तदीयास् तत्-स्वरूप-भूतत्वेनैव भगवत्-सन्दर्भे दर्शिताः । तथापि भूषण-भूषणाङ्गम् [भा।पु। ३.२.११] इति न्यायेन तत्-सौन्दर्य-सौरभ्यादि-परिष्क्रियमाणतयैव तं परिष्कुर्वन्ति न केवल-स्व-गुणेन । स च तत्-तद्-रूपान् तान् स्व-शक्ति-विलासान् प्राप्य स्वीय-तत्-तद्-गुणान् विशेषतः प्रकाशयतीति तस्य तत्-तद्-अपेक्षापि सिध्यति । अत एव पीताम्बर-धरः स्रग्वी साक्षान् मन्मथ-मन्मथः [भा।पु। १०.३२.२] इत्य्-आदौ अभिव्यक्तासमोर्ध्व-सौन्दर्यस्यापि परिष्कारत्वेन वर्णितयोः स्रक्-पीताम्बरयोर् अपि तादृशत्वं गम्यते । ईदृशान्य् एव वासांसि नित्यं गिरि-वनेचराः [भा।पु। १०.४१.३५] इति रजक-वाक्यं त्व् आसुर-दृष्ट्या, श्री-विष्णु-पुराणे लौकिक-दृष्ट्यापि सुवर्णाञ्जन-चूर्णाभ्यां तौ तदा भूषिताम्बरौ [वि।पु। ५.९.५] इत्य् उत्तमागमत्वावगमात् । तथा मूले च श्यामं हिरण्य-परिधिम् [भा।पु। १०.२३.२२] इत्य्-आदि ।

आस्तां तद् अपि कालिय-वरुण-गोविन्दाभिषेक-कर्तृ-महेन्द्राद्य्-उपहृतासङ्ख्य-वस्त्रादीनां तद्-दिने चावश्यं विचित्र-परिहितानां तेनान्यथा प्रतीयमानत्वम् एव जायते । ततः कंसाहृत-वाससां स्वीकारश् च तदीय-स्वरूप-शक्त्यैक-प्रादुर्भाव-रूपाणां नरकाहृत-कन्यानाम् इवेति ज्ञेयम् ।

अथास्त्राणि यष्टि-चक्रादीनि । वादित्राणि वेणु-शङ्खादीनि । स्थानानि वृन्दावन-मथुरादीनि । चिह्नानि पदाङ्कादीनि । परिवारा गोपयादवाद्याः । निर्मल्याणि गोपी-चन्दनादीनि यथायथं तत्र तत्र ज्ञेयानि । अथोद्दीपनेषु कालाश् च तदीय-जन्माष्टम्य्-आदयः । तथा भक्तस्य स्व-योग्यता च तद्-उद्दीपनत्वेन दृश्यते । यथा—

ततो रूप-गुणौदार्य- सम्पन्ना प्राह केशवम् ।
उत्तरीयान्तम् आकृष्य स्मयन्ती जात-हृच्-छया ॥ [भा।पु। १०.४२.९]****

स्पष्टम् ।

॥ १०.४२ ॥ श्री-शुकः ॥ १५५ ॥

[१५६]

तथा तद्-रस-विशेषेषु श्री-भगवद्-अङ्ग-विशेषा अपि उद्दीपन-वैशिष्ट्यं भजन्ते । यथा—

श्रियो निवासो यस्योरः पान-पात्रं मुखं दृशाम् ।
बाहवो लोक-पालानां सारङ्गाणां पदाम्बुजम् ॥ [भा।पु। १.११.२७]

श्रियः प्रेयस्याः । याः सर्वेषाम् एव तत्-प्रिय-वर्गाणां दृशश् चक्षूंषि, तासाम् । लोक-पालानां पाल्यानाम् । सारङ्गाणां सर्वेषाम् एव भक्तानाम् । निवास आश्रयः । यथा-स्वं भावोद्दीपनत्वात् ॥२७॥

॥ १.११ ॥ श्री-सूतः ॥ १५६ ॥

[१५७]

क्वचिद् विरोधिनोऽपि प्रतियोगि-मुखेन तद्-उद्दीपना भवन्ति । सूर्यादि-तापा इव जलाभिलाषस्य । यथा—

श्रुत्वैतद् भगवान् रामो विपक्षीय-नृपोद्यमम् ।
कृष्णं चैकं गतं हर्तुं कन्यां कलह-शङ्कितः ॥
बलेन महता सार्धं भ्रातृ-स्नेह-परिप्लुतः [भा। १०.५३.२०-२१] इत्य्-आदि ।

एवं वात्सल्यादौ श्री-कृष्णस्य धूलि-पङ्क-क्रीडादि-कृत-मालिन्यादयोऽपि ज्ञेयाः । कान्त-भावादौ वृद्धादि-प्रातिकूल्यादयोऽपि यदा च ते भयानकादि-गौण-रस-सप्तकं जनयन्ति, तदापि पञ्च-विध-मुख्य-प्रीति-रस-पोषकताम् एव प्रपद्यन्ते। यथोक्तं भक्ति-रसामृत-सिन्धौ—

अमी पञ्चैव शान्ताद्या हरेर् भक्ति-रसा मताः ।
एषु हास्यादयः प्रायो बिभ्रति व्यभिचारिताम् ॥ [भ।र।सि। ४.७.१४] इति ।

॥ १०.५३ ॥ श्री-शुकः ॥ १५७ ॥

[१५८]

[१५८.१] तद् एवम् उद्दीपना उद्दिष्टाः । एषु च श्री-वृन्दावन-सम्बन्धिनस् तु प्रकृष्टाः । अहो यत्र सर्वेषाम् एव परम-प्रीत्य्-एकास्पदस्य श्री-कृष्णस्यापि परम-प्रीत्य्-आस्पदत्वं श्रूयते—वृन्दावनं गोवर्धनम् [भा।पु। १०.११.१६] इत्य्-आदौ, श्लाघितं च स्वयम् एव अहो अमी देव-वरामरार्चितम् [भा।पु। १०.१५.५] इत्य्-आदिभिः ।

तथा तदीय-परम-भक्तैश् च तद् भूरि-भाग्यम् इह जन्म [भा।पु। १०.१४.३४] इत्य्-आदिना, आसाम् अहो चरण-रेणु-जुषाम् [भा।पु। १०.४७.६१] इत्य्-आदिना, वृन्दावनं सखि भुवो वितनोति कीर्तिं [भा।पु। १०.२१.१०] इत्य्-आदिना च ।

[१५८.२] अत एव श्री-कृष्णस्यापि तत्रस्थाः प्रकाशा लीलाश् च परम-वरीयांसः । यथा त्रैलोक्य-संमोहन-तन्त्रे तदीय-श्रीमद्-अष्टादशाक्षर-प्रस्तावे—

सन्ति तस्य महा-भागा अवताराः सहस्रशः ।
तेषां मध्येऽवताराणां बालत्वम् अतिदुर्लभम् ॥ इति ।

बाल्यं च षोडश-वर्ष-पर्यन्तम् इति प्रसिद्धम् । तथा हरि-लीला-टीकायाम् उदाहृता स्मृतिः—

गर्भस्थ-सदृशो ज्ञेय आष्टमाद् वत्सराच् छिशुः ।
बालश् चाषोडशाद् वर्षात् पौगण्डश् चेति प्रोच्यते ॥ इति ।

अन्यत्र च श्लाघितम्—

नन्दः किम् अकरोद् ब्रह्मन् श्रेय एवं महोदयम् ।
यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः ॥
पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् ।
गायन्त्य् अद्यापि कवयो यल् लोक-शमलापहम् ॥ [भा।पु। १०.८.४६-४७]

अत एव एकादशे सर्व-श्री-कृष्ण-चरित-कथान्ते सामान्यतः श्री-कृष्ण-चरितस्य भक्त्य्-उद्दीपनत्वम् उक्त्वा वैशिष्ट्य-विवक्षया बाल्य-चरितस्य पृथग्-उक्तिः—

इत्थं हरेर् भगवतो रुचिरावतार-
वीर्याणि बाल-चरितानि च शन्तमानि ।
अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो
भक्तिं परां परमहंस-गतौ लभेत ॥ [भा।पु। ११.३१.२८] इति ।

[१५८.३] सोऽयं च तत्-प्रकाश-लीलानाम् उत्कर्षो बहु-विधः । ऐश्वर्य-गतस् तावत् सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्ति-ब्रह्माण्ड-कोटीश्वर-दर्शनादौ । कारुण्य-गतश् च पूतनायाम् अपि साक्षान् मातृ-गति-दाने । माधुर्य-गतस् तु ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ [भा।पु। १०.८.२२] इत्य्-आदौ, वत्सान् मुञ्चन् क्वचिद् असमये [भा।पु। १०.८.२९] इत्य्-आदौ, गोपीभिः स्तोभितोऽनृत्यत् [भा।पु। १०.११.७] इत्य्-आदौ, क्वचिद् वादयतो वेणुम् [भा।पु। १०.११.३९] इत्य्-आदौ, क्वचिद् विनाशाय मनो दधद् व्रजात् [भा।पु। १०.२१.१] इत्य्-आदौ, क्वचिद् गायति गायत्सु [भा।पु। १०.१५.१०] इत्य्-आदौ, तं गो-रजश् छुरित-कुन्तल-बद्ध-बर्ह- [भा।पु। १०.१५.४२] इत्य्-आदौ, कृष्णस्य नृत्यतः केचिद् [भा।पु। १०.१८.१०] इत्य्-आदौ, धेनवो मन्द-गामिन्यः [भा।पु। १०.२०.२६] इत्य्-आदौ, अक्षण्वतां फलम् [भा।पु। १०.२१.७] इत्य्-आदौ, श्यामं हिरण्य-परिधिम् [भा।पु। १०.२३.२२] इत्य्-आदौ, भगवान् अपि ता रात्रीः [भा।पु। १०.२९.१] इत्य्-आदौ, वाम-बाहु-कृत-वाम-कपोलः [भा।पु। १०.३५.२] इत्य्-आदौ च । किं बहुना, सर्वत्रैव सहृदयैः सर्व एवावगन्तव्यः ।

[१५८.४] अथ अनुभावास् तु चित्त-स्थ-भावानाम् अवबोधकाः [भ।र।सि। २.२.१] । ते द्विविधाः—उद्भास्वराख्याः सात्त्विकाख्याश् च । तत्र भावजा अपि बहिश्-चेष्टा-प्राय-साध्या उद्भास्वराः । ते चोक्ताः—

नृत्यं विलुठितं गीतं क्रोशनं तनु-मोटनम् ।
हुङ्कारो जृम्भणं श्वास-भूमा लोकानपेक्षिता ।
लाला-स्रवोऽट्टहासश् च घूर्णा-हिक्कादयोऽपि च ॥ [भ।र।सि। २.२.२] इति ।

[१५८.५] अथ सात्त्विकाः अन्तर्-विकारैक-जन्याः । यत्रान्तर्-विकारोऽपि तद्-अंश इति भावत्वम् अपि तेषां मन्यन्ते । तत्र—

ते स्तम्भ-स्वेद-रोमाञ्चाः स्वर-भेदोऽथ वेपथुः ।
वैवर्ण्यम् अश्रु प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ॥ [भ।र।सि। २.३.१६]

एषु प्रलयो नष्ट-चेष्टता । भगवत्-प्रीति-हेतुक-प्रलये च बहिश्-चेष्टा-नाशः । न त्व् अन्तर्-भगवत्-स्फूर्त्य्-आदेर् अपि । यथोक्तं श्रीमद्-उद्धवम् उद्दिश्य—

स मुहूर्तम् अभूत् तूष्णीं कृष्णाङ्घ्रि-सुधया भृशम् ।
तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः ॥ [भा।पु। ३.२.४] इत्य्-आदिना ।
शनकैर् भगवल्-लोकान् नृलोकं पुनर् आगतः ॥ [भा।पु। ३.२.६] इत्य् अन्तेन ।

यथा गारुडे—

जाग्रत्-स्वप्न-सुसुप्तेषु योग-स्थस्य च योगिनः ।
या काचिन् मनसो वृत्तिः सा भवेद् अच्युताश्रयः ॥ [ग।पु। २३०.७] इति ।

अत एव तदानीं तत्-तद्-रसानाम् आस्वाद-भेद-स्फूर्तिर् अप्य् अवगन्तव्या ।

[१५८.६] अथ सञ्चारिणः । ये व्यभिचारिणश् च भण्यन्ते । सञ्चारयन्ति भावस्य गतिं [भ।र।सि। २.४.२] इति**,** विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति [भ।र।सि। २.४.१] इति च निरुक्तेः । ते च त्रयस्त्रिंशत्—

निर्वेदोऽथ विषादो दैन्यं ग्लानि-श्रमौ च मद-गर्वौ ।
शङ्का-त्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥
मोहो मृतिर् आलस्यं जाड्यं व्रीडावहित्था च ।
स्मृतिर् अथ वितर्क-चिन्ता-मति-धृतयो हर्ष उत्सुकत्वं च ॥
औग्र्यम् अर्षासूयाश् चापल्यं चैव निद्रा च ।
सुप्तिर् बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥ [भ।र।सि। २.४.४-६]

एषां लक्षणम् उज्ज्वले दर्शनीयम् । एषु त्रासः कृष्ण-वत्सलादिषु भयानकादि-दर्शनात्। तद्-अर्थं तत्-सङ्गति-हानि-तर्केणात्मार्थं च भवति । निद्रा तच्-चिन्तया शून्य-चित्तत्वेन तत्-सङ्गत्य्-आनन्द-व्याप्त्या च भवति । श्रमः परमानन्द-मय-तद्-अर्थायास-तादात्म्यापत्तौ भवति । आलस्यं तादृश-श्रम-हेतुकं कृष्णेतर-सम्बन्धि-क्रिया-विषयकं भवति । बोधश् च तद्-दर्शनादि-वासनायाः स्वयम् उद्बोधेन भवतीत्य् आदिकं ज्ञेयम् । किं च निर्वेदादीनां चामीषां लौकिक-गुण-मय-भावायमानानाम् अपि वस्तुतो गुणातीतत्वम् एव तादृश-भगवत्-प्रीत्य्-अधिष्ठानत्वात् ।

[१५८.७] अथैतत्-संवलनात्मको भगवत्-प्रीतिमयो रसोऽपि व्यञ्जित एव—

स्मरन्तः स्मारयन्तश् च मिथोऽघौघ-हरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥
क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद्
धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः ।
नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं
भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ [भा।पु। ११.३.३१-३२] इत्य् अनेन ।

अत्र हरिर् आलम्बनो विभावः । स्मरणम् उद्दीपनः । स्मारणादिक उद्भास्वराख्योऽनुभावः । पुलकः सात्त्विकः । चिन्तादयः सञ्चारिणः । संजातया भक्त्येति स्थायी । भवन्ति तूष्णीं परम् एत्य निर्वृता इति तत्-संवलनम् । परं परम-रसात्मकं वस्त्व् इत्य् अर्थः ।

[१५८.८] एष च भगवत्-प्रीति-मय-रसः पञ्चधा प्रीतेर् भेद-पञ्चकेन । ते च ज्ञान-भक्ति-मय-भक्ति-मय-वत्सल-मैत्री-मयोज्ज्वलाख्याः क्रमेण ज्ञेयाः । एतेषां च स्थायिनां भावान्तराश्रयत्वात् नियताधारत्वाच् च मुख्यत्वम् । ततस् तदीय-रसानाम् अपि मुख्यता । ये त्व् अन्येऽद्भुतादि-रस-स्थायिनो विस्मयादयः, तेषां तत्-प्रीति-सम्बन्धेनैव भागवत-रसान्तः-पातात् पञ्च-विधेषु प्रियेषु कादाचित्कोद्भवत्वेनानियताधारत्वाच् च गौणता । ततस् तदीय-रसानाम् अपि गौणता । तत्र मुख्याः “मधुरेण समापयेत्” इति न्यायेन गौण-रसानां रसाभासानाम् अप्य् उपरि विवरणीयाः ।

गौणाः सम्प्रति विव्रियन्ते । येषु विस्मयादयो विभाव-वैशिष्ट्य-वशेन स्वयं तत्-प्रीत्य्-उत्था अपि तत्-प्रीतिम् आत्म-सात्कृत्य वर्धमानाः स्थायितां प्रपद्यन्ते । ते च—

अद्भुतो हास्य-वीरौ च रौद्रो भीषण इत्य् अपि ।
बीभत्सः करुणश् चेति गौणाः सप्त रसाः स्मृताः ॥

तत्र तत्-प्रीतिमयोऽयम् अद्भुतो रसः । यत्रालम्बनो लोकोत्तराकस्मिक-क्रियादिमत्त्वेन विस्मय-विषयः श्री-कृष्णः । तद्-आधारस् तत्-प्रियश् च । उद्दीपनास् तादृश-तच्-चेष्टाः । अनुभावाः नेत्र-विस्ताराद्याः । व्यभिचारिणश् चावेग-हर्षजाड्याद्याः । स्थायी तत्-प्रीतिमयो विस्मयः । तद्-उदाहरणं च—

चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् ।
गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [भा। १०.६९.२] इत्य्-आदिकं ज्ञेयम्।

[१५८.९] अथ तन्-मयो हास्यो रसः । तत्रालम्बनश् चेष्टा-वाग्-वेष-वैकृत्य-विशेषवत्त्वेन तत्-प्रीति-मय-हास-विषयः श्री-कृष्णः । तद्-आधारस् तत्-प्रियश् च । तथा यदि तद्-विशेषवत्त्वेनैव तत्-प्रियाप्रियौ च तत्-प्रीतिमय-हास-विषयौ भवतस् तदापि तत्-कारणस्य प्रीतेर् विषयः श्री-कृष्ण इति स एव मूलम् आलम्बनम् । हास्यस्यापि तद्-विशिष्टत्वेनैव प्रवृत्तेस् तु सुतराम् एव । अतः केवलस्य हासांशस्य विषयत्वेन विकृत-तत्-प्रियाप्रियौ बहिरङ्गाव् एवावलम्बनाव् इति । एवं दान-युद्ध-वीर-रसादिष्व् अपि ज्ञेयम् । उद्दीपनास् तु तज्-जनकस्य चेष्टा-वाग्-वेष-वैकृतादयः । अनुभावाश् च नासौष्ठ-गण्ड-विस्पन्दनादयः । व्यभिचारिणो हर्षालस्यावहित्थादयः ।

स्थायी च तत्-प्रीतिमयो हासः । स च स्व-विषयानुमोदनात्मकस् तद्-उत्प्रासात्मको वा चेतो-विकाशः । ततस् तद्-आत्मकत्वेन विषयोऽप्य् अस्यास्ति ।

तस्योदाहरणेऽनुमोदनात्मको यथा—

वत्सान् मुञ्चन् क्वचिद् असमये
क्रोश-सञ्जात-हासः [भा।पु। १०.८.२९] इत्य्-आदि,
हस्ताग्राह्ये रचयति विधिं [भा।पु। १०.८.३०] इति,
एवं धार्ष्ट्यान्य् उशति कुरुते [भा।पु। १०.८.३१] इत्य्-आदि
इत्थं स्त्रीभिः सभय-नयन-श्री-मुखालोकिनीभिर्
व्याख्यातार्था प्रहसितमुखी न ह्य् उपालब्धुम् ऐच्छत् ॥ इत्य् अन्तम् ।****

व्याख्यातस् तदीय-चापल्य-लक्षणोऽर्थो यस्यै सा ।

॥ १०.८ ॥ श्री-शुकः ॥ १५८ ॥

[१५९]

उत्प्रासात्मको यथा—

तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः ।
हसद्भिः प्रहसन् बालैः परिहासम् उवाच ह ॥ [भा।पु। १०.२२.९]

स्पष्टम् ।

॥ १०.२२ ॥ श्री-शुकः ॥ १५९ ॥

[१६०]

यथा च—

कत्थनं तद् उपाकर्ण्य पौण्ड्रकस्याल्प-मेधसः ।
उग्रसेनादयः सभ्या उच्चकैर् जहसुस् तदा ॥ [भा।पु। १०.६६.७]

स्पष्टम् ।

॥ १०.६६ ॥ श्री-शुकः ॥ १६० ॥

[१६१]

अथ तत्-प्रीति-मयो वीर-रसः । तत्र वीर-रसश् चतुर्धा धर्म-दया-दान-युद्धात्मकत्वेनोत्साहस्य स्थायिनश् चातुर्विध्यात् ।

तत्र धर्म-वीर-रसः । तत्रालम्बनो धर्म-चिकीर्षातिशय-लक्षणस्य धर्मोत्साहस्य विषयाभावात् प्रीतिमयत्वेनैव लब्धो विषयः श्री-कृष्णः । तद्-आधारस् तद्-भक्तश् च । उद्दीपनाः सच्-छास्त्र-श्रवणादयः । अनुभावा विनय-श्रद्धादयः । व्यभिचारिणो मति-स्मृत्य्-आदयः । स्थायी तत्-प्रीतिमयो धर्मोत्साहः । तद्-उदाहरणं च—

क्रतु-राजेन गोविन्द राजसूयेन पावनीः ।
यक्ष्ये विभूतीर् भवतस् तत् सम्पादय नः प्रभो ॥ [भा। १०.७२.३] इत्य्-आदिकम् ।

अथ तन्-मयो दया-वीर-रसः । अत्रालम्बनस् तत्-प्रीति-जातया तदीयतावगत-सर्व-भूत-विषयक-दययात्म-व्ययेनापि सन्तर्प्यमाण-दीन-वेषाच् छन्न-निज-रूपः श्री-कृष्णः । तादृश-दयाधारो भक्तः । पित्रादीनां तादृशी दया तु वत्सलादिकम् एव पुष्णाति करुणं वा । उद्दीपनास् तद्-आर्ति-व्यञ्जनादयः । अनुभावा आश्वासनोक्त्य्-आदयः । व्यभिचारिणः औत्सुख्य-मति-हर्षादयः । स्थायी तत्-प्रीति-मयो दयोत्साहः । उदाहरणं च—

कृच्छ्र-प्राप्त-कुटुम्बस्य क्षुत्-तृड्भ्यां जात-वेपथोः ।
अतिथिर् ब्राह्मणः काले भोक्तु-कामस्य चागमत् ॥
तस्मै संव्यभजत् सोऽन्नम् आदृत्य श्रद्धयान्वितः ।
हरिं सर्वत्र सम्पश्यन् [भा।पु। ९.२१.५-६] इत्य् आरभ्य,
एवं (इति) प्रभाष्य पानीयं म्रियमाणः पिपासया ।
पुल्कसायाददाद् धीरो निसर्ग-करुणो नृपः ॥
तस्य त्रिभुवनाधीशाः फलदाः फलम् इच्छताम् ।
आत्मानं दर्शयां चक्रुर् माया विष्णु-विनिर्मिताः ॥ [९.२१.१५-१६] इत्य् अन्तम् ।

स्पष्टम् ।

॥ ९.२१ ॥ श्री-शुकः ॥ १६१ ॥

[१६२]

अथो तन्-मयो दान-वीर-रसः । द्विधा चायं सम्पद्यते । बहु-प्रदत्वेन समुपस्थित-दुरापार्थ-त्यागेन च । तत्र प्रथमस्यालम्बनम् अन्य-सम्प्रदानके च दाने दान-द्रव्येण तत्-तृप्तेर् एव मुख्योद्देशेन तद्-उद्देशे पर्यवसानात् । तत्-सम्प्रदानके तु स्पष्ट-तद्-उद्देशाद् दित्सातिशय-लक्षणस्य दानोत्साहस्य विषयः श्री-कृष्णस् तद्-आधारस् तत्-प्रियश् च । अन्यः सम्प्रदान-वीर-रसस् तु बहिरङ्गः । उद्दीपनाः सम्प्रदान-वीक्षाद्याः । अनुभावा वाञ्छाधिक-दान-स्मिताद्याः । व्यभिचारिणो वितर्कौत्सुक्य-हर्षाद्याः । स्थायी तत्-प्रीतिमयो दानोत्साहः । उदाहरणं च—नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महामनाः [भा।पु। १०.५.१] इत्य्-आदि । स्पष्टम् ।

॥ १०.५ ॥ श्री-शुकः ॥ १६२ ॥

[१६३]

तथा,

एवं शप्तः स्व-गुरुणा सत्यान् न चलितो महान् ।
वामनाय ददाव् एनाम् अर्चित्वोदक-पूर्वकम् ॥ [भा।पु। ८.२०.१६]****

एतां पृथ्वीम् ।

॥ ८.२० ॥ श्री-शुकः ॥ १६३ ॥

[१६४]

अथ द्वितीयस्यालम्बनः । उपस्थित-दुरापार्थ-त्यागेच्छातिशय-लक्षणस्य तद्-उत्साहस्य धर्मोत्साहवद् एव विषयः श्री-कृष्णस् तद्-आधारस् तद्-भक्तश् च । उद्दीपनाः कृष्णालाप-स्मितादयः । अनुभावास् तद्-उत्कर्ष-वर्णन-द्रढिमादयः । सञ्चारिणो धृति-प्रचुराः । स्थायी तत्-प्रीति-मयस् त्यागोत्साहः । तद्-उदाहरणम्—सालोक्य-सार्ष्टि-सारूप्य- [भा।पु। ३.२९.१३] इत्य्-आदिकम् एव ।

अथ तन्-मयो युद्ध-वीर-रसः । तत्र योद्धा तत्-प्रियतमः । तस्यैव तत्-प्रीति-मय-युद्धोत्साहात् । प्रतियोद्धा तु क्रीडा-युद्धे श्री-कृष्णो वा तत्-पुरस् तस्यैव मित्र-विशेषो वा । साक्षाद् युद्धे पुनस् तत्-प्रतिपक्षः । तत्र श्री-कृष्ण-प्रतियोद्धृकत्वे तत्-प्रीतिमय-युयुत्सातिशय-लक्षण-तद्-उत्साह-विषयतया तस्यैवालम्बनत्वं सर्वथा सिद्धम् । इतर-प्रतियोद्धृकत्वेऽपि हास्य-रसवत् तत्-प्रीतिमयत्वेन मूलम् आलम्बनत्वं तस्यैव । तत्-प्रतिपक्षस् तु युयुत्सांश-मात्रस्य बहिरङ्ग आलम्बनः । तत्र योद्धृ-प्रतियोद्धारौ मित्र-विशेषावाधारत्व-विषयत्वाभ्याम् आलम्बनाव् इति । उद्दीपनाः प्रतियोद्धृक-स्मितादयः । अनुभावाः योद्धृक-स्मितादयः । व्यभिचारिणो गर्वावेगादयः । स्थायी तत्-प्रीति-मयो योद्धोत्साहः । उदाहरणं च त्रिविध-प्रतियोद्धृ-क्रमेण—

भ्रामणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः ।
चिक्रीडतुर् नियुद्धेन काक-पक्ष-धरौ क्वचित् ॥ [भा।पु। १०.१८.१२]****

काक-पक्षश् चूडा-करणात् प्राक्तनाः केशाः । तद्-धारिणौ राम-कृष्णौ । नियुद्धेन बाहु-युद्धेन तद्-भेदैर् भ्रामणादिभिः । एवम् एव हरि-वंशे—

तथा गाण्डीव-धन्वानं विक्रीडन् मधुसूदनः ।
जिगाय भरत-श्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥ [ह।वं। २.१०२.१७] इति ।

॥ १०.१८ ॥ श्री-शुकः ॥ १६४ ॥

[१६५]

तथा—

राम-कृष्णादयो गोपा ननृतुर् युयुधुर् जगुः ॥ [भा।पु। १०.१८.९]****

अत्र तद्-अग्रे परेऽपि गोपास् तं सन्तोषयन्तो युयुधुर् इत्य् आगतम् ।

॥ १०.१८ ॥ श्री-शुकः ॥ १६५ ॥

[१६६]

तथा जरासन्ध-वधे—

सञ्चिन्त्यारि-वधोपायं भीमस्यामोघ-दर्शनः ।
दर्शयामास विटपं पाटयन्न् इव संज्ञया ॥
तद् विज्ञाय महा-सत्त्वो भीमः प्रहरतां वरः ।
गृहीत्वा पादयोः शत्रुं पातयामास भू-तले ॥ [भा।पु। १०.७२.४१-४२]****

स्पष्टम् ।

॥ १०.७२ ॥ श्री-शुकः ॥ १६६ ॥

[१६७]

अथ तत्-प्रीतिमयो रौद्र-रसः । तत्रालम्बनस् तत्-प्रीति-मय-क्रोधस्य विषयः श्री-कृष्णस् तद्-आधारस् तत्-प्रिय-जनश् च । तस्य विषयश् चेत् तद्-धितस् तद्-अहितः स्वाहितो वा भवति तद्-आदि पूर्ववत् तत्-प्रीतेर् विषयत्वेन तस्यैव मूलम् आलम्बनत्वम् । अन्ये तु क्रोधांश-मात्रस्य बहिरङ्गालम्बनाः । तत्र प्रमादादिना श्री-कृष्णात् सख्या अत्याहिते सख्याः क्रोध-विषयः श्री-कृष्णः । तेन बध्वादीनाम् अवगते सङ्गमे वृद्धादीनां च स एव । अथ तद्-धितश् च प्रमादेन तद्-अनवेक्षणाद् अन्यस्य क्रोध-विषयः स्यात् । तद्-अहितो दैत्यादिः । स्वाहितस् तु स्वस्य तत्-सम्बन्ध-बाधकः।

अथोद्दीपनाः क्रोध-विषयस्यावज्ञादयः । अनुभावाः हस्त-निष्पेषादयः ।66 व्यभिचारिण आवेगादयः । स्थायी तत्-प्रीतिमयः क्रोधः । वृद्धायास् तत्-प्रीतिमयः क्रोधः । वृद्धायास् तत्-प्रीतिमयत्वं व्रज-जनत्वात् तदापि स्वाभाविक्याः प्रीतेर् अन्तर्भाव-मात्रेण अन्येषां तद्-विकारत्वेन । तच् च तस्यैव मङ्गल-कामना-प्रायतया । तत्र पूर्वेषां त्रयाणाम् उदाहरणम् अन्यत्रान्वेष्यम् । उत्तरयोर् द्वयोस् तु यथा—

ततः पाण्डु-सुताः क्रुद्धा मत्स्य-कैकय-सृञ्जयाः ।
उदायुधाः समुत्तस्थुः शिशुपाल-जिघांसवः ॥ [भा।पु। १०.७४.४१]

स्पष्टम् ।

॥ १०.७४ ॥ श्री-शुकः ॥ १६७ ॥

[१६८]

तथा—

मैतद्-विधस्याकरुणस्य नाम भूद्
अक्रूर इत्य् एतद् अतीव दारुणः ।
योऽसाव् अनाश्वास्य सुदुःखितं जनं
प्रियात् प्रियं नेष्यति पारम् अध्वनः ॥ [भा।पु। १०.३९.२६]

स्पष्टम् ।

॥ १०.३९ ॥ श्री-गोप्यः ॥ १६८ ॥

[१६९]

अथ तत्-प्रीतिमयो भयानक-रसः । तत्रालम्बनश् चिकीर्षित-तत्-पीडनाद् दारुणात् यत् तदीय-प्रीति-मयं भयं, तस्य विषयश् श्री-कृष्णः । तद्-आधारस् तत्-प्रिय-जनश् च । किं च, स्वस्य तद्-विच्छेदं कुर्वाणाद् यत् तादृशं भयं, यच् च स्वापराध-कदर्थितात् श्री-कृष्णाद् एव वा स्यात् तस्य तस्य स्व-विषयकत्वेऽपि पूर्ववत् प्रीतेर् विषयत्वात् श्री-कृष्ण एव मूलालम्बनः । भय-हेतुस् तूद्दीपन एव भवेत् । विभाव्यते हि रत्य्-आदिर् यत्र [भ।र।सि। २.१.१५] इति सप्तम्य्-अर्थत्वस्य पूर्वत्रैव व्याप्तेः । येन इति तृतीयार्थस्य तूत्तरत्रैव व्याप्तेश् च । स्व-विषयत्वे तु य एव विषयः स एवाधार इति भयांश-मात्र-विषयत्वेन पूर्ववद् बहिरङ्ग एवालम्बनोऽसौ । तद्-आधारत्वेन त्व् अन्तरङ्गोऽपि ।

अथोद्दीपनाः भीषण-भ्रू-कुट्याद्याः । अनुभावा मुख-शोषाद्याः । व्यभिचारिणश् चापल्याद्याः । स्थायी तत्-प्रीतिमयं भयम् । तद्-उदाहरणं च—

जन्म ते मय्य् असौ पापो मा विद्यान् मधुसूदन ।
समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीर-धीः ॥ [भा।पु। १०.३.२९]

अत्र विषयत्वेनैव हेतुत्वं न तु कारकान्तरत्वेन ।

॥ १०.३ ॥ श्री-देवकी श्री-भगवन्तम् ॥ १६९ ॥

[१७०]

तथा शङ्खचूड-दौरात्म्ये—

क्रोशन्तं कृष्ण रामेति विलोक्य स्व-परिग्रहम् ॥ [भा।पु। १०.३४.२७] इति ।

स्पष्टम् ।

॥ १०.३४ ॥ श्री-शुकः ॥ १७० ॥

[१७१]

अतः**67 क्षमस्वाच्युत मे रजो-भुवो**
ह्य् अजानतस् त्वत्-पृथगीश-मानिनः ।
अजावलेपान्धतमोऽन्धचक्षुष
एषोऽनुकम्प्यो मयि नाथवान् इति ॥ [भा।पु। १०.१४.१०]

स्पष्टम् ।

॥ १०.१४ ॥ ब्रह्मा श्री-भगवन्तम् ॥ १७१ ॥

[१७२]

अथ तन्-मयो बीभत्स-रसः । अत्रापि अन्य-जुगुप्सायास् तत्-प्रीतिमयत्वेन पूर्ववत् तत्-प्रीति-विषयत्वाच् छ्री-कृष्ण एव मूलालम्बनः । तद्-आधारस् तत्-प्रिय-जनश् च । जुगुप्सा-मात्रांशस्य विषयोऽन्यस् तु बहिरङ्गालम्बनः । उद्दीपना अन्य-गतामेध्यतादयः । अनुभावाः निष्ठीवनादयः । व्यभिचारिणो विषादादयः । स्थायी च तत्-प्रीति-मयी जुगुप्सा । उदाहरणं च त्वक्-श्मश्रू-रोम-नख-केश-पिनद्धम् [भा।पु। १०.६०.४५] इत्य्-आदिकम् । श्री-रुक्मिणी-वाक्यम् एव ।

अथ तत्-प्रीति-मयः करुण-रसः । तत्रालम्बनः केवल-बन्धु-भाव-मय-प्रेम्णानिष्टाप्ति-पदतावेद्यत्वेन तत्-प्रीतिमय-करुणा-विषयः श्री-कृष्णस् तद्-आधारस् तत्-प्रियश् च । उद्दीपनास् तत्-कर्म-गुण-रूपाद्याः । अनुभावा मुख-शोष-विलापाद्याः । व्यभिचारिणो जाड्य-निर्वेदादयः । स्थायी च तत्-प्रीति-मयः शोकः । उदाहरणं च—

अन्तर् ह्रदे भुजग-भोग-परीतम् आरात्
कृष्णं निरीहम् उपलभ्य जलाशयान्ते ।
गोपांश् च मूढ-धिषणान् परितः पशूंश् च
सङ्क्रन्दतः परम-कश्मलम् आपुर् आर्ताः ॥ [भा।पु। १०.१६.१९]

स्पष्टम् ।

॥ १०.१६ ॥ श्री-शुकः ॥ १७२ ॥

[१७३]

अथ कृष्ण-प्रीतिमतो जनस्य च यद्य् अन्योऽपि तत्-कृपा-हीनो जनः शोचनीयो भवति, तदा तत्रापि तन्-मय एव करुणः स्यात् । यथा—

न ते विदुः स्वार्थ-गतिं हि विष्णुं
दुराशया ये बहिर्-अर्थ-मानिनः ।
अन्धा यथान्धैर् उपनीयमानास्
तेऽपीश-तन्त्र्याम् उरु-दाम्नि बद्धाः ॥ [भा।पु। ७.५.३१]

स्पष्टम् ।

॥ ७.५ ॥ श्री-प्रह्लादो गुरु-पुत्रम् ॥ १७३ ॥

[१७४]

किं च, त एव विस्मयादयो यदि श्री-कृष्णाधारा भवन्ति त एव तत्-प्रीति-मय-चित्तेषु सञ्चरन्ति, तदापि तत्-प्रीति-मयाद्भुत-रसादयो भवन्ति । यथा—अहो अमी देव-वरामरार्चितम् [भा।पु। १०.१५.५] इत्य्-आदिषु अजात-प्रीतीनां तु तत्-सम्बन्धेन ये विस्मयादयो भावास् तदीय-रसाश् च दृश्यन्ते तेऽत्र तद्-अनुकारिण एव ज्ञेयाः ।

अथ रसानाम् आभासतापत्त्य्-आदि-ज्ञानायाश्रय-नियमः परस्परं व्यवहारोऽप्य् उद्दिश्यते । तत्र आश्रय-नियमः श्री-कृष्ण-सम्बन्धानुरूप एव । यथा पित्रादिषु प्राकृतस्य वात्सल्यस्याश्रयत्वं नियतम्, तथा मुख्यानां पञ्चानां मिथो व्यवहारस् तद्-आश्रयाणां जनानाम् इव स च कुलीन-लोकत एवावगन्तव्यः । ततो येषां यैर् मिलित्वा नर्म-विहारादौ यथा सङ्कोचार्हता, तदीयानां रसानां तदीयै रसैर् अपि मिलने तथा तद्-अर्हता । यथा न, तथा न, यथोल्लासस् तथोल्लास इति । यथा तत्-प्रेयस्य्-आदीनां तद्-वत्सलादिभिस् तद्-आदिकम् ।

अथ गौणानां सप्तानाम् अपि रसानां तेषु मुख्येषु पञ्चसु प्रतीपत्वम् उदासीनत्वम् अनुगामित्वं च यथायुक्तम् अवगन्तव्यम् । यथा हास्यस्य वियोगात्मकेषु भक्तिमयादिषु चतुर्षु प्रतीपत्वम् । शान्त उदासीनत्वं, अन्यत्रानुगामित्वम् इत्य्-आदि ।

अथ गौणानां गौणैर् अपि वैर-माध्यस्थ-मैत्राणि ज्ञेयानि । यथा हास्यस्य करुण-भयानकौ वैरिणौ । वीरादयो मध्यस्थाः । अद्भुतो मित्रम् इत्य्-आदि । एवं तेषु द्वादशस्व् अपि स्थायिनां सञ्चारिणाम् अनुभावानां विभावानां विषयान्तर-गत-भावादीनाम् अपि प्रतीपत्वौदासीन्यानुगामित्वानि विवेचनीयानि । तद् एवं स्थिते श्री-कृष्ण-सम्बन्धिषु जनेषु काव्येषु च रसस्यायोग्य-रसान्तरादि-सङ्गत्या बाध्यमानास्वाद्यत्वम् आभासत्वम् । यत्र तु तत्-सङ्गतिर् भङ्गि-विशेषेण योग्यस्य स्थायिन उत्कर्षाय भवति तत्र रसोल्लास एव । केनाप्य् अयोग्यस्योत्कर्षे तु रसाभासस्यैवोल्लास इति ।

अथ तत्र मुख्यस्य मुख्य-सङ्गत्य्-आभासित्वं, यथा—

स वै किलायं पुरुषः पुरातनो
य एक आसीद् अविशेष आत्मनि । [भा।पु। १.१०.२१] इति ।
नूनं व्रत-स्नान-हुतादिनेश्वरः
समर्चितो ह्य् अस्य गृहीत-पाणिभिः ।
पिबन्ति याः सख्य् अधरामृतं मुहुर्
व्रज-स्त्रियः सम्मुमुहुर् यद्-आशयाः ॥ [भा।पु। १.१०.२८] इत्य्-आद्य्-अन्तम् ।

ज्ञान-विवेकादि-प्रकाशेनात्र हि शान्त एवोपक्रान्तः । उपसंहृतश् चोज्ज्वलः । तेन चास्य वस्तलेनैव मिलने सङ्कोच एवेति परस्परम् अयोग्य-सङ्गत्याभास्यते । अत्र समाधीयते चान्यैः । स वै किल इत्य्-आदिकम् अन्यासां वाक्यम् । नूनम् इत्य्-आदिकं त्व् अन्यासाम् । एवं-विधा वदन्तीनाम् [भा।पु। १.१०.३१] इत्य्-आदि श्री-सूत-वाक्यं च सर्वानन्दन-परम् एवेति ।

॥ १.१० ॥ कौरवेन्द्र-पुर-स्त्रियः ॥ १७४ ॥

[१७५]

तथा—

अथाभजे त्वाखिल-पूरुषोत्तमं
गुणालयं पद्म-करेव लालसः ।
अप्य् आवयोर् एक-पति-स्पृधोः कलिर्
न स्यात् कृत-त्वच्-चरणैक-तानयोः ॥
जगज्-जनन्यां जगद्-ईश वैशसं
स्याद् एव यत्-कर्मणि नः समीहितम्
करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः
स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ [भा।पु। ४.२०.२७-२८] इत्य्-आदि ।

अत्र दास-भावाख्य-भक्ति-मयस्य प्रकृतत्वेन योग्यस्य तद्-अयोग्योज्ज्वल-सङ्गत्याभासितत्वम् । तत्र दास-भावस् तत्-प्रकरण-सिद्ध एव । उज्ज्वल-सङ्गतिश् च पद्म-करा इव लालस इत्य्-आदिनावगम्यते ।

अत्र समाधानं च—न खल्व् अस्य तद्वत् कान्त-भाव-वासना जाता, किन्तु भक्ति-वासनैव । दृष्टान्तस् तत्र तस्या भक्त्य्-अंश एव। तया स्पर्धा तु तत्-परम-कृपोन्नद्धत्वेन वीराख्य-दासतां प्राप्तस्य नायोग्येति । अन्ये त्व् एवं मन्यन्ते । तत् खलु तदीय-दीन-विषयक-कृपा-सूचक-स्व-प्रेम-वचन-विनोद-मात्रं, न तु लक्ष्मी-स्पर्धावहम् । करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः इति स्वस्मिंस् तुच्छत्व-मननात् ।

एवं श्री-त्रिविक्रमेण बलि-शिरसि चरणेऽर्पिते नेमं विरिञ्चो लभते प्रसादम् [भा।पु। ८.२३.६] इति श्री-प्रह्लाद-वाक्यम् अपि दृष्टम् । श्री-नृसिंह-कृपायां स्वानुकम्पायाम् अपि—

क्वाहं रजः-प्रभव ईश तमोऽधिकेऽस्मिन्
जातः सुरेतर-कुले क्व तवानुकम्पा ।
न ब्रह्मणो न तु भवस्य न वै रमाया
यन् मेऽर्पितः शिरसि पद्म-करः प्रसादः ॥ [भा।पु। ७.९.२६]

अत्र ब्रह्मादेर् अधुना विद्यमानस्यापि ममैव शिरसीत्य् अर्थः । अत उभयत्रापि तत्-तद्-अवतार-समयापेक्षयैव तादृश-प्रसादाभावो विवक्षित इति ज्ञेयम् ।

॥ ४.२० ॥ पृथुः श्री-विष्णुम् ॥ १७५ ॥

[१७६]

तथा श्री-वसुदेवादीनाम् अपि पित्रादित्वेन वात्सल्यस्य तद्-अयोग्य-भक्ति-मय-सङ्गत्य्-आभासितत्वं तत्र तत्र दृश्यते । तत्र समाधानं चाग्रे “अथ बलदेवादौ” [१७८] इत्य्-आदौ चिन्त्यम्। मनसो वृत्तयो नः स्युः [भा।पु। १०.४७.६६] इत्य्-आदिकानि श्री-व्रजेश्वरादि-वाक्यानि तु न तादृशानि, अभिप्राय-विशेषेण वत्सल-रसस्यैव पुष्टतया स्थापयिष्यमाणत्वात् । तथा—

किम् अस्माभिर् अनिर्वृत्तं देव-देव जगद्-गुरो ।
भवता सत्य-कामेन येषां वासो गुरोर् अभूत् ॥ [भा।पु। १०.८०.४४] इत्य्-आदि ।

अथ सख्यमयस्यैश्वर्य-ज्ञान-संवलित-भक्ति-मय-सङ्गमेनाभासीकृतिः । अस्य श्रीदाम-विप्रस्य सख्यं हि कृष्णस्यासीत् सखा कश्चित् [भा।पु। १०.८०.६] इत्य्-आदिना, कथयाञ्चक्रतुः [भा।पु। १०.८०.२७] इत्य्-आदौ, करौ गृह्य परस्परम् इत्य् अनेन च प्रकृतं दृश्यते इति । अत्र च समाधानं श्री-बलदेवादिवद् एव चिन्त्यम् ।

॥ १०.८० ॥ श्री-शुकः ॥ १७६ ॥

[१७७]

तथा—

त्वं न्यस्त-दण्ड-मुनिभिर् गदितानुभाव ।
आत्मात्म-दश् च जगताम् इति मे वृतोऽसि ॥ [भा।पु। १०.६०.३९] इति ।

आत्मा परमात्मा । आत्मदो मोक्षेषु तत्-तद्-आत्माविर्भाव-प्रकाशकः । अत्र कान्तात्वेन योग्य उज्ज्वल आत्मादि-शब्द-व्यञ्जित-तद्-अयोग्य-शान्त-सङ्गमेनाभास्यते । अत्र समाधीयते च । अस्याः स्वीयात्वेन कान्त-भावे दासीत्वाभिमानमयी भक्तिर् अपि युज्यत एव पतिव्रता-शिरोमणित्वात् । यथोक्तं तद्-आद्या एवोद्दिश्य—दासी-शता अपि विभोर् विदधुः स्म दास्यम् [भा।पु। १०.५९.४] इति । श्री-रुक्मिण्यास् तु लक्ष्मी-रूपत्वेनैश्वर्य-स्वरूप-ज्ञान-मिश्र-तादृश-भक्ति-मिश्र-कान्त-भावत्वाद् अत्र तादृश-भक्ति-मात्र-पोषाय तादृग् अप्य् उक्तं युक्तम् इति ।

॥ १०.६० ॥ श्री-रुक्मिणी ॥ १७७ ॥

[१७८]

अथ तन्-माधुर्य-मात्रानुभवमय-केवल-कान्त-भावानाम् अपि श्री-व्रज-देवीनां न खलु गोपिका-नन्दनो भवान् [भा।पु। १०.३१.४] इत्य्-आदिषु या शान्तादि-सङ्गतिर् दृश्यते, सा तु पुरतः सोपालम्भादि-श्लेष-वाग्-भङ्गि-मयत्वेन व्याख्यास्यमानत्वात् । प्रत्युत रसोल्लासायैव स्यात् । तथा बद्धान्यथा स्रजा काचित् [भा।पु। १०.३०.२३] इत्य्-आदौ वात्सल्य-सङ्गतिः सङ्गत्य्-अन्तरेण व्याख्यास्यते ।

तथा प्रकृतोज्ज्वले रसे रास-वर्णने दुःसह-प्रेष्ठ-विरहः [भा।पु। १०.२९.१०] इत्य्-आदिकं श्री-मुनीन्द्र-वचनं, तथा तद्-अनन्तरं, कृष्णं विदुः परं कान्तम् [भा।पु। १०.२९.१२] इत्य्-आदिके राज-मुनीश्वर-प्रश्नोत्तरे च मोक्ष-प्रस्ताव-व्यञ्जित-शान्त-रस-सङ्गत्या रसाभासत्वम् अकुर्वन्न् इत्य् अत्र समाधानं च श्री-कृष्ण-सन्दर्भे तथैवाग्रे च तात्कालिक-श्री-कृष्ण-प्राप्त्य्-अन्तराय-निरास-मात्रम् एव तत्-प्रसङ्गे दर्शितं, न त्व् अन्यो मोक्ष इत्य् अतश् चिन्त्यम् । तथा तं काचिन् नेत्र-रन्ध्रेण [भा।पु। १०.३२.८] इत्य्-आदौ, योगीवानन्द-सम्प्लुता इति चैवं व्याख्यायते । योगीति क्लीबैक-वचनं, तच् च क्रिया-विशेषणम् । लज्जया यद्यपि मनसि निधायैवोपगुह्यास् ते तथाप्य् अत्यन्ताभिनिवेशेन योगि संयोगि यथा स्यात् तद् इवोपगुह्यास् ते इत्य् अर्थः । एवम् अन्यत्रान्यत्रापि यथा-योगं समाधेयम् ।

अथ श्री-बलदेवादौ विरुद्ध-भावावस्थानं चैव चिन्त्यम् । यथैव श्री-कृष्णस् तद्-भक्त-सुख-व्यञ्जक-नाना-लीलार्थे विरुद्धान् अपि गुणान् धारयति न च तैर् विरुध्यते अचिन्त्य-शक्तित्वात्, तथा तल्-लीलाधिकारिणस् तेऽपि । अस्ति चैषां तद्-योग्यता । यथा श्री-बलदेवस्य ज्येष्ठत्वाद् वत्सलत्वम् । एकात्मत्वाद् बाल्यम् आरभ्य सह-विहारित्वाच् च सख्यम् । पारमैश्वर्य-ज्ञान-सद्-भावाद् भक्तित्वम् इति । ततः श्री-कृष्णस्य यादृश-लीला-समयस् तादृश एव भावस् तद्-विधस्याविर्भवति । ततो न विरोधोऽपि । ततः शङ्खचूड-वध-प्राक्तन-होरिका-लीलायां श्री-कृष्णेन समं युग्मीभूय गानादिकं तद्-द्वारा द्वारकातः श्री-व्रज-देवीषु सन्देशश् च नासमञ्जसः । एवं श्रीमद्-उद्भवादीनाम् अपि व्याख्येयम् ।

अथ मुख्यस्यायोग्य-गौण-सङ्गत्याभासत्वम्—

देवकी वसुदेवश् च विज्ञाय जगद्-ईश्वरौ ।
कृत-संवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ [भा।पु। १०.४४.५१] इत्य्-आदिषु ज्ञेयम् ।

अत्र श्री-कृष्ण-विभावित-भयानक-सङ्गत्या तद्-विषयो वत्सल आभास्यते । अत्र समाधानं च प्राक्तनम् एव ।

अथ गौणस्यायोग्य-गौण-सङ्गत्य्-आभासत्वम् । यथा कालिय-हृदय-प्रवेश-लीलायाम्—

तांस् तथा कातरान् वीक्ष्य भगवान् माधवो बलः ।
प्रहस्य किंचिन् नोवाच प्रभावज्ञोऽनुजस्य सः ॥ [भा।पु। १०.१६.१६]

अत्र श्री-बलदेवस्य ऐश्वर्य-ज्ञानवतोऽप्य् आधुनिक-सामाजिक-भक्तस्येव व्रज-जनाधारक-करुणानुभव-मयः करुणो योग्यः । स च हास-सङ्गत्याभास्यते । समाधानं च पूर्ववन् नाना-भावस्यापि तद्-विधस्य तल्-लीला-विशेष-रक्षा-समयानुरूप-भावोदयात् । तद्-विधा हि तस्य लीला-प्रवर्तक-परिकरा इति । हासस्य कारणं प्रभाव-ज्ञानं हि अत्र तेषां प्राण-रक्षार्थम् एव भावान्तराण्य् अतिक्रम्योदितम् । ततश् चैवं हि तेषां ज्ञानम् अभूत्—“अयं चेत् तस्य परम-प्रेष्ठो मर्म-वेत्ता च हसति, तदा नास्त्य् एव काचिच् चिन्ता” इति । पुनर् अपि तद्-अर्थैव तस्य चेष्टा दृष्टा—

कृष्ण-प्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् ।
प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित् ॥ [भा।पु। १०.१६.२२]

इत्य् अत्र लीलान्ते पुनः श्री-कृष्ण-लाभे रामश् चाच्युतम् आलिङ्ग्य जहासास्यानुभाव-वित् [भा।पु। १०.१७.१६] इत्य् अत्र तु हासः श्री-कृष्णं प्रत्युपालम्भ-व्यञ्जक एव । श्री-रुक्मिणी-हरण-लीलादौ तु भ्रातृ-स्नेह-परिप्लुतत्वं वर्णितम् । तस्मात् तद्-इष्ट-लीलानुरूप्यान् न वैरूप्यम् इति तत्र हास्योऽपि नायोग्यः ।

॥ १०.१६ ॥ श्री-शुकः ॥ १७८ ॥

[१७९]

अथ स्थायि-भावायोग्यत्वं प्रीति-लक्षणत68 एव प्रतिपन्नम् । ततः प्रीत्य्-आभासत्वेऽवगते रसाभासत्वम् अप्य् अवगम्यम् । अथायोग्य-सञ्चारि-सङ्गत्य्-आभासत्वं यथा—

स्व-वचस् तद् ऋतं कर्तुम् अस्मद्-दृग्-गोचरो भवान् ।
यद् आत्थैकान्त-भक्तान् मे नानन्तः श्रीर् अजः प्रियः ॥ [भा।पु। १०.८६.३२]

अथ भक्तिर् अनन्तादि-हेलन-लक्षण-गर्व-सङ्गत्याभास्यते । तत्-समाधानं च व्याख्यान्तरेण । तद् यथा एकान्त-भक्तान् मे मम अनन्तः स्व-धामत्वेनापि, श्रीर् जायात्वेनापि, अजः पुत्रत्वेनापि न प्रियः । किन्तु तेऽप्य् एकान्त-भक्त-श्रेष्ठत्वेनैव मम प्रेष्ठा इत्य् अर्थः । तद् एतद् यद् आत्थ तत् स्व-वचः ऋतं सत्यं कर्तृ दर्शयितुं भवान् अस्मद्-दृग्-गोचरोऽभूत् । तद्-अनुगामितांशेनैवास्मान् प्रत्य् अपि कृपां कृतवान् इत्य् अर्थः ॥

॥ १०.८६ ॥ मैथिलः श्री-भगवन्तम् ॥ १७९ ॥

[१८०]

तथा—

तयोर् इत्थं भगवति कृष्णे नन्द-यशोदयोः ।
वीक्ष्यानुरागं परमं नन्दम् आहोद्धवो मुदा ॥ [भा।पु। १०.४६.२९]

इत्थं तद्-वियोगज-महा-दुःख-व्यञ्जनाप्रकारेण । अत्र श्री-व्रजेश्वरयोः श्री-कृष्ण-वियोग-दुःखानुभव-मयी श्रीमद्-उद्धवस्य भक्तिस् तद्-अयोग्येन हर्षेणाभास्यते । समाधानं च श्री-बलदेव-हासवद् एव कार्यम् । तेषां सान्त्वनार्थम् आगतस्य तस्यआपि दुःखाभिव्यक्तिर् न योग्या । ततस् तद्-योग्यस् तदीयानुराग-महिम-चमत्कारजो हर्ष एव तद्-अर्थम् उदितः । अनन्तरं तथैव सान्त्विताश् च ते इति ।

॥ १०.४६ ॥ श्री-शुकः ॥ १८० ॥

[१८१]

तथा—

एहि वीर गृहं यामो न त्वां त्यक्तुम् इहोत्सहे ।
त्वयोन्मथित-चित्तायाः प्रसीद पुरुषर्षभ ॥ [भा।पु। १०.४२.१०]

अत्र नायिकायाः सर्वेषाम् अग्रत एतादृशं चापल्यम् अत्ययोग्यम् । तत्-सङ्गतिश् चोज्ज्वलम् आभासयति । समाधानं चास्याः सामान्यत्वाद् अदोष इति ।

॥ १०.४२ ॥ सैरिन्ध्री भगवन्तम् ॥ १८१ ॥

[१८२]

अत्र तव सुतः सति यदाधर-बिम्बे [भा।पु। १०.३५.१४] इत्य्-आदिके तु न तथा चापल्यं मन्तव्यम् । तेषां पद्यानां युगलेन युगलेन पृथक् पृथक् संवाद-सङ्ग्रह-रूपत्वात् । श्री-व्रजेश्वरी-सभा-स्थितायाश् चास्याः सामान्यतस् तन्-माधुर्य-वर्णनम् एव । तेन च शक्रादीनाम् एव मोह उक्तः, न तु व्रजति तेन वयम् [भा।पु। १०.३५.१७] इत्य्-आदिवत् । व्योम-यान-वनिता [भा।पु। १०.३५.३] इत्य्-आदिवच् च स्वभावस्य सजातीय-भावस्य वा प्रकाशनम् इति । एवं कुन्द-दाम [भा।पु। १०.३५.२०] इत्य्-आदाव् अपि ज्ञेयम् । तथा मैवं विभोऽर्हति भवान् [भा।पु। १०.२९.३१] इत्य्-आदिषु प्रकट-तत्-सङ्ग-प्रार्थन-दैन्यादिकम् अयोग्यत्वेन प्रतीतम् अपि पुरतः श्लेषेण निषेधार्थादितया व्याख्यास्यमानत्वात् परम-रसावहत्वेनैव स्थापनीयम् ।

अथायोग्यानुभाव-सङ्गत्य्-आभासत्वं यथा—

यद्यप्य् असाव् अधर्मेण
मां बध्नीयाद् अनागसम् ।
तथाप्य् एनं न हिंसिष्ये
भीतं ब्रह्म-तनुं रिपुम् ॥ [भा।पु। ८.२०.१२] इत्य्-आदि-द्वयम् ।

अत्र शुक्र-वञ्चनार्थ-प्रयुक्तस्यापि अधर्मादि-शब्द-प्रयोगस्य तत्रायोग्यत्वाद् आभास्यत एव भक्ति-मयः । समाधानं च तदानीं साक्षात् भक्तेर् अजातत्वात् श्री-त्रिविक्रम-पाद-स्पर्शानन्तरम् एव च जातत्वान् न विरोध इति ।

॥ ८.२० ॥ श्री-बलिः शुक्रम् ॥ १८२ ॥

[१८३]

तथा—

जरासन्ध-वधः कृष्ण-
भूर्य्-अर्थायोपकल्पते [भा।पु। १०.७१.१०] इति ।

अत्रायोग्येन साक्षान्-नाम्ना सम्बोधनेन दास्य-मय आभास्यते । वस्तुतस् तु तद्-आदि-नाम्नां तत्-परम-महिम-मयत्वात् तन्-मय-नाम्नां च दासादिभिर् अपि साक्षाद्-ग्रहण-दर्शनात् तद्-अदोष इति, यस्य नाम महद् यशः [श्वे।उ। ४.१९] इति श्रुतेः ।

॥ १०.७१ ॥ उद्धवः श्री-भगवन्तम् ॥ १८३ ॥

[१८४]

तथा—

सतां शुश्रूषणे जिष्णुः कृष्णः पादावनेजने [भा।पु। १०.७५.५] ।

पादवनेजने इति णिज्-अन्तम् । अत्र पाण्डव-राज-कृत-तादृश-श्री-कृष्ण-नियोगस्यायुक्तत्वात् तस्य भक्ति-मयस् तेनाभास्यते । वस्तुतस् तु बान्धवाः परिचर्यायां तस्यासन् प्रेम-बन्धना [भा।पु। १०.७५.३] इत्य् उक्तत्वात् तेषु नियोज्येषु बान्धवाः स्वयम् एवावर्तन्ते, नेतरे इव तन्-नियुक्ता एव । ततः श्री-कृष्णस्य तु सुतराम् एव स्वेच्छा-प्रवृत्तिः । तेन च चिन्तितम् इदम् इति गम्यते—“सर्वाणि कर्माण्य् अन्यैः सेत्स्यन्ते । पादावनेजनम् तु नान्यैः साभिमानत्वात् । ततश् च मम बन्धूनाम् एषां कर्म विगीताङ्गं स्याद् इति मयैवात्राग्रहीतव्यम्” इति ।

तद् एवं तस्येच्छायास् तद्-आश्रितैर् दुर्लङ्घत्वात् तद्-बलाद् एव तत्र तस्य प्रवृत्तिः । एवं स्वयम् एव नारदादि-पाद-प्रक्षालनेऽपि दृष्टम् । तं प्रति च स्वेच्छयैव हि भगवान् ब्राह्मणत्वेन भक्तत्वेन च व्यवहरति । तत एव क्वचित् पुत्र मा खिदः [भा।पु। १०.६९.४०] इत्य् अपि वदतीति ।

॥ १०.७५ ॥ श्री-शुकः ॥ १८४ ॥

[१८५]

तथा—

श्रीदामा नाम गोपालो राम-केशवयोः सखा ।
सुबल-स्तोककृष्णाद्या गोपाः प्रेम्णेदम् अब्रुवन् ॥
राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण ।
इतोऽविदूरे सु-महद् वनं तालालि-सङ्कुलम् ॥ [भा।पु। १०.१५.२१-२२] इत्य्-आदि ।

अत्रायोग्येन भय-स्थान-गमन-नियोगेन सख्य-मय आभास्यते । वस्तुतस् तु समान-शीलत्वेन श्री-कृष्णस्य वीर्य-ज्ञानात् तैस् तन्-नियोगोऽपि नायोग्यः । प्रत्युत तेषां तद्वद् वीर-स्वभावानां तन्-मय-प्रीति-पोषायैव भवति—

साकं कृष्णेन सन्नद्धो
विहर्तुं विपिनं महत् ।
बहु-व्याल-मृगाकीर्णं
प्राविशत् पर-वीर-हा ॥ [भा।पु। १०.५८.१४] इत्य् अर्जुन-चरितवत् ।

अत एव प्रेम्णेति महा-सत्त्व-दुष्ट-निवर्हणेति चोक्तम् । अन्यत्र च अस्मान् किम् अत्र ग्रसिता निविष्टान्; अयं तथा चेद् बकवद् विनङ्क्ष्यति [भा।पु। १०.१२.१४] इति ।

॥ १०.१५ ॥ श्री-शुकः ॥ १८५ ॥

[१८६]

एवं द्वारका-जल-विहारे न चलसि [भा।पु। १०.९०.२२] इत्य्-आदौ वसुदेव-नन्दनाङ्घ्रिम् इति ।

अत्रायोग्येन श्वशुर-नाम-ग्रहणेन स्वीयानां कान्ताभाव आभास्यते । वस्तुतस् तु देवस्य परमाराध्यस्य श्वशुरस्य यो नन्दनो मुख्यः पुत्रः । अस्मत्-पतिर् इत्य् अर्थः । तस्याङ्घ्रिं वसु परम-धन-स्वरूपम् इत्य् एव तन्-मनसि स्थितम् । तथापि दैवात् तन्-नामानुकरण-दोष-समाधानं चोन्मत्त-वचस्-त्वेनोपक्रान्तत्वात्।

॥ १०.९० ॥ श्री-पट्ट-महिष्यः ॥ १८६ ॥

[१८७]

तथा—

तम् आत्मजैर् दृष्टिभिर् अन्तरात्मना
दुरन्त-भावाः परिरेभिरे पतिम् ।
निरुद्धम् अप्य् आस्रवद् अम्बु नेत्रयोर्
विलज्जतीनां भृगु-वर्य वैक्लवात् ॥ [भा।पु। १.११.३३]

दुरन्त-भावा उद्भट-भावा, अत एव निरुद्धम् अप्य् आस्रवत् । अत्र आत्मज-द्वारालिङ्गनेन कान्त-भाव आभास्यते, तद्-द्वारा तत्-सम्भोगायोग्यत्वात् । समाधानं च प्रीति-सामान्य-परिपोषायैव तथाचरितं न तु कान्त-भाव-पोषाय । तत्-पोषस् तु दृष्ट्य्-आदि-द्वारैव । तस्मान् न दोष इति ।

॥ १.११ ॥ श्री-सूतः ॥ १८७ ॥

[१८८]

अथायोग्य-विभाव-सङ्गत्याभासत्वम् उदाह्रियते । तत्रायोग्योद्दीपन-सङ्गत्या यथा यद्-अर्चितम् [भा।पु। १०.३८.८] इत्य्-आदौ, यद् गोपिकानां कुच-कुङ्कुमाङ्कितम् इति ।

अत्रानेन रहस्य-लीला-चिह्नेन दासानुसन्धानायोग्येन दास्य-भाव-मय आभास्यते । समाधानं च । अत्रास्य भक्ति-मात्र-सुलभत्व-चिन्तनेऽभिनिवेशः । न तु तादृश-लीला-विशेषानुसन्धाने । यथोक्तं टीकायाम्—यद् गोपिकानाम् इति प्रेम-मात्र-सुलभत्वम् इत्य् एतत् । ततोऽननुसन्धायैव तद्-विशेषं भक्ति-मात्रोद्वलकत्वेन निर्दिष्टत्वान् न दोष इति । एवं समर्हणं यत्र [भा।पु। १०.३८.१७] इत्य्-आदिकं व्याख्येयम् ।

॥ १०.३८ ॥ अक्रूरः ॥ १८८ ॥

[१८९]

एवम् उज्ज्वलेऽपि पुत्र-रूपस्योद्दीपनत्वायोग्यता यं वै मुहुर् [भा।पु। १०.५५.४०] इत्य्-आदौ गम्या । तच् चाग्रे समाधानं व्याख्येयम् ।

अथालम्बनायोग्यतायां तादृश-प्रीत्य्-आधारायोग्यतयाभासत्वे यज्ञ-पत्नीनां पुलिन्दी-हरिण्य्-आदीनां69 तत्-तज्-जाति-रूपम् अयोग्यम् उदाहार्यम् । अथ तादृश-प्रीति-विषयायोग्यत्वं यथा—अक्षण्वताम् [भा।पु। १०.२१.७] इत्य्-आदौ, वक्त्रं व्रजेश-सुतयोः इत्य्-आदि ।

अत्र यद्यपि श्री-रामोऽपि श्री-कृष्ण-व्यूहत्वात् स एव, तथापि श्री-कृष्णत्वाभावात् तत्-प्रेयसी-भाव-विशेषायोग्य एव । ततस् तेनात्रोज्ज्वलम् आभास्यते । वस्तुतस् त्व् अग्रेऽवहित्था-गर्भेण व्रजेश-सुतयोर् मध्ये अनु पश्चात् वेणु-जुष्टं यन्-मुखम् इत्य्-आदि व्याख्यानेन रसोत्कर्ष एव साधयितव्यः । एवम् एव टीकायाम् अपि । रामः क्षपासु भगवान् गोपीनां रतिम् आवहत् [भा।पु। १०.६५.१७] इत्य् अत्र व्याख्यातम्—गोपीनां रतिम् इति श्री-कृष्ण-क्रीडा-समयेऽनुत्पन्नान् नातिबालानां चान्यासाम् इत्य् अभियुक्त-प्रसिद्धिर् इति ।

॥ १०.२१ ॥ श्री-व्रज-देव्यः ॥ १८९ ॥

[१९०]

अथायोग्यस्य विषयान्तर-गत-भावादिकस्य सङ्गत्य्-आभासत्वं यथा देवहूति-वर्णने—कामः स भूयात् [भा।पु। ३.२२.१६] इत्य्-आदौ क्षिपतीम् इव श्रियम् इति ।

अत्र देवहूति-गतेनेदृश-वर्णन-रूपेणानुभावेन श्री-कर्दमस्य भक्तिर् आभास्यते । वस्तुतस् तु तेन जगत्-सम्पत्ति-रूपां प्राकृतीं श्रियम् एवोद्दिश्य तयोक्तम् इति न दोषः ॥

॥ ३.२२ ॥ श्री-कर्दमः ॥ १९० ॥

[१९१]

तथा—

उवास तस्यां कतिचिन् मिथिलायां समा विभुः ।
मानितः प्रीति-युक्तेन जनकेन महात्मना ।
ततोऽशिक्षद् गदां काले धार्तराष्ट्रः सुयोधनः ॥ [भा।पु। १०.५७.२६]

विभुः श्री-सङ्कर्षणः । मानित इत्य्-आदिकं च तस्यैव विशेषणम् इति समाधानं च ।

॥ १०.५७ ॥ श्री-शुकः ॥ १९१ ॥

[१९२]

एवम् अग्रे च केचिद् अन्ये रसाभासाः परिहरिष्यन्ते । अथ यद् उक्तं “अयोग्य-सङ्गतिर् अपि भङ्गी-विशेषेण योग्यस्य स्थायिन उत्कर्षाय चेत् तदा रसोल्लासः” [अनु। १७४] इति । तत्र मुख्य-सङ्गत्या मुख्यस्योल्लासो, यथा—अहो भाग्यम् अहो भाग्यम् [भा।पु। १०.१४.३२] इत्य्-आदौ । अत्र ब्रह्मणा व्रज-वासि-प्रसङ्गे ज्ञान-भक्ति-बन्धु-भावौ भावितौ । योग्यश् चात्र बन्धु-भाव एव भावयितुम् । तदीय-स्वाभाविक-तद्-भावास्वादे सत्य् अन्यस्य विरसत्व-प्रतिभानात् । तथापि तत्र परम-ब्रह्म-पद-व्यञ्जिताया ज्ञान-भक्तेर् अयोग्याया भावना ज्ञान-भक्त्य्-अंश-वासित-सहृदय-चमत्काराय तदीय-भाग्य-प्रशंसा-वैशिष्ट्य-शंसन-भङ्ग्या तम् एवोत्कर्षयितुं प्रवर्तितेत्य् उल्लसत्य् एव रसः । एवम् इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.१२.११] इत्य्-आदिकम् अपि व्याख्येयम् । तथा—

भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्त-वत्सलः ।
पैतृष्वस्रेयान् स्मरति रामश् चाम्बुरुहेक्षणः ॥ [भा।पु। १०.४९.९]

अत्र पितृष्वसुस् तस्या ऐश्वर्य-ज्ञान-मयी भक्तिर् अयोग्या, वात्सल्यं तु योग्यम् । तथापि भगवद्-आदि-पद-व्यञ्जित-तादृश-सङ्गतिर् यासीत्, ताम् अतिक्रम्य भ्रात्रेय इति, पैतृष्वसेयान् इति, अम्बुरुहेक्षण इति चोक्ति-भङ्ग्या वात्सल्यस्योत्कर्षे सति रसोल्लासः ।

॥ १०.४९ ॥ श्री-कुन्ती ॥ १९२ ॥

[१९३]

एवं श्री-राघवेन्द्रस्य केवल-माधुर्यमय-लीलायां हनुमतः केवल-तन्-मय-दास-भावोऽपि स्वरूपैश्वर्यादि-ज्ञान-मय-तद्-भाव-सङ्गतिर् नातियोग्यापि पश्चान् माधुर्यमय एव पर्यवसायिता-भङ्ग्या तस्यैवोत्कर्षाय जातेति रसोल्लास एव योजनीयः । तत्रैश्वर्य-माधुर्ययोर् महिम-ज्ञानं तस्याह—ॐ नमो भगवते उत्तमश्लोकाय [भा।पु। ५.१९.३] इत्य्-आदि । अत्र भगवत इत्य् ऐश्वरम् उत्तमश्लोकाय इति माधुर्यं दर्शितम् ।

[१९४]

स्वरूप-ज्ञानम् आह—यत् तद् विशुद्धानुभव-मात्रम् एकम् [भा।पु। ५.१९.४] इत्य्-आदि।

यत् तत् प्रसिद्धं श्री-रामचन्द्रस्य दुर्वा-दल-श्यामल-रूपम् । अत्र प्रकाशैक-लक्षण-वस्तुनः सूर्यादि-ज्योतिषः प्रकाशकत्वं शौक्लादिमत्त्वम् इत्य्-आदि धर्मवत् गुण-रूपादि-लक्षण-तत्-स्वरूप-धर्मस्यापि तद्-आत्मकत्व-दृष्ट्या तन्-मात्रत्वम् उक्तम् । य एव धर्मः स्वरूप-शक्तिर् इति भगवत्-सन्दर्भादौ स्थापितम् । अत एवैकम् अपि । तस्याश् च शक्तेर् मायातिरिक्तत्वम् आह—स्व-तेजसा ध्वस्त-गुण-व्यवस्थम् इति । स्वरूप-शक्त्या दूरीभूता त्रैगुण्यात्मिका माया शक्तिर् यस्मात् यत् । अतः प्रशान्तं सर्वोपद्रव-रहितम् । अनुभाव-मात्रत्वे हेतुः—प्रत्यग्-दृश्याद् अन्यत् । न चक्षुषा पश्यन्त रूपम् अस्य [क।उ। २.३९], यम् एवैष वृणुते तेन लभ्यस् तस्यैषा आत्मा विवृणुते तनुं स्वाम् [क।उ। १.२.२३] इति श्रुतेः । तत् कुतः ? अनाम-रूपं, एतास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [छा।उ। ६.३.२] इति प्रसिद्ध-प्राकृत-नाम-रूप-रहितम् । तत्र हेतुः—निरहम् इति । आत्म-शब्देन हि श्रुताव् अस्यां परमात्मनो जीवाख्य-शक्ति-रूपोऽंश उच्यते । अनेनेति पृथक्त्व-निर्देशात् । तद्-रूपेण च प्रवेशो नाम देवता-शब्द-वाच्य-तेजो-वारि-मृल्-लक्षणोपाध्य्-अभिनिवेशः । स च तस्य जीवस्य तत्राहन्ताध्यासाद् एव भवति । ततोऽन्तर्यामि-रूपेण स्वयं तत्र स्थितस्यापि तद्-अध्यासाभावाद् उपाधिकृत-नाम-रूप-राहित्यं युक्तम् एवेत्य् अर्थः । सर्वथाहङ्कार-राहित्ये सति व्याकर-वाणीति-प्रयोगस्यानर्हत्वाद् इति भावः ।

ननु, श्री-राम-रूपं न सर्वैर् एव प्रतीयते ? तत्राह—सुधियोपलम्भनम् । शुद्ध-चित्तेन स्वरूपतयिवोपलभ्यत इत्य् अर्थः, नातः परं परम यद् भवतः स्वरूपम् [भा।पु। ३.९.३] इत्य्-आदि श्री-ब्रह्म-वाक्यात् ।

[१९५]

नन्व् एवंभूतस्य मर्त्येषु प्राकट्ये किं प्रयोजनम् ? उच्यते—गौणे सत्य् अपि प्रयोजनान्तरे मुख्यं तु भक्तेषु लीला-माधुर्याभिव्यञ्जनम् एवेत्य् आह—

मर्त्यावतारस् त्व् इह मर्त्य-शिक्षणं
रक्षो-वधायैव न केवलं विभोः ।
कुतोऽन्यथा स्याद् रमतः स्व आत्मनः
सीता-कृतानि व्यसनानीश्वरस्य ॥ [भा।पु। ५.१९.५]****

तु-शब्द आशङ्का-निवृत्त्य्-अर्थः । मर्त्य-लोके योऽवतार आविर्भावः । स तु साधु-जनोद्वेज-कर-क्षोबधायैव केवलं न भवति किन्तु मर्त्य-शिक्षणम् अपि । मर्त्येषु शिक्षणं तद्-अर्थ-प्रकाशनं यत् तन्-मयम् अपि । तत्र बहिर्मुखेषु विषयासङ्ग-दुर्वारताप्रकाशनम् आनुषङ्गिकम् । उद्देश्यं तु स्वभक्ति-वासनेषु चित्तार्द्रता-कर-विरह-संयोगमय-निज-लीला-विशेष-माधुर्य-प्रकाशनम् । ततस् तद्-अर्थम् एवेत्य् अर्थः । अन्यथा यदि केवलं तद्-वधायैव स्यात् तदा आत्मनः परमात्मत्वेन परिपूर्णस्येश्वरस्य सर्वान्तर्यामिणः स्वे स्व-स्वरूपे तद्-एक-रूपे वैकुण्ठे च रममाणस्य सीता-कृत-व्यसनानीति कुतः स्यात् । मनसैव तद्-वधे शक्तत्वात् तद्-व्यसना-सम्भवाच् च । निज-माधुर्य-प्रकाशन-पक्षे तु तत् तत् सम्भवत्य् एवेति भावः ।

अत्र कृपा-रूपं तादृश-लीला-रूपं च माधुर्यम् अधिकं श्लाघितम् । तत्र श्री-सीता-वियोग-दुःखं च लीला-माधुर्यान्तर्गतम् एवेति न दोष इत्य् अपि दर्शितम् ।

[१९६]

तादृश-लीला च न प्राकृतवत् कामादि-सक्ततया, किन्तु स्वजन-विशेष-विषयक-कृपा-विशेषेणैवेत्य् आह—

न वै स आत्मात्मवतां सुहृत्तमः
सक्तस् त्रि-लोक्यां भगवान् वासुदेवः ।
न स्त्री-कृतं कश्मलम् अश्नुवीत
न लक्ष्मणं चापि विहातुम् अर्हति ॥ [भा।पु। ५.१९.६]

स वै खलु त्रिलोक्यां न सक्तः । तत्र हेतुः—आत्मा परमात्मा भगवान् परिपूर्णैश्वर्यादिः, वासुदेवः सर्वाश्रयश् चेति । किन्तु आत्मवताम् आत्मा स्वयम् एव नाथत्वेन विद्यते येषां, तेषां स्व-विषयक-ममता-धारिणां भक्त-विशेषाणाम् इत्य् अर्थस् तेषाम् एव सुहृत्तमः । तस्माद् यथान्यो स्त्रीत्व-हेतुकं कश्मलम् अश्नुवते तेन, तथा नासाव् अश्नुवीत । अतस् तस्या आत्मवत्त्वेनैव तादृश-कश्मल-हेतु-तत्-प्रीति-विषयतापीति भावः । तथा देव-दूत-समयातिक्रमेणात्मवतोऽपि लक्ष्मणस्य परित्यागो यः, स खलु नात्यन्तिक इत्य् आह—न लक्ष्मणम् इति । विहातुम् अपि नार्हति न शक्नोति । अनन्तरं झटित्य् एव स्वर्ग-स्थतया स्वागमनं प्रतीक्षमाणैस् तद्-आदिभिः सह स्वधिष्ण्यारोहात् । अधुनापि तेन सीतादिभिश् च सहैवास्मिन् किंपुरुष-वर्षेऽप्य् अस्माभिर् दृश्यमानत्वात् । ततो मर्यादा-रक्षार्थम् एव किञ्चित् तत्-तद्-अनुकरणम् इति भावः ।

[१९७]

पूर्वार्थम् एव स्थापयितुं भक्त्य्-एक-कारण-कारुण्य-प्रमुख-परम-माधुर्यं सर्वोर्ध्वम् आह द्वाभ्यां—

न जन्म नूनं महतो न सौभगं
न वाङ् न बुद्धिर् नाकृतिस् तोष-हेतुः ।
तैर् यद् विसृष्टान् अपि नो वनौकसश्
चकार सख्ये बत लक्ष्मणाग्रजः ॥ [भा।पु। ५.१९.७]

महतः पुरुषाज् जन्म । सौभगं सौन्दर्यम् । आकृतिर् जातिः । यद् यस्मात् । तैर् जन्मादिभिर् विसृष्टान् त्यक्तान् अस्मान् तदीय-परम-भक्त-श्री-सीतान्वेषणादि-भक्ति-तुष्टत्वेन बताहो लक्ष्मणस्य सर्व-सद्-गुण-लक्ष्म-लक्षितस्य सुमित्रानन्दनस्याग्रजोऽपि सखित्वे कृतवान् दास्यायोग्यान् अपि सह-विहारादिना सखीन् इव कृतवान् इत्य् अर्थः । सुग्रीवम् उपलक्ष्य वा तथोक्तम् ।

[१९८]

तस्मात्—

सुरोऽसुरो वाप्य् अथ वानरो नरः
सर्वात्मना यः सुकृतज्ञम् उत्तमम्
भजेत रामं मनुजाकृतिं हरिं
य उत्तरान् अनयत् कोसलान् दिवम् इति ॥ [भा।पु। ५.१९.८]

पूर्वं स्वरूप-ज्ञान-मय-भक्त्या मनुजाकृताव् एव परम-स्वरूपत्वं दर्शितवान् । सम्प्रति माधुर्य-ज्ञान-मय-भक्त्यापि विशिष्य तम् एवाराधयति–मनुजाकृतिं हरिम् इति । तत्रापि श्री-कपिलादिकं व्यावर्तयति–रामम् इति । उत्तमम् असमोर्ध्व-गुणं सुकृतज्ञं स्वल्पयापि भक्त्या सन्तुष्यन्तम् इति ।

॥ ५.१९ ॥ श्री-हनूमान् ॥ १९३-१९८ ॥

[१९९]

तथा मैवं विभोऽर्हति [भा।पु। १०.२३.३१] इत्य्-आदौ, प्रेष्ठो भवांस् तनुभृतां किल बन्धुर् आत्मा [भा।पु। १०.२९.३२] इत्य् अत्रापि नर्मालाप-मय-श्लेषम् अङ्ग्या स्वीय-भावोत्कर्षेण रसोल्लासः पुरतो दर्शनीयः । अथायोग्य-गौण-सङ्गत्यापि मुख्यस्योल्लासो यथा त्वक्-श्मश्रु-रोम-नख-केश- [भा।पु। १०.६०.४५] इत्य्-आदिकं श्री-रुक्मिणी-वाक्यम् । अत्र प्रतीपत्वेनायोग्यस्यापि बीभत्स्यस्य सङ्गतिः प्रकृत-कृष्ण-विषयक-कान्त-भाव-प्रशंसा-कारि-वचन-भङ्ग्यैव कृतेति तद्-उत्कर्षायैव जाता । ततो रसोल्लास एवेति । तथान्यत्र—

एताः परं स्त्रीत्वम् अपास्त-पेशलं
निरस्त-शौचं बत साधु कुर्वते ।
यासां गृहात् पुष्कर-लोचनः पतिर्
न जात्व् अपैत्य् आहृतिभिर् हृदि स्पृशन् ॥ [भा।पु। १.१०.३०]

सा च श्री-रुक्मिण्याद्य्-अवर-तज्-जाति-भेदत्वेनैवात्र गृहीता । अपास्त-पेशलत्वादिकं हि तज्-जात्य्-अन्तराश्रयं न तु रुक्मिण्याद्य्-आश्रयम् । ताभिस् तासाम् अपि साधुत्व-करणात् । ततश् चान्यां तत्-तद्-दोष-युक्तां स्त्री-जातिम् अपि या निज-कीर्त्य्-आदिना शुद्धां कुर्वन्तीत्य् अर्थः । तासां तत्-तद्-दोष-रहित-सर्व-गुणालङ्कृतत्वे तद्-अवरासां साधुत्व-विधाने च हेतुम् आह—यासाम् इति । स्वयं तथाविधोऽप्य् आहृतिभिः प्रेयसी-जनोचित-गुण-समाहारैर् या एव हृदि स्पृशन् मनस्यासज्जन् यासां गृहाद् अपि न जात्व् अपैतीति । तस्माद् अत्रापि बीभत्स-सङ्गतिः पूर्ववद् व्याख्येया ।

॥ १.१० ॥ कौरवेन्द्र-पुर-स्त्रियः ॥ १९९॥

[२००]

अथ गौणेष्व् अयोग्य-मुख्यानां सङ्गताव् अपि पूर्व-रीत्या रसोल्लासो, यथा—

गोप्योऽनुरक्त-मनसो भगवत्य् अनन्ते
तत्-सौहृद-स्मित-विलोक-गिरः स्मरन्त्यः ।
ग्रस्तेऽहिना प्रियतमे भृश-दुःख-तप्ताः
शून्यं प्रिय-व्यतिहृतं ददृशुस् त्रिलोकम् ॥ [भा।पु। १०.१६.२०]

अत्र गौणः करुण-रस एव योग्यः । तत्र स्व-प्रतीपे सम्भोगाख्य उज्ज्वलस् त्व् अयोग्यः । तथापि तत्र स्मित-विलोकादि-रूप-तत्-सङ्गतिः स्मर्यमाण-मात्रत्वेन तत्-तद्-भावाभिव्यञ्जन-भङ्ग्या शोकम् उत्कर्षयति । ततो रसोल्लास एवेति ।

॥ १०.६० ॥ श्री-शुकः ॥ २०० ॥

[२०१]

अथ मुख्येष्व् अयोग्य-सञ्चारि-सङ्गताव् अपि यथा ता वार्यमाना पतिभिः [भा।पु। १०.२९.८] इत्य्-आदि ।

अथ च तेषाम् अग्रे तादृशं चापल्यम् अयोग्यम् अपि तदानीं मोहातिरेकाभिव्यञ्जना-भङ्ग्या महाभावाख्यं सर्वानुसन्धान-रहितं कान्त-भावस्य उत्कर्षम् एव गमयामास । तत उल्लसत्य् एव रस इति ।

॥ १०.२९ ॥ श्री-शुकः ॥ २०१ ॥

[२०२]

एवम् उदाहरणान्तराण्य् अप्य् उन्नेयानि । अथ यद् उक्तम् अयोग्यस्योत्कर्षे तु रसाभासत्वस्यैव उल्लास इति तत्रोदाहरणम्—युवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ [भा।पु। १०.६५.१८] इति ।

अत्र पितृ-भावेनाभिव्यक्तस्य श्री-वसुदेवस्य एव योग्यं वात्सल्यम् अतिक्रम्य सङ्गता भक्तिर् न रसत्वायोपपद्यते इति । समाधानं च पूर्वानुसारेण श्री-बलदेव-वद् एव योजनीयम् । रसाभास-प्रसङ्गे समाधानानि चैतानि तेष्व् एव निर्दोषेषु क्रियन्ते । तद्-इतरेषु तु न तद्-अर्थम् अनुगृह्यते । तस्मात् सर्वथा परिहार्यस् तत्-प्रसङ्गः । योग्येन योग्य-सङ्गत्या रसोल्लासस्योदाहरणानि तु स्वयम् उह्यानि ।

॥ १०.६५ ॥ श्री-वसुदेवः ॥ २०२ ॥

[२०३]

[२०३.१] अथ तत्-प्रीति-विशेष-मया रसाः प्रकर्तव्याः । तत्र शान्तापर-नामा ज्ञान-भक्ति-मयो रसः । तत्रालम्बनः पर-ब्रह्मत्वेन स्फुरन् ज्ञान-भक्ति-विषयश् चतुर्भुजादि-रूपः श्री-भगवान् । तद्-आधारा भगवल्-लीला-गत-महा-ज्ञानि-भक्ताश् च । तत्र भगवान् एवं तदैव भगवान् अरविन्द-नाभः [भा।पु। ३.१५.३७] इत्य्-आदिभिः श्री-सनकादीनां वैकुण्ठ-गमने दर्शितः । ज्ञानि-भक्ताश् च आत्मारामाश् च मुनयः [भा।पु। १.७.१०] इत्य्-आदिना वर्णिताः । तेषु च श्री-चतुःसनाद्या एव तादृशाः । श्री-शुकदेवस्य तु लीला-रस-माधुर्याकृष्टतया श्री-भागवताभिनिवेशाद् यत्रैव श्रीमद्-भागवतं सर्वोत्तमत्वम् अभिप्रैति, तत्रैव गृध्नुना भवेत् ।

अथोद्दीपनाश् च तस्य गुण-क्रिया-द्रव्य-प्रायाः । तत्र गुणाः–सच्-चिद्-आनन्द-सान्द्राङ्गत्वं, सदा स्वरूप-सम्प्राप्तत्वं, भगवत्त्वं, परमात्मत्वं, विद्या-शक्ति-प्रधानत्वं, विभुत्वं, हतारि-मुक्ति-दायकत्वं, शान्त-भक्त-प्रियत्वं, समत्वं, दान्तत्वं, शान्तत्वं, शुचित्वं, अद्भुत-रूपवत्त्वम् इत्य्-आदयः । क्रियाश् च भक्त-पालनाद्याः । द्रव्याणि च महोपनिषज्-ज्ञानि-भक्त-पाद-रजस्-तुलसी-तदीय-स्थानादीनि ।

अथानुभावाः–तत्-तद्-गुणादि-प्रशंसा पर-ब्रह्म-परमात्मादि-नामोच्चारणं ब्रह्म-सुखावधीरणा-पूर्वक-भगवद्-उन्मुखत्वम् इत्य्-आदयः । नासाग्र-न्यस्त-दृष्टित्वावधूत-चेष्टा-ज्ञान-मुद्रादि-पूर्वक-जृम्भाङ्ग-मोटन-हरि-नति-स्तुति-प्रभृतयश् च । सात्त्विकाश् च प्रायः प्राकृता एव ।

अथ सञ्चारिणः–निर्वेद-धृति-हर्ष-मति-स्मृति-विषादोत्सुकतावेग-वितर्काद्याः ।

अथ स्थायी ज्ञान-भक्तिः । सा च—

योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं ।
सोऽद्यैव नो नयन-मूलम् अनन्त राद्धः ॥ [भा।पु। ३.१५.४६] इत्य्-आदिभिर् व्यञ्जिता ।

तन्-मय-रस-व्यञ्जकं च तत्रैव—

तस्यारविन्द-नयनस्य पदारविन्द-
किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः ।
अन्तर्-गतः स्व-विवरेण चकार तेषां
सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः ॥ [भा।पु। ३.१५.४३] इत्य्-आदिकम् ।

अत्रारविन्द-नयन आलम्बनः । वायुर् उद्दीपनः । तनु-सङ्क्षोभ-रूप उद्भास्वर-विशेषः सात्त्विक-विशेषश् चानुभावः । चित्त-सङ्क्षोभ-रूपो हर्षः सञ्चारी । अक्षर-जुषाम् अपीति निर्देश-विशिष्टेन तन्-निर्देशेन लब्धा ज्ञान-भक्तिः स्थायी । तत्-समूहस्यैकत्रानुभवेन समर्थनात् ज्ञान-भक्ति-मयो रस इति विवेचनीयम् ।

[२०३.२]अथ भक्ति-मयेषु रसेषु आश्रय-भक्ति-मयो रस उदाह्रीयते । तत्र आलम्बनः पालकत्वेन स्फुरन्न् आश्रय-भक्त्य्-आश्रयः श्री-कृष्णः, तद्-आधारास् तल्-लीला-गत-परम-पाल्याश् च ।

अत्र श्री-कृष्णोऽन्यत्रत्येषु श्रीमन्-नराकारता-प्रधानः परमेश्वराकारश् च । श्रीमद्-व्रज-वासिषु तु पर-मधुर-परम-प्रभाव-श्रीमन्-नराकार एव ।

अथ ते पाल्या द्विविधाः–साधारणाः प्रपञ्च-कार्याधिकृता बहिरङ्गाः, तदीय-चरण-च्छायैक-जीवनाश् चान्तराङ्गाः । तत्र पूर्वेषां ब्रह्म-शिवादयस् तु भक्ति-विशेष-सद्-भावात् तद्-अन्तरङ्गा एव ।

अथोत्तरे त्रिविधाः–साधारणाः, श्री-यदु-पुर-वासिनः, श्रीमद्-व्रज-पुर-वासिनश् च । तत्र प्रथमे जरासन्ध-बद्ध-राजादयो मुनि-विशेषादयश् च । उत्तर-वर्ग-द्वयं श्रेणी-जनादिकम् ।

अथोद्दीपनेषु गुणाः । तत्र परमेश्वराकारावलम्बनानां भगवत्त्वम् अवतारावली-बीजत्वम् आत्मारामाकर्षित्वं पूतनादीनाम् अपि तद्-वेशानुकरणेन महा-भक्त-भाव-दातृत्वं परमात्मत्वम् अनन्त-ब्रह्माण्डाश्रयैक-रोम-विवरांशत्वम् इत्य्-आदयो वक्ष्यमाण-मिश्राः ।

श्रीमन्-नराकारावलम्बनानां कृपाम्बुधित्वम् आश्रित-पालकत्वम् अविचिन्त्य-महा-शक्तित्वं परमाराध्यत्वं सर्वज्ञत्वं सुदृढ-व्रतत्वं समृद्धिमत्त्वं क्षमा-शीलत्वं दाक्षिण्यं सत्यं दाक्ष्यं सर्व-शुभङ्करत्वं प्रतापित्वं धार्मिकत्वं शास्त्र-चक्षुष्ट्वं भक्त-सुहृत्त्वं वदान्यत्वम् ओजः कीर्तिः तेजः सहो बलानि प्रेम-वश्यत्वादयश् च।

अथ जातयः पूर्वेषां तत्-तद्-अनुकारितया प्रतीता गोपत्वादयः तत्-स्मारकाः श्यामत्वादयश् च । उत्तरेषां तत्-तच्-छ्रेष्ठत्वेनैव प्रतीतास् ते उभये ।

अथ क्रियाः । पूर्वेषां सृष्टि-स्थित्य्-आदिकृतो विश्वरूप-दर्शनाद्याः वक्ष्यमान-मिश्राः । उत्तरेषां पर-पक्ष-निबर्हण-स्व-पक्ष-पालन-सानुग्रहावलोकनाद्याः ।

अथ द्रव्याणि । तदीयास्त्र-वादित्र-भूषण-स्थान-पदाङ्क-भक्तादीनि । तानि च पूर्वेषाम् अलौकिकतयैव स्पष्टानि । उत्तरेषां चैतान्येवालौकिकत्वेऽपि लौकिकायमानतयैव70 दर्शित-प्रभावानि ।

अथ कालाश् चोभयत्र तज्-जन्म-तद्-विजयादि-सम्बन्धित इति ।

अथानुभावाः । तत्-सम्बन्धेनैव वसतिस् तत्-प्रभावादि-मय-गुण-नाम-कीर्तनम् इत्य्-आदयः । तथा पूर्वोक्ता अपि ।

अथ सञ्चारिणः । तत्र योगे हर्ष-गर्व-धृतयः । अयोगे क्लम-व्याधी । उभयत्र निर्वेद-शङ्का-विषाद-दैन्य-चिन्ता-स्मृति-व्रीडा-मत्य्-आदयो मृतिश् च । सा योगेऽपि यथा श्री-भीष्मान्तिम-चरिते—विशुद्धया धारणया [भा।पु। १.९.३१] इति । एवं तत्र युधि तुरग-रजः [भा।पु। १.९.३४] इत्य्-आदौ, मम निशित-शरैर् विभिद्यमान-त्वची इत्य् अनेनैव स्वापराध-द्योतक-वाक्ये दैन्यम् उदाहार्यम् । शित-विशिख-हतः [भा।पु। १.९.३८] इत्य्-आदिकेऽपि ।

॥ १.९ ॥ श्री-सूतः ॥ २०३ ॥

[२०४]

अथ स्थायी चाश्रय-भक्त्य्-आख्यः । यथा—

भवाय नस् त्वं भव विश्व-भावन
त्वम् एव माताथ सुहृत्-पतिः पिता ।
त्वं सद्-गुरुर् नः परमं च दैवतं
यस्यानुवृत्त्या कृतिनो बभूविम ॥ [भा।पु। १.११.७]****

अत्र विभावोद्भास्वरानुभाव-वैशिष्ट्येनैव सात्त्विकादीनाम् अपि लब्धत्वात् तत्-संवलन-चमत्कारात्मक-रसोदाहरणम् अपि ज्ञेयम् । यथोक्तम्—

सद्-भावश् चेद् विभावादेर् द्वयोर् एकस्य वा भवेत् ।
झटित्य् अन्य-समाक्षेपात् तदा दोषो न विद्यते ॥ [सा।द। ३.१७]

अन्य-समाक्षेपश् च प्रकरण-वशाद् इति ।

॥ १.११ ॥ द्वारका-प्रजाः श्री-भगवन्तम् ॥ २०४ ॥

[२०५]

आश्रय-भक्ति-मयो रसो द्विविधः । अयोगात्मको योगात्मकश् च । अयोगो द्विविधः–प्रथमाप्राप्तिर् वियोगश् च । योगश् च द्विविधः । क्रमेण द्विविधायोगानन्तरजः सिद्धिस् तुष्टिश् चेति । तत्र प्रथमाप्राप्त्य्-आत्मकम् अयोगम् आह—

इति मागध-संरुद्धा भवद्-दर्शन-काङ्क्षिणः ।
प्रपन्नाः पाद-मूलं ते दीनानां शं विधीयताम् ॥ [भा।पु। १०.७०.३१]

अत्र भगवद्-दर्शन-काङ्क्षिण इत्य् अनेन तद्-दर्शनार्थैव बन्ध-मुमुक्षापि विज्ञापिता । ततः स्थायी दर्शितः । पाद-मूलम् आलम्बनम् । संरोधी विरोध-मुखेनोद्दीपनः । प्रपत्तिर् उद्भास्वरः । औत्सुक्यं दैन्यं च सञ्चारिणौ । ताभ्यां सात्त्विकादयश् च ज्ञेयाः ।

॥ १०.६० ॥ राज-दूतः श्री-भगवन्तम् ॥ २०५ ॥

[२०६]

एतद्-अनन्तरं सिद्ध्य्-आख्यं योगं तेषाम् एवाह—

ददृशुस् ते घन-श्यामं पीत-कौशेय-वाससम् ।
श्रीवत्साङ्कं चतुर्-बाहुं [भा।पु। १०.७३.२-३] इत्य् आरभ्य—
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥
जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः ।
प्रणेमुर् हत-पाप्मानो मूर्धभिः पादयोर् हरेः ॥
कृष्ण-सन्दर्शनाह्लाद- ध्वस्त-संरोधन-क्लमाः ।
प्रशशंसुर् हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः ॥ [भा।पु। १०.७३.५-७]

पिबन्त इत्य्-आदाव् इव शब्द उत्प्रेक्षायाम् । तद्-अद्भुत-रूप-दर्शनेन चक्षुषोर् अत्यन्त-विस्फारणात् पिबन्त इवेत्य् उक्तम् । एवं तदीय-मधुर-गन्ध-जात-चरणारविन्द-लेहन-लोभात् पुनः पुनर् या जृम्भा जाता, तल्-लिङ्गेन तच्-चरणारविन्दं लिहन्त इवेत्य् उक्तम् । अत एव जिघ्रन्त इव नासाभ्याम् इति । नासा-पुट-फुल्लतालिङ्गेन तस्य सर्वाङ्गम् एव युगपज् जिघ्रन्त इवेत्य् उक्तम् । तद्-अर्थम् इव तद्-विस्तारणं कृतम् इत्य् अर्थः । तथापि भक्तत्वात् तच्-चरणस्यैवावलेहेच्छा युक्तेति तथा व्याख्यातम् । एवम् उत्तरत्रापि । परमावेश-कृत-बाहु-चालन-लिङ्गेन तच्-चरणारविन्दं श्लिष्यन्त इवापीति सर्वथा तद्-आवेश एव तात्पर्यम् ।

॥ १०.७३ ॥ श्री-शुकः ॥ २०६ ॥

[२०७]

अथ वियोगः । यर्ह्य् अम्बुजाक्षापससार [भा।पु। १.११.९] इत्य्-आदौ श्री-द्वारका-प्रजा-वाक्ये तासां प्रभावो व्यक्तः । श्री-व्रज-प्रजानां च [भा।पु। १०.३५.२५] इत्य्-आदौ—मोचयन् व्रज-गवां दिन-तापम् इत्य् अनेन सूचितः । व्रज एव तिष्ठतां वृद्ध-बाल-गवाम् अपि किम् उत मनुष्याणाम् इत्य् अर्थः ।

अथ तद्-अनन्तरजं तुष्ट्य्-आख्यं योगं द्वारका-प्रजानाम् आह—

आनर्तान् स उपव्रज्य स्वृद्धाऽ जन-पदान् स्वकान् ।
दध्मौ दरवरं तेषां विषादं शमयन्न् इव ॥ [भा।पु। १.११.१]

इवेति वाक्यालङ्कारे ।

॥ १.११ ॥ श्री-सूतः ॥ २०७ ॥

[२०८]

श्री-व्रज-प्रजानाम् अपि मोचयन्न् [भा।पु। १०.३५.२५] इत्य्-आदिनैव व्यक्तः । तथा व्रज-वन-स्थितानाम् अपि श्री-व्रज-देवी-वाक्यैः वृन्दावनं सखि भुवो वितनोति कीर्तिम् [भा।पु। १०.२१.१०] इत्य्-आदिभिः । हन्त चित्रम् अबला शृणुतेदम् [भा।पु। १०.३५.४] इत्य्-आदिभिश् च ज्ञेयः ।

अथ दास्य-भक्ति-मयो रसःतत्रालम्बनः प्रभुत्वेन स्फुरन् दास्य-भक्त्य्-आश्रयः श्री-कृष्णः । तद्-आधाराः श्री-कृष्ण-लीला-गत-स्वोत्कृष्ट-तदीय-भृत्याश् च । श्री-कृष्ण इह परमेश्वराकारः श्रीमन्-नराकारश् चेति द्विविधः पूर्वोक्ताविर्भाव एव । तद्-भृत्याश् च तत्-तद्-अनुशीलत्वेन द्विविधाः । पुनस् ते च त्रिविधाः । अङ्ग-सेवकाः पार्षदाः प्रेष्याश् च । तत्राङ्ग-सेवका अङ्गाभ्यञ्जक-ताम्बूल-वस्त्र-गन्ध-समर्पकादयः । पार्षदा मन्त्रि-सारथि-सेनाध्यक्ष-धर्माध्यक्ष-देशाध्यक्षादयः । विद्याधदि-चातुर्येण सभा-रञ्जकाश् च । पुरोहितस्य प्राधान्याद् गुरु-वर्गान्तः-पात एव । पार्षदत्वम् अप्य् अंशेन । प्रेष्याः सादिपदातिशिल्पि-प्रभृतयः । एते च यथा-पूर्वं प्रायः प्रियतराः । श्रीमद्-उद्धव-दारुक-प्रभृतीनां त्व् अङ्ग-सेवादि-वैशिष्ट्यम् अप्य् अस्तीति सर्वतोऽप्य् आधिक्यम् । तत्रापि श्रीमद्-उद्धवस्य बहुशोऽपि त्वं मे भृत्यः सुहृत् सखा [भा।पु। ११.११.४९] इत्य्-आद्य् उक्तेः ।

अथोद्दीपनाः पूर्वोक्ता एव । तत्र विशेषतोऽङ्ग-सेवकेषु गुणाः सौन्दर्य-सौकुमार्यादयः । क्रिया शयन-भोजनादिकाः । द्रव्याणि तत्-सेवोपयोग्यानि तद्-उच्छिष्टानि च । पार्षदेषु गुणाः प्रभुत्वादयः । प्रेष्येषु प्रतापादय इत्य्-आदि ।

अथानुभावाः प्रायः पूर्वोक्ता एव । तथा योगे स्व-स्व-कर्मणि तात्पर्यम् । यत् खलु सेवा-समये कम्प-स्तम्भाद्य्-उद्भवम् अपि विलापयति तत्-तत्-कर्म-तात्पर्यं हि तस्यासाधारणो धर्मः । कम्पादिस् तु सर्व-साधारणस् ततः पूर्वस्यैव बलवत्त्वम् इति । एवम् अन्यत्रापि रसे यथायथम् उन्नेयम् । अथायोगेऽपि स्व-स्व-कर्मानुसन्धानं तद्-अर्चास्व् अपि तत्-तत्-कृतिर् एव वा ।

अथ सञ्चारिणोऽपि प्राग्-उक्ता एव । अथ स्थायी च दास्य-भक्त्य्-आख्यः । स चाक्रूरादीनाम् ऐश्वर्य-ज्ञान-प्रधानः । श्रीमद्-उद्धवादीनां तत्-तत्-सद्-भावेऽपि माधुर्य-ज्ञान-प्रधानः । श्री-व्रज-स्थानं तु माधुर्येक-मय एव ।

अथाप्य् एषां प्रीतेर् भक्तित्वं श्री-गोप-राज-कुमारत्व-परम-गुण-प्रभावत्वादिनैवादर-सद्-भावात् । तत्राक्रूरस्य ददर्श रामं कृष्णं च व्रजे गो-दोहनं गतौ [भा।पु। १०.३८.२८] इत्य्-आदि लीलायाम् अनुभूत-तादृश-माधुर्यस्यापि यमुना-ह्रदे दृष्टेन तद्-ऐश्वर्य-विशेषेणैव चमत्कार-परिपोषात् तत्-प्रधानत्वं व्यक्तम् । श्रीमद्-उद्धवस्य माधुर्य-प्रधानत्वं तु श्री-गोकुल-वासि-भाग्य-श्लाघायां स्फुटम् एव व्यक्तम् । अत एव तादृशस्यापि तस्यैवं स्वेच्छा-मय-नर-लीला-माधुर्यावेशः स्मर्यमाणो मम तद्-वियोग-खेदं वर्धयतीति भगवद्-अन्तर्धानानन्तरम् उद्धवः स्वयम् आह—

मां खेदयत्य् एतद् अजस्य जन्म-
विडम्बनं यद् वसुदेव-गेहे ।
व्रजे च वासोऽरि-भयाद् इव स्वयं
पुराद् व्यवात्सीद् यद्-अनन्त-वीर्यः ॥ [भा।पु। ३.२.१६] इति ।

[२०९]

अत एव श्लाघितं यन्-मर्त्य-लीलौपायिकम् [भा।पु। ३.२.१२] इति । अग्रे परम-मधुरत्वेन तां लीलाम् अपि वर्णयति—

वसुदेवस्य देवक्यां जातो भोजेन्द्र-बन्धने ।
चिकीर्षुर् भगवान् अस्याः शम् अजेनाभियाचितः ॥
ततो नन्द-व्रजम् इतः पित्रा कंसाद् विबिभ्यता ।
एकादश समास् तत्र गूढार्चिः स-बलोऽवसत् ॥
परीतो वत्सपैर् वत्सांश् चारयन् व्यहरद् विभुः ।
यमुनोपवने कूजद्- द्विज-सङ्कुलिताङ्घ्रिपे ॥
कौमारीं दर्शयंश् चेष्टां प्रेक्षणीयां व्रजौकसाम् ।
रुदन्न् इव हसन् मुग्ध- बाल-सिंहावलोकनः ॥ [भा।पु। ३.२.२५-२८] इत्य्-आदि ।

रुदन्न् इव हसन्न् इति जनन्य्-आद्य्-अग्रे कौमार-चेष्टा-विशेषः ॥

॥ ३.२ ॥ श्रीमान् उद्धवः ॥ २०८-२०९ ॥

[२१०]

अथ श्री-व्रज-स्थानां माधुर्य-ज्ञानैक-मयत्वम् आह—

पाद-संवाहनं चक्रुः केचित् तस्य महात्मनः ।
अपरे हत-पाप्मानो व्यजनैः समवीजयन् ॥ [भा।पु। १०.१५.१८]****

महात्मानो महा-गुण-गण-गुणितस्य हत-पाप्मानो न तु वयम् इव तादृश-भाग्यान्तराय-लक्षण-पाप-युक्ता इति श्री-शुकदेवस्य दैन्योक्तिस् तत्-स्पृहातिशयं व्यञ्जयति ।

॥ १०.१५ ॥ श्री-शुकः ॥ २१० ॥

[२११]

तथा,

हन्तायम् अद्रिर् अबला हरि-दास-वर्यः [भा।पु। १०.२१.१८] इत्य्-आदि ।

स्पष्टम् ।

॥ १०.२१ ॥ श्री-गोप्यः ॥ २११ ॥

[२१२]

तद् एतद्-विभावादि-स्थाय्य्-अन्त-संवलन-चमत्कारात्मको रसो ज्ञेयः । स च पूर्ववत् प्रथमाप्राप्त्य्-आत्मको, यथा—

अप्य् अद्य विष्णोर् मनुजत्वम् ईयुषो
भारावताराय भुवो निजेच्छया ।
लावण्य-धाम्नो भवितोपलम्भनं
मह्यं न न स्यात् फलम् अञ्जसा दृशः ॥ [भा।पु। १०.३८.१०]****

स्पष्टम् ।

॥ १०.३८ ॥ श्री-अक्रूरः ॥ २१२ ॥

[२१३]

तद्-अनन्तर-प्राप्ति-लक्षण-सिद्ध्य्-आत्मको, यथा—

भगवद्-दर्शनाह्लाद- बाष्प-पर्याकुलेक्षणः ।
पुलकाचिताङ्ग औत्कण्ठ्यात् स्वाख्याने नाशकन् नृप ॥ [भा।पु। १०.३८.३५]

स्वाख्याने अक्रूरोऽहं नमस्करोमि इत्य् एतल्-लक्षणे ।

॥ १०.३८ ॥ श्री-शुकः ॥ २१३ ॥

[२१४]

अथ भगवद्-अन्तर्धानान्तरं वियोगात्मको यथा—

इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् ।
प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः ॥
यः पञ्च-हायनो मात्रा प्रातर्-आशाय याचितः ।
तन् नैच्छद् रचयन् यस्य सपर्यां बाल-लीलया ॥
स कथं सेवया तस्य कालेन जरसं गतः ।
पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादाव् अनुस्मरन् ॥ [भा।पु। ३.२.१-३]****

भागवतः श्रीमान् उद्धवः । क्षत्त्रा विदुरेण । जरसं वर्षाणां पञ्चविंशत्य्-उत्तर-शतस्य तादृशानां प्राकट्य-मर्यादा-कालस्यान्तिमं भागम् इत्य् एव विवक्षितं न तु जीर्णत्वम् । श्री-कृष्ण-सवयसस् तस्यापि तद्वन् नित्य-वयसत्वेन श्री-कृष्ण-सन्दर्भे स्थापितत्वात् नोद्धवोऽण्व् अपि मन्-न्यूनः [भा।पु। ३.४.३१] इति श्री-भगवद्-वाक्य-वैशिष्ठ्यात्। तत्र प्रवयसोऽप्य् आसन् युवानोऽतिमहौजस [भा।पु। १०.४५.१९] इत्य्-आदिना कैमुत्याच् च ॥

॥ ३.२ ॥ श्री-शुकः ॥ २१४ ॥

[२१५]

अत्र कृष्ण-द्युमणि-निम्लोचे [भा।पु। ३.२.७] इत्य्-आदौ दुर्भगो बत लोकोऽयम् [भा।पु। ३.२.८] इत्य्-आदिषु चात्मात्मीय-विगर्हादि-लक्षणो विलापश् च ज्ञेयः । अथ वियोगानन्तर-योग-लक्षण-तुष्ट्य्-आत्मक उदाहार्यः । तत्र साक्षात्कार-तुल्य-स्फूर्तात्मको यथा तद्-अनन्तरम् एव श्रीमद्-उद्धवस्य—

स मुहूर्तम् अभूत् तूष्णीं कृष्णाङ्घ्रि-सुधया भृशम् ।
तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः ॥ [भा।पु। ३.२.४] इत्य्-आदि ।

स्पष्टम् ।

॥ ३.२ ॥ श्री-शुकः ॥ २१५ ॥

[२१६]

एवम् एव व्रजे तद्-विरह-दुःख-मग्ने कृपया व्यवहार-रक्षार्थं केषुचिद् अव्यवच्छेदेनैव स्फुरतीत्य् अत एव श्रीमद्-उद्धव-प्रवेशे केषांचित् सुखम् अपि वर्णितम् । वासितार्थेऽभियुद्धद्भिः [भा।पु। १०.४६.९] इत्य्-आदिभिश् च । तां दीप-दीप्तैर् मणिभिर् विरेजुः [भा।पु। १०.४६.४५] इत्य्-आदिना च । अत एव श्री-भगवतापि प्रायः पितरौ प्रेयसीश् चैवोद्दिश्य सन्दिष्टम्–गच्छोद्धव व्रजं सौम्य [भा।पु। १०.४६.३] इत्य्-आदिना । पित्रादीनां तु सर्वत्र दुःख-मात्र-स्फुरणाद् अन्येषां सुखम् अपि नानुभव-पदवीम् आरोहति ।

अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् ।
गोपान् व्रजं चात्म-नाथं गावो वृन्दावनं गिरिम् ॥ [भा।पु। १०.४६.१८]

इत्य्-आदि श्री-व्रजेश्वर-वचनात् । तत्र श्रीमद्-उद्धव-वासे तु प्रायः सर्वेषाम् अपि तादृशीं स्फूर्तिं वर्णयति—

उवास कतिचिन् मासान् गोपीनां विनुदन् शुचः ।
कृष्ण-लीला-कथां गायन् रमयामास गोकुलम् ॥
यावन्त्य् अहानि नन्दस्य व्रजेऽवात्सीत् स उद्धवः ।
व्रजौकसां क्षण-प्रायाण्य् आसन् कृष्णस्य वार्तया ॥
सरिद्-वन-गिरि-द्रोणीर् वीक्षन् कुसुमितान् द्रुमान् ।
कृष्णं संस्मारयन् रेमे हरि-दासो व्रजौकसाम् ॥ [भा।पु। १०.४७.५४-५६]

संस्मारयन् स्फोरयन्न् इत्य् अर्थः । अत एव विनुदन् शुच इत्य्-आदिकम् उक्तम् ।

॥ १०.४७ ॥ श्री-शुकः ॥ २१६ ॥

[२१७]

अथ साक्षात्कार-लक्षण-तुष्ट्य्-आत्मकं श्रीमद्-उद्धवस्याह—

ततस् तम् अन्तर् हृदि सन्निवेश्य
गतो महा-भागवतो विशालाम् ।
यथोपदिष्टां जगद्-एक-बन्धुना
तपः समास्थाय हरेर् अगाद् गतिम् ॥ [भा।पु। ११.२९.४७]****

गम्यते इति गतिःयथोपदिष्टां गतिम् इत्य् अस्य तृतीयानुसारेणायम् अर्थः । पूर्वं तत्र तं प्रति श्री-भगवता, वेदाहम् अन्तर्-मनसीप्सितं ते ददामि यत् तद् दूर-वापम् अन्यैः [भा।पु। ३.४.११] इत्य् अनेन तद्-अभीप्सितं दातुं प्रतिश्रुतम् । त्वद्-ईप्सित-पूर्त्य्-अर्थं यद् अन्यैर् दुरवापं, तद् ददामीत्य् अर्थः । तच् च देयं–पुरा मया प्रोक्तम् अजाय नाभा [भा।पु। ३.४.१३] इत्य्-आदिना सङ्क्षेप-भागवत-रूपम् इत्य् उद्दिष्टम् ।

अथ तादृश-तत्-प्रतिश्रुत-श्रवणेन परमोत्सुकतया परम-निजाभीप्सितम् असौ स्वयम् एव निवेदितवान्—

को न्व् ईश ते पाद-सरोज-भाजां
सुदुर्लभोऽर्थेषु चतुर्ष्व् अपीह ।
तथापि नाहं प्रवृणोमि भूमन्
भवत्-पदाम्भोज-निषेवणोत्सुकः ॥ [भा।पु। ३.४.१५] इत्य् अनेन ।

अथागन्तुकं निज-मोह-विशेषं च निवेदितवान्—कर्माण्य् अनीहस्य भवोऽभवय [भा।पु। ३.४.१६] इत्य्-आदिभ्याम् । तच् च साक्षात्-तद्-उपदेश-बलेन प्रायः पर-प्रत्यायनार्थम् एव ज्ञेयम्, नोद्धवोऽण्व् अपि मन्-न्यूनः [भा।पु। ३.४.३१] इत्य्-आदेः ।

अथ तत्-तद्-अर्थोपयुक्ततया भगवद्-उद्दिष्टार्थम् अपि प्रार्थितवान्–ज्ञानं परं स्वात्म-रहः-प्रकाशं प्रोवाच कस्मै [भा।पु। ३.४.१८] इत्य्-आदिना । तत्र यद् वृजिनं तरेम इति वृजिनं तादृश-सेवा-विरह-दुःखम् । तादृश-लोक-मोह-दुःखं च । तत् तरणस्य तद्-रहस्य-ज्ञानाधीनत्वाद् इति भावः । ततश् च मद्-अभीष्टं श्री-भगवान् अपि सम्पादितवान् इति श्री-विदुरं प्रति कथितं श्रीमद्-उद्धवेन स्वयम् एव—

इत्य् आवेदित-हार्दाय मह्यं स भगवान् परः ।
आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् ॥ [भा।पु। ३.४.१९] इति ।

द्वितीये ब्रह्मणेऽपि परम-वैकुण्ठं दर्शयता तेनात्मनः परम-भगवत्ता-रूपा स्थितिर् दर्शिता । सा च श्री-द्वारका-वैभव-रूपेति श्री-भगवत्-सन्दर्भे स्थापितम् अस्ति । सङ्क्षेप-श्री-भागवत-रूपया चतुः-श्लोक्या च । तस्य तादृशत्वेऽपि विचित्र-लीला-भक्त-परवशत्व-रूपासाव् इति तत्रैव बोधितम् ।ततस् तद्-अनुभवेनोभयत्रापि श्रीमद्-उद्धवस्य धैर्यं जातम् इति तत्-तद्-उपयोगः । ततश् च ताम् एव तद्-उपदिष्टां गतिं जगामेत्य् अर्थः । तथैवोपदिष्टम् अन्ते तं प्रत्य् एकादशे—

ज्ञाने कर्मणि योगे च
वार्तायां दण्ड-धारणे ।
यावान् अर्थो नृणां तात
तावांस् तेऽहं चतुर्-विधः ॥ [भा।पु। ११.२९.३३] इति ।

तस्य श्री-कृष्ण-रूपा गतिश् चेयं श्री-शुक-द्वारा श्री-भागवत-प्रचारात् पूर्वम् एव ज्ञेया । स्व-ज्ञान-प्रचारार्थम् एव हि सोऽयं पृथिव्यां रक्षितः । तद्-अनन्तरं चरितार्थत्वात् न प्रयोजनम् इति । किन्तु काय-व्यूहेन श्रीमद्-व्रजेऽप्य् अस्य तत्-प्राप्तिर् ज्ञेया, आसाम् अहो चरण-रेणु-जुषाम् अहं स्याम् [भा।पु। १०.४७.६१] इति दृढ-मनोरथावगमात् ।

॥ ११.२९ ॥ श्री-शुकः ॥ २१७ ॥

[२१८]

अथ प्रश्रय-भक्ति-मयो रसः । तत्रालम्बनो लालकत्वेन स्फुरन् प्रश्रय-भक्ति-विषयः श्री-कृष्णश् च पूर्ववत् परमेश्वराकारः श्रीमन्-नराकारश् चेति द्विविधाविर्भावः । तत्-तद्-आश्रयत्वेन च लाल्याश् च त्रिविधाः । तत्र परमेश्वराकाराश्रया ब्रह्मादयः । श्रीमन्-नराकाराश्रयाः श्री-दशाक्षर-ध्यान-दर्शित-श्री-गोकुल-पृथुकाः । उभयाश्रयाः श्री-द्वारका-जन्मानः । ते च सर्वे यथायथं पुत्रानुज-भ्रातुष्पुत्रादयः । तत्र पुत्राः केचिद् गुणतः केचिद् आकारतः केचिद् उभयतश् च तद्-अनुहारि-प्रायाः । तत्र गुणानुहारित्वम् आह—

एकैकशस् ताः कृष्णस्य पुत्रान् दश-दशाबलाः ।
अजीजनन्न् अनवमान् पितुः सर्वात्म-सम्पदा ॥ [भा।पु। १०.६१.१]

[२१९]

तत्र साम्बादीनां श्री-कृष्ण-श्लाघित-गुणत्वम् आह—जाम्बवत्याः सुता ह्य् एते साम्बाद्याः पितृ-सम्मताः [भा।पु। १०.६१.१२] इति ।

[२२०]

अतः श्री-साम्बस्यैकादशादौ श्रुतम् अन्यथा-चेष्टितं श्री-कृष्णस्य मर्यादा-दर्शक-तत्-तल्-लीलेच्छयैव । तत्र श्री-रुक्मिणी-पुत्रास् तु तेष्व् अपि श्रेष्ठा इत्य् आह—प्रद्युम-प्रमुखा जाता रुक्मिण्यां नावमाः पितुः [भा।पु। १०.६१.९] इति । अत्र पुनर् उक्तिर् एव श्रैष्ठ्य-बोधिका ।

॥ १०.६१ ॥ श्री-शुकः ॥ २१८-२२० ॥

[२२१]

तत्र श्री-प्रद्युम्नस्यातिशयम् आह—

कथं त्व् अनेन सम्प्राप्तं सारूप्यं शार्ङ्ग-धन्वनः ।
आकृत्यावयवैर् गत्या स्वर-हासावलोकनैः ॥ [भा।पु। १०.५५.३३]

स्पष्टम् ।

॥ १०.५५ ॥ श्री-रुक्मिणी ॥ २२१ ॥

[२२२]

किं च—

यं वै मुहुः पितृ-सरूप-निजेश-भावास्
तन्-मातरो यद् अभजन् रह-रूढ-भावाः ।
चित्रं न तत् खलु रमास्पद-बिम्ब-बिम्बे
कामे स्मरेऽक्ष-विषये किम् उतान्य-नार्यः ॥ [भा।पु। १०.५५.४०]

यं प्रद्युम्नं तन्-मातरो मुहुर् अभजन् द्रष्टुम् आगताः, पुनर् लज्जया रह एकान्त-देशं च अभजन् निलिल्युर् इत्य् अर्थः । तद् एवं यद् अभजन्, तत् खलु रमास्पद-बिम्बस्य लक्ष्मी-विलास-भूमि-म्उर्तेर् बिम्बे प्रतिमूर्तौ तस्मिन् न चित्रम्, बालकस्य पितृ-सादृश्ये मातॄणां वात्सल्योद्दीप्ति-सम्भवात् । तत्र यच् च रहः अभजन्, तद् अपि न चित्रम् इत्य् आह–पितृ-स्वरूप-निजेश-भावाः । तद्-अनन्तरं पितुः श्री-कृष्णस्य स-रूपेण सारूप्यातिशयेन निजेशस्य आत्मीय-प्रभु-मात्र-बुद्ध्यावगतस्य, न तु रमण-बुद्ध्यावगतस्य श्री-कृष्णस्य भावः स्फूर्तिर् यासु ताः । ततो लज्जा-हेतुकं रहो-भजन-लक्षणं पलायनम् अप्य् उचितम् एवेति भावः। तथोक्तम् एतत् प्राग् एव—तं दृष्ट्वा जलद-श्यामम् [भा।पु। १०.५५.२७] इत्य्-आदौ कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस् तत्र तत्र ह [भा।पु। १०.५५.२८] इति । तत्र प्रभुत्व-मात्र-स्फूर्तौ हेतुः–रूढ-भावाः, रूढः श्री-कृष्णे बद्ध-मूलः भावः कान्त-भावो यासां ताः । कदाचिद् अन्यत्र चेतने तत्-सादृश्यातिशयेनेश्वर-भावः स्फुरतु नाम, रमण-भावस् तु न सर्वथेत्य् अर्थः । श्री-रुक्मिण्यास् तत्-सदृश-वत्सलाया अन्यस्याश् चेश्वर-भावोऽपि नोदयते, किन्तु सर्वथा पुत्र-भाव एव तत्-सारूप्येणोद्दीप्तः स्यात् । यथोक्तं श्री-रुक्मिणी-देव्यैव–कथं त्व् अनेन सम्प्राप्तम् [भा।पु। १०.५५.३३] इत्य्-आद्य्-अनन्तरं—

स एव वा भवेन् नूनं यो मे गर्भे धृतोऽर्भकः ।
अमुष्मिन् प्रीतिर् अधिका वामः स्फुरति मे भुजः ॥ [भा।पु। १०.५५.३४]

तद् एवं तासाम् अपि यत्र रमास्पद-बिम्ब-बिम्बत्वेन तादृशी भ्रान्तिः, तत्र परम-मोहने रमास्पद-बिम्बस्यैवाप्राकृत-काम-रूपांशे जगद्-गत-निजांशेन स्मरे स्मरण-पथं गत्वापि क्षोभके सम्प्रति तु स्वयम् एव अक्ष-विषयतां प्राप्ते सति अन्य-नार्यः किम् उत सुष्ठ्व् एव मोहं प्राप्तम् उचिता इत्य् अर्थः ।

॥ १०.५५ ॥ श्री-शुकः ॥ २२२ ॥

[२२३]

अथ उद्दीपनाःगुणाः स्व-विषयक-श्री-कृष्ण-वात्सल्य-स्मित-प्रेक्षादयः । तथा तस्य कीर्ति-बुद्धि-बलादीनां परम-महत्त्वं च तथा जाति-क्रियादयोऽपि यथा-योगम् अवगन्तव्याः ।

अथ अनुभावाः । बाल्ये मुहुस् तं प्रति मृदु-वाचा स्वैर-प्रश्न-प्रार्थनादिकम्, तद्-अङ्गुलि-बाह्व्-आद्य्-आलम्बनेन स्थितिः, तद्-उत्सङ्गोपवेशः, तत्-ताम्बुल-चर्वितादानम् इत्य्-आद्याः । अन्यदा तद्-आज्ञा-प्रतिपालन-तच्-चेष्टानुसरण-स्वैरता-विमोक्षादयः । उभयत्र तद्-अनुगतिः ।

सात्त्विकाश् च सर्वे । अथ व्यभिचारिणः पूर्वोक्ता एव ।**** अथ स्थायी च प्रश्रय-भक्त्य्-आख्यः । तत्र बाल्येऽतिलाल्यताभिमान-मयत्वेन प्रश्रय-बीजस्य दैन्यांशस्य सद्-भावात् तद्-आख्यत्वम् । तत्र बाल्योदाहरणम् अवगन्तव्यम् । अन्यदीयं यथा—निशम्य प्रेष्ठम् आयान्तम् [भा।पु। १.११.१६] इत्य्-आदौ ।

प्रद्युम्नश् चारुदेष्णश् च साम्बो जाम्बवती-सुतः ।
प्रहर्ष-वेगोच्छशित-शयनासन-भोजनाः ॥
वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः ।
शङ्ख-तूर्य-निनादेन ब्रह्म-घोषेण चादृताः ।
प्रत्युज्जग्मू रथैर् हृष्टाः प्रणयागत-साध्वसाः ॥ [भा।पु। १.११.१८-१९]

प्रणयोऽत्र भक्ति-विशेषः ।

एवम् अत्र विभावादि-संवलनात्मके प्रश्रय-भक्ति-मये रसे पूर्ववद् योगादयोऽपि भेदा ज्ञेयाः । इति भक्तिमयो रसः ।

॥ १.११ ॥ श्री-सुतः ॥ २२३ ॥

[२२४]

अथ वात्सल्य-मयो वत्सलाख्यो रसः । तत्रालम्बनः लाल्यत्वेन स्फुरन् वात्सल्य-विषयः श्री-कृष्णस् तद्-आधारास् तत्-पित्रादि-रूपा गुरवश् च । तत्र श्री-कृष्णः श्रीमन्-नराकार एव ।

अथ गुरवः । तत्र भक्त्य्-आदि-मिश्राः श्री-वसुदेव-देवकी-कुन्ती-प्रभृतयः । शुद्धास् तु श्री-यशोदा-नन्द-तत्-सवयो-बल्लवी-बल्लव-प्रभृतयः । स्वाभाविकं चैषां वात्सल्योपयोगि वैदुष्यं—

गोप्यः संस्पृष्ट-सलिला अङ्गेषु करयोः पृथक् ।
न्यस्यात्मन्य् अथ बालस्य बीज-न्यासम् अकुर्वत ॥ [भा।पु। १०.६.२१] इत्य्-आदिभिः स्पष्टम् ।

अथोद्दीपनेषु गुणाः । तत्र प्रथमतस् तस्य तदीय-लाल्य-भावम् आह—

तां स्तन्य-काम आसाद्य मथ्नन्तीं जननीं हरिः ।
गृहीत्वा दधि-मन्थानं न्यषेधत् प्रीतिम् आवहन् ॥ [भा।पु। १०.९.४]

स्पष्टम् ।

॥ १०.९ ॥ श्री-शुकः ॥ २२४ ॥

[२२५]

एवम्—

उवाच पितराव् एत्य साग्रजः सात्वतर्षभः ।
प्रश्रयावनतः प्रीणन्न् अम्ब तातेति सादरम् ॥ [भा।पु। १०.४५.२] इत्य्-आदि ।

इति माया-मनुष्यस्य [भा।पु। १०.४५.१०] इत्य्-आद्य्-अन्तम् । पितरौ श्री-देवकी-वसुदेवौ । प्रीणन् प्रीणयन् ।

॥ १०.४५ ॥ श्री-शुकः ॥ २२५ ॥

[२२६]

अथ शैशव-चापल्यम् आह—

शृङ्ग्य्-अग्नि-दंष्ट्र्य्-असि-जल-द्विज-कण्टकेभ्यः
क्रीडा-पराव् अतिचलौ स्व-सुतौ निषेद्धुम् ।
गृह्याणि कर्तुम् अपि यत्र न तज्-जनन्यौ
शेकात आपतुर् अलं मनसोऽनवस्थाम् ॥ [भा।पु। १०.८.२५]

[२२७]

तथा—

कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमार-चापलम् ।
शृण्वन्त्याः किल तन्-मातुर् इति होचुः समागताः ॥ [भा।पु। १०.८.२८]

वत्सान् मुञ्चन् क्वचिद् असमये [भा।पु। १०.८.२९] इत्य्-आदि ।

[२२८]

गोप्यश् चेमाः श्री-व्रजेश्वर्याः स्व-वयसः सम्बन्धिन्यः श्री-कृष्णस्यैव प्रौढ-भ्रातृजायाश् च । अन्यदा प्रश्रयो लज्जा प्रियंवदत्वं सारल्यं दातृत्वम् इत्य्-आदयः । तत्राद्योदाहरणं कुरुक्षेत्र-यात्रायां कृष्ण-रामौ परिष्वज्य पितराव् अभिवाद्य च [भा।पु। १०.८२.३४] इत्य्-आदिकम्।

अतो बालत्वेन मतत्वाद् इन्द्र-मख-प्रसङ्गे प्रागल्भ्यम् अपि तेषां सुखदम् । कान्त्य्-अवयव-वयसां सौन्दर्यं सर्व-सल्-लक्षणत्वं पूर्ण-कैशोर-पर्यन्तं वृद्धिर् इत्य्-आदयस् तु सर्वदैव । तत्रान्त्या यथा—

कालेन व्रजताल्पेन
गोकुले राम-केशवौ ।
जानुभ्यां सह पाणिभ्यां
रिङ्गमाणौ विजह्रतुः ॥ [भा।पु। १०.८.२१] इत्य्-आदि ।

[२२९]

तथा—

कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले ।
अघृष्ट-जानुभिः पद्भिर् विचक्रमतुर् अञ्जसा ॥ [भा।पु। १०.८.२६]****

स्पष्टम् ।

॥ १०.८ ॥ सः ॥ २२६-२२९ ॥

[२३०]

तथा,

ततश् च पौगण्ड-वयः-श्रितौ व्रजे
बभूवतुस् तौ पशु-पाल-सम्मतौ ।****71 [भा।पु। १०.१५.१]

इत्य्-आदि स्पष्टम् ॥ सः ॥

[२३१]

जातिस् तु पूर्वोक्ता । क्रियाश् च जन्म-बाल्य-क्रीडादयः । तत्र नन्दस् त्व् आत्मज उत्पन्नः [भा।पु। १०.५.१] इत्य्-आदिना जन्म दर्शितम् । बाल्य-क्रीडाम् आह—

ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ
घोष-प्रघोष-रुचिरं व्रज-कर्दमेषु ।
तन्-नाद-हृष्ट-मनसाव् अनुसृत्य लोकं
मुग्ध-प्रभीतवद् उपेयतुर् अन्ति मात्रोः ॥ [भा।पु। १०.८.२२] इत्य्-आदि ।
यर्ह्य् अङ्गना-दर्शनीय-कुमार-लीलाव्
अन्तर्-व्रजे तद् अबलाः प्रगृहीत-पुच्छैः ।
वत्सैर् इतस् तत उभाव् अनुकृष्यमाणौ
प्रेक्षन्त्य उज्झित-गृहा जहृषुर् हसन्त्यः ॥ [भा।पु। १०.८.२४]

स्पष्टम् ॥ सः ॥

॥ १०.८ ॥ सः ॥ २३१ ॥

[२३२]

आदि-ग्रहणात् पौगण्डादौ मान्य-माननादयो ज्ञेयाः । अथ द्रव्याणि च तत्-क्रीडा-भाण्ड-वसनादीनि । कालाश् च तज्-जन्म-दिनादयः । तत्र जन्म-दिनं यथा—

कदाचिद् औत्थानिक-कौतुकाप्लवे
जन्मर्क्ष-योगे समवेत-योषिताम् ।
वादित्र-गीत-द्विज-मन्त्र-वाचकैश्
चकार सूनोर् अभिषेचनं सती ॥ [भा।पु। १०.४.७] इत्य्-आदि ।

स्पष्टम् ।

॥ १०.८ ॥ सः ॥ २३२ ॥

[२३३]

अथानुभावेषूद्भास्वराः । तत्र लालनम्—

तयोर् यशोदा-रोहिण्यौ पुत्रयोः पुत्र-वत्सले ।
यथा-कामं यथा-कालं व्यधत्तां परमाशिषः ॥
गताध्वान-श्रमौ तत्र मज्जनोन्मर्दनादिभिः ।
नीवीं वसित्वा रुचिरां दिव्य-स्रग्-गन्ध-मण्डितौ ॥
जनन्य्-उपहृतं प्राश्य स्वाद्व् अन्नम् उपलालितौ ।
संविश्य वर-शय्यायां सुखं सुषुपतुर् व्रजे ॥ [भा।पु। १०.१५.४४-४६]

स्पष्टम् ।

॥ १०.८ ॥ सः ॥ २३३ ॥

[२३४]

शिरो-घ्राणम्

नन्दः स्व-पुत्रम् आदाय
प्रेत्यागतम् उदार-धीः ।
मूर्ध्न्य् उपाघ्राय परमां
मुदं लेभे कुरूद्वह ॥ [भा।पु। १०.६.४३]****

स्पष्टम् ।

॥ १०.६ ॥ सः ॥ २३४ ॥

[२३५]

आशीर्वादः—

ता आशिषः प्रयुञ्जानाश्
चिरं पाहीति**72 बालके ।**
हरिद्रा-चूर्ण-तैलाद्भिः
सिञ्चन्त्योऽजनम् उज्जगुः ॥ [भा।पु। १०.५२.१५]

स्पष्टम् ।

॥ १०.१५ ॥ सः ॥ २३५ ॥

[२३६]

हितोपदेश-दानम्

कृष्ण कृष्णारविन्दाक्ष
तात एहि स्तनं पिब ।
अलं विहारैः क्षुत्-क्षान्तः
क्रीडा-श्रान्तोऽसि पुत्रक ॥ [भा।पु। १०.११.१५] इत्य्-आदि ।

स्पष्टम् ।

॥ १०.११ ॥ श्री-व्रजेश्वरी श्री-कृष्णम् ॥ २३६ ॥

[२३७]

इदम् अखिलं साधारण-वत्सलानाम् अपि स्यात्, पित्रोस् तु विशेषतः । तत्र हित-प्रवर्तनार्थ-तर्जनादिकं यथा—

एकदा क्रीडमानास् ते रामाद्या गोप-दारकाः ।
कृष्णो मृदं भक्षितवान् इति मात्रे न्यवेदयन् ॥
सा गृहीत्वा करे कृष्णम् उपालभ्य हितैषिणी ।
यशोदा भय-सम्भ्रान्त- प्रेक्षणाक्षम् अभाषत ॥
कस्मान् मृदम् अदान्तात्मन् भवान् भक्षितवान् रहः ।
वदन्ति तावका ह्य् एते कुमारास् तेऽग्रजोऽप्य् अयम् ॥ [भा।पु। १०.८.३२-३४]

स्पष्टम् ।

॥ १०.८ ॥ सः ॥ २३७ ॥

[२३८]

यदा च दधि-मण्ड-भाजन-भेदनादि-चापल्यानन्तरं—

कृतागसं तं प्ररुदन्तम् अक्षिणी
कषन्तम् अञ्जन्-मषिणी स्व-पाणिना ।
उद्वीक्षमाणं भय-विह्वलेक्षणं
हस्ते गृहीत्वा भिषयन्त्य् अवागुरत् ॥
त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भक-वत्सला ।
इयेष किल तं बद्धुं दाम्नातद्-वीर्य-कोविदा ॥ [भा।पु। १०.९.११-१२]

स्पष्टम् ।

॥ १०.९ ॥ सः ॥ २३८ ॥

[२३९]

अथ तर्जन-विस्वादौषध-पायनादिवत् तदात्व-भवं तत्-सुखम् अप्य् अतिक्रम्यायातिभद्रायैतत्-समृद्धये चेष्टा यथा—

तम् अङ्कम् आरूढम् अपाययत् स्तनं
स्नेह-स्नुतं स-स्मितम् ईक्षती मुखम् ।
अतृप्तम् उत्सृज्य जवेन सा ययाव्
उत्सिच्यमाने पयसि त्व् अधिश्रिते ॥ [भा।पु। १०.९.५]

यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भा।पु। १०.१४.३५] इत्य् अनेन कैमुत्य-प्राप्तेस् तद्-गृह-सम्पत्ति-सम्पादन-प्रयत्नस् तु सुतराम् एव तद्-आयति-समृद्ध्य्-अर्थ एव । तत्र गोप-जातीनां सत्य् अपि महा-सम्पत्त्य्-अन्तरे तत्-कारणे च दुग्ध-हेतुक-सम्पत्त्य्-अर्थम् एव महान् आग्रहः स्वाभाविकः । तस्माद् आयतीय-तत्-सम्पत्ति-वर्धनार्थं दुग्ध-रक्षायाम् औत्सुक्यम् इदं वात्सल्य-विलसितम् एव सत् वात्सल्यं पुष्णाति, समुद्रम् इव तरङ्ग-सङ्घः । अत्र तस्या हृदयम् ईदृशम्–-“अयं सम्पत्ति-रक्षां न जानाति । ततः सम्प्रति मद्-एक-कर्तव्यासौ” इति । अत्र च स्नेह-स्नुतम् इति स्वाभाविक-गाढ-स्नेहं दर्शयित्वा तथैव सूचितम् । एवं तत्-कृते दधि-मण्ड-भाण्ड-भङ्गेऽपि तस्या बहिर् एव कोपाभासो दर्शितः ।

मनसि तु प्रबल-चापल्य-दर्शनेन हर्ष एव । यथाह—

उत्तार्य गोपी सुशृतं पयः पुनः
प्रविश्य संदृश्य च दध्य्-अमत्रकम् ।
भग्नं विलोक्य स्व-सुतस्य कर्म तज्
जहास तं चापि न तत्र पश्यती ॥ [भा।पु। १०.९.७]

स्पष्टम् ।

॥ १०.९ ॥ सः ॥ २४० ॥

[२४१]

अथ दुःखेऽपि तत्-प्रस्तोभनार्थं मृषा-हास्यादिकम् अपि, यथा —

उलूखलं विकर्षन्तं दाम्ना बद्धं स्वम् आत्मजम् ।
विलोक्य नन्दः प्रहसद्-वदनो विमुमोच ह ॥ [भा।पु। १०.११.६]

“प्रहसद्-वदनम्” इति तु पाठः क्वचित् ।

॥ १०.११ ॥ सः ॥ २४१ ॥

[२४२]

अथ दुष्ट-जीवादिभ्योऽनिष्ट-शङ्खाम् आह—

जन्म ते मय्य् असौ पापो मा विद्यान् मधुसूदन ।
समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीर-धीः ॥ [भा।पु। १०.३.२९]

स्पष्टम् ।

॥ १०.३ ॥ श्री-देवकी ॥ २४२ ॥

[२४३]

एवं शृङ्ग्य्-अग्निर्-दंष्ट्र्य्-अहि-जल-द्विज [भा।पु। १०.८.१५] इत्य्-आदिकं दर्शितम् ।

अथ तच्-छ्रेयो-निबन्धना देवादि-पूजा—

तैस् तैः कामैर् अदीनात्मा यथोचितम् अपूजयत् ।
विष्णोर् आराधनार्थाय स्व-पुत्रस्योदयाय च ॥ [भा।पु। १०.५.१६]

अनेन विष्णुः प्रीणातु तेन च मत्-पुत्रस्योदयो भवत्व् इति सङ्कल्प्य सर्वा यथोचिताम् अपूजयद् इत्य् अर्थः ।

॥ १०.५ ॥ सः ॥ २४३ ॥

[२४४]

[२४४.१] तथान्येषां सम्यग् अनिर्णीत एव73 प्रभावे तत्-कार्यस्य प्रकारान्तर-कारणता-भावना सम्भवति । यथा—

अहो बतात्यद्भुतम् एष रक्षसा
बालो निवृत्तिं गमितोऽभ्यगात् पुनः ।
हिंस्रः स्व-पापेन विहिंसितः खलः
साधुः समत्वेन भयाद् विमुच्यते ॥ [भा।पु। १०.७.३१] इति ।

श्रीमत्-पित्रोस् तु सम्यङ्-निर्णीतेऽपि सम्भवति यथा श्रीमती माता किं स्वप्नः [भा।पु। १०.८.४०] इत्य्-आदिना श्री-कृष्णस्य विश्वोदरादित्वं स्वभावं मत्वापि पुनस् तद् असम्भवं मन्वाना अथो यथावन् न वितर्क-गोचरम् [भा।पु। १०.८.४१] इत्य्-आदिना । तच् च परमेश्वर-निर्मितम् इत्य् अङ्गीकृतवती । उत्पातवत् तन्-निवृत्त्य्-अर्थं तच्-चरणारविन्दम् एव शरणत्वेनाश्रतवती च । पुनश् च अहं ममासौ [भा।पु। १०.८.४१] इत्य्-आदिना निज-भावम् एव दृढीकृत्य तच्-छरणत्वम् एवावधारितवती । अहं ममासौ पतिर् एष मे सुतः इत्य्-आदिकम् इदन्ता-निर्दिष्टत्वेन प्रत्यक्ष-सिद्धम् एव । तथापि यन्-माययेत्थं [भा।पु। १०.८.४२] एतन्-नाना-प्रकारेण विश्वरूप-दर्शनाकारा कुमतिः । स एवेश्वरो मम गतिर् इत्य् अर्थः ।

यच् च इत्थं विदित-तत्त्वायां [भा।पु। १०.८.४३] इत्य्-आदिकं तद्-अन्ते श्री-शुक-वाक्यं तत्रापि तत्त्वं पुत्रत्वम् । स ईश्वरः [भा।पु। १०.८.४३] श्री-कृष्णस्यैवेश्वर-रूपो य आविर्भाव-विशेषः । यत्रैव प्रणतास्मि तत्-पदम् [भा।पु। १०.८.४१] इति तद्-वाक्यानुसन्धानजम् अपि पर्यवसितं, स एव व्यज्यते । वैष्णवीम् इति विशेषणेन माया-शब्दस्य शक्ति-मात्र-वाचकत्वेन तस्यास् तत्-स्वरूप-शक्तित्वं बोध्यते । दया-मात्र-वाचकत्वेन वा । अत एव त्रय्या चोपनिषद्भिश् च [भा।पु। १०.८.४५] इत्य्-आदिना, नायं सुखापो भगवान् [भा।पु। १०.९.२१] इत्य्-आद्य्-अन्तेन ग्रन्थेन तत्-प्रशंसापि कृता ।

[२४४.२] एवम् अपि स्मरति नः कृष्णः [भा।पु। १०.४६.१८] इत्य्-आदिकस्य, अप्य् आयास्यति गोविन्दः [भा।पु। १०.४६.१९] इत्य्-आदिकस्य च स्वभावोचित-श्री-व्रजेश्वर-वाक्यस्यान्ते लोक-रीत्या तद्-दुःख-शान्त्य्-अर्थं श्रीमद्-उद्धवेन युवां श्लाघ्यतमौ नूनं [भा।पु। १०.४६.३०] इत्य्-आदिना तत्-स्तुति-गर्भ-तत्त्वोपदेशे कृतेऽपि तद्-भाव-नैश्चल्यं दर्शितम्–एवं निशा सा ब्रुवतोर् व्यतीता नन्दस्य कृष्णानुचरस्य राजन् [भा।पु। १०.४६.४४] इति ।

एवं श्री-व्रजेश्वरस्य वियोग-दुःख-व्यञ्जना-प्रकारेण श्रीमद्-उद्धवस्य तत्-सान्त्वना-प्रकारेणेत्य् अर्थः । अतस् तद्-भाव-नैश्चल्यम् । तत्त्वोपदेशस्य वास्तवम् अर्थान्तरं तु श्री-कृष्ण-सन्दर्भे [१४९-१५०] दर्शितम् अस्ति ।

एवं कुरुक्षेत्र-यात्रायां परितः स्तुवत्स्व् अपि तादृश-महा-मुनि-गोष्ठी-प्रभृतिषु विख्यायमानेऽपि श्री-वसुदेव-पुत्रत्वे श्री-व्रजेश्वरयोस् तद्-भाव-नैश्चल्यं, यथा—

ताव् आत्मासनम् आरोप्य बाहुभ्यां परिरभ्य च ।
यशोदा च महा-भागा सुतौ विजहतुः शुचः ॥ [भा।पु। १०.८२.३५] इति ।

अत एव मनसो वृत्तयो नः स्युः [भा।पु। १०.४७.६६]74 इत्य्-आदि-द्वये श्रीमद्-उद्धवं प्रति श्री-कृष्णैश्वर्य-प्रतिपादक-तद्-उपदेशाभ्युपगम-वादेनापि तथोक्तम् । तादृशेऽपि तस्मिन् प्रतिजन्मैव स्वीयां रतिम् एव प्रार्थयामह इत्य् अर्थः । एषा तेषां रति-प्रार्थना चानुराग-मय्य् एव न तु तद्-अभाव-मयी—

तं निर्गतं समासाद्य नानोपायन-पाणयः ।
नन्दादयोऽनुरागेण प्रावोचन्न् अश्रु-लोचनाः ॥ [भा।पु। १०.४७.६५] इत्य् उक्तत्वात् ।

तस्मात् तदीयानुराग-योग्यम् एव व्याख्येयम्, न त्व् ऐश्वर्य-ज्ञान-कृत-भक्ति-योग्यम् । यथा यद्यपि तत्-प्राप्ति-भाग्यम् अस्माकं दूरे वर्तते तथापि तदीया रतिर् अस्तु मापयात्व् इति काकुः । तादृश-रागानुरूपम् एव जीवान्तर-साधारण्येनोक्तम्—कर्मभिर् भ्राम्यमाणानाम् [भा।पु। १०.४७.६७] इति ।

तद् एवं केवल-वात्सल्यानुरूपम् अर्थान्तरं च सिध्यति, यतः पाद-शब्द-प्रयोगो वात्सल्येऽपि सम्प्रति प्राप्त्य्-असम्भावनामयात् दूर-देश-वियोगाद् दैन्येन युक्तः । तथैव हि चित्रेकेतोः करुण-रसे दृष्टम् अस्ति । तत्-प्रह्वणं च तत्-कर्तृकं प्रह्वणं नमस्कार इत्य् अर्थः । पूर्ववद् ईश्वर-शब्दश् च लालनयैव प्रयुक्तः । लोकेऽपि तादृग्-उक्ति-दर्शनाद् इति । इत्य्-आदयः उद्भास्वराः ।

अथ सात्त्विकाश् च पूर्ववद् अष्टौ । मातुस् तु नव, स्तन्य-स्रव-सहितत्वात् । अथ सञ्चारिणोऽप्य् अत्र प्रसिद्धा एव । ते च साक्षाच् छ्री-कृष्ण-कृत-लीला-जातास् तल्-लीला-शक्ति-कृतैश्वर्य-मय-लीला-जाताश् च ज्ञेयाः । क्रमेण यथा—कस्मान् मृदम् अदान्तात्मन् [भा।पु। १०.८.३४] इत्य्-आदाव् अमर्षः । सा तत्र ददृशे विश्वं [भा।पु। १०.८.३७] इत्य्-आदौ विस्मयः शङ्का चेत्य् आदि ।

अथ वात्सल्याख्यः स्थायी । स यथा—

तन्-मातरौ निज-सुतौ घृणया स्नुवन्त्यौ
पङ्काङ्ग-राग-रुचिराव् उपगृह्य दोर्भ्याम्
दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य
मुग्ध-स्मिताल्प-दशनं ययतुः प्रमोदम् ॥ [भा।पु। १०.८.२३]

तयोः श्री-कृष्ण-रामयोर् मातरौ । घृणया कृपया ॥

॥ १०.८ ॥ श्री-शुकः ॥ २४४ ॥

[२४५]

तद् एवं विभावादि-संवलन-चमत्कारात्मको वत्सल-रसः । तस्य च प्रथम-प्राप्ति-मयो भेदो यथा—

गोप्यश् चाकर्ण्य मुदिता
यशोदायाः सुतोद्भवम् ।
आत्मानं भूषयां चक्रुर्
वस्त्राकल्पाञ्जनादिभिः ॥ [भा।पु। १०.५.९] इत्य्-आदि ।

स्पष्टम् ।

॥ १०.५ ॥ सः ॥ २४५ ॥

[२४६]

अथ च तद्-अनन्तर-प्राप्ति-लक्षण-सिद्ध्य्-आत्मको, यथा स आशिषः [भा।पु। १०.५.१२] इत्य्-आदौ। अथ वियोगात्मको, यथा—

इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्त-धीः ।
अत्य्-उत्कण्ठोऽभवत् तूष्णीं प्रेम-प्रसर-विह्वलः ॥
यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च ।
शृण्वन्त्य् अश्रूण्य् अवास्राक्षीत् स्नेह-स्नुत-पयोधरा ॥ [भा।पु। १०.४६.२७-२८]

स्पष्टम् ।

॥ १०.४६ ॥ सः ॥ २४६ ॥

[२४७]

अथ तद्-अनन्तर-तुष्ट्य्-आत्मको यथा ताव् आत्मासनम् आरोप्य [भा।पु। १०.८२.३५] इत्य्-आदौ। यथा च तत्रैव—

नन्दस् तु सख्युः प्रिय-कृत् प्रेम्णा गोविन्द-रामयोः ।
अद्य श्व इति मासांस् त्रीन् यदुभिर् मानितोऽवसत् ॥ [भा।पु। १०.८४.६६]

गोविन्द-रामयोः प्रेम्णा हेतुना मांसांस् त्रीन् अवसत् । तच् च मास-त्रयम् अद्य श्व इति कृत्वा अवसद् इत्य् अर्थः । अत्यन्त-परमानन्देन तत्र दिन-द्वयम् इवावसद् इत्य् अर्थः । कथम्भूतः सन्न् अवसत् ? सख्युः श्री-वसुदेवस्य प्रिय-कृद् एव सन् तद्-अग्रे श्री-कृष्णं प्रति स्व-पुत्र-भावाप्रकटनेन व्यवहरंस् तस्य व्रज-नयनाग्रहं साक्षान् न कुर्वन्न् इत्य् अर्थः । तथा यदुभिर् मानितश् चावसद् इति ।

[२४८]

तद्-अनन्तरम् अपि पुनर् वियोगात्मको यथा—

ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः ।
परार्ध्याभरण-क्षौम- नानानर्घ्य-परिच्छदैः ॥
वसुदेवोग्रसेनाभ्यां कृष्णोद्धव-बलादिभिः ।
दत्तम् आदाय पारिबर्हं यापितो यदुभिर् ययौ ॥
नन्दो गोपाश् च गोप्यश् च गोविन्द-चरणाम्बुजे ।
मनः क्षिप्तं पुनर् हर्तुम् अनीशा मथुरां ययुः ॥ [भा।पु। १०.८४.६७-६९]

कामैः श्री-कृष्ण-व्रजागमनादि-रूपैर् अभिलाषैर् निभृतं श्री-कृष्णेन पूर्यमाणः, तद्-अङ्गीकारेण सन्तोष्यमाण इत्य् अर्थः । श्री-राम-व्रजागमने तान् उद्दिश्य कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसः [भा।पु। १०.६५.६] इति श्री-शुकोक्तेः । तत्रैव कृष्णे कृष्ण-प्राप्त्य्-अर्थं कमल-पत्राक्षे सन्न्यस्ताखिल-राधसस् त्यक्त-सर्व-विषया इति टीकोक्तिः । ततः श्री-वसुदेवादिभिः कर्तृभिः परार्ध्याभरणादिभिः कृत्वा दत्तं यत् पारिबर्हं तत् तेषां प्रीतिमयत्वेनैव आदाय इत्य् अर्थः । यापितो महता सैन्येन प्रस्थापितः । तद्-अनन्तरं तेषां पुनर् अत्यन्त-प्रेमावेशं वर्णयति–नन्द इत्य्-आदि । माथुराम् इति तत्रैव तेन रूपेणैव केवल-स्व-सम्भन्धितया तेषां श्री-कृष्ण-प्राप्त्य्-आग्रहो दर्शितः ।

एतद्-अनन्तरं यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्-दिदृक्षया [भा।पु। १.११.९] इति श्री-द्वारका-प्रजा-वाक्यानुसारेण श्री-कृष्ण-सन्दर्भोत्थापित-पाद्म-गद्यानुसारेण च नित्यैव तुष्टिर् अवगन्तव्या । इति वात्सल्याख्यो रसः ॥

॥ १०.८४ ॥ सः ॥ २४७-२४८ ॥

[२४९]

अथ मैत्रीमयः । तत्रालम्बनः मित्रत्वेन स्फुरन् मैत्री-विषयः श्री-कृष्णः, तद्-आश्रय-रूपाणि तल्-लीला-गतानि स्वोत्कृष्ट-सजातीय-भावानि तदीय-मित्राणि च । तत्र श्री-कृष्णः क्वचिच् चतुर्भुजोऽपि श्रीमन्-नराकारत्वेनैव प्रतीतः । यथा श्री-गीतासु श्रीमद्-अर्जुनेन—

तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते [गीता ११.४६]

इति स्व-प्रार्थनानन्तरं तद्-रूपे प्रादुर्भूते,

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ [गीता ११.५१] इत्य् उक्तम् ।

अत एव विश्व-रूपादीनां तद्-दर्शन-जात-साध्वसादि-भावानां च न कथम् अपि तद्-अभीष्टत्वम् ।

अथ तन्-मित्राणि–सुहृदः सखायश् च । तत्र पूर्वोक्त-लक्षणाः सुहृदः श्री-भीमसेन-द्रौपदी-प्रभृतयः । सखायः श्रीमद्-अर्जुन-श्रीदाम-विप्रादयः । श्रीमति गोकुले श्रीदामादयश् च । ते च श्री-भागवतादौ प्रसिद्धाः । तथागमे वसुदाम-किङ्किण्य्-आदयः । भविष्योत्तरे मल्ल-लीलायां सुभद्र-मण्डलीभद्र-भद्र-वर्धन-गोभटाः । यक्षेन्द्र-भटः इत्य्-आद्या गणिताः । गणना तु तेनैव साकं पृथुकाः सहस्रशः [भा।पु। १०.१२.२] इत्य् उक्त्या एषाम् अपि श्री-कृष्ण-साम्यम् एव गोपैः समान-गुण-शील-वयो-विलास-वेषैश् च इत्य्-आदौ दर्शितम् । गोपजाति-प्रतिच्छन्नाः [भा।पु। १०.१८.११] इत्य्-आदि-पद्ये श्री-कृष्ण-सन्दर्भे तथैव व्याख्यातम् । एषां स्वाभाविक-वैदुष्य-लक्षकम् अपि दीक्षायाः पशु-संस्थायाः [भा।पु। १०.२३.८] इत्य्-आदि-पद्यम् अस्ति । वैदग्ध्यम् अपि क्वचिन् नृत्यत्सु बालेषु [भा।पु। १०.१८.१३] इत्य्-आदौ श्री-भगवतापि श्लाघित-गुणत्वेन व्यञ्जयिष्यते ।

ते च त्रिविधाः—सखायः, प्रियसखाः, प्रिय-नर्म-सखाश् च तत्-तद्-भाव-वैशिष्ट्यात्। तत्र श्रीदामादयः परम-माधुर्यैक-मय-प्रणयातिशयि-विहार-लालित्येनाधिकाः इत्थं सताम् [भा।पु। १०.१२.११] इत्य्-आदिनोक्तेः । तत्र श्री-कृष्णस्यालम्बनत्वं च बर्हापीडं नट-वर-वपुः [भा।पु। १०.२१.५] इत्य्-आदिना वर्णितम् ।

अथोद्दीपनेषु गुणाः अभिव्यक्त-मित्र-भावता, आर्जवं, कृतज्ञत्वं, बुद्धिः, पाण्डित्यं, प्रतिभा, दाक्ष्यं, शौर्यं, बलं, क्षमा, कारुण्यं, रक्त-लोकत्वम् इत्य्-आदयः । अवयव-वयः-सौन्दर्य-सर्व-सल्-लक्षणत्वम् इत्य्-आदयश् च । तत्र सौहृद्य-मये आर्जवादीनां प्राधान्यम्, सख्य-मये तु वैदग्ध्य-सौन्दर्यादि-मिश्राणां तेषाम् । तद्-उभयांश-मिश्रायां मैत्र्यां तु यथा-स्वम् अंश-द्वयम् । तत्राभिव्यक्त-तत्-तद्-भावता श्रीमद्-अर्जुनानुतापे यथा, सख्यं मैत्रीं सौहृदं च [भा।पु। १.१५.४] इत्य् अग्रे वक्ष्यते । श्री-गोपेषु च तां व्यनक्ति—

तान् दृष्ट्वा भय-सन्त्रस्तान्
ऊचे कृष्णोऽस्य भी-भयम् ।
मित्राण्य् आशान् मा विरमते
हानेष्ये वत्सकान् अहम् ॥ [भा।पु। १०.१३.१३] इत्य्-आदि ।
ततो वत्सान् अदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् ।
उभाव् अपि वने कृष्णो विचिकाय समन्ततः ॥ [भा।पु। १०.१३.१६] इत्य् अन्तम् ।

स्पष्टम् ।

॥ १०.१३ ॥ श्री-शुकः ॥ २४९ ॥

[२५०]

तथा—

अन्वमंसत तद् राजन् गोविन्दानुग्रहेक्षितम् ।
पीत्वा विषं परेतस्य पुनर् उत्थानम् आत्मनः ॥ [भा।पु। १०.१५.५२]****

स्पष्टम् ।

॥ १०.१५ ॥ सः ॥ २५० ॥

[२५१]

अहोऽतिरम्यं पुलिनं वयस्याः [भा।पु। १०.१३.५] इत्य्-आदि । स्पष्टम् ।

॥ १०.१३ ॥ श्री-भगवान् ॥ २५१ ॥

[२५२]

तथा—

क्वचित् पल्लव-तल्पेषु नियुद्ध-श्रम-कर्शितः ।
वृक्ष-मूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥ [भा।पु। १०.१५.१७]****

स्पष्टम् ।

॥ १०.१५ ॥ श्री-शुकः ॥ २५२ ॥

[२५३]

तथा—

कुन्द-दाम- [भा।पु। १०.३५.२०] इत्य्-आदौ, नर्म-दः प्रणयिणां विजहार इति ।

[२५४]

मणि-धरः [भा।पु। १०.३५.२०] इत्य्-आदौ,

प्रणयिनोऽनुचरस्य कदांसे
प्रक्षिपन् भुजम् अगायत यत्र इति । स्पष्टम् ।

॥ १०.३५ ॥ श्री-गोप्यः ॥ २५३-२५४ ॥

[२५५]

अथ जातिश् च क्षत्रियत्वम् । यत्र सौहृदमयस्य प्राचुर्यम् । तथा गोपत्वं यत्र सख्यमयस्य प्राचुर्यम् । अथ क्रियाश् च सौहृदमये विक्रान्त्य्-आदि-प्रधानाः । सख्य-मये तु नर्म-गान-नाना-भाषांशन-गवाह्वान-वेणु-वाद्यादि-कला-बाल्याद्य्-उचित-क्रीडादयः । तत्र नर्म, यथा—

बिभ्रद् वेणुं जठर-पटयोः इत्य्-आदौ, तिष्ठन् मध्ये स्व-परिसुहृदो हासयन् नर्मभिः स्वैः ॥ [भा।पु। १०.१३.११]****

स्पष्टम् ।

॥ १०.१३ ॥ सः ॥ २५५ ॥

[२५६]

अन्याश् च, यथा—

एवं वृन्दावनं श्रीमत् कृष्णः प्रीत-मनाः पशून् ।
रेमे सञ्चारयन्न् अद्रेः सरिद्-रोधःसु सानुगः ॥
क्वचिद् गायति गायत्सु मदान्धालिष्व् अनुव्रतैः ।
उपगीयमान-चरितः पथि सङ्कर्षणान्वितः ॥ [भा।पु। १०.१५.९-१०] इत्य्-आदि ।

[२५७]

तथा—

मेघ-गम्भीरया वाचा नामभिर् दूर-गान् पशून् ।
क्वचिद् आह्वयति प्रीत्या गो-गोपाल-मनोज्ञया ॥ [भा।पु। १०.१५.१३]****

चकोर-क्रौञ्च [भा।पु। १०.१५.१४] इत्य्-आदि ।

स्पष्टम् ।

॥ १०.१५ ॥ सः ॥ २५७ ॥

[२५८]

तथा—

तत्रोपहूय गोपालान् कृष्णः प्राह विहार-वित् ।
हे गोपा विहरिष्यामो द्वन्द्वी-भूय यथा-यथम् ॥ [भा।पु। १०.१८.१९]****

स्पष्टम् ।

॥ १०.१८ ॥ सः ॥ २५८ ॥

[२५९]

तथा—

बर्ह-प्रसून-नव-धातु-विचित्रिताङ्गः
प्रोद्दाम-वेणु-दल-शृङ्ग-रवोत्सवाढ्यः ।
वत्सान् गृणन्न् अनुग-गीत-पवित्र-कीर्तिर्
गोपी-दृग्-उत्सव-दृशिः प्रविवेश गोष्ठम् ॥ [भा।पु। १०.१४.४७] इत्य्-आदि ।

स्पष्टम् ।

॥ १०.१४ ॥ सः ॥ २५९ ॥

[२६०]

अनेन गोप-वेषश् च दर्शितः । गा-गोपकैर् अनुवनं नयतोः [भा।पु। १०.२१.१९] इत्य्-आदौ निर्योग-पाश-कृत-लक्षणयोर् विचित्रम् इत्य् अनेन च । विचित्रत्वं चात्र पट्ट-सूत्र-मुक्तादि-मयत्वेनावगन्तव्यम् । तथा बर्हिण-स्तवक-धातु-पलाशैर् बद्ध-मल्ल-परिबर्ह-विडम्बः । [भा।पु। १०.३५.६] इत्य्-आदिषु मल्ल-वेषः । श्यामं हिरण्य-परिधिं [भा।पु। १०.२३.२२] इत्य्-आदौ नट-वेषम् इत्य् अनेन नट-वेषः ।

महार्ह-वस्त्राभरण- कञ्चुकोष्णीष-भूषिताः ।
गोपाः समाययू राजन् [भा।पु। १०.५.८] इत्य् अनुसारेण राज-वेषश् च ।

एष तु द्वारकादौ प्रचुरः । तथा तत्र गोकुले च परिधानीयोत्तरीयाभ्यां धार्मिक-गृहस्थ-वेषश् चावगन्तव्यः । एष एव नीविं वसित्वा रुचिराम् [भा।पु। १०.१५.४५] इत्य् अनेन दर्शितः । तैस् तैर् एव हि तत्-तल्-लीलाः शोभन्त इति ।

अथ द्रव्याणि च वसन-भूषण-शङ्ख-चक्र-शृङ्ग-वेणु-यष्टि-प्रेष्ठ-जन-प्रभृतीनि । कालाश् च तत्-तत्-क्रीडोचिताः । ते तु, यथा—

एवं वनं तद् वर्षिष्ठं पक्व-खर्जूर-जम्बुमत् ।
गो-गोपालैर् वृतो रन्तुं स-बलः प्राविशद् धरिः ॥ [भा।पु। १०.२०.२५]****

धेनवो मन्द-गामिन्य [भा।पु। १०.२०.२६] इत्य्-आदि, वनौकसः प्रमुदिता [भा।पु। १०.२०.२७] इत्य्-आदि, क्वचिद् वनस्पति-क्रोडे [भा।पु। १०.२०.२८] इत्य्-आदि, दध्य्-ओदनं समानीतं [भा।पु। १०.२०.२९] इत्य्-आदि, शद्वलोपरि संविश्य [भा।पु। १०.२०.३०] इत्य्-आदि, प्रावृट्-श्रियं च तां वीक्ष्य [भा।पु। १०.२०.३१] इत्य्-आद्य्-अन्तम् । स्पष्टम् ।

॥ १०.२० ॥ सः ॥ २६० ॥

[२६१]

एवम् अन्येऽपि स्मर्तव्याः । अथानुभावेषूद्भास्वराः । तत्र सौहृद-मये निरुपाधि-तदीय-हितानुसन्धान-युक्तायुक्तादि-कथन-सस्मित-गोष्ठी-प्रभृतयः । सख्य-मये असङ्कुचित-प्रीति-मय-चेष्टाः । ताश् च सह नाना-क्रीडा-सङ्गीतादि-कलाभ्यास-भोजनोपवेश-शयनादयः । नर्म-रहो-लीलाकर्णन-कथादयश् च ज्ञेयाः । इत्थं [भा।पु। १०.१२.११] इत्य्-आदिना या एव प्रशस्ताः तथोदाह्रियन्ते—

प्रवाल-बर्ह-स्तबक- स्रग्-धातु-कृत-भूषणाः ।
राम-कृष्णादयो गोपा ननृतुर् युयुधुर् जगुः ॥
कृष्णस्य नृत्यतः केचिज् जगुः केचिद् अवादयन् ।
वेणु-पाणितलैः शृङ्गैः प्रशशंसुर् अथापरे ॥
गोप-जाति-प्रतिच्छन्ना देवा गोपाल-रूपिणौ ।
ईडिरे कृष्ण-रामौ च नटा इव नटं नृप ॥
भ्रामणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः ।
चिक्रीडतुर् नियुद्धेन काक-पक्ष-धरौ क्वचित् ॥
क्वचिन् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् ।
शशंसतुर् महा-राज साधु साध्व् इति वादिनौ
क्वचिद् बिल्वैः क्वचिद् कुम्भैः [भा।पु। १०.१८.९-१४] इत्य्-आदि ।****

स्पष्टम् ।

॥ १०.१८ ॥ श्री-शुकः ॥ २६१ ॥

[२६२]

तथा—

कृष्णस्य विष्वक् पुरु-राजि-मण्डलैर्
अभ्याननाः फुल्ल-दृशो व्रजार्भकाः ।
सहोपविष्टा विपिने विरेजुश्
छदा यथाम्भोरुह-कर्णिकायाः ॥ [भा।पु। १०.१३.८]****
केचिद् पुष्प-दलैः केचिद् [भा।पु। १०.१३.९] इत्य्-आदि ।
सर्वे मिथो दर्शयन्तः स्व-स्व-भोज्य-रुचिं पृथक् ।
हसन्तो हासयन्तश् चा- भ्यवजह्रुः सहेश्वराः ॥ [भा।पु। १०.१३.१०]****

स्पष्टम् ।

॥ १०.१३ ॥ सः ॥ २६२ ॥

[२६३]

एवम् अन्या अपि । तथा सौहृद-सख्ययोः सात्त्विकाश् चोन्नेयाः । तत्र सौहृदेऽश्रुर् यथा—

तं मातुलेयं परिरभ्य निर्वृतो
भीमः स्मयन् प्रेम-जलाकुलेन्द्रियः ।
यमौ किरीटी च सुहृत्तमं मुदा
प्रवृद्ध-बाष्पाः परिरेभिरेऽच्युतम् ॥ [भा।पु। १०.७१.२७]****

अत्र सत्य् अप्य् अग्रजानुजत्व-व्यवहारे सुहृत्तमम् इत्य् अनेन तद्-अंशस्यैवोल्लासोऽभुपगतः ।

॥ १०.७१ ॥ सः ॥ २६३ ॥

[२६४]

सख्ये प्रलयोऽपि, यथा—

तं नागभोग-परिवीतम् अदृष्ट-चेष्टम्
आलोक्य तत्-प्रिय-सखाः पशुपा भृशार्ताः ।
कृष्णेऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा
दुःखानुशोक-भयम् ऊढ-धियो निपेतुः ॥ [भा।पु। १०.१६.१०]****

स्पष्टम् ।

॥ १०.१६ ॥ सः ॥ २६४ ॥

[२६५]

एवं तत्र तत्र सञ्चारिणश् चोन्नेयाः । यथा सौहृदे तं मातुलेयम् [भा।पु। १०.७१.२७] इत्य्-आदौ हर्षः । यथा च सख्ये कृष्णं ह्रदाद् विनिष्क्रान्तम् [भा।पु। १०.१७.१३] इत्य्-आद्य्-अनन्तरम्—

उपलभ्योत्थिताः सर्वे लब्ध-प्राणा इवासवः ।
प्रमोद-निभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥ [भा।पु। १०.१७.१४]****

स्पष्टम् ।

॥ १०.१७ ॥ सः ॥ २६५ ॥

[२६६]

अथ स्थायी मैत्र्य्-आख्यः । स चैश्वर्य-ज्ञान-सङ्कुचितः श्रीदाम-विप्रादीनाम् । सङ्कोचितैश्वर्य-ज्ञानः श्रीमद्-अर्जुनादीनाम् । शुद्धः श्री-गोप-बालानाम् । अत एव कदाचिद् अपि न विकरोति । तथैव श्री-राम-व्रजागमने समुपेत्याथ गोपालान् हास्य-हस्त-ग्रहादिभिः [भा।पु। १०.६५.५] इत्य्-आदिक-व्यवहारः ।

तत्र सौहृद्-आख्यो भेदः तं मातुलेयं परिरभ्य निर्वृतः [भा।पु। १०.७१.२७] इत्य्-आदौ ज्ञेयः । सख्यं, यथा—

एकदा रथम् आरुह्य विजयो वानर-ध्वजम् ।
गाण्डीवं धनुर् आदाय तूणौ चाक्षय-सायकौ ॥
साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् ।
बहु-व्याल-मृगाकीर्णं प्राविशत् पर-वीर-हा ॥ [भा।पु। १०.५८.१३-१४]****

कृष्णेन साकं विहर्तुम् इत्य् अन्वयः ।

॥ १०.५८ ॥ सः ॥ २६६ ॥

[२६७]

यथा च—

तेनैव साकं पृथुकाः सहस्रशः
स्निग्धाः सुशिग्-वेत्र-विषाण-वेणवः ।
स्वान् स्वान् सहस्रोपरि-सङ्ख्ययान्वितान्
वत्सान् पुरस्कृत्य विनिर्ययुर् मुदा ॥ [भा।पु। १०.१२.२]****

एव-कारेण तदासक्ति-रूपो भावो दर्शितः75

[२६८]

यथा—

यदि दूरं गतः कृष्णो वन-शोभेक्षणाय तम् ।
अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे ॥ [भा।पु। १०.१२.६]****

स्पष्टम् ॥

॥ १०.१२ ॥ सः ॥ २६८ ॥

[२६९]

यथा च—

ऊचुश् च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा ।
नैकोऽप्य् अभोज्क-बल एहीतः साधु भुज्यताम् ॥ [भा।पु। १०.१४.४५]****

स्पष्टम् ॥

॥ १०.१४ ॥ सः ॥ २६९ ॥

[२७०]

श्री-कृष्ण एव तेषां जीवनम् इत्य् आह—

कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयोऽर्भकाः ।
बभूवुर् इन्द्रियाणीव विना प्राणं विचेतसः ॥ [भा।पु। १०.११.४९]****
मुक्तं बकास्याद् उपलभ्य बालका
रामादयः प्राणम् इवेन्द्रियो गणः ।
स्थानागतं तं परिरभ्य निर्वृताः
प्रणीय वत्सान् व्रजम् एत्य तज् जगुः ॥ [भा।पु। १०.११.५३]****

स्पष्टम् ॥

॥ १०.११ ॥ सः ॥ २७० ॥

[२७१]

तद् एवं विभावादि-संवलनात्मको मैत्रीमयो रसः । अस्य च सौहृदमयः सख्यमय इति भेद-द्वयं तत्र तत्रावगन्तव्यम् । तस्य प्रथमाप्राप्त्य्-आत्मक-सिद्ध्य्-आत्मकौ भेदौ पूर्ववद् ऊह्यौ । वियोगात्मको भेदो यथा—

एवं कृष्ण-सखः कृष्णो भ्रात्रा राज्ञा विकल्पितः ।
नाना-शङ्कास्पदं रूपं कृष्ण-विश्लेष-कर्शितः ॥
शोकेन शुष्यद्-वदन- हृत्-सरोजो हत-प्रभः ।
विभुं तम् एवानुस्मरन् नाशक्नोत् प्रतिभाषितुम् ॥
कृच्छ्रेण संस्तभ्य शुचः पाणिनामृज्य नेत्रयोः ।
परोक्षेण समुन्नद्ध- प्रणयौत्कण्ठ्य-कातरः ॥
सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् ।
नृपम् अग्रजम् इत्य् आह बाष्प-गद्गदया गिरा ॥ [भा।पु। १.१५.१-४]****

कृष्णोऽर्जुनः । अविकल्पित इति च्छेदः । नाना-शङ्कास्पदं रूपम् आलक्ष्य विकल्पित इत्य् अर्थः । शुचः शोकाश्रूणि आमृज्य च । परोक्षेण दर्शनागोचरेण श्री-कृष्णेन हेतुना । अत एवानिष्ट-शङ्काया अभावात् नात्र करुण-रसावकाशः । तद्-अभावश् चैषाम् ऐश्वर्य-ज्ञान-समुध्भाविनां भवत्य् एव इति । वञ्चितोऽहम् [भा।पु। १.१५.५] इत्य्-आदिकं वक्ष्यमाणं विलापम् ।

[२७२]

अथ तद्-अनन्तरं तुष्ट्य्-आत्मक-योगो यथा—

ते साधु कृत-सर्वार्था ज्ञात्वात्यन्तिकम् आत्मनः ।
मनसा धारयामासुर् वैकुण्ठ-चरणाम्बुजम् ॥
तद्-ध्यानोद्रिक्तया भक्त्या विशुद्ध-धिषणाः परे ।
तस्मिन् नारायण-पदे एकान्त-मतयो गतिम् ॥
अवापुर् दुरवापां ते असद्भिर् विषयात्मभिः ।
विधूत-कल्मषास्थानं विरजेनात्मनैव हि ॥ [भा।पु। १.१५.४६-४८]****

ते पाण्डवाः साधु यथा स्यात्, तथा कृत-सर्वार्था वशीकृत-धर्मार्थ-काम-मोक्षा अपि वैकुण्ठस्य श्री-कृष्णस्य चरणाम्बुजम् एव आत्यन्तिकं परम-पुरुषार्थं ज्ञात्वा, तद् एव मनसा धारयामासुःनारायणः श्री-कृष्णः । पुनर् गतिम् एव विशिनष्टि । विधूत-कल्मसं यद् आस्थानं नित्य-श्री-कृष्ण-प्रकाशास्पदं तदीया सभा। आत्मना स्व-शरीरेणैव। तत्र हेतुः विरजेन अप्राकृतेन । हि-शब्दोऽसम्भावना-निवृत्त्य्-अर्थः ॥

[२७३]

तथा—

द्रौपदी च तदाज्ञाय पतीनाम् अनपेक्षताम् ।
वासुदेवे भगवति ह्य् एकान्त-मतिर् आप तम् ॥ [भा।पु। १.१५.५०]****

आत्मानं प्रति अनपेक्षमाणानाम्तत् कृष्ण-सङ्गमनम् आज्ञाय सम्यग् ज्ञात्वा । वासुदेवे श्री-वसुदेव-नन्दने । हि प्रसिद्धौ । तस्मिन्न् एकान्त-मतिः, तम् एव प्राप्तवती

श्री-व्रज-कुमाराणां देशान्तर-वियोगात्मोदाहरणं तद्-अनन्तर-तुष्ट्य्-आत्मोदाहरणं च वत्सलानुसारेणैव ज्ञेयम् । इति मैत्री-मयो रसः ॥

॥ १.१५ ॥ श्री-सूतः ॥ २७१-२७३ ॥

[२७४]

अथ उज्ज्वलः । अत्रालम्बनः कान्तत्वेन स्फुरन् कान्त-भाव-विषयः श्री-कृष्णः । तद्-आधाराः सजातीय-भावास् तदीय-परम-वल्लभाश् च । तत्र श्री-कृष्णो यथा—

श्रुत्वा गुणान् भुवन-सुन्दर शृण्वतां ते
निर्विश्य कर्ण-विवरैर् हरतोऽङ्ग-तापम् ।
रूपं दृशां दृशिमताम् अखिलार्थ-लाभं
त्वय्य् अच्युताविशति चित्तम् अपत्रपं मे ॥ [भा।पु। १०.५२.३७]****

स्पष्टम् ।

॥ श्री-रुक्मिणी ॥ २७४ ॥

[२७५]

यथा च—

तासाम् आविरभूच् छौरिः
स्मयमान-मुखाम्बुजः ।
पीताम्बर-धरः स्रग्वी
साक्षान् मन्मथ-मन्मथः ॥ [भा।पु। १०.३२.२]****

मन्मथस्य मदनस्यापि मन्मथो मदनः ॥

॥ १०.३२ ॥ श्री-शुकः ॥ २७५ ॥

[२७६]

अथ तद्-वल्लभासु सामान्या सैरिन्ध्री कूर्म-पुराणोक्ताः कैलास-वासिन्यश् च । तत्र पूर्वोक्ता76 यथा—

सैवं कैवल्य-नाथं तं प्राप्य दुष्प्राप्यम् ईश्वरम् ।
अङ्ग-रागार्पणेनाहो दुर्भगेदम् अयाचत ॥ [भा।पु। १०.४८.८] इति दर्शिता ।

पूर्वं तादृश-दुर्भगापि अङ्ग-रागार्पण-मात्र-लक्षणेन भजनेन तं प्राप्य । अहो आश्चर्यम् । तेन हेतुना इदं सहोष्यताम् [भा।पु। १०.४८.९] इत्य्-आदि-लक्षणम् अपि अयाचत याचितुं योग्याभूत् । तं कथम्भूतम् अपि । केवलः शुद्ध-प्रेमवांस् तस्य भावः कैवल्यं, तत्रैव नाथं वल्लभम् अपि । अतोऽस्या आत्म-तर्पणैक-तात्पर्यायाः सम्प्रत्य् अपि श्री-व्रज-देव्य्-आदि-वच् छुद्ध-प्रेमाभावो दर्शितः ।

स्वीयाः श्री-रुक्मिण्य्-आदयः । या एवोद्दिश्य स्तौति—

याः सम्पर्यचरन् प्रेम्णा
पाद-संवाहनादिभिः ।
जगद्-गुरुं भर्तृ-बुद्ध्या
तासां किं वर्ण्यते तपः ॥ [भा।पु। १०.९०.२७]****

स्पष्टम् ।

॥ १०.९० ॥ श्री-शुकः ॥ २७६ ॥

[२७७]

तथा—

इत्थं रमा-पतिम् अवाप्य पतिं स्त्रियस् ता
ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् ।
भेजुर् मुदाविरतम् एधितयानुराग-
हासावलोक-नव-सङ्गम-लालसाद्यम् ॥
प्रत्युद्गमासन-वरार्हण-पाद-शौच-
ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः ।
केश-प्रसार-शयन-स्नपनोपहार्यैर्
दासी-शता अपि विभोर् विदधुः स्म दास्यम् ॥ [भा।पु। १०.६१.५-६]****

अत एव ये मां भजन्ति दाम्पत्या [भा।पु। १०.६०.५२] इत्य्-आदि निन्दा त्व् अन्य-परत्वेनैव निर्दिष्टा । दिष्ट्या गृहेश्वरी [भा।पु। १०.६०.५४] इत्य्-आद्य्-उत्तर-वाक्यात् । यथैव केतुमाल-वर्षे श्री-कामदेवाख्य-भगवद्-व्यूह-स्तुतौ लक्ष्मी-वाक्यम्—स्त्रियो व्रतैस् त्वा हृषीकेश्वरं स्वतो ह्य् आराध्य लोके पतिम् आशासतेऽन्यम् [भा।पु। ५.१८.१९-२१] इत्य्-आदिकम् ।

॥ १०.६१ ॥ श्री-शुकः ॥ २७७ ॥

[२७८]

अथ वस्तुतः परम-स्वीया अपि प्रकट-लीलायां परकीयायमाणाः श्री-व्रज-देव्यः । या एवासमोर्ध्वं स्तुताः—

नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः
स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽन्याः ।
रासोत्सवेऽस्य भुज-दण्ड-गृहीत-कण्ठ-
लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ [भा।पु। १०.४७.३०] इत्य्-आदिषु ।

गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं [भा।पु। १०.४४.१४] इत्य्-आदौ या एवासमोर्ध्वं रूपं पश्यन्तीत्य् अत्र । तथा चाह या दोहनेऽवहनने मथनोपलेप- [भा।पु। १०.४४.१५] इत्य्-आदौ धन्या व्रज-स्त्रिय उरुक्रम-चित्त-यानाः77

उरुक्रम-चित्तम् एव यानं यासां ताः । यास् तच्-चित्तं यत्र यत्र गच्छति, तत्र तत्रैव तद्-आरूढास् तिष्ठन्ति इत्य् अर्थः । “चिन्तयानाः” इति पाठे चिन्तश्78 चिन्ता भवना इति पूर्ववद् एवार्थः ।

॥ १०.४४ ॥ श्री-माथुर-स्त्रियः ॥ २७८ ॥

[२७९]

अत एवासाम् एव तत्र तत्र दर्शित उत्कर्षः । परकीयायमानत्वेन निवारणादि-मात्रांशे लौकिक-रस-विदाम् अपि मतेन सेवितः । यथाह भरतः—

बहु वार्यते यतः खलु यत्र प्रच्छन्न-कामुकत्वं च ।
या च मिथो दुर्लभता सा परमा मन्मथस्य रतिः ॥ [उ।नी। १.२०] इति ।

रुद्रः—

वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।
तद् एव पञ्च-बाणस्य मन्ये परमम् आयुधम् ॥ [उ।नी। ३.२०]

विष्णु-गुप्तः—

यत्र निषेध-विशेषः सुदुर्लभत्वं च यन् मृगाक्षीणाम् ।
तत्रैव नागराणां निर्भरम् आसज्जते हृदयम् ॥ [उ।नी। ३.२१] इति ।

अत एव कासाञ्चिद् गोप-कुमारीणां कात्यायनी-जपानुसारेण पति-भावेऽप्य् आधिक्यम् अनुवर्तते इति।

केचित् तु वारणादित एवासां प्रेमाधिक्यं मन्यन्ते । तन् न, जातितोऽप्य् आधिक्यात् । तच् च व्रज-स्त्रियो यद् वाञ्छन्ति [भा।पु। १०.८३.४३] इति, वाञ्छन्ति यद् भव-भियः [भा।पु। १०.४७.५८] इत्य्-आदिना व्यक्तम् । न हि वारणाद्य्-अंशम् अङ्गीकृत्य तेषां लोभो जातः, अनभीष्टत्वात् । अतो जात्य्-अंशम् एवेति गम्यते । अतः प्रबल-जातित्वान् निवारणादिकम् अप्य् अयम् अतिक्रामतीत्य् एवम् एव श्लाघ्यते या दुस्त्यजम् [भा।पु। १०.४७.६१] इत्य्-आदिना ।

मत्त-हस्तिनां बलस्य दुर्गातिक्रमवन् निवारणाद्य्-अतिक्रमो हि तासां प्रेम-बलस्य व्यञ्जक एव न तूत्पादकः । जात्य्-अंशेनैव प्राबल्ये सति निवारणादि-साम्येऽपि तासां स्वेषु प्रेम-तारतम्यं सम्भवति । यथा ताभिर् अपि श्री-राधायाः प्रेम-वैशिष्ट्येन श्री-कृष्ण-वशीकारित्व-वैशिष्ट्यं दर्शितम् । अनयाराधितो नूनम् [भा।पु। १०.३०.२८] इत्य्-आदिना ।

या च तासां क्षोभे सति प्रेम्णः प्रफुल्लता सा खलु कृष्ण-सर्पस्येव स्वत एव सिद्धतया न त्व् अपरत आहार्यतया । केवलौपपत्यस्य प्रेम-वर्धनत्वं तु ताभिर् एव स्वयं निःस्वं त्यजन्ति गणिकाः [भा।पु। १०.४७.७], जारा भुक्त्वा रतां स्त्रियम् [भा।पु। १०.४७.८] इति निन्दितम् ।

यत् तु कश्चित् परकीयासु लघुत्वं वक्ति तत् खलु प्राकृत-नायकम् अवलम्बमानासु युक्तं, तत्रैव जुगुप्सितत्वात् । अत्र तु गोपीनां तत्-पतीनां च [भा।पु। १०.३३.३५] इत्य्-आदिना तत्-प्रत्याख्यानात् ।79

अत्र च तत्-पतीनाम् इति तद्-व्यवहार-दृष्टि-मात्रेणोक्तं, न तु परमार्थ-दृष्ट्या । तद्-दृष्ट्या तु श्री-कृष्ण-सन्दर्भे तासां स्वरूप-शक्तित्वम् एवात्र परत्र स्थापितम् । तथास्य श्री-कृष्ण-लक्षणस्य नायकस्य तादृश-भावेनैव प्राप्तौ एताः परं तनु-भृतः [भा।पु। १०.४७.५८] इत्य्-आदिषु सर्वोर्ध्व-श्लाघाश्रवणात् परम-गरीयस्त्वम् एव । अत एवोक्तम्—

नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा
तद् गोकुलाम्बुजदृशां कुलम् अन्तरेन ।
आशांसया रसविधेर् अवतारितानां
कंसारिणा रसिकमण्डलशेखरेण ॥ [उ।नी। ५.३] इति ।

अथ तासां स्वपत्याभास-सम्बन्धम् अपि वारयितुं योजयति—

नासूयन् खलु कृष्णाय मोहितास् तस्य मायया ।
मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ [१०.३३.३७]

एवं श्री-भगवन्-नित्य-प्रियाणां तासां सर्वदैव बोद्धव्यम् इति भावः । ततश् च तस्य मायया मोहिताः सन्तो माययैव ये स्वे स्वे दारास् तान् स्व-स्व-पार्श्वस्थान् मन्यमाना जानन्तो नासूयन्न् इत्य् अर्थः ॥

॥ श्री-शुकः ॥ २७९ ॥

[२८०]

तद् एवं भावत उत्कर्षो दर्शितः । दैहिकं तम् आह—ताभिः समेताभिर् उदार-चेष्टितः [भा।पु। १०.२९.४३] इत्य्-आदौ व्यरोचतैणाङ्क इवोडुभिर् वृतः इति ।

स्पष्टम् ।

॥ १०.२९ ॥ सः ॥ २८० ॥

[२८१]

किं च—

तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः ।
मध्ये मणीनां हैमानां महा-मरकतो यथा ॥ [भा।पु। १०.३३.७]****

स्पष्टम् ।

॥ १०.३३ ॥ सः ॥ २८१ ॥

[२८२]

गुण-वैभव-कृतम् अप्य् आह—

ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो विभुः ।
व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥ [भा।पु। १०.३२.१०]

स्पष्टम् ।

॥ १०.३२ ॥ सः ॥ २८२ ॥

[२८३]

कला-वैदग्धीकृतम् आह पाद-न्यासैर् भुज-विधुतिभिः [भा।पु। १०.३३.७] इत्य्-आदि ।

उच्चैर् जगुर् नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः ।
कृष्णाभि-मर्शमुदिता यद् गीतेनेदम् आवृतम् ॥ [भा।पु। १०.३३.९]

इदं जगत् । अद्यापि यासां गीतांशा एव जगति प्रचरन्तीत्य् अर्थः । यद् उक्तं सङ्गीत-सारे—

तावन्त एव रागाः स्युर् यावत्यो जीव-जातयः ।
तेषु षोडश-साहस्री पुरा गोपी-कृता वरा ॥ इति ।

अन्ते च तेषाम् एव विभागश् च तत्र स्वर्गादिषु दर्शित इति । किं च—

काचित् समं मुकुन्देन स्वरजातीर् अमिश्रिताः ।
उन्निन्ये पूजिता तेन प्रीयता साधु साध्व् इति ।
तद् एव ध्रुवम् उन्निन्ये तस्यै मानं च बह्व् अदात् ॥ [भा।पु। १०.३३.१०]

स्वराः षड्जादयः सप्त जातयस् तेषु रागोत्पत्ति-हेतवः । ता उभयोर् अपि परम-प्रवीणत्वात् स्वरान्तरेण जात्य्-अन्तरेण चामिश्रिताः शुद्धा एव उन्निन्ये उत्कर्षेण जगौ । तत्र शक्र-शर्वर-परमेष्टि-पुरोगा-निश्चित-तत्त्व-गानस्य श्री-मुकुन्दस्यापि सहार्थत्वेनाप्राधान्यं विवक्षितम् । तत्राप्य् उच्-छब्देन ।अत एव तेन पूजिता । तदैव तालान्तरेण निबद्धं गीतं ध्रुवाख्यं ताल-विशेषं कृत्वा या ततोऽप्य् उत्कर्षेण जगौ तस्यै पूर्वस्या अप्य् अधिकं मानम् अदात् ।

॥ १०.३३ ॥ सः ॥ २८४ ॥

[२८५]

अथ तासु सामान्यासु सैरिन्ध्री मुख्या । सर्वत्र ख्यातत्वात् । स्वकीयासु पट्ट-महिषीषु श्री-रुक्मिणी-सत्यभामे मुख्ये । यथा श्री-हरि-वंशे—

कुटुम्बस्येश्वरी यासीद् रुक्मिणी भीष्मकात्मजा ।
सत्यभामोत्तमा स्त्रीणां सौभाग्ये चाधिकाभवत् ॥

अथ श्री-व्रज-देवीषु मुख्या भविष्योत्तरोक्ताः—

गोपाली पालिका धन्या विशाखा ध्यान-निष्ठिका ।
राधानुराधा सोमाभा तारका दशमी तथा ॥ इति ।

दशम्य् अपि तारका-नाम्नीत्य् अर्थः । स्कान्दे प्रह्लाद-संहितायां तु ललिता शैव्या पद्मा चतस्रोऽन्याः । अन्यत्र चन्द्रावली च श्रूयते । सा चात्रार्थ-साम्यात् सोमाभैवानुमेया । कार्त्स्न्येन तु प्रमदा-शत-कोटिभिर् आकुलिता इत्य् आगमोपदेशः । एतास्व् अपि श्री-राधिकैव मुख्या । सैव रासोत्सवे श्री-कृष्णेन परम-प्रेम्णान्तर्धापितेति श्री-कृष्ण-सन्दर्भे सन्दर्शितम् अस्ति । प्रसिद्धा च तथा सैव सर्वत्रेति । अतः श्रैष्ठ्य-चिह्नेन गोपाल-तपन्य्-उक्ता गान्धर्विकैव सेत्य् अनुमेया ।

अथ ताः श्री-कृष्ण-वल्लभास् त्रिधा दृश्यन्ते–मुग्धा मध्या प्रगल्भा इति । तादृश्यं च नव-यौवन-स्पष्ट-यौवन-सम्यग्-यौवनैर् वयो-भेदैस् तत्-तच्-चेष्टाभिश् च । सम्यग्-यौवनं च प्राप्त-षोडश-वर्षत्वम् एव नाधिकम्, कन्याभिर् द्व्य्-अष्ट-वर्षाभिः इति गौतमीय-तन्त्रात् ।

तथा स्वभाव-भेदेन धीरा अधीरा मिश्र-गुणाश् चेति पुनस् त्रिधावगन्तव्याः ।

प्रेम-तारतम्येन श्रेष्ठाः समाः लघव इति च ।

अथ ता लीलावस्था-भेदेनैकैका अभिसारिका वासक-सज्जोत्कण्ठिता खण्डिता विप्रलब्धा कलहान्तरिता प्रोषित-भर्तृका स्वाधीन-भर्तृका इत्य् अष्टौ नामानि भजन्ति ।

तथा परस्परं भावानां सादृश्य-किञ्चित्-सादृश्यास्फुट-सादृश्यानि विरोधित्वं चैतद् भेद-चतुष्टयात् पुनश् चत्वारि सखी सुहृत् तटस्था प्रातिपक्षिकी चेति । भाव-भेदाश् च स्थायि-निरूपणे ज्ञेयाः ।

तत्र सखी यथा अप्य् एण-पत्नी [भा।पु। १०.३०.११] इत्य्-आदि द्वये पुरतो दर्शनीया । अत्र हि तन्वन् दृशां सखि सुनिर्वृतिम् [तत्र] इति स्वीय-तद्-दिदृक्षा-द्योतनात् । सखि इति तद्-दर्शन-सुखोपभोग-सौभाग्य-भागिता-साम्येन तस्यां सख्यारोपणात् । कान्ता- इति कृष्ण-सङ्गिन्याः सौभाग्यातिशयस्य, कुलपतेर् इति श्री-कृष्णस्य कान्ताङ्ग-सङ्ग इत्य्-आदिना तयोर् मिथोऽङ्ग-सङ्गस्य तदीय-परिमलस्य चानुमोदनात् सख्यम् एव स्पष्टम् । अत एव तल्-लीलानुमोदनम् अपि बाहुं प्रियांसा- [भा।पु। १०.३०.१२] इत्य्-आदिना ।

सुहृद् यथा—

अनयाराधितो नूनं भगवान् हरिर् ईश्वरः ।
यन् नो विहाय गोविन्दः प्रीतोऽयम् अनयद् रहः ॥ [भा।पु। १०.३०.२८]****

अस्याश् च तद्-भाग्य-मात्र-प्रशंसनात् व्यक्तं सौहृद्यम् ।

[२८६]

तटस्था यथा—

पृच्छतेमा लता बाहून् अप्य् आश्लिष्टा वनस्पतेः ।
नूनं तत्करज-स्पृष्टा बिभ्रत्य् उत्पुलकान्य् अहो ॥ [भा।पु। १०.३०.१३]

अत्र सखी-वचनं श्रुत्वापि तत्रौदासीन्यात् ताटस्थ्यम् एव व्यक्तम् । एवम् अनयाराधितो नूनम् [भा।पु। १०.३०.२८] इति सुहृद्-वाक्यानन्तरम् अपि धन्या अहो अमी आल्यः [भा।पु। १०.३०.२९] इत्य्-आदि-वाक्ये च ।

[२८७]

अथ प्रातिपक्षिका यथा—

अस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् ।
यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ॥ [भा।पु। १०.३०.३०]

अथ प्रकट एव मत्सर इति ताभ्यो विलक्षणत्वम् । तथैव श्री-हरिवंशादौ पारिजात-हरणे श्री-रुक्मिणीं प्रति सत्यभामायाः । स्पष्टम् ।

॥ १०.३० ॥ श्री-शुकः ॥ २८५-२८७ ॥

[२८८]

अत्र विचार्यते । ननु भगवद्-भक्तेषु परस्परं प्रतिपक्षित्वम् असम्भवम् अहृद्यं च? तथा तासां तत्-सौभग-मदम् [भा।पु। १०.२९.४८] इत्य्-आदौ तद्-ईर्ष्या-मद-मानादि-दूरीचिकीर्षा श्री-भगवतोऽपि दृश्यते । तथा श्रीमता मुनिना स्वयम् अपि ताभिस् तत्र दौरात्म्य-शब्दः प्रयुक्तोऽस्तीति80

तत्रोच्यते सर्वैव हि श्री-भगवतः क्रीडा प्रीति-पोषायैव प्रवर्तते, भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत् [भा।पु। १०.३३.३६] इत्य्-आदि । श्रुत्वापि इत्य् अर्थः ।

तत्र शृङ्गार-क्रीडायाश् चास्याः स्वभावोऽयं यत् खल्व् ईर्ष्या-मद-मानादि-लक्षण-तत्-तद्-भाव-वैचित्री-परिकरतयैव रसं पुष्णाति । यत एव तादृशतयैव कविभिर् वर्ण्यते । श्री-भगवता च स्व-लीलायाम् अङ्गीक्रियते । स्वस्मिन्न् अपि दक्षिणानुकूल-शठ-धृष्टतेति चतुर्भेद-नायकत्वं यथा-स्थानं व्यज्यते । तस्मात् तल्-लीला-शक्तिर् एव तासु तत्-तद्-भावं दधाति । तं च भावानुरूपेणैवेति दर्शितम् । अत एव यदा सर्वासाम् एव तद्-विरहो भवति तदा दैन्येनैक-जातीय-भावत्वापत्त्या सर्वत्र सख्यम् एवाभिव्यज्यते । यथा—

अन्विच्छन्त्यो भगवतो मार्गे गोप्योऽविदूरतः ।
ददृशुः प्रिय-विश्लेषान् मोहितां दुःखितां सखीम् ॥ [भा।पु। १०.३०.४१]

इत्य् अत्र तस्यां पूर्वासाम् एव सखीत्व-व्यञ्जना । विरह-लीला च तासां झटिति श्री-कृष्ण-विषयक-तृष्णातिशय-वर्धनार्थैव । नागर-चूडामणीन्द्राय श्री-कृष्णाय च तासां तद्-वृद्धिर् अत्यर्थं रोचते, यथोक्तं–नाहं तु सख्यो भजतोऽपि जन्तून् [भा।पु। १०.३२.२०] इत्य्-आदिना । तस्मान् मध्ये विरहोऽपि भवति । तदा श्री-कृष्णस्य मद-मानादि-विनोदम् अतिक्रम्यापि तद्-अध्यवसायः स्यात् । ततो मद-मानयोः प्रशमाय स्व-विषयक-तृष्णातिशय-रूप-प्रसादाय चेति तासां तत्-सौभग- इत्य् अत्रार्थः । सर्व-समुदित-रास-लीलार्थं मदस्य प्रशमाय मानस्य च प्रसादाय प्रसादनायेत्य् अर्थो वा । ततस् तद्-वर्धनेच्छाप्य् आनुषङ्गीति समानम् ।

अथ जाते च विरहे दैन्येनैव तासां तत्र दौरात्म्य-बुद्धिः । न तु वस्तुत एव तद् दौरात्म्यं, प्रेमैक-विलास-रूपत्वात् । श्री-मुनीन्द्रोऽपि तद्-भावानुसारित्वेनैव तद्-वाक्यम् अनुवदति–तया कथितम् आकर्ण्य [भा।पु। १०.३०.४२] इत्य्-आदि । स्वयं तु पूर्वं तस्मिंस् तदीये मदे दोषं प्रत्याख्यातवान् अस्ति । यथा—

रेमे तया स्वात्मरत
आत्मारामोऽप्य् अखण्डितः ।
कामिनां दर्शयन् दैन्यं
स्त्रीणां चैव दुरात्मताम् ॥ [भा।पु। १०.३०.३५]

स्वात्म-रतः स्वतस् तुष्टोऽपि, आत्मरामः स्व-क्रीडोऽपि, अखण्डितः तस्यां सततासक्तः सन् रेमे । तादृशश् चेत् किम् इति तद्-आसक्तो बभूव, तथा रेमे च ? अत आह–तया इत्थम्भूत-गुणो हरिः [भा।पु। १.७.१०] इतिवत् तथा-भूत-गुणतया तदीय-प्रेम-सर्वस्व-सार-रूपयेत्य् अर्थः । अतस् तस्यान्येन तादृशत्वासम्भवात् प्रेम-विशेष एवासौ स्फुरति न तु कामः । स च प्रेम-विशेष ईदृश-प्रबलः यत् कामिवद् एव दैन्यादिकं तयोः प्रकटीभवतीत्य् आह–कामिनाम् इति ।

मद-मानाद्य्-आत्मके कामिनीनां प्रेमणि कामिनां यद् दैन्यं लोक-प्रसिद्धं, तद् एव स्व-द्वारा तत्-प्रेम-विशेष-पारवश्येन दर्शयन् प्रकटयन्, स्त्रीणां च तत्र तत्र या मद-मानाद्य्-आत्मिका दुरात्मता दुर्धर-चित्तता स्वतन्त्रता स्वाधीन-भर्तृकात्वम् इति यावत्तां च स्व-प्रेयसी-द्वारा स्व-प्रणय-लालित्येन प्रकटयन् रेमे ।81

यद् वा, ययैव लीलया स्वयम् एव तुच्छीभूताः सर्वेऽप्य् अन्ये नागरं-मन्या इत्य् आह–कामिनाम् इति । स्व-लीला-महिम्ना कामिनां प्राकृतानां दैन्यं रस-सम्पत्ति-हीनत्वं स्त्रीणां च प्राकृतानां तं विना अन्यस्य भजनेन दुरात्मतां दुष्ट-भावतां दर्शयन्न् इति दर्शयद्-विधु-पराजयं रमा-वक्त्रं उल्लसति धूत-लाञ्छनम् इतिवत् ।

॥ १०.३० ॥ श्री-शुकः ॥ २८८ ॥

[२८९]

इत्य् आलम्बनो व्याख्यातः । अथोद्दीपनेषु गुणाः–नारी-मोहन-शीलत्व, अवयव-वर्ण-रस-गन्ध-स्पर्श-शब्द-सल्-लक्षण-नव-यौवनानां कमनीयता, नित्य-नूतनत्वं, अभिव्यक्त-भावत्वं, प्रेम-वश्यत्वं, सौबुद्ध्य-सत्-प्रतिभादयश् च । तत्र नारी-मोहन-शीलत्वादिकं, यथा—कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलम् [भा।पु। १०.२१.१२] इति । स्पष्टम् ।

॥ १०.२१ ॥ श्री-व्रज-देव्यः ॥ २८९ ॥

[२९०]

नित्य-नूतनं च यद्यप्य् असौ पार्श्व-गतः [भा।पु। १.११.३४] इत्य्-आदौ दृष्टम् ।

अथाभिव्यक्त-भावत्वम् । तत्र पूर्व-रागे—

शरद्-उदाशये साधु-जात-सत्-
सरसिजोदरे श्री-मुषा दृशा ।
सुरत-नाथ तेऽशुल्क-दासिका
वरद निघ्नतो नेह किं वधः ॥ [भा।पु। १०.३१.२]****

हे दृशा एव सुरत-याचक ! तत्रापि हे कात्यायन्य्-अर्चनान्ते वर-प्रद ! तत्रापि भाव-विशेष-दर्शितया दृशा कृत्वैव अशुल्क-दासिका-तुल्यत्वं प्राप्ताः, तयैव पुनर् निघ्नतस् तव न किं वधः स्त्री-हत्यापि न भवति ? दृशस् तादृशत्वे महा-मोहन-चौरत्वं दर्शयति–शरद्-उदाशय इत्य्-आदि । तत्र मोहनत्वं द्विविधं—स्वरूप-कृतं दुष्कर-क्रिया-कृतं च । तद् उभयम् अपि तत्-तद्-विशेषणैर् व्यक्तम् ।

[२९१]

तथा—

मधुरया गिरा वल्गु-वाक्यया
बुध-मनो-ज्ञया पुष्करेक्षण ।
विधि-करीर् इमा वीर मुह्यतीर्
अधर-सीधुनाप्याययस्व नः ॥ [भा।पु। १०.३१.८]****

मधुरया इति स्वरूप-माधुर्यं, वल्गु-वाक्यया इत्य् अर्थ-माधुर्यं, बुध-मनोज्ञया इति बुधानां तादृश-भावाभिज्ञानाम् एव मनोज्ञयेति भाव-विशेष-माधुर्यं व्यञ्जितम् ।

[२९२]

तथा—

प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदि-स्पृशः
कुहक नो मनः क्षोभयन्ति हि ॥ [भा।पु। १०.३१.१०]

संविदः सङ्केत-नर्माणि ।

[२९३]

तथा—

दिन-परिक्षये नील-कुन्तलैर्
वन-रुहाननं बिभ्रद् आवृतम् ।
घन-रजस्वलं दर्शयन् मुहुर्
मनसि नः स्मरं वीर यच्छसि ॥ [भा।पु। १०.३१.१२]

मुहुः पुनः पुनर् व्याजेन परावृत्येत्य् अर्थः ।

[२९४]

तथा—

पति-सुतान्वय-भार्तृ-बान्धवान्
अतिविलङ्घ्य तेऽन्त्य् अच्युतागताः ।
गति-विदस् तवोद्गीत-मोहिताः
कितव योषितः कस् त्यजेन् निशि ॥
रहसि संविदं हृच्-छयोदयं
प्रहसिताननं प्रेम-वीक्षणम् ।
बृहद्-उरः श्रियो वीक्ष्य धाम ते
मुहुर् अतिस्पृहा मुह्यते मनः ॥ [भा।पु। १०.३१.१६-१७]

गति-विदस् तवोद्गीत-मोहिता इति अस्माकं मोहन-प्रकार-ज्ञानेनैव त्वं तथा वेणुना गीतवान् इत्य् अर्थः ।

॥ १०.३१ ॥ श्री-गोप्यः परोक्ष-स्थितं श्री-भगवन्तम् ॥ २९२-२९४ ॥

[२९५]

एवं—

गवां हिताय तुलसि गोपीनां रति-हेतवे ।
वृन्दावने त्वं वपिता सेविता विष्णुना स्वयम् ॥

इति स्कान्दे रेवा-खण्डीय-तुलसी-स्तव-वचनम् अपि तत्-पूर्व-रागे दर्शनीयम् ।

तथा सम्भोगेऽपि इति विक्लवितं तासाम् [भा।पु। १०.२९.४२] इत्य्-आदौ प्रहस्य इति ताभिः समेताभिर् उदार-चेष्टितः [भा।पु। १०.२९.४३] इति, उदार-हास-द्विज-कुन्द-दीधिति [भा।पु। १०.२९.४६] चाभिव्यक्त-भावत्वोदाहरणम् ।

अथ प्रेम्णा वश्यत्वं द्विविधम् । प्रेमान्तरेण प्रेयसी-प्रेम्णा च । तत्र पूर्वेण नर्मदः प्रणयिनां विजहार [भा।पु। १०.३५.२०] इत्य् अत्र दर्शितम् । तथोत्तरेण । तत्र पूर्व-रागात्मकेन यथा—तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि [भा।पु। १०.५३.२] इति । स्पष्टम् ।

॥ १०.५३ ॥ श्री-भगवान् रुक्मिणी-दूतम् ॥ २९५ ॥

[२९६]

तथा—

भगवान् अपि ता रात्रीः शरदोत्फुल्ल-मल्लिकाः ।
वीक्ष्य रन्तुं मनश् चक्रे योग-मायाम् उपाश्रितः ॥ [भा।पु। १०.२९.१]****

योग-मायां तासाम् असङ्ख्यानाम् असङ्ख्य-वाञ्छा-पूरिकां स्व-शक्तिं स्वभावत एव आश्रित्य इत्य् अर्थः ।

[२९७]

सम्भोगात्मकेन यथा—

इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः ।
प्रहस्य सदयं गोपीर् आत्मारामोऽप्य् अरीरमत् ॥ [भा।पु। १०.२९.४२]****

अत्र विक्लवितम् इति तासां प्रेमातिशय-ज्ञापकं सदयम् इति तस्य तत्-प्रेम-वश्यत्वातिशयाभिधायकम् । आत्मारामोऽपीति तासां प्रेम-गुण-माहात्म्य-दर्शकम् । आत्मारामाश् च मुनयः [भा।पु। १.७.१०] इत्य्-आदौ, इत्थम्भूत-गुणो हरिः इतिवत् ।

॥ १०.२९ ॥ श्री-शुकः ॥ २९६-२९७ ॥

[२९८]

एवं,

रेमे स्वयं स्व-रतिर् अत्र गजेन्द्र-लीलः [भा।पु। १०.३३.२३] इति ।****

स्वासु तासु रतिर् यस्य सः । तथा तासां रति-विहारेण [भा।पु। १०.३३.२०] इत्य्-आदिकम् । गोपी-कपोल-संश्लेषः [वि।पु। ५.१३.५४] इत्य्-आदिकं विष्णु-पुराण-पद्यम् अप्य् उदाहृतम् ।

[२९९]

किं च—

एवं परिष्वाङ्ग-कराभिमर्श-
स्निग्धेक्षणोद्दाम-विलास-हासैः ।
रेमे रमेशो व्रज-सुन्दरीभिर्
यथार्भकः स्व-प्रतिबिम्ब-विभ्रमैः ॥ [भा।पु। १०.३३.१७]****

अत्र रमेश इत्य् अनेन तस्य रमा-वशीकारित्वं दर्शितम् । परिष्वङ्ग- इत्य्-आदिना, तत्रापि स्निग्धेक्षण- इत्य्-आदिना, रेमे इत्य् अनेन च तासां प्रेम्णा तस्य वश्यत्वं व्यक्तम् । दृष्टान्तेन तु तदा तस्य तासां च अर्भक-प्रतिबिम्बयोर् इव गान-नृत्यादि-विलासेषु एक-चेष्टतापत्ति-सूचनया मिथः परम-प्रेमासक्तिर् दर्शिता ।

[३००]

अपि च—

एवं शशाङ्कांशु-विराजिता निशाः
स सत्य-कामोऽनुरताबला-गणः ।
सिषेव आत्मन्य् अवरुद्ध-सौरतः
सर्वाः शरत्-काव्य-कथा-रसाश्रयाः ॥ [भा।पु। १०.३३.२६]****

एवं पूर्वोक्त-प्रकारेण अनुरतो निरन्तरम् अनुरक्तोऽबला-गणो यत्र, तादृशः श्री-कृष्ण-चन्द्र आत्मनि चित्तेऽवरुद्धं समन्तान् निगृह्य स्थापितं सौरतं सुरत-सम्बन्धि-भाव-हावादिकं येन, तथाभूतः सन् । अत एव सत्य-कामः व्यभिचार-रहित-प्रेम-विशेषः सन् शरत्-सम्बन्धिन्यो यावत्यो रसाश्रयाः काव्य-कथाः सम्भवन्ति, ताः सर्वा एव सिषेवे । शरच्-छब्दोऽत्राखण्डम् एव वा संवत्सरं वदति । ततः शशङ्कांशु-विराजितत्वम् उपलक्षणम् इति व्याख्येयम् । एवं सौरत-संलापैः [भा।पु। १०.६०.५८] इति श्री-रुक्मिणी-परिहासेऽपि सौरत-शब्दस् तादृशत्वेन प्रयुक्तः ।

॥ १०.३३ ॥ श्री-शुकः ॥ ३०० ॥

[३०१]

अत्रैवम् अपि स्वयम् उक्तं न पारयेऽहम् [भा।पु। १०.३२.२२] इत्य्-आदि ।

अथ प्रवासात्मकेन, यथा—

वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा ।
शिष्यो बृहस्पतेः साक्षाद् उद्धवो बुद्धि-सत्तमः ॥
तम् आह भगवान् प्रेष्ठं भक्तम् एकान्तिनं क्वचित् ।
गृहीत्वा पाणिना पाणिं प्रपन्नार्ति-हरो हरिः ॥
गच्छोद्धव व्रजं सौम्य पित्रोर् नौ प्रीतिम् आवह ।
गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय ।
ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः ॥ [भा।पु। १०.४६.१-४] इत्य्-आदि ।

तथा च स्कान्द-प्रह्लाद-संहिता-द्वारका-माहात्म्ये ताः प्रति श्रीमद्-उद्धव-वाक्यम्—

भगवान् अपि दाशार्हः कन्दर्प-शर-पीडितः ।
न भुङ्क्ते न स्वपिति च चिन्तयन् वो ह्य् अहर्निशम् ॥ इति ।

एवं राज-कुमारीणां परिणयोऽपि ताभिर् गोप-कुमारीभिर् एकात्मत्वात् प्रायस् तद्-विरह-काल-क्षपणार्थ एव तासां प्राण-परित्याग-परिहारार्थम् एव च । यथोक्तं पाद्मे—कैशोरे गोप-कन्यास् ता यौवने राज-कन्यका इति । यथा च श्री-रुक्मिणी-वाक्यम्—

यर्ह्य् अम्बुजाक्ष न लभेय भवत्-प्रसादं
जह्याम् असून् व्रत-कृशान् शत-जन्मभिः स्यात् ॥ [भा।पु। १०.५२.४३] इति ।

[३०२]

अथोद्दीपनेषु जातिः । तत्र गोपत्व-रूपाम् आह—

विविध-गोप-चरणेषु विदग्धो
वेणु-वाद्य उरुधा निज-शिक्षाः ॥ [भा।पु। १०.३५.१४] इत्य्-आदिना । स्पष्टम् ।

॥ १०.३५ ॥ श्री-व्रज-देव्यः ॥ ३०१-३०२ ॥

[३०३]

यादवत्व-रूपां सादृश्य-रूपां चाह—मेघः श्रीमंस् त्वम् असि दयितो यादवेन्द्रस्य नूनम् [भा।पु। १०.९०.२०] इत्य्-आदिना ॥ स्पष्टम् ।

॥ १०.९० ॥ श्री-पट्ट-महिष्यः ॥ ३०३ ॥

[३०४]

अथ क्रियाः । ताश् च द्विविधाः । भाव-सम्बन्धिन्यः स्वाभाविक-विनोद-मय्यश् च । पूर्वा यथा—निशम्य गीतं तद्-अनङ्ग-वर्धनम् [भा।पु। १०.२९.४] इत्य्-आदि । स्पष्टम् ।

॥ १०.२९ ॥ श्री-शुकः ॥ ३०४ ॥

[३०५]

उत्तराः—

वाम-बाहु-कृत-वाम-कपोलो
वल्गित-भ्रूर् अधरार्पित-वेणुम् ॥ [भा।पु। १०.३५.२] इत्य्-आदि । स्पष्टम् ।

विविध-गोप-चरणेषु [भा।पु। १०.३५.१४] इत्य्-आदौ च ता ज्ञेयाः ।

॥ १०.३५ ॥ श्री-व्रज-देव्यः ॥ ३०५ ॥

[३०६]

अथ द्रव्याणि । तत्र तस्य प्रेयस्यो यथा—

उषस्य् उत्थाय गोत्रैः स्वैर्
अन्योन्याबद्ध-बाहवः ।
कृष्णम् उच्चैर् जगुर् यान्त्यः
कालिन्द्यां स्नातुम् अन्वहम् ॥ [भा।पु। १०.२२.६]

गोत्रैर् वर्गैः ।

॥ १०.२२ ॥ श्री-शुकः ॥ ३०६ ॥

[३०७]

तद्-व्रज-स्त्रिय आश्रुत्य [भा।पु। १०.२१.३] इत्य्-आदौ च स्व-सखीभ्योऽन्ववर्णयन्न् इत्य् उदाहार्यम् ।

तत्-परिकराःतं वीक्ष कृष्णानुचरं व्रज-स्त्रियः [भा।पु। १०.४७.१] इत्य्-आदि । स्पष्टम् ।

॥ १०.४७ ॥ सः ॥ ३०७ ॥

[३०८]

मण्डनम्—पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग-श्री-कुङ्कुमेन दयिता [भा।पु। १०.२१.१७] इत्य्-आदि ।

[३०९]

वंशी—गोप्यः किम् आचरद् अयं कुशलं स्म वेणुः [भा।पु। १०.२१.१७] इत्य्-आदि । स्पष्टम्।

॥ १०.२१ ॥ ताः ॥ ३०९ ॥

[३१०]

पदाङ्कः—पदानि व्यक्तम् एतानि नन्द-सूनोर् महात्मनः [भा।पु। १०.३०.२५] इत्य्-आदि ।

[३११]

पद-धूलिः—

धन्या अहो अमी आल्यो
गोविन्दाङ्घ्र्य्-अब्ज-रेणवः ।
यान् ब्रह्मेशो रमा देवी
दधुर् मूर्ध्न्य् अघ-नुत्तये ॥ [भा।पु। १०.३०.२९]

अत्र प्रेमैव तद्-उत्कर्षं गमयति, न त्व् ऐश्वर्य-ज्ञानम् । स्वभावः खल्व् अयं प्रीति-परमोत्कर्षस्य यत् स्व-विषयं सर्वत उत्कर्षेणानुभावयति । यथादि-भरतेन मृग-प्रेम्णा तदीय-खुर-स्पर्शात् पृथिव्या अपि महा-भागधेयत्वं वर्णितम्—किं वा अरे आचरितं तपस् तपस्विन्या यद् इयम् अवनिः82 [भा।पु। ५.८.२३] इत्य्-आदिना ।

एवम् एव—

किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि-
स्पर्शोत्सवोत्पुलकिताङ्ग-रुहैर् विभासि ।
अप्य् अङ्घ्रि-सम्भव उरुक्रम-विक्रमाद् वा
आहो वराहव-पुषः परिरम्भणेन ॥ [भा।पु। १०.३०.१०]

अत्र पूर्वार्धे प्रेम्णा श्री-कृष्ण-माधुर्य-महिमोक्तिः । उत्तरार्धे तेनैवान्यत्र हेयतोक्तिः । अत्र च अपीति किम् अर्थे । ततश् च एषोऽङ्घ्रि-सम्भवो हर्ष-विकारः उरुक्रमस्य त्रिविक्रमस्य विक्रमाद् वापि पाद-विक्षेपाद् वापि किं जातः । आहो इति पक्षान्तरे । वराह-वपुषः कान्त-भावतोऽपि परिरम्भणेन वा एषोऽङ्घ्रि-सम्भवः किं जातः । न हि न हीत्य् अर्थः । अपीति स्तोकार्थे वा सर्पिषोऽपि स्याद् इतिवत् । ततश् च उरुक्रम-विक्रमाद् अपि एषोऽङ्घ्रि-सम्भवो विकारः स्यात् । किन्तु स्तोक एव स्याद् इत्य् अर्थः ।

॥ १०.३० ॥ ताः ॥ ३१२ ॥

[३१३]

नखाङ्कः—पृच्छतेमा लता बाहून् [भा।पु। १०.३०.३१] इत्य्-आदाव् एव ज्ञातः । एवं वृन्दावन-यमुनादीन्य् अप्य् उदाहार्याणि । अथ कालश् च रासोत्सवादि-सम्बन्धी । स यथा—ताः किं निशाः स्मरति यासु [भा।पु। १०.४७.४३] इत्य्-आदि । स्पष्टम् ।

॥ १०.४७ ॥ ताः ॥ ३१३ ॥

[३१४]

तद् एवं यथा तदीय-गुणादयः उद्दीपनास् तथैव तादृश-सेवोपयोगित्वेन तत्-प्रेयसी-गुणा अपि ज्ञेयाः । ते च तासाम् आत्म-सम्बन्धिन आत्माभीष्ट-तद्-वल्लभासम्बन्धिनश् चेत्य् उभयेऽप्य् ऊह्याः ।

अथ अनुभावाः । तत्र सैरिन्ध्र्य्-आदीनां, यथा—

सा मज्जनालेप-दुकूल-भूषण-
स्रग्-गन्ध-ताम्बूल-सुधासवादिभिः ।
अप्रसाधितात्मोपससार माधवं [भा।पु। १०.४८.५] इत्य्-आदि । स्पष्टम् ।

॥ १०.१५ ॥ श्री-शुकः ॥ ३१४ ॥


[३१५]

श्री-पट्ट-महिषीणाम् इत्थं रमा-पतिम् अवाप्य [भा।पु। १०.५९.४४] इत्य्-आदि-द्वय एव विदितः । श्री-व्रज-देवीनां यथा, आसाम् अहो [भा।पु। १०.४७.६१] इत्य्-आदौ । या दुस्त्यजम् इत्य्-आदि । तत्र च विवरणम्—

तं गोरजश्-छुरित-कुन्तल-बद्ध-बर्ह-
वन्य-प्रसून-रुचिरेक्षण-चारु-हासम् ।
वेणुम् क्वणन्तम् अनुगैर् उपगीत-कीर्तिं
गोप्यो दिदृक्षित-दृशोऽभ्यगमन् समेताः ॥
पीत्वा मुकुन्द-मुख-सारघम् अक्षि-भृङ्गैस्
तापं जहुर् विरह-जं व्रज-योषितोऽह्नि ।
तत् सत्-कृतिं समधिगम्य विवेश गोष्ठं
सव्रीड-हास-विनयं यद् अपाङ्ग-मोक्षम् ॥

[भा।पु। १०.१५.४२-४३} इत्य्-आदि स्पष्टम् ।

॥ १०.१५ ॥ श्री-शुकः ॥ ३१५ ॥

[३१६]

अथ प्रायः सर्वासां ते चतुर्विधाः उद्भास्वर-सात्त्विकालङ्कार-वाचिकाख्याः । तत्रोद्भास्वरा उक्ताः—

नीव्य्-उत्तरीय-धम्मिल्ल-स्रंसनं गात्र-मोटनम् ।
जृम्भा घ्राणस्य फुल्लत्वं निश्वासाद्याश् च ते मताः ॥ [उ।नी। १०.७०] इति ।

यथा—

तद्-अङ्ग-सङ्ग-प्रमुदाकुलेन्द्रियाः
केशान् दुकूलं कुच-पट्टिकां वा ।
नाञ्जः प्रतिव्योढुम् अलं व्रज-स्त्रियो
विस्रस्त-मालाभरणाः कुरूद्वह ॥ [भा।पु। १०.३३.१७] इत्य्-आदि ।

[३१७]

सात्त्विकाः—

तत्रैकांस-गतं बाहुं कृष्णस्योत्पल-सौरभम् ।
चन्दनालि-समाघ्राय हृष्ट-रोमा चुचुम्ब ह ॥ [भा।पु। १०.३३.१२]****

स्पष्टम् ।

॥ १०.३३ ॥ श्री-शुकः ॥ ३१७ ॥

[३१८]

अलग्काराश् च विंशतिः । तेषां हाव-भाव-हेलास् त्रयोऽग्गजाः । शोभा-माधुर्य-प्रागल्भ्यौदार्य-धैर्यादयः सप्त अयत्नजाह् । लीला-विलास-विच्छित्ति-किलकिञ्चित-विभ्रम-विव्वोक-ललित-कुट्टमित-मोट्टायित-विकृतादयो दश स्वभावजाः ।

तत्र, निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया [उ।नी। ११.६] । स यथा—चित्तं सुखेन भवतापहृतं गृहेषु [भा।पु। १०.२९.३४] इत्य्-आदि । स्पष्टम् ।

॥ १०.२९ ॥ श्री-गोप्यः ॥ ३१८ ॥

[३१९]

ग्रीवा-रेचक-संयुक्तो भ्रू-नेत्रादि-विकाश-कृत् ।
भावाद् ईषत्-प्रकाशो यः स हाव इति कथ्यते ॥ [उ।नी। ११.९] इति ।

स यथा श्री-लक्ष्मणा-स्वयंवरे—

उन्नीय वक्त्रम् उरु-कुन्तल-कुण्डल-त्विड्-
गण्ड-स्थलं शिशिर-हास-कटाक्ष-मोक्षैः ।
राज्ञो निरीक्ष्य परितः शनकैर् मुरारेर्
अंसेऽनुरक्त-हृदया निदधे स्व-मालाम् ॥ [भा।पु। १०.८३.२९] इति ।

॥ १०.८३ ॥ सैव ॥ ३१९ ॥

[३२०]

एवं—हाव एव भवेद् धेला व्यक्त-शृङ्गार-सूचकः [उ।नी। ११.११] इति लक्षणानुसारेण हेलाप्य् उदाहार्या ।

सा शोभा रूप-भोगाद्यैर् यत् स्याद् अङ्ग-विभूषणम् [उ।नी। ११.१३] । सा यथा—

तासाम् अतिविहारेण [भा।पु। १०.३३.२१] इत्य्-आदि, गोप्यः स्फुरत्-पुरट-कुण्डल-कुन्तल-त्विड्-गण्ड-श्रिया सुधित-हास-निरीक्षणेन्अ [भा।पु। १०.३३.२२]

[३२१]

माधुर्यं नाम चेष्टानां सर्वावस्थासु चारुता [उ।नी। ११.१९] । तद् यथा—

काचिद् रास-परिश्रान्ता पार्श्वस्थस्य गदा-भृतः ।
जग्राह बाहुना स्कन्धं श्लथद्-वलय-मल्लिका ॥ [भा।पु। १०.३३.११]

स्पष्टम् ॥

॥ १०.३३ ॥ श्री-शुकः ॥ ३२१ ॥

[३२२]

निःशङ्कत्वं प्रयोगेषु बुधैर् उक्ता प्रगल्भता ॥ [उ।नी। ११.२१]

सा च—

तत्रैकांस-गतं बाहुम्**** [भा।पु। १०.३३.१२] इत्य्-आदौ दर्शिता ।

औदार्यं विनयं प्राहुः सर्वावस्था-गतं बुधाः । [उ।नी। ११.१५]

तद् यथा— हा नाथ रमण प्रेष्ठ [भा।पु। १०.३०.४०] इत्य्-आदि । स्पष्टम् ॥

॥ १०.४७ ॥ स्वयम् एव श्री-राधा ॥ ३२२ ॥

[३२३]

तथा, अपि बत मधु-पुर्याम् [भा।पु। १०.४७.२१] इत्य्-आदौ ज्ञेयम् ।

स्थिरा चित्तोन्नतिर् या तु तद् धैर्यम् इति कीर्त्यते ॥ [उ।नी। ११.१५]

तद् यथा–मृगयुर् इव कपीन्द्रम् [भा।पु। १०.४७.१७] इत्य्-आदौ, दुस्त्यजस् तत्-कथार्थः इति । स्पष्टम् ।

॥ १०.४७ ॥ सैव ॥ ३२३ ॥

[३२४]

एवं—

शोभैव कान्तिर् आख्याता मन्मथाप्यायनोज्ज्वला ॥ [उ।नी। ११.१५]
कान्तिर् एव वयो-भोग-देश-काल-गुणादिभिः ।
उद्दीपितातिविस्तारं प्राप्ता चेद् दीप्तिर् उच्यते ॥ [उ।नी। ११.१७]

इत्य् अनुसारेण कान्ति-दीप्ती अप्य् उदाहार्ये ।

प्रियानुकरणं लीला रम्यैर् वेश-क्रियादिभिः । [उ।नी। ११.२८] तस्यां वेश-क्रियया तच्-चेष्टानुकरणं यथा—

अन्तर्हिते भगवति [भा।पु। १०.३०.१] इत्य्-आद्य् अनन्तरम् गत्यानुराग-स्मित- [भा।पु। १०.३०.२] इत्य्-आदि ॥

[३२५]

तास् ताः बाहु-प्रसारा [भा।पु। १०.२९.४६] इत्य्-आदिनोक्तास् तदीय-लीला इत्य् अर्थः । पश्चाद् आवेशेन रूपं तद्-अभेद-भावना-रूपम्–गति-स्मित-प्रेक्षण-भाषणादिषु [भा।पु। १०.३०.३] इत्य्-आदि ।

एवं स्व-विलास-रूपां लीलाम् उद्भाव्यापि तासां निजो भावो निगूढं तिष्ठत्य् एव, यथा वक्ष्यते यतन्त्य् उन्निदधेऽबरम्**** [भा।पु। १०.३०.२०] इत्य् अत्र यतन्तीति ।

अथैतद् अग्रेऽपि काल-क्षेपार्थं या लीला याभिर् गातुं प्रवर्तिताः प्रेमावेशेन, ता लीला एव तास्व् आविष्ठा इति तत्-तद्-अनुकरण-विशेषे हेतुर् ज्ञेयः । एतद्-अनुकरणं च प्रायो न लीला-शब्द-वाच्यम् । बाल्यादि-रूपस्यानालम्बनत्वेनोज्ज्वल-रसाङ्गत्वाभावात् । तत्र पूतनादीनां प्रीति-मात्र-विरोधि-भावानाम् अपि तथा श्री-कृष्ण-जनन्य्-आदीनां निज-प्रीति-विशेष-विरोधि-भावानाम् अपि चेष्टानुकरणं श्री-कृष्णानुकर्त्रीणां गोपिकानां सखीभिस् तासां विरह-काल-क्षेपाय तत्-तद्-भाव-पोषार्थं कृत्रिमतयिवाङ्गीकृतं, न तु तत्-तद्-भावेनेति समाधेयम् । केचिच् चैवं व्याचक्षते, पूतना-वध-लीला-स्मरणावेशे सति कासाञ्चित् पूतनानुकरणम् अपि श्री-कृष्णानिष्ठा-शङ्कया भयेनैव भवति । यथा लोकेऽपि आत्म-निष्ठा-शङ्कया भयोन्मत्तस्य तद्-भय-हेतु-व्याघ्राद्य्-अनुकरणं भवति । ततस् तद्-अनुकरणेऽपि आत्मनीव श्री-कृष्णे प्रीतिर् एवोल्लसति न तु द्वेषः । सा प्रीतिर् यथात्मनि तद्-रूपतयैव तिष्ठति तथैव तासां श्री-कृष्णेऽपि स्वभावोचितैवानुवर्तते ।

ततः बद्धान्यया स्रजा काचिद् [भा।पु। १०.३०.२३] इत्य्-आदौ श्री-यशोदानुकरणं च तथैव मन्तव्यम् । पूर्वं हि दामोदर-लीला-स्मरणावेशेन तस्याः श्री-कृष्ण-भावः । ततश् च वक्त्रं निनाय भय-भावनया स्थित्स्य [भा।पु। १.८.३१] इत्य्-उक्त-रीत्या श्री-यशोदातो भयम् अपि जातम् । बाल्य-स्वभावानुस्मरणेन तद्-अनुकरणं च । ततश् च सैव स्वयम् अन्यां काञ्ची-तल्-लीलावेशेनैव कृष्णायमानां च बबन्ध । तथापि पूर्ववत् स्वभावोचितैव प्रीतिस् तस्याम् अन्तर्वर्तत एव । सा हि प्रीतिस् तत्-तद्-भावस्य परमाश्रय-रूपा । ततो बहिर् एव तत्-तद्-अनुकरणात् श्री-यशोदा-भावस्य च मध्ये श्री-कृष्ण-भाव-व्यवधानेन निज-भावास्पर्शान् न विरोध इति ।

॥ १०.३० ॥ श्री-शुकः ॥ ३२५ ॥

[३२६]

गति-स्थानासनादीनां मुख-नेत्रादि-कर्मणाम् ।
तात्कालिकं तु वैशिष्ट्यं विलासः प्रिय-सङ्गजम् ॥ [उ।नी। ११.३१]

स यथा—

तं विलोक्यागतं प्रेष्ठं
प्रीत्य्-उत्फुल्ल-दृशोऽबलाः [भा।पु। १०.३२.३] इति स्पष्टम् ।

॥ १०.३२ ॥ सः ॥ ३२६ ॥

[३२७]

गर्वाभिलाष-रुदित-स्मितासूया-भय-क्रुधाम् ।
सङ्करी-करणं हर्षाद् उच्यते किल-किञ्चितम् ॥ [उ।नी। ११.४४]

तद् यथा—तस्य तत् क्ष्वेलितं श्रुत्वा बालाः प्रेम-परिप्लुताः [भा।पु। १०.२२.१२] इत्य्-आदि, एवं ब्रुवति गोविन्दे [भा।पु। १०.२२.१३] इत्य्-आदि, मानयं भोः कृथा [भा।पु। १०.२२.१४] इत्य्-आदि, स्याम सुन्दर ते दास्यः [भा।पु। १०.२२.१५] इत्य्-आद्य् अन्तम् । स्पष्टम् ।

॥ १०.२२ ॥ सः ॥ ३२७ ॥

[३२८]

वल्लभ-प्राप्ति-वेलायां मदनावेश-सम्भ्रमात् ।
विभ्रमो हार-माल्यादि-भूषा-स्थान-विपर्ययः ॥ [उ।नी। ११.३९]

स यथा—व्यत्यस्त-वस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः [भा।पु। १०.२९.७] इति ।

अभीष्टेऽप्य् गर्व- मानाभ्यां बिब्बोकः स्याद् अनादरः [उ।नी। ११.५२] ।

स च एका भ्रू-कुटिम् आबध्य [भा।पु। १०.३२.६] इत्य्-आदाव् उदाहरिष्यते ।

विन्यास-भङ्गि-रङ्गानां भ्रू-विलास-मनोहराः ।
सुकुमारा भवेद् यत्र ललितं तद्-उदीरितम् । [उ।नी। ११.५६] ।

तच् च पूर्वत्रैव ज्ञेयम् ॥

॥ १०.३२ ॥ सः ॥ ३२८ ॥

[३२९]

कान्त-स्मरण-वार्तादौ हृदि तद्-भाव-भावतः ।
प्राकट्यम् अभिलाषस्य मोट्टायितम् उदीर्यते ॥ [उ।नी। ११.४७]

तच् च कृष्णं निरीक्ष्य वनितोत्सव [भा।पु। १०.२१.१२] इत्य्-आदाव् एव ज्ञेयम् ।

ह्री-मानेर्ष्यादिभिर् यत्र नोच्यते स्व-विवक्षितम् ।
व्यज्यते चेष्टयैवेदं विकृतं तद् विदुर् बुधाः ॥ [उ।नी। ११.५८]

तद् यथा—

परिधाय स्व-वासांसि प्रेष्ठ-सङ्गम-सज्जिताः ।
गृहीत-चित्ता नो चेलुस् तस्मिन् लज्जायितेक्षणाः ॥ [भा।पु। १०.२२.२३]

स्पष्टम् ।

॥ १०.२२ ॥ सः ॥ ३२९ ॥

[३३०]

आकल्प-कल्पनाल्पापि विच्छित्तिः कान्ति-पोष-कृत् ॥ [उ।नी। ११.३४]
स्तनाधरादि-ग्रहणे हृत्-प्रीताव् अपि सम्भ्रमात् ।
बहिः क्रोधो व्यथितवत् प्रोक्तं कुट्टमितं बुधैः ॥ [उ।नी। ११.४९]

एवम् इत्य् अनुसारेण विच्छित्ति-कुट्टुमिते अपि ज्ञेये ।

अथ वाचिकाः । तत्र चाटु-प्रियोक्तिर् आलापः [उ।नी। ११.८०] । स यथा—का स्त्र्य् अङ्ग ते कल-पदायत-मूर्च्छितेन [भा।पु। १०.२९.४०] इत्य्-आदि । स्पष्टम् ।

॥ १०.२९ ॥ श्री-गोप्यः ॥ ३३० ॥

[३३१]

विलापो दुःखजं वचः [उ।नी। ११.८३] । स यथा—परं सौख्यं हि नैराश्यं [भा।पु। १०.४७.४७] इत्य्-आदि । स्पष्टम् ।

॥ १०.४७ ॥ ताः ॥ ३३१ ॥

[३३२]

उक्ति-प्रत्युक्तिमद्-वाक्यं संलाप इति कीर्त्यते [उ।नी। ११.८५] । स यथा—स्वागतं वो महाभागाः [भा।पु। १०.२९.१८] इत्य्-आदिकं । व्यक्तं भवान् व्रज-भयार्ति-हरोऽभिजातः [भा।पु। १०.२९.४१] इत्य्-आद्य्-अन्तम् ।

अत्र श्री-कृष्ण-वाक्येषु प्रथमोऽर्थस् तासु वेण्व्-आदि-मोहितास्व् अपि वाम्यम् आचरन्तीषु सङ्ग-प्रार्थना-रूपः । द्वितीयस् तु परिहासाय तद्-भाव-परीक्षणाय च तद्-आगमन-कारण-स्व-सङ्ग-प्रत्याख्यान-रूपः । तथैव तासां वाक्येष्व् अपि तत्-प्रार्थना-प्रत्याख्यान-रूपः । अत एव पारस्परिक-समान-वैदग्धी-मयत्वाद् अतितरां रसः पुष्यते ।

स्वागतं [१०.२९.१८]83 इति उभयत्र समानम् एव । रजन्य् एषा [१०.२९.१९]84 । यदि कथञ्चिद् आगता एव तदाधुना तु रजन्या घोर-रूपादित्वात् व्रजं प्रति न यात, यातुं नार्हथ, किन्तु स्त्रीभिर् युष्माभिर् इह मम वीरस्य सन्निधाव् एव स्थेयं स्थातुं योग्यम् इति । सुमध्यमा इति पुनर् गमने खेदम् अपि दर्शितवान् ।

न च मत्-सन्निधाव् अवस्थाने बन्धुभ्यो भेतव्यम् इत्य् आह—मातरः [भा।पु। १०.२९.२०]85 इति । बन्धुभ्यः साध्वसं मा कृढ्वं यतस् ते मात्रादयो बन्धवो रात्राव् अस्मिन् अपश्यन्त एव विचिन्वन्ति । ततो नास्ति तेषाम् अत्रागमन-सम्भावनेति भावः । पुत्रा देवरं-मन्यादि-पुत्राः सपत्न्य्-आदि-पुत्रा वा ।

निजाराम-दर्शनया तासां भावम् उद्दीपयति—दृष्टं वनं [भा।पु। १०.२९.२१]86 इति ।

निगमयति—तद् यात [भा।पु। १०.२९.२२]87 इति । यस्माद् रजन्य् एषा घोर-रूपा [भा।पु। १०.२९.१९] इत्य्-आदिको हेतुः, तत् तस्माच् चिर-कालं व्याप्य घोषं मा यात । अचिरम् अधुनैव मा यातेति वा । ततस् तत्र गत्वा पतीन् युष्मत्-पतित्वेन कॢप्तान् तान् अपि मा शुश्रूषध्वम् । हे सतीः ! सत्यः ! परमोत्तमाः ! ये च वत्सादयस् ते च मा क्रन्दन्ति, ततस् तान् मा पाययत, तद्-अर्थं मा दुह्यत चेति ॥२२॥

यदि स्वयम् एव भवत्यो मद्-अनुरागेणैवागता न तत्र मत्-प्रार्थनापेक्षापि, तदा तद् अतीव युक्तम् आचरितम् इत्य् आह—अथवा [भा।पु। १०.२९.२३]88 इति । मम मयि । यदि जन्तु-मात्राण्य् एव मयि प्रीयन्ते तदा भवतीनां कामिनीनां कान्त-भावात्मक एव सः स्नेहो भवेद् इति भावः ।

ननु भर्तृ-शुश्रूषण-परित्यागे स्त्रीणां दोषस् तत्राह—भर्तुः शुश्रूषणं [भा।पु। १०.२९.२४]89 इति । अमायया यो भर्ता तस्यैव शुश्रूषणं परो धर्मः । तथा तद्-बन्धूनां च । युष्माकं तु अनुपभुक्तात्वेन लक्ष्यमाणानां दाम्पत्य-व्यवहाराभावात् केनापि माययैव तत् कल्पितम् इति लक्ष्यते । ततो न दोष इति भावः ।

अङ्गीकृत्यापि पतित्वं प्रकारान्तरेण तत्-सेवां स्मृति-वाक्य-द्वारापि परिहरति—दुःशीलः [भा।पु। १०.२९.२५]90 इति । अपातक्य् एव न हातव्यः । ते तु पातकिन एवेति सासूयो भावः ।

अपातकित्वाङ्गीकारम् आशङ्क्य छलेन स्मृति-वाक्यान्तरम् अन्यार्थतया व्यञ्जयन्न् अपि तत्-सेवां प्रत्याचष्टे—अस्वर्ग्यम् [भा।पु। १०.२९.२६]91 इति । उप समीपे पतिर् यस्याः, सा उपपतिः, तस्या भाव औपपत्यं पति-सामीप्यम् इत्य् अर्थः । तत् खल्व् अस्वर्ग्याद् इति ।

अथ मय्य् अपि जातो भावः क्लेशायैव भवतीत्य् आशङ्क्यापि मा पराङ्मुखीभवतेत्य् आह—श्रवणाद् [भा।पु। १०.२९.२७]92 इति । यथा श्रवणादिना मद्-भावो मद्-अप्राप्त्या दुःख-मयस् तथा सन्निकर्षेण मत्-प्राप्त्या न भवति । ततस् तस्माद् गृहान् गृह-सदृशान् कुञ्जान् प्रति यात प्रविशत । पर्युदासोऽत्र नञ् इति ।

तद् एवं श्री-कृष्ण-वाक्यस्य प्रार्थना-रूपोऽर्थो व्याख्यातः । अर्थान्तरं तु प्रसिद्धम् । तत्र पुत्रा इति स-परिहास-दोषोद्गारेणापि प्रत्याख्यानम् ।

अथ तादृश-कृष्ण-वाक्य-श्रवणानन्तरं तासाम् अवस्था-वर्णनम्—इति विप्रियम् आकर्ण्य [भा।पु। १०.२९.२८]93 इत्य्-आदिभिस् त्रिभिः । अर्थ-द्वितयस्यैव तर्केण तद्-अभिप्राय-निश्चयाभावाद् उत्कण्ठास्व्याभाव्येन प्रत्याख्यानस्यैव सुष्ठु स्फुरितत्वात् तद्-वाक्यस्य विप्रियत्वं तासां विषादादिकं च । तत्रोभयत्रापि चिन्ताया युक्तत्वात् मुख-नमनादि-चेष्टास्व् अपि न रस-भङ्गः । पदा भ्रू-लेखनं चात्र नायिकया स्वयम् अभियोगेऽप्य् उक्तम् अस्ति ।

अथ तासाम् अपि तद्-अनुरूपं वाक्यं मैवं [भा।पु। १०.२९.३१]94 इत्य्-आदि । मेति तत्-प्रार्थना-निराकरणे सर्व-विषयान् पति-पुत्रादीन् सन्त्यज्य यास् तव पाद-मूलं भक्तास् ता एव दुरवग्रहं निरर्गलं यथा स्यात् तथा भजस्व । पाद-मूलम् इति तासु निजोत्कर्ष-ख्यापनम् । अस्मान् पुनर् अतथाभूतान् आ सम्यग् दर्शन-प्रसङ्गादिष्व् अपि त्यज । तत्रान्यासां भजने स्वेषां त्यागे च सद्-आचारं दृष्टान्तयति देव इति । स हि त्यक्त-विषय-कर्मादितया स्वं भजतो मुमुक्षून् एव भजति नान्यान् इति ।

अथ शास्त्रार्थ-द्वारा तद्-उपदेशं निराकुर्वन्ति—यत् पत्य्-अपत्य [भा।पु। १०.२९.३२]95 इति । स्वधर्मः सुष्ठु अधर्मः । धर्म-विदेति सोपहासम् । उक्तं छलेन प्रतिपादितम् । भर्तुः शुश्रूषणम् इत्य्-आदाव् अन्यथा-योजनाभिप्रायात् । एतद् अधर्म-निराकरणोपदेश-वाक्यम् । तत्-पदे उपदेष्टरि ईशे स्वतन्त्राचारे त्वय्य् एवास्तु त्वम् एवाधर्मान् निवर्तस्व इत्य् अर्थः । ततो युष्माकं किम् इत्य् अत आहुः प्रेष्ठ इति । बन्धुर् आत्मा सुन्दर-स्वभावो भवान् प्राणि-मात्राणां किल प्रेष्ठः । ततस् तेनैव सर्वे वयः मङ्गलिनः स्यामेत्य् अर्थः ।

अथवा मद्-अभिस्नेहाद् [भा।पु। १०.२९.२३] इत्य्-आदिकं निराकुर्वन्ति—कुर्वन्ति हि [भा।पु। १०.२९.३३]96 इति । आर्तिं द्यन्ति छिन्दन्ति इति तादृशैः पत्यादिभिर् हेतु-भूतैः स्वे आत्मनि देहादौ नित्य-प्रिये सति याः कुशला भवन्ति ताः किं त्वयि रतिं कान्त-भावं कुर्वन्ति अपि तु नैवेत्य् अर्थः । तत् तस्मात् नोऽस्मभ्यं प्रसीद इमं दुराग्रहं त्यजेत्य् अर्थः । तत्र वरदेश्वरेति सोपलम्भं सम्बोधनम् । एष एव वरोऽस्मभ्यं दीयताम् इति बोधकम् ।

तद् एव व्यञ्जयन्ति—त्वयि चिराद् धृता अवस्थिता या आशा तृष्णा तां व्याप्य वयं मा स्म मा भवाम । तस्यां त्वन्-मनः-स्थितायां तृष्णायां वयम् उदासीना एव भवाम इत्य् अर्थः । ततस् तां छिन्द्या इति । अरविन्द-नेत्रेति । एतादृशेऽपि नेत्रे कौटिल्यं न युक्तम् इति भावः । मा स्मेत्य् अस्तेर् मा-योगे लङि रूपम् ।

आशायाः कर्मत्वं च गो-दोहम् अस्तीतिवत् । श्रवणाद् दर्शनाद् [भा।पु। १०.२९.२७] इत्य्-आदि-सूचितं निज-भाव-जन्मापलपन्ति—चित्तम् [भा।पु। १०.२९.३४] इति । नोऽस्माकं चित्तं सुख एव वर्तते न तु भवता तस्माद् अपहृतम् । यस्माग् गृहेषु निर्विशति । तत्र चिह्नं कराव् अपि गृह-कृत्यार्थं निर्विशत इति । यद् उक्तं सुमध्यमा इति तत्राहुः पादौ कथं तव पाद-मूलात् पदम् अपि न चलतः । ततः कथं व्रजं न यामः, अपि तु याम एवेत्य् अर्थः । यत् तूक्तं व्रजं प्रति न यात किं त्व् इहैव स्थीयताम् इति तत्राहुः करवाम किं वेति ।

अगृहान् प्रतियातेति सतृष्णं यद् उक्तं तत्राहुः—सिञ्च [भा।पु। १०.२९.३५] इति । अङ्ग, हे कामुक, नोऽस्माकं स्वाभाविकात् हासावलोकक-सहितात् कल-गीताज् जातो यस् तव हृच्-छयाग्निस् तं त्वद्-अधरामृत-पूरकेणैव सिञ्च । अस्मदीयस्य तस्य कथञ्चिद् अप्राप्यत्वाद् इति । अन्योऽपि रस-लुब्धो लोभ्य-वस्तुनोऽप्राप्तौ निजौष्ठम् एव लेढीति नर्म च व्यञ्जितम् ।

तत्र हेतुम् आह—नो [भा।पु। १०.२९.३५] इति । धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि [भा।पु। १०.४.१०] इत्य्-आदिवत् अत्र चेच्-छब्दोऽपि निश्चये । ततश् च यस्मात् निश्चितम् एव वयं ते तव विरहजाग्न्य्-उपयुक्त-देहा नो भवामः । ततो ध्याने विषयेऽपि तव पदयोः पदवीम् अपि न यामः न स्पृशामः । सखे इति सम्बोध्य प्राचीन-मिथो-बाल्य-क्रीडा-गत-सौहृद्य-प्रकटनेन निज-वचस आर्जवं प्रकटितवत्यः ।

ननु सख्येन बाल्य-क्रीडायाम् अपि स्पर्शादिकं जातम् एवास्ति तर्हि कथम् अहो इदानीम् उदासीनाः स्थ ? तत्राहुः—यर्हि [भा।पु। १०.२९.३६] इति । हे अम्बुजाक्ष अरण्य-जनाः पशु-पक्ष्य्-आदयस् तेषां प्रियस्य बाल्य-भावेन तैर् एव कृत-मैत्रस्य तव यर्हि यदा क्वचिद् अपि रमाया रमण्या दत्तावसरं पाद-तलं जातं, तद्-अनुगताव् उन्मुखं बभूवेत्य् अर्थः । तत्-प्रभृत्य् एव वयं तद् अपि नास्प्राक्ष्म न स्पृष्टवत्यः । किम् उतान्यद् अङ्गम् । तद् एवं निज-दाढ्येनैव पूर्वं त्वयाभिरमिताः कारित-बाल्य-क्रीडा अपि वयम् अधुना अञ्जसः अनायासेन अन्येषां गुरु-जनादीनां समक्षं स्थातुं पारयामः । बतेति शङ्कायाम् । अन्यथा तैर् अपि त्यज्येमहीति भावः ।

अथ प्रीयन्ते मयि जन्तवः [भा।पु। १०.२९.२३] इत्य् अत्र कामिन्यो यूयं कान्त-भावात्मकम् एव स्नेहं कर्तुम् अर्हथेति यद् अभिप्रेतं तत्र लक्ष्म्य्-आदि-रूपम् उदाहरणम् आशङ्क्य परिहरन्ति—श्रीर् [भा।पु। १०.२९.३७] इति । श्रीर् अपि वक्षसि तथा प्रसिद्धेः श्री-विष्णोर् उरसि पदं लब्ध्वापि यस्य तव श्री-गोकुल-वृन्दावन-स्थितं पदाम्बुज-रजस् तुलस्या वृन्दया सह चकमे । त्वज्-जन्मत आरभ्य नन्दस्य व्रजो रमाक्रीडो बभूवेति तुलसी-लक्षण-रूपान्तरा वृन्दा-देवी वृन्दावने नित्य-वासम् अकरोद् इति च मुनि-जन-प्रसिद्धेः । कथम्भूतम् अपि रजश् चकमे। भृत्यैर् व्रज-सम्बन्धिभिर् जुष्टं शिरो-धारणादिनोपभुक्तम् अपि । सा तु कीदृङ्-महिमापि । यस्याः स्व-विषयक-कृपा-वीक्षणे उत अपि । अन्य-सुराणां तत्-पार्षदादीनाम् अपि प्रयासस् तादृश-महिमापि । वयं चेति च-शब्दः काकु-सूचकस्यापि-शब्दस्य समानार्थः । ततो यथा श्रीर् यथा च वृन्दा तद्वद् वयम् अपि मुघ्दाः सत्यः तस्य तव पाद-रजः प्रपन्नाः अपि तु नैवेत्य् अर्थः ।

प्राक्तनं वाक्यं निगमयन्ति तन् नः [भा।पु। १०.२९.३८] इति । वृजिनार्दनेति कर्मण्य् अन् एव । हे सर्व-दुःख-निवारक, ततस् तस्मात् नोऽस्मान् प्रति प्रसीद इमां दुर्दृष्टिं त्यजेत्य् अर्थः । ननु यूयम् अपि गृहादि-त्यागेनात्रागत्य तद्वद् एव मत्-पाद-रजः प्रपन्नाः तत्राहुः न तेऽङ्घ्रि-मूलम् इति । तद्वद् असतोर् विसृज्य त्वद्-उपासनाशाः सत्यस् तवाङ्घ्रि-मूलं न प्राप्ता अपि तु कौतुकेनैव ज्योत्स्नायां वृन्दावन-दर्शनार्थम् आगता इत्य् अर्थः । अतस् त्वदीय-तादृश-निरीक्षण-जात-तीव्र-कामेन तप्तात्मानो यास् तासाम् एव दास्यं देहि न तु मादृशीनाम् । अत्र षष्ठी चात्यन्त-दानाभावे सम्प्रदानत्वं न भवतीति विवक्षया । अतस् तद् अपि दानं गोकुलेऽस्मिन् नातिस्थिरीभविष्यतीति भावः ।

पुरुष-भूषणेति सम्बोधनं च श्लिष्टम् । पुरुषान् गोकुल-गतान् सखि-जनान् एव भूषयति न त्व् अद्यापि गोकुल-रमणीं काञ्चिद् अपि । अतस् तादृश-तप्तात्मानोऽपि नायिकाः कल्पना-मात्र-मय्य इति भावः । अत्र भावान्तरेणागति-सूचनात् दृष्टं वनं कुसुमितम् [भा।पु। १०.२९.२१] इत्य् अनेन तद्-भावोद्दीपनम् अपि नादृतम् ।

अथ श्रवणाद् [भा।पु। १०.२९.२७] इत्य्-आदौ, दर्शनान् मयि भावः इत्य् अनेन यन्-निज-सौन्दर्य-बलं दर्शितं तत्राहुः वीक्ष्य [भा।पु। १०.२९.३९] इति । अत्राप्य् अन्त्यश् च-शब्दः काक्वा, पूर्वस् तु तत्-तद्-उक्त-समुच्चये । एतद् अपि एतच् चापि विलोक्य दास्यो भवाम, अपि तु न सर्वथैव इत्य् अर्थः ।

ननु यद्य् एवं दृढ-व्रता भवत तर्हि कथम् इहैव सर्वां रात्रिं न तिष्ठथेत्य् आशङ्क्य पुनः स-शङ्कम् आहुः का स्त्र्य् अङ्ग ते [भा।पु। १०.२९.४०] इति । यद्यप्य् एव तथापि अङ्ग हे कल-पदायत-वेणु-गीत, हे सम्मोहित सम्मोहनाख्य-काम-बाण-मोहित, त्रिलोक्याम् एषा का स्त्री या ते त्वत्तः सकाशात् आर्य-चरितात् सद्-आचाराद् धेतोर् अपि न चलेत् । अस्त्व् अस्माकं परम-साधु-मर्यादा-व्रतानां दूरतो वार्ता ।

तद् एवं ततश् चलने हेतुं सम्बोधन-द्वयेन गुण-गतं भाव-गतं च तदीयं दोषम् उक्त्वा रूप-गतं चाहुः–त्रैलोक्य- इति । तथा आर्य-चरिताद् एव हेतोर् इदं च रूपं विलोक्य का न चलेत्, यत् यस्मात् गो-द्विज इति । सुन्दरीणां सुन्दर-पर-पुरुष-निकट-स्थितिर् हि बाढं लोक-विगानाय स्याद् इति ।

रजन्य् एषा [भा।पु। १०.२९.१९] इत्य्-आदौ इह वीरस्य मम सन्निधौ स्थेयम् इत्य् अत्र बलाकारम् अप्य् आशङ्क्य स-स्तुतिकम् इव प्रार्थयन्ते—व्यक्तं भवान् [भा।पु। १०.२९.४१] इति । यस्माद् ईदृशो जातस् तस्मात् हे आर्त-बन्धो धर्म-च्युति-भयतोऽपि व्रज-जनांस् त्रायमाण, किङ्करीणां गृह-दासीनाम् अपि भवद्-दर्शन-जातकाम् अतप्तेष्व् अपि स्तनेषु कर-पङ्कजं नो निधेहि नार्पय । अस्तु तावत् स्तनानां वार्ता तासां शिरःसु च मा निधेहि । तद् एवं सति मादृशीनां तु सत्-कुल-जातानां परम-सतीनां तत्-तद्-वार्तां मनसापि न निधेहीति भावः ।

तद् एवं श्री-कृष्ण-प्रार्थना-प्रत्याख्यान-रूपोऽर्थो व्याख्यातः । स्वयं-दूत्य-विशेषेण प्रार्थना-रूपो व्यङ्ग्योऽर्थश् च प्रायः प्रसिद्ध एव । तत्र धर्म-शास्त्रोपदेश-बलेन यत् पत्य्-आदीनाम् अनुवृत्तेर् नित्यत्वं श्री-भगवता स्थापितं, ज्ञान-शास्त्रम् आलम्ब्य तन् निराकर्तुं प्रतिभाव-चलनेनैव तस्य परमात्म-तत्त्वं कल्पयन्त्यः सर्वोपदेशानां तद्-अनुगताव् एव तात्पर्यं स्थापयन्ति—यत्-पत्य्-अपत्य- [भा।पु। १०.२९.३२] इति । एतत् स्वधर्मोपदेश-वाक्यं सर्वोपदेश-वाक्यानां तात्पर्यास्पदे त्वय्य् एवास्तु । त्वद्-भजन एव पर्यवस्यत्व् इत्य् अर्थः । कथम् अहं तद्-आस्पदम् ? तत्राहुः—त्वम् आत्मा परमात्मेति । ततः तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति [बृ।आ।उ। ४.४.२२] इत्य्-आदि-शास्त्र-बलेन त्वम् एव तद्-आस्पदम् इत्य् अर्थः ।

अथ मम परमात्मत्वम् अपि कुतः ? तत्र स-प्रतिभम् आहुः–किल प्रसिद्धौ तनु-भृतां प्रेष्ठः निरुपाधि-प्रेमास्पदं, बन्धुर् निरुपाधि-हित-कारी च भवान् इति । तच् च द्वयं परमात्म-लक्षणत्वेन आत्मनस् तु कामाय सर्वं प्रियं भवति [बृ।आ।उ। २.४.५] इत्य्-आदि-ज्ञान-शास्त्रे प्रसिद्धम् । तस्मात् त्वम् एव परमात्मेति सिद्धम् । तस्मात् त्वद्-उपासनोन्मुखानाम् अस्माकं ब्राह्मणो निर्वेदम् आयात्, नास्त्य् अकृतः कृतेन [मु।उ। १.२.१२] इति बलवत्तर-ज्ञान-शास्त्रोपदेशेन स्वधर्म-परित्यागेऽपि न दोष इति भावः । तासां तद्-ऐश्वर्य-ज्ञानं च तन्-माधुर्यानुभवातिशयेनोदेतुं न शक्नोतीति पूर्वम् एव दर्शितम् ।

तत्र च विशेषतः सद्-आचारं प्रमाणयन्ति–कुर्वन्ति हि [भा।पु। १०.२९.३३] इति । कुशलाः सारासार-विद्वंसः सन्तः । हि प्रसिद्धौ । विशेषत इत्य् अर्थः । स्व आत्मनि परमात्मनीति पूर्वाभिप्रायेण । स्वे आत्मनि अन्तःकरणे नित्य-प्रियत्वेनानुभूयमानो यस् त्वं तस्मिंस् त्वयीत्य् अर्थः । इत्य् अभिप्रायेण वा । यस्मात् ते चैवम्भूते त्वय्य् एव रतिं कुर्वन्ति न तु धर्मादौ तद्-धेतौ गृहादौ वा । तस्माद् अस्माकं पत्य्-आदिभिः किम्?

यर्ह्य् अम्बुजाक्ष [भा।पु। १०.२९.३६] इत्य्-आदिषु रमादि-शब्दाः श्रीर् यत्-पदाम्बुज- [भा।पु। १०.२९.३७] इत्य्-आदिवद् एव व्याख्येयाः । इति वाचिकानुभावेषु संलाप-व्याख्या ।

॥ १०.२९ ॥ श्री-शुकः ॥ ३३२ ॥

[३३३]

सन्देशस् तु प्रोषितस्य स्व-वार्ता-प्रेषणं भवेत् [उ।नी। ११.९३] । स यथा—

हे नाथ हे रमा-नाथ
व्रज-नाथार्ति-नाशन ।
मग्नम् उद्धर गोविन्द
गोकुलं वृजिनार्णवात् ॥ [भा।पु। १०.४७.५२]

[३३४]

अन्यार्थ-कथनं यत् तु सोऽपदेश इतीरितः [उ।नी। ११.९७] । स यथा—निःस्वं त्यजन्ति गणिकाः [भा।पु। १०.४७.७-८] इत्य्-आदि जारा भुक्ता रतां स्त्रियम् इत्य् अन्तम् । स्पष्टम् ।

॥ १०.४७ ॥ श्री-गोप्य उद्धवम् ॥ ३३४ ॥

[३३५]

यत् तु शिक्षार्थ-वचनम् उपदेशः स उच्यते [उ।नी। ११.९९] । स यथा बलदेवागमने—

किं नस् तत्-कथया गोप्यः
कथाः कथयतापराः ।
यात्य् अस्माभिर् विना कालो
यदि तस्य तथैव नः ॥ [भा।पु। १०.६५.१४]

स्पष्टम् ।

॥ १०.६५ ॥ ताः ॥ ३३५ ॥

[३३६]

व्याजेनात्माभिलाषोक्तिर् व्यपदेश इतीर्यते [उ।नी। ११.१०३] । स यथा——कृष्णं निरीक्ष्य [भा।पु। १०.२१.१२] इत्य्-आदौ, देव्यो विमान-गतयः स्मर-नुन्न-साराः इत्य्-आदि । स्पष्टम् ।

॥ १०.२१ ॥ ताः ॥ ३३६ ॥

[३३७]

एवं प्रलापानुलापापलापादिदेश-निर्देशा अपि पञ्च वाचिकेषु ज्ञेयाः । इत्य् अनुभावाः ।

अथ व्यभिचारिणः ।

अथ व्यभिचारिणः । अत्र निर्वेदः स्वावमाने स्यात् चरण-रज उपास्ते यस्य भूतिर् वयं का [भा।पु। १०.४७.१५] इति । स्पष्टम् ।

॥ १०.४७ ॥ ताः ॥ ३३७ ॥

[३३८]

अनुतापो विषादकः—अक्षण्वतां फलम् [भा।पु। १०.२१.७] इत्य्-आदौ दृश्यः । दैन्यम् और्जित्य-राहित्ये तन् नः प्रसीद वृजिनार्दन [भा।पु। १०.२९.३८] इत्य्-आदि । स्पष्टम् ।

॥ १०.२१ ॥ ताः ॥ ३३८ ॥

[३३९]

ग्लानिर् निष्प्राणता मता [भ।र।सि। २.४.२६] काचिद् रास-परिश्रान्ता [भा।पु। १०.३३.१०] इत्य्-आदौ दर्शिता ।

खेदात्मा श्रमः, तासां रति-विहारेण [भा।पु। १०.३३.२०] इत्य्-आदि ।

[३४०]

उल्लासे विवेक-शमने मदः—तद्-अङ्ग-सङ्ग-प्रमुदाकुलेन्द्रियाः [भा।पु। १०.३३.१८] इत्य्-आदि । स्पष्टम् ।

॥ १०.३३ ॥ श्री-शुकः ॥ ३४० ॥

[३४१]

अन्यस्य हेलने गर्वः । तस्याः स्युर् अच्युत नृपा भवतोपदिष्टाः [भा।पु। १०.६०.४४] इत्य्-आदि । स्पष्टम् ।

॥ १०.६० ॥ श्री-रुक्मिणी ॥ ३४१ ॥

[३४२]

शङ्का स्वानिष्ठ-तर्किते । अपि मय्य् अनवद्यात्मा दृष्ट्वा किञ्चिज् जुगुप्सितम् [भा।पु। १०.५३.२४] इत्य्-आदि । स्पष्टम् ।

॥ १०.५३ ॥ सा ॥ ३४२ ॥

[३४३]

त्रासो भिया मनः-क्षोभे—क्रोशन्तं कृष्ण रामेति विलोक्य स्व-परिग्रहम् [भा।पु। १०.३४.२७] इति । स्पष्टम् ।

॥ १०.३४ ॥ श्री-शुकः ॥ ३४३ ॥

[३४४]

आवेगश् चित्त-सम्भ्रमे—दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः [भा।पु। १०.२९.५] इत्य्-आदि । स्पष्टम् ।

॥ १०.२९ ॥ सः ॥ ३४४ ॥

[३४५]

उन्मादो हृदय-भ्रान्तौ—गायन्त्य उच्चैर् अमुम् एव संहता [भा।पु। १०.३०.४] इत्य्-आदि । स्पष्टम् ।

॥ १०.३० ॥ सः ॥ ३४५ ॥

[३४६]

अपस्मारो मनो-लये—

मयि ताः प्रेयसां प्रेष्ठे
दूर-स्थे गोकुल-स्त्रियः ।
स्मरन्त्योऽङ्ग विमुह्यन्ति
विरहौत्कण्ठ्य-विह्वलाः ॥ [भा।पु। १०.४६.५]

[३४७]

व्याधिस् तत्-प्रभवे भावे—धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन [भा।पु। १०.४६.६] इति । स्पष्टम् ।

॥ १०.४६ ॥ श्री-भगवान् उद्धवम् ॥ ३४६-३४७ ॥

[३४८]

मोहो हृन्-मूढतात्मनि । निज-पदाब्ज-दलैः [भा।पु। १०.३५.१७] इत्य्-आदौ, कुज-गतिं गमिता इत्य्-आदि । स्पष्टम् ।

॥ १०.३५ ॥ श्री-गोप्यः ॥ ३४८ ॥

[३४९]

प्राण-त्यागे मृतिः सास्मिन्न् असिद्ध-वपुषां रतौ । अन्तर्-गृह-गताः काश्चित् [भा।पु। १०.२९.९] इत्य्-आदौ श्री-कृष्ण-सन्दर्भे व्याख्याता ।

अन्यत्र कृष्ण-कृत्येभ्यो बलिनः क्लेश-शङ्कया ।
आलस्यम् अचिकीर्षायां कृत्रिमं तेषु चोज्ज्वले ॥

तत्र कृष्ण-कृत्येभ्योऽन्यत्र तद् यथा—तद्-अङ्ग-सङ्ग इत्य्-आदौ

॥।केशान् दुकूलं कुच-पट्टिकां वा ।
नाञ्जः तु प्रतिव्योढुम् अलं व्रज-स्त्रियः [भा।पु। १०.३३.१७] इति ।

॥ १०.३३ ॥ श्री-शुकः ॥ ३४९ ॥

[३५०]

अथोज्ज्वले कृष्ण-सहित-विहार-कृत्येषु च कृत्रिमं तद् यथा—न पारयेऽहं चलितुम् [भा।पु। १०.३०.३७] इत्य्-आदि । स्पष्टम् ।

॥ १०.३० ॥ श्री-राधा ॥ ३५० ॥

[३५१]

जाड्यम् अप्रतिपत्तौ स्यात्—-

तम् आगतं समाज्ञाय वैदर्भी हृष्ट-मानसा ।
न पश्यन्ती ब्राह्मणाय प्रियम् अन्यन् ननाम सा ॥ [भा।पु। १०.५३.३१]

स्पष्टम् ।

॥ १०.५३ ॥ श्री-शुकः ॥ ३५१ ॥

[३५२]

व्रीडेत्य् आहु अधृष्टताम् ।

पत्युर् बलं शरासारैश् छन्नं वीक्ष्य सुमध्यमा ।
स-व्रीडम् ऐक्षत् तद्-वक्त्रं भय-विह्वल-लोचना ॥ [भा।पु। १०.५४.४]

इदं भाव-साङ्कार्येऽप्य् उदाहार्यम् ।

॥ १०.५४ ॥ सः ॥ ३५२ ॥

[३५३]

अवहित्ताकार-गुप्तौ । सभाजयित्वा तम् अनङ्ग-दीपनम् [भा।पु। १०.३२.१५] इत्य्-आदि । अत्र सभाजनादिना कोपाच्छादनम् ।

॥ १०.३२ ॥ सः ॥ ३५३ ॥

[३५४]

स्मृतिः प्राग्-ज्ञात-चिन्तने—

ताः किं निशाः स्मरति यासु तदा प्रियाभिर्
वृन्दावने कुमुद-कुन्द-शशाङ्क-रम्ये । [भा।पु। १०.४७.४३] इत्य्-आदौ दर्शिता ।

ऊहा वितर्क इत्य् उक्तः न लक्ष्यन्ते पदान्य् अत्र [भा।पु। १०.३०.३१] इत्य्-आदि ।

॥ १०.३० ॥ श्री-गोप्यः ॥ ३५४ ॥

[३५५]

ध्यानं चिन्तेति भण्यते—कृत्वा मुखान्य् अवशुचः [भा।पु। १०.२९.२९] इत्य्-आदि ।

स्पष्टम् ॥ १०.२९ ॥ श्री-शुकः ॥ ३५५ ॥

[३५६]

मतिः स्याद् अर्थ-निर्धारे—

त्वं न्यस्त-दण्ड-मुनिभिर् गदितानुभाव
आत्मात्म-दश् च जगताम् इति मे वृतोऽसि । [भा।पु। १०.६०.३९] इति । स्पष्टम् ।

॥ १०.६० ॥ श्री-रुक्मिणी ॥ ३५६ ॥

[३५७]

औत्सुक्यं समयाक्षमा—निशम्य गीतं तद्-अनङ्ग-वर्धनम् [भा।पु। १०.२९.४] इत्य्-आदि । स्पष्टम् ।

॥ १०.२९ ॥ श्री-शुकः ॥ ३५७ ॥

[३५८]

औग्र्यं चान्त्ये कृत्रिमं क्वापि । यथा क्रूरस् त्वम् अक्रूरः [भा।पु। १०.३९.२१] इत्य्-आदौ । तच् च क्वापि कृत्रिमं, यथा देहि वासांसि धर्मज्ञ नो चेद् राज्ञे ब्रुवामहे [भा।पु। १०.२२.१५] इति । स्पष्टम् ।

॥ १०.२२ ॥ श्री-व्रज-कुमार्यः ॥ ३५८ ॥

[३५९]

अमर्षस् त्व् असहिष्णुता । पति-सुतान्वय- [भा।पु। १०.३१.१६] इत्य्-आदौ, कितव योषितः कस् त्यजेन् निशि ॥ इति । स्पष्टम् ।

॥ १०.३१ ॥ श्री-गोप्यः ॥ ३५९ ॥

[३६०]

असूया अन्योदय-द्वेषे—तस्या अमूनि नः क्षोभम् [भा।पु। १०.३०.३०] इत्य्-आदौ ।

चापल्यं चित्त-लाघवे—श्वो भाविनि त्वम् अजितोद्वहने [भा।पु। १०.५२.४१] इत्य्-आदौ, मां राक्षसेन विधिनोद्वह वीर्य-शुल्काम् इति । स्पष्टम् ।

॥ १०.५२ ॥ श्री-रुक्मिणी ॥ ३६० ॥

[३६१]

चेतो-निमीलने निद्रा

एवं चिन्तयती बाला गोविन्द-हृत-मानसा ।
न्यमीलयत कालज्ञा नेत्रे चाश्रु-कलाकुले ॥ [भा।पु। १०.५३.२६]

स्वप्नः सुप्तिर् इतीर्यते । एष च ऊषा-दृष्टान्तेनानुमेयः ।

[३६२]

बोधो निद्रादि-विच्छेद इति त्रिंशत्-त्रयाधिकाः—न्यमीलयत कालज्ञा नेत्रे इत्य् अनन्तरम् ।

एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप ।
वाम ऊरुर् भुजो नेत्रम् अस्फुरन् प्रिय-भाषिणः ॥ [भा।पु। १०.५३.२७]

तेन स्फुरणेन जजागारेत्य् अर्थः ।

॥ १०.५३ ॥ श्री-शुकः ॥ ३६१-३६२ ॥

[३६३]

अथ कान्ता-भावः स्थायी । तस्य च हेतु-द्वयम् । श्री-कृष्ण-स्वभावो वामा-विशेष-स्वभावश् चेति। प्रथमो, यथा—कान्यं श्रयीत तव पाद-सरोज-गन्धम् आघ्राय [भा।पु। १०.६०.४२] इत्य्-आदिषु ।

[३६४]

उत्तरो, यथा—

नैवालीकम् अहं मन्ये वचस् ते मधुसूदन ।
अम्बाया एव हि प्रायः कन्यायाः स्याद् रतिः क्वचित् ॥
व्यूढायाश् चापि पुंश्चल्या मनोऽभ्येति नवं नवम् ।
बुधोऽसतीं न बिभृयात् तां बिभ्रद् उभय-च्युतः ॥ [भा। १०.६०.४७-४८] इति ।

यद् भवतोक्तं अथात्मनोऽनुरूपम् [भा।पु। १०.६०.१७] इत्य्-आदिकं तत् तव वाक्यं स्त्री-जातौ प्रायो नानृतं मन्ये । यत अम्बाया यथा क्वचिद् एकत्र साल्व एव रतिर् जाता तथान्यस्याः कन्याया एकत्र रतिः प्रायः एव स्यात् । न तु नियमेन । किं च व्यूढाया अपि इति । यद् वा कन्याया अपि क्वचिद् एकत्र रतिः स्यात् । प्राय इति साध्व्या एवेत्य् अर्थः । तत्र दृष्टान्तः—अम्बाया इवेति । पुंश्चल्यास् तु व्यूढाया अपि मनो अवं नवम् अभ्येति । तस्मात् परम-पुण्य-शीलाया एव त्वयि स्वभावतो रतिर् भवेद् इति भावः ।

॥ १०.६० ॥ श्री-रुक्मिणी ॥ ३६४ ॥

[३६५]

एष च स्थायी साक्षाद्-उपभोगात्मकस् तद्-अनुमोदनात्मकश् चेति द्विविधः । पूर्वः साक्षान् नायिकानाम्, उत्तरः सखीनाम् । उभय-व्यपदेशानाम् उभाव् अपि । तत्रोपभोगात्मकः स सामान्यतो यथा—कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलम् [भा।पु। १०.२१.१२] इति । स्पष्टम् ।

॥ १०.२१ ॥ श्री-गोप्यः ॥ ३६५ ॥

[३६६]

स एव पुनः सम्भोगेच्छा-निदानः सैरिन्ध्र्य्-आदौ, यथा सहोष्यताम् इह प्रेष्ठ [भा।पु। १०.४८.९] इत्य्-आदि । स्पष्टम् ।

॥ १०.४८ ॥ सैव ॥ ३६६ ॥

[३६७]

क्वचिद् भेदित-सम्भोगेच्छः पट्ट-महिषीषु, यथा—स्मायावलोक-लव-दर्शित- [भा।पु। १०.६१.४] इत्य्-आदिषु । स्वरूपाभिन्न-सम्भोगेच्छः श्री-व्रज-देवीषु, यथा—यत् ते सुजात-चरणाम्बु-रुहं [भा।पु। १०.३१.१९] इत्य्-आदिषु । आसां चैष स्वाभाविक एव । अत एव स्व-परित्याग-जातेर्षया दोषं कल्पयित्वापि तत्-परित्यागासामर्थ्योक्तिः । यथा मृगयुर् इव कपीन्द्रम् इत्य्-आदौ, दुस्त्यजस् तत्-कथार्थः [भा।पु। १०.४७.१७] इति ।

एष चासु बहु-भेदो वर्तते । एकत्र भावे खलु मिथुनस्य मिथ आदर-विशेषः । तत्र प्रेयसीनां त्वदीयत्वाभिमानातिशयेन कान्तं प्रति पारतन्त्र्य-विनय-स्तुति-दाक्षिण्य-प्राचुर्यम् । अन्यत्र मदीयत्वातिशयः, यत्र परतन्त्र-कान्ततयान्तर्-मर्मज्ञता-नर्म-कौटिल्याभास-प्राचुर्यम् । एतद्-युगलस्य च भेदस्य बह्व्-अंश-स्वल्पांश-तत्-साङ्कर्य-भेदेनापरासु च बहु-विधम् इति ।

एते च भावा यथोक्ताः—

काचित् कराम्बुजं शौरेर् जगृहेऽञ्जलिना मुदा ।
काचिद् दधार तद्-बाहुम् अंसे चन्दन-रूषितम् ॥४
काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूल-चर्वितम् ।
एका तद्-अङ्घ्रि-कमलं सन्तप्ता स्तनयोर् अधात् ॥५
एका भ्रू-कुटिम् आबद्ध्य प्रेम-संरम्भ-विह्वला ।
घ्नतीवैक्षत् सन्दष्ट-दशन-च्छदा ॥६
अपरानिमिषद्-दृग्भ्यां जुषाणा तन्-मुखाम्बुजम् ।
आपीतम् अपि नातृप्यत् सन्तस् तच् चरणं यथा ॥७
तं काचिन् नेत्र-रन्ध्रेण हृदि-कृत्य निमील्य च ।
पुलकाङ्गुल्युपगुह्यास् ते योगीवानन्द-सम्प्लुता ॥८
सर्वास् ताः केशवालोकपरमोत्सवनिर्वृताः ।
जहुर् विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥९ [भा।पु। १०.३२.४-९]

अत्रादर-विशेष-मय-प्राग्-उक्त-भावा काचित् कराम्बुजम् [४] इत्य् अत्र प्रथमोक्ता । इयं च सर्वाग्र-स्थितत्वाद् आदौ वर्ण्यते । ततो ज्येष्ठा इति गम्यते । ततश् च सर्वादौ तयैव मिलनं कृष्णस्य । तथा तस्याम् एव श्री-कृष्णस्याप्य् आदरातिशयोऽवगम्यते । एवं तथा अञ्जलिना कर-ग्रहणात् तस्या अपि तस्मिन्न् आदरो व्यक्तः, तत्-पारतन्त्र्यादिकम् अपि । मध्य-स्थितत्वं चास्याः । ततः साध्व् एवेदं प्रथमोदाहरणम् ।

अथ मदीयत्वातिशयमय-द्वितीयोदाहरणम् । एका भ्रू-कुटिम् आबध्य [६] इत्य्-आदि । एषा खलु मध्यतो वर्णनया मध्य-स्थितेत्य् अवगम्यते । मध्य-स्थितत्वं चास्याः परम-दुर्लभतां व्यनक्ति । ततो भाव-विशेष-धारिता चास्या गम्यते । तस्य साक्षात्-प्रत्यायकं च मदीयत्वातिशयादि-बोधक-भ्रू-भङ्ग्य्-आदिकम् एवास्ति । इयं च श्री-राधैव ज्ञेया ।

ईदृश एव भावोऽस्याः कार्त्तिक-प्रसङ्गे व्रत-रत्नाकर-धृत-भविष्य-वचने दृश्यते—

तस्मिन् दिने च भगवान् रात्रौ राधा-गृहं ययौ ।
सा च क्रुद्धा तम् उदरे काञ्ची-दाम्ना बबन्ध ह ॥
कृष्णस् तु सर्वम् आवेद्य निज-गेह-महोत्सवम् ।
प्रियां प्रसादयामास ततः सा तम् अवोचयत् ॥ इति ।

ततः सिद्धे च तस्या भावस्य तादृशत्वे यथा राधा प्रिया इत्य्-आदि पाद्मादि-वचनानुसारेण अनयाराधितो नूनं [भा।पु। १०.३०.२८] इत्य्-आद्य्-अनुसारेण च तन्-माहात्म्यात् तादृश-भाव-माहात्म्यम् एव स्फुटम् उपलभ्यते । द्वारकायाम् एतद्-अनुगत-भावत्वेनैव श्री-सत्यभामापि सर्वतः प्रशस्ता । तत्र भाव-सादृश्यं सर्वतः प्रशस्तत्वं च यथा श्री-विष्णु-पुराणे—

यदि ते तद्-वचः सत्यं सत्यात्यर्थं प्रियेति मे ।
मद्-गेह-निस्फुटार्थाय तदायं नीयतां तरुः ॥ [वि।पु। ५.३०.३३] इति ।

पाद्म-कार्त्तिक-माहात्म्ये श्री-कृष्ण-वाक्यं च यथा—न मे त्वत्तः प्रियतमा इत्य्-आदि ।श्री-हरि-वंशे वैशम्पायन-वचनं च तन्-निर्धारकम्—सौभाग्ये चाधिकाभवद् इति ।

अथ या च पूर्व-भावोपलक्षिता सापि तद्-भाव-विरोधि-भावत्वेन तत्-प्रतिपक्ष-नायिका स्यात्। चन्द्रावल्य् एव सेति च प्रसिद्धम् । तथोक्तं श्री-बिल्वमङ्गलेन—

राधा-मोहन-मन्दिराद् उपागतश् चन्द्रावलीम् ऊचिवान्
राधे क्षेममयेति तस्य वचनं श्रुत्वाह चन्द्रावली ।
कंस क्षेममये विमुग्ध-हृदये कंसः क्व दृष्टस् त्वया
राधा क्वेति विलज्जितो नत-मुख-स्मेरो हरिः पातु वः ॥ इति ।

अत्र चन्द्रावल्याः सदृश-भावा काचिद् अञ्जलिना [५] इत्य्-आदिना वर्णिता । एका तद्-अङ्घ्रि-कमलम् [५] इत्य्-आदिना च । एते तत्-सख्यौ पद्मा-शैव्ये इत्य् अभियुक्त-सिद्धिः ।

श्री-राधायाः सदृश-भावा च अपरिनिमिषद्-दृग्भ्याम् [७] इत्य्-आदिना वर्णिता ।

तं काचिद् [भा।पु। १०.३२.८] इत्य्-आदिना च । मदीयोऽसौ स्वयम् एव माम् अनुभविष्यतीति स्वयं ग्राह-स्पर्शाद्य्-अभावेन वाम्य-स्पर्शात्। ततश् चैते तत्-सख्यौ । एते च प्रायस् तत्-स-नामत्वात् । तद्-अनुगततया पाठाच् चानुराधा-विशाखे भवेताम् । ये खलु विशाखा ध्यान-निष्ठिका इति, राधानुराधा इति भविष्योत्तर-पठिते तत्रानुराधैव ललितेत्य् अभियुक्त-प्रसिद्धिः ।

सङ्कर-भावा च काचिद् दधार [भा।पु। १०.३२.४] इत्य्-आदिनोक्ता । तद् बाहोर् अंसे धारणेन पूर्वस्या दाक्षिण्यांशेन साम्यात् । उत्तरस्या एषा खलु श्यामलेत्य् अभियुक्त-प्रसिद्धिः । अत्राष्टमी च विष्णु-पुराणोक्ता यथा—

काचिद् आयान्तम् आलोक्य गोविन्दम् अतिहर्षिता ।
कृष्ण कृष्णेति कृष्णेति प्राह नान्यद् उदीरितम् ॥ [वि।पु। ५.१३.४४] इति ।

अस्या नातिस्फुट-भावत्वात् ताटस्थ्यम् । एषा च भद्रेत्य् अभियुक्त-प्रसिद्धिः । तेषां भावानां परमानन्दैक-रूपत्वं दर्शयति–सर्वा [भा।पु। १०.३२.९] इति ।

॥ १०.३२ ॥ श्री-शुकः ॥ ३६७॥

[३६८]

अथानुमोदनात्मके कान्त-भावे साध्ये तत्-सम्भावनार्थं तदीय-लेशानुमोदन-मात्रस्योदाहरणं यथा—

अस्यैव भार्या भवितुं रुक्मिण्य् अर्हति नापरा ।
असाव् अप्य् अनवद्यात्मा भैष्म्याः समुचितः पतिः ॥
किञ्चित् सु-चरितं यन् नस् तेन तुष्टस् त्रि-लोक-कृत् ।
अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिम् अच्युतः ॥
एवं प्रेम-कला-बद्धा वदन्ति स्म पुरौकसः । [भा।पु। १०.५३.३७-३९]

अत्र नाना-वासन-जनानाम् एषां हृदि तत्-तन्-नाना-विलास-मयस्य कान्त-भावस्य पूर्ण-स्वरूप-स्पर्शायोग्यत्वात् कथञ्चित् तद्-दाम्पत्य-स्थिति-मात्र-लक्षणस्य तदीय-सामान्यांशस्यैवानुमोदन-मात्रं जातम् । अत एव प्रेम-कलाबद्धा इत्य् उक्तम् । प्रेम्नः कान्त-भावस्य या कला कोऽपि लेशस् तेन बद्धास् तद्-अनुमोदन-सुखानुकूला इत्य् अर्थः । तत एवं यस्य कलयापि विषम-भावानाम् अपि सर्वेषां पुरौकसां तथा चित्त-वृन्दम् उल्लासितम्, यथा युगपद् ऐकमत्यम् एव सर्व-भावातिक्रमेण सर्वेषां जातम् । स एव यत्र भाव-राकाधीशः स्वयम् उदयते तच्-चित्तानां तादृश उल्लासस् तु परात्पर एव स्याद् इति भावः।

[३६९]

अथ साक्षात् तद्-अनुमोदनात्मक-पूर्ण-कान्त-भावस्योदाहरणम् आह—

अप्य् एणपत्न्य् उपगतः प्रिययेह गात्रैस्
तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः ।
कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः
कुन्दस्रजः कुलपतेर् इह वाति गन्धः ॥
बाहुं प्रियांस उपधाय गृहीतपद्मो
रामानुजस् तुलसिकालिकुलैर् मदान्धैः ।
अन्वीयमान इह वस् तरवः प्रणामं
किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ [भा।पु। १०.३०.११-१२]

एणपत्नि एणत्व-प्रयोगेण हे प्रशस्त-नेत्रे ! पत्नीत्व-प्रयोगेण बुद्ध्या तु हे मादृश-मानुषी-तुल्ये ! इत्य् अर्थः । तत्रापि हे सखि ! वक्ष्यमाण-सौभाग्य-भरेण हे लब्ध-मद्-विध-सख्ये ! प्रियया सह अच्युतः श्री-कृष्णः, श्लेषेण तस्याः सकाशाद् अविश्लिष्टः सन् गात्रैर् उभयोः परस्परम् आसङ्गेन शोभा-विशेषं प्राप्तैर् अङ्गैः कृत्वा वस् त्वादृशीनां दृशां नेत्राणां सुनिर्वृतिं केवल-श्री-कृष्ण-दर्शनजानन्दाद् अपि अतिशयितम् आनन्दं तन्वन् विस्तारयन् उत्तरोत्तरम् उत्कर्षयन् अपि किम् उपगतः युष्मत्-समीपं प्राप्तोऽभूत् ?

ननु कथम् इदं भवतीभिर् अनुमितम् ? इत्य् आशङ्क्यानुमान-लिङ्गं तन्-मिथुन-श्लाघा-गर्भ-वचनेनाहुः–कान्त- इति । कुल-पतेर् व्रज-नाथ-वंश-तिलकस्य या कुन्द-स्रक्, तस्या गन्धः सौरभ्यम् इह वाति वायु-सङ्गेन प्रसरति । कथम्भूतायाः स्रजः ? कान्ता सर्व-साद्गुण्येन तस्यापि लालसास्पद-रूपा या स्यात्, तस्या अङ्ग-सङ्गे कुच-कुङ्कुमेन रञ्जितायाः । अतः सन्तत-परिचय-विशेषेण तत्-तत्-सौरभ्य-विशेषस्यात्रास्माभिर् अवधारितत्वात् भवतीनाम् अत्र चरन्तीनां समीपं प्राप्त एवासौ तया युत इत्य् अर्थः ।

अथ तां तद्-दर्शन-जातेन हर्षेण सम्प्रति तद्-वियोग-जातेन दुःखेन च स्थगित-वचनम् आशङ्क्य तेन च तयोः सङ्गमम् एव निर्धार्य परमानन्देन तद्-अवसरोचितं तदीय-विलास-विशेषं वर्णयन्त्यस् तत्र पुष्पादि-भर-नम्राणां तरूणाम् अपि तदीय-सौविदल्लादि-भृत्य-विशेष-भावेन तन्-नमस्कारम् उत्प्रेक्ष्य पुनस् तेषाम् एव तत्-सन्निधि-जन्य-सौभाग्य-विशेषं तान् प्रत्य् एव पृच्छन्त्यस् तयोस् तादृश-विलासावेशातिशयम् आहुः–बाहुं प्रियांस इति । अन्वीयमानः अनुगम्यमानः । परस्परं प्रणयावलोकैश् चरन् क्रीडन् । इह वो युष्माकं प्रणामं किं वाभिनन्दति सादरं गृह्णाति ? अपि तु विलासाविष्टस्य तस्य तद्-अभिनन्दनं न सम्भावयाम इत्य् अर्थः ।

॥ १०.३० ॥ श्री-राधा-सख्यः ॥ ३६९ ॥

[३७०]

तद् एवम् आलम्बनादि-स्थाय्य्-अन्तर्-भाव-संवलनं चमत्कारावहतया उज्ज्वलाख्यो रसः स्यात् । तस्य च भेद-द्वयं—विप्रलम्भः, सम्भोगश् चेति । तत्र विप्रलम्भो विप्रकर्षेण लम्भः प्राप्तिर् यस्य स तथा । यथोक्तम्—

यूनोर् अयुक्तयोर् भावो युक्तयोर् वा तयोर् मिथः ।
अभीष्टालिङ्गनादीनाम् अनवाप्तौ प्रकृष्यते ।
स विप्रलम्भो विज्ञेयः सम्भोगोन्नति-कारकः ॥ [उ।नी। १५.२] इति ।

तद् उन्नति-कारकत्वम् अन्यत्र चोक्तम्—

न विना विप्रलम्भेन सम्भोगः पुष्टिम् अश्नुते ।
काषायिते हि वस्त्रादौ भूयान् रागोऽभिवर्धते ॥ [उ।नी। १५.३]

यद् उक्तं स्वयं कृष्णेन—नाहं तु सख्यो भजतोऽपि जन्तून् [भा।पु। १०.३३.२०] इत्य्-आदि । अन्यत्र च—

यत् त्व् अहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् ।
मनसः सन्निकर्षार्थं मद्-अनुध्यान-काम्यया ॥
यथा दूर-चरे प्रेष्ठे मन आविश्य वर्तते ।
स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षि-गोचरे ॥ [भा।पु। १०.४७.३४-३५] इति ।

तस्य विप्रलम्भस्य चत्वारो भेदाः—पूर्व-रागो, मानः, प्रेम-वैचित्त्यं, प्रवासश् चेति । अथ सम्भोगश् च यूनोः सङ्गतयोः सम्बद्धतया भोगो यत्र स भाव उच्यते । यथोक्तम्—

दर्शनालिङ्गनादीनां आनुकूल्यान् निषेवया ।
यूनोर् उल्लासम् आरोहन् भावः सम्भोग उच्यते ॥ [उ।नी। १५.१८८] इति ।

स च पूर्व-रागानन्तर-ज इत्य्-आदि-संज्ञया चतुर्विधः ।

तत्र पूर्व-रागः—

रतिर् या सङ्गमात् पूर्वं दर्शन-श्रवणादि-जा ।
तयोर् उन्मीलति प्राज्ञैः पूर्व-रागः स उच्यते ॥ [उ।नी। १५.५]

स च पट्ट-महिषीषु श्री-रुक्मिण्या यथा—

सोपश्रुत्य मुकुन्दस्य रूप-वीर्य-गुण-श्रियः ।
गृहागतैर् गीयमानास् तं मेने सदृशं पतिम् ॥ [भा।पु। १०.५२.२३] इत्य्-आदि ।

स्पष्टम् ॥ १०.५२ ॥ श्री-शुकः ॥ ३७० ॥

[३७१]

अथ व्रज-देवीनाम् । तत्र यद् आसां क्वचिद् बाल्येऽपि सम्भोगो वर्ण्यते, तत् खलु औपपतिक-भाववतीनां तासां मध्ये कासाञ्चिन् निमित्त-विशेषं प्राप्य कदाचित् कदाचित् तद्-भावाविर्भाव-प्रभावेण कैशोराविर्भावात् सङ्गच्छते । यथा भविष्ये कार्त्तिक-प्रसङ्गे—बाल्येऽपि भगवान् कृष्णः कैशोरं रूपम् आश्रितः इत्य्-आदिनोक्तम् । अन्यदा तद्-आच्छादने सति तत् कैशोरादिकम् आच्छन्नम् एव तिष्ठति । तस्माद् भावादीनाम् अविच्छेदाभावान् नातिरसाधायकत्वम् इति नात्रोट्टङ्क्यते ।

अथ महा-तेजस्वितया षष्ठ-वर्षम् एवारभ्य कैशोराविर्भाव-विच्छेदे सति तासाम् अपि पुनः पूर्व-रागो जायते । ततोऽन्यासां तु सुतरां स तूदाह्रियते । यथा—

आश्लिष्य सम-शीतोष्णं प्रसून-वन-मारुतम् ।
जनास् तापं जहुर् गोप्यो न कृष्ण-हृत-चेतसः ॥ [भा।पु। १०.२०.४५]

गोप्यस् तु न जहुः । तत्र हेतुः—कृष्णेति । विरहे प्रत्युत ताप-करत्वाद् इति भावः ।

॥ १०.२० ॥ श्री-शुकः ॥ ३७१ ॥

[३७२]

तद्-विवरणं च—

इत्थं शरत्-स्वच्छ-जलं पद्माकर-सुगन्धिना ।
न्यविशद् वायुना वातं स-गो-गोपालकोऽच्युतः ॥१॥
कुसुमित वन-राजि-शुष्मि-भृङ्ग-
द्विज-कुल-घुष्ट-सरः-सरिन्-महीध्रम् ।
मधुपतिर् अवगाह्य चारयन् गाः
सह-पशु-पाल-बलश् चुकूज वेणुम् ॥२॥
तद् व्रज-स्त्रिय आकर्ण्य वेणु-गीतं स्मरोदयम् ।
काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्योऽन्ववर्णयन् ॥३॥
तद् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम् ।
नाशकन् स्मर-वेगेन विक्षिप्त-मनसो नृप ॥४॥
बर्हापीडं नट-वर-वपुः कर्णयोः कर्णिकारं
बिभ्रद्-वासः कनक-कपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोर् अधर-सुधया पूरयन् गोप-वृन्दैर्
वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीत-कीर्तिः ॥५॥
इति वेणु-रवं राजन् सर्व-भूत-मनोहरम् ।
श्रुत्वा व्रज-स्त्रियः सर्वा वर्णयन्त्योऽभिरेमिरे ॥६॥
अक्षण्वतां फलम् इदं न परं विदामः
सख्यः पशून् अनुविवेशतयोर् वयस्यैः ।
वक्त्रं व्रजेश-सुतयोर् अनुवेणु-जुष्टं
यैर् वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम् ॥७॥
चूत-प्रवाल-बर्ह-स्तवकोत्पलाब्ज-
मालानुपृक्त-परिधान-विचित्र-वेशौ ।
मध्ये विरेजतुर् अलं पशुपाल-गोष्ठ्यां
रङ्गे यथा नट-वरौ क्व च गायमानौ ॥८॥
गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर्
दामोदराधर-सुधाम् अपि गोपिकानाम् ।
भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रदिन्यो
हृष्यत्-त्वचोऽश्रु मुमुचुस् तरवो यथार्याः ॥ [भा।पु। १०.२१.१-९]****

तथा वृन्दावनं सखि भुवो वितनोति कीर्तिम् [भा।पु। १०.२१.१०] इत्य्-आदि । धन्याः स्म मूढ-मतयोऽपि हरिण्य एताः [भा।पु। १०.२१.११] इत्य्-आदि । कृष्णं निरीक्ष्य [भा।पु। १०.२१.१२] इत्य्-आदि । गावश् च कृष्ण-मुख- [भा।पु। १०.२१.१३] इत्य्-आदि । प्रायो बताम्ब मुनयः [भा।पु। १०.२१.१४] इत्य्-आदि । नद्यस् तदा तद् उपधार्य [भा।पु। १०.२१.१५] इत्य्-आदि । दृष्ट्वातपे व्रज-पशून् [भा।पु। १०.२१.१६] इत्य्-आदि । पूर्णाः पुलिन्द्य [भा।पु। १०.२१.१७] इत्य्-आदि । हन्तायम् अद्रिर् अबला [भा।पु। १०.२१.१८] इत्य्-आदि । गा गोपकैर् [भा।पु। १०.२१.१९] इत्य्-आदि च स्मर्तव्यम् ।

इत्थम् इति । इत्थं पूर्वाध्याय-वर्णित-प्रकारेण । कुसुमितेति पूर्वेणान्वयः । अत्रत्यं वनं तद्-अन्तर्-वनम् । शुष्मिणो मत्ताः । तद् व्रजेति कृष्णस्य वेणु-गीतम् आश्रुत्य । तथापि परोक्षं लज्जया निज-भावावरणाय तद्-अग्रजादि-वर्णन-सहयोगेनाच्छन्नं यथा स्यात् तथैवावर्णयन् । समुचित-वर्णनं हि प्रीति-मात्रं बोधयति न तु कान्त-भावम् इति । तद् वर्णयितुम् इति तथापि नाशकन् । परोक्ष-वर्णनायां न समर्था बभूवुः । तत्र हेतुः—स्मरन्त्य इति । तत्र च हेतुः स्मर-वेगेनेति । पूर्वोक्तं कृष्ण-चेष्टितं वर्णयन्ति बर्हापीडम् इति । अधर-सुधयेति फुत्कारस्य तत्-प्राचुर्यं विवक्षितम् । ततश् च युक्त एव तद्-अनुभवेन तासां तादृश-मोह इति भावः । नाशकन्न् इत्य् एतद् विवृणोति इतीति । अभिरेमिरे उन्मदा बभूवुः ।

अथ यथा नाशकंस् तथा तद्-वाक्य-द्वारैव दर्शयति—श्री-गोप्य ऊचुर् इत्य्-आदिना । तत्र द्विधा परोक्षी-करणा शक्तिः । एकत्राज्ञाननतोऽपि भाव-प्राबल्येनैवार्थान्तराविर्-भावेण अन्यत्र भाव-पारवश्येन ज्ञानत एव तद्-उद्घाटनेन । तत्र प्रथमेन यथा अक्षणवताम् इति । अर्थान्तरं चात्र व्रजेश-सुतयोर् मध्ये कनिष्ठत्वेन तद् अनु पश्चात् वेणु-जुष्टं मुखं तद् यैर् निपीतम् इति योज्यम् । अथोत्तरेण यथा—चूत-प्रवालेत्य् आदि-द्वयम् । तत्र प्रथमं परोक्षी-करणे । द्वितीयं तद्-अशक्ताव् इति ज्ञेयम् । एवम् अग्रे च गावश् च कृष्ण-मुख-निर्गत-वेणु-गीतेत्य् आदिषु विजातीय-भाव-वर्णनम् अपि परोक्ष-विधाने मन्तव्यम् ।

अथोपसंहारः—

एवं-विधा भगवतो या वृन्दावन-चारिणः ।
वर्णयन्त्यो मिथो गोप्यः क्रीडास् तन्-मयतां गताः ॥
हेमन्ते प्रथमे मासि नन्द-व्रज-कुमारिकाः ।
चेरुर् हविष्यं भुञ्जानाः कात्यायन्य्-अर्चन-व्रतम् ॥ [भा।पु। १०.२१.२०]

तन्-मयतां तद्-आविष्टताम् । स्त्री-मयः षिङ्ग इतिवत् ।

॥ १०.२१ ॥ श्री-शुकः ॥ ३७३ ॥

[३७४]

तथा तासु कुमारीणाम्—

हेमन्ते प्रथमे मासि नन्द-व्रज-कुमारिकाः ।
चेरुर् हविष्यं भुञ्जानाः कात्यायन्य्-अर्चन-व्रतम् ॥ [भा।पु। १०.२२.१] इत्य्-आदि ।

स्पष्टम् ।

॥ १०.२२ ॥ सः ॥ ३७४ ॥

[३७५]

अत्र काम-लेखादि-प्रस्थापनं मतम् । तत्रोदाहरणं श्रुत्वा गुणान् भुवन-सुन्दर शृणवतां ते [भा।पु। १०.५२.३७] इत्य्-आदि श्री-रुक्मिणी-सन्देशादिकं ज्ञेयम् ।

अथ पूर्व-रागानन्तर-जः सम्भोगः । तत्र सम्भोगस्य सामान्याकारेण सन्दर्शन-संजल्प-संस्परश-संप्रयोग-लक्षण-भेद-चतुष्टय-भिन्नत्वं दृश्यते । सन्दर्शनं सम्यग्-दर्शनं यत्र स भावः इत्य्-आदि ।

अथ श्री-रुक्मिण्याः सन्दर्शन-संस्पर्शनाख्यौ तद्-अनन्तर-जौ सम्भोगौ यथा—

सैवं शनैश् चलयती चल-पद्म-कोशौ
प्राप्तिं तदा भगवतः प्रसमीक्षमाणा ।
उत्सार्य वाम-करजैर् अलकान् अपाङ्गैः
प्राप्तान् ह्रियैक्षत नृपान् ददृशेऽच्युतं च ॥
तां राज-कन्यां रथम् आरुरुक्षतीं
जहार कृष्णो द्विषतां समीक्षताम् । [भा।पु। १०.५३.५४-५५]****

भगवतः प्राप्तिं तत्रागमनं ह्रिया प्रसमीक्षमाणा स-लज्जं द्रष्टुम् आरभमाणा प्राप्तान् पुरतः स्थितान् नृपान् ऐक्षत । ततश् च व्यूकुल-चित्ता तत्रैव पुनर् अच्युतम् अपि ददृश इत्य् अर्थः ।

॥ १०.५३ ॥ श्री-शुकः ॥ ३७५॥

[३७६-३७८]

अथ व्रज-कुमारीणां सन्दर्शन-संजल्पो, यथा—

तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः ।
हसद्भिः प्रहसन् बालैः परिहासम् उवाच ह ॥ [भा।पु। १०.२२.९] इत्य्-आदि ।

अत्रैवं विवेचनीयम् । तेन यद्यपि तासां स्व-विषय-प्रेमोत्कर्षो जायत एव, तथापि तद्-अभिव्यञ्जक-चेष्टा-विशेष-द्वारा साक्षात् तद्-आस्वादाय तादृशी लीला स-लज्जा विस्तारिता । विदग्धानां च यथा वनितानुरागास्वादने वाञ्छा न तथा तत्-स्पर्शादाव् अपि । तत्र लज्जा-च्छेदो नाम पूर्वानुराग-व्यञ्जको दशा-विशेषो वर्तते । तथोक्तम्—

नयन-प्रीतिः प्रथमं चिन्ता-सङ्गस् तथा सङ्कल्पः ।
निद्रा-च्छेदस् तनुता विषय-निवृत्तिस् त्रपा-नाशः ।
उन्मादो मूर्च्छा मृतिर् इत्य् एताः स्मर-दशा दशैव स्युः ॥ [उ।नी। १५.७१]

तेषु च व्यञ्जकेषु कुल-कुमारीणां लज्जा-च्छेद एव पराकाष्ठा । ता हि दशमीम् अप्य् अङ्गीकुर्वन्ति, न तु वैजात्यम् । ततोऽनुरागातिशय-स्वादनार्थं तथा परिहसितम् । सखायश् च ते—न मयोदित-पूर्वं वा अनृतं तद् इमे विदुः [भा।पु। १०.२२.११] सन्तत-तद्-अविनाभाव-व्यक्त्या हसद्भिः [भा।पु। १०.२२.९] इत्य्-आदौ बाल-शब्द-प्रयुक्त्या च तदीय-सख्य-व्यतिरिक्त-भावान्तरास्पर्शिनस् तद्-अङ्ग-निर्विशेषा अत्र बाला एव च । ये चोक्ता गौतमीय-तन्त्रे प्रथमावरण-पूजायाम्—

दाम-सुदाम-वसुदाम-किङ्किणीर् गन्ध-पुर्ष्पकैः ।
अन्तः-करण-रूपास् ते कृष्णस्य परिकीर्तिताः ।
आत्माभेदेन ते पूज्या यथा कृष्णस् तथैव ते ॥ इति ।

ततो रहस्यत्वात् तादृशानुरागास्वाद-कौतुक-प्रयोजनक-नर्म-परिपाटी-मयत्वात् तस्यां लीलायां न रसवत्त्व-व्याघातः प्रत्युत उल्लास एव ।

तथैव तस्यां लीलायां श्री-कृष्णस्याभिप्रायं मुनीन्द्र एव व्याचष्टे—

भगवान् आहता वीक्ष्य शुद्ध-भाव-प्रसादितः ।
स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥ [भा।पु। १०.२२.१८]

आहता आगताः । लज्जा-त्यागेऽपि स्त्री-जाति-स्वभावेन लज्जांशावशेषात् नम्रतयेषद्-भग्न-देहा वा। एवम् उत्कण्ठाभिव्यक्त्या तद्-भाव-मुग्धत्वाभिव्यक्त्या च शुद्धः परमौज्ज्वल्येनावगतो यो भावस् तेन तदास्वादनेन जनित-चित्त-प्रसक्तिः ।

अथ पुनर् अपि यूयं विवस्त्रा यद् अपि धृत-व्रता [भा।पु। १०.२२.१९] इत्य्-आदिकं तल्-लज्जांशावशेष-निःशेषता-दर्शन-कौतुकार्थं श्री-कृष्ण-नर्म-वाक्यम् । तद्-अनन्तरं इत्य् अच्युतेन [भा।पु। १०.२२.२०] इत्य्-आदिकं तासाम् अपि तथैव तद्-अनन्तरम् अपि स्वयं तथैव व्याचष्टे—

दृढं प्रलब्धास् त्रपया च हापिताः
प्रस्तोभिताः कृईडनवच् च कारिताः ।
वस्त्राणि चैवापहृतान्य् अथाप्य् अमुं
ता नाभ्यसूयन् प्रिय-सङ्ग-निर्वृताः ॥ [भा।पु। १०.२२.२१]

दृढम् अत्यर्थं प्रलब्धा वञ्चिताः, यूयं विवस्त्रा इत्य्-आदिना । त्रपया लज्जया च हापिताः, अत्रागत्य स्व-वासांसि [भा।पु। १०.२२.१६] इत्य् आग्रहेण । प्रस्तोभिताः उपहसिता, सत्यं ब्रुवाणि नो नर्म [भा।पु। १०.२२.१०] इत्य्-आदिना। कृईडनवत् कारिताश् च, बद्धाञ्जलिं [भा।पु। १०.२२.१९] इत्य्-आदि-प्रायश्चित्त-च्छलेन । न च तासां तत्र दोषोऽस्ति, येन वञ्चनादिकं कृतं, प्रत्युत तस्यैवेत्य् आह स्वयं तेनैव—वस्त्राणि च हृतानीति । तथापि तं प्रति ता नाभ्यसूयन्, प्रत्युत प्रियस्य तस्य सङ्गेन निर्वृताः परमानन्द-मग्ना बभूवुर् इति ॥

[३७९]

अथ यज्ञ-पत्नीनां ब्राह्मणीत्वेन योग्यत्वाभावात् श्री-कृष्णस्य तासु भावेऽनुदिते सति पूर्व-राग इव प्रतीयमानो यो भावस् तद्-अनन्तरं च सन्दर्शन-सञ्जल्प-रूप-सम्भोग इव प्रतीयमानो यः स तु सम्भोगाभासस् तस्य हेमन्तस्यानन्तरे निदाघे द्रष्टव्यः । यथाह—

अथ गोपैः परिवृतो भगवान् देवकी-सुतः ।
वृन्दावाद् गतो दूरं चारयन् गाः सहाग्रजः ॥ [भा।पु। १०.२२.२९]****

अथ व्रज-कुमार्य्-अनुग्रहानन्तरं क्वचिन् निदाघ-दिन इत्य् अर्थः । आनन्तर्यम् इह आगामि-निदाघान्तरं व्यवच्छिनत्ति । तस्मिंश् च दिने श्री-बलदेवोऽपि सङ्ग आसीद् इत्य् आह—सहाग्रज इति । वृन्दावनाद् गतो दूरम् इति पर्वतमय-काम्यक-वन-गमनात् । ततश् च धातु-राग-वेशत्वेन—तरूणां नम्र-शाखानां मध्येन यमुनां गतः [भा।पु। १०.२२.३६] इत्य् अनेन च लब्धत्वात् । तद् एतच् च व्रजं दक्षिणीकृत्य गतत्वात् सङ्गतम् । यमुनोपकण्ठ-गत्या पश्चाद् एव भक्त-क्रीडनाख्यं कुट्टिमं च गत इति ज्ञेयम् । यस्य च दक्षिणतो मधु-पुराद् उत्तरतो याज्ञिक-ब्राह्मणा ऊषुर् इति च । अतः कंस-समीप-वासत्वात् कंसाद् भीता न चाचलन् [भा।पु। १०.२३.५२] इत्य् अनेन तेषां ब्राह्मणानां श्री-भगवन्-मिलनं न जातम् इति क्रमोऽत्र कर्तव्यः।

[३८०]

तस्य दिनस्य गुणेन शब्देन च निदाघ-सम्बन्धित्वम् आह—

निदाघार्कातपे तिग्मे
छायाभिः स्वाभिर् आत्मनः ।
आतपत्रायितान् वीक्ष्य
द्रुमान् आह व्रजौकसः ॥ [भा।पु। १०.२२.३०] इत्य्-आदि ।

निदाघस्य अर्कातपे तिग्मे सति ।

॥ १०.२२ ॥ श्री-शुकः ॥ ३७८-३८० ॥

[३८१]

अथ सम्भोगाभासो, यथा—

यमुनोपवनेऽशोक-नव-पल्लव-मण्डिते ।
विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः ॥
श्यामं हिरण्य-परिधिं वन-माल्य-बर्ह-
धातु-प्रवाल-नट-वेषम् अनुव्रतांसे ।
विन्यस्त-हस्तम् इतरेण धुनानम् अब्जं
कर्णोत्पलालक-कपोल-मुखाब्ज-हासम् ॥
प्रायः श्रुत-प्रियतमोदय-कर्ण-पूरैर्
यस्मिन् निमग्न-मनसस् तम् अथाक्षि-रन्ध्रैः ।
अन्तः प्रवेश्य सुचिरं परिरभ्य तापं
प्राज्ञं यथाभिमतयो विजहुर् नरेन्द्र ॥ [भा।पु। १०.२३.२१-२३]

अभिमतयोऽहङ्कार-वृत्तयः, यथा प्राज्ञं सुषुप्ति-साक्षिणं प्राप्य नानाभिमन्तव्य-कृतं तापं जहति, तथा ता अपि तद्-अप्राप्ति-तापम् इत्य् अर्थः ।

[३८२]

तत्र तासां कस्याश्चित् तु तदैवायोग्यता-नाशेन स पूर्व-रागान्तरजः सम्भोगः संस्पर्शनाद्य्-आत्मकोऽपि बभूवेत्य् आह—

तत्रैका विधृता भर्ता
भगवन्तं यथा-श्रुतम् ।
हृदोपगुह्य विजहौ
देहं कर्मानुबन्धनम् ॥ [भा।पु। १०.२३.३४]****

कर्मानुबन्धनं ब्राह्मण-देह-त्यागेन तद्-अयोग्यत्वे नष्टे, यथा हृदोपगूढोऽसौ, तथैव तं प्राप्तवतीत्य् अर्थः । यं यं वापि स्मरन् भावम् [गीता ८.६] इत्य्-आदि श्री-गीतोपनिषद्-आदिभ्यः ।

सा च तस्यास् तत्-प्राप्तिः गोपी-रूप-प्राप्तेर् एव सम्भवति, न ब्राह्मणी-रूपेणेति सूचितम्—एवं लीला-नर-वपुर् [भा।पु। १०.२३.३७]+++([ ])+++97 इत्य्-आदौ गवादिका एव रमयन् रेमे, नान्या इत्य् अर्थेन । न चात्र व्रजे तस्यास् तदैव तत्-प्राप्तेर् अप्रसिद्धत्वाद् अघटमानत्वाच् च न तत् सम्भावनीयम् । श्री-कृष्णस्य व्रजस्य च लोकाप्रकटतयाप्य् अनन्तधा-प्रकाश-भेदानां श्री-कृष्ण-सन्दर्भादौ स्थापितत्वात् । तथात्र साक्षाद् दशमी-दशापि न दोषाय । तादृश-कृच्छ्रेण तत्-प्राप्तौ तद्-अनुसन्धानाविच्छेदेनोत्कण्ठा-पुष्ट्या तस्या रसस्यैवोत्कर्षात् ।

॥ १०.२३ ॥ श्री-शुकः ॥ ३८१-३८२ ॥

[३८३]

अथ तद्-अनन्तरम् एव शरदि सर्वासाम् एव श्री-व्रज-देवीनां सन्दर्शनादि-सर्वात्मक एव पूर्व-रागान्तरजः सम्भोगो वर्ण्यते । तत्र कुमारीणाम् अपि तादृश-प्राप्तावकृतार्थं-मन्यानां पूर्व-रागांशो नातिगतः । कस्याश्चित् पूर्णाः पुलिन्द्यः [भा।पु। १०.२१.१७] इत्य् अनुसारेण कासाञ्चित् तु यर्ह्य् अम्बुजाक्ष [भा।पु। १०.२९.३६] इत्य्-आदाव् अस्प्राक्ष् तत्-प्रभृतीःइत्य् अनेन श्रुतो यः स्पर्शः सोऽपि वेणु-गीत-कृत-तन्-मूर्च्छादि-शमनानुरोधेनैव न तु सम्भोग-रीत्येति मन्तव्यः । यत एव तस्य तासाम् अपि अपूर्ववत् प्रत्याख्यान-प्रार्थना-वाक्ये सङ्गच्छेते ।

अथ तासां स यथा—

निशम्य गीतं तद्-अनङ्ग-वर्धनं
व्रज-स्त्रियः कृष्ण-गृहीत-मानसाः ।
आजग्मुर् अन्योन्यम् अलक्षितोद्यमाः
स यत्र कान्तो जवलोल-कुण्डलाः ॥ [भा।पु। १०.२९.४] इत्य्-आदि । स्पष्टम् ।

॥ १०.२९ ॥ श्री-शुकः ॥ ३८३ ॥

[३८४]

अथ तद्-अन्तराले मान-रूपो विप्रलम्भः । तत्र यथोक्तम्—

अहेर् इव गतिः प्रेम्णः स्वभाव-कुटिला भवेत् ।
अतो हेतोर् अहेतोश् च यूनोर् मान उदञ्चति ॥ [उ।नी। १५.१०२]

तथा—

अहेतोर् नेति नेत्य् उकेर् हेतोर् यन् मान उच्यते ।
अस्य प्रणय एव स्यान् मानस्य पदम् उत्तमम् ॥ [उ।नी। १५.७६] इति ।

ततोऽस्य सहेतुर् निर्हेतुश् चेति भेद-द्वये च सति हेतुर् अपि यथोक्तः—

हेतुर् ईर्ष्या-विपक्षादेर् वैशिष्ट्ये प्रेयसा कृते ।
भावः प्रणय-मुख्योऽयम् ईऋषा-मानत्वम् ऋच्छति ॥ [उ।नी। १५.७७] इति ।

यथा च—

स्नेहं विना भयं न स्यान् नेर्ष्या च प्रणयं विना ।
तस्मान् मान-प्रकारोऽयं द्वयोः प्रेम-प्रकाशकः ॥ [उ।नी। १५.७८] इति ।

अत एव हरिवंशे—

रुषिताम् इव तां देवीं स्नेहात् सङ्कल्पयन्न् इव ।
भीत-भीतोऽतिशनकैर् विवेश यदु-नन्दनः ॥ [ह।वं। २.६६.४]
रूप-यौवन-सम्पन्ना स्व-सौभाग्येन गर्विता ।
अभिमानवती देवी श्रुत्वैवेर्ष्या-वशं गता ॥ [ह।वं। २.६५.५०] इति ।

अतः प्रिय-कृत-स्नेह-भङ्गानुमानेन स-हेतुर् ईर्ष्या-मानो भवति । एष च विलासः श्री-कृष्णस्यापि परम-सुखदः । यथा चोक्तं श्री-रुक्मिणीं प्रति स्वयम् एव—त्वद्-वचः श्रोतु-कामेन क्ष्वेल्या-चरितम् अङ्गने [भा।पु। १०.६०.२९], मुखं च प्रेम-संरम्भ-स्फुरिताधरम् ईक्षितुम् [भा।पु। १०.६०.३०] इत्य्-आदि । श्री-रुक्मिण्याम् अपि तद्-अविक्षिप्तिवं व्यक्तं—जाड्यं वचस् तव गदाग्रज [भा।पु। १०.६०.४०] इत्य्-आदौ ।

युक्तं च तत् कान्ताभावाख्यायाः प्रीतेः पोषकत्वेन तद्-भावस्यावगमात् । प्राचीनार्वाचीन-कवि-सम्प्रदाय-सम्मतत्वाच् च । तस्माद् आदरणीय एव मानाख्यो भावः । तत्र सर्वासां युगपत्-त्यागेन सङ्ग-प्राथम्येन च तथानुदयान् निगूढस् तन्-मान-लेशो रासे श्री-व्रज-देवीनां जातः । स च परित्यागजेर्ष्या-हेतुक एव ज्ञेयः । यथा—

सभाजयित्वा तम् अनङ्ग-दीपनं
सहास-लीलेक्षण-विभ्रम-भ्रुवा ।
संस्पर्शनेनाङ्क-कृताङ्घ्रि-हस्तयोः
संस्तुत्य ईषत् कुपिता बभाषिरे ॥ [भा।पु। १०.३२.१५] इत्य्-आदि ।

स्पष्टम् ।

॥ १०.३२ ॥ श्री-शुकः ॥ ३८४ ॥

[३८५]

एष च स्तुत्य्-आदिभिः शाम्यति । यथैव तास् तुष्टाव—

एवं मद्-अर्थोज्झित-लोक-वेद-
स्वानां हि वो मय्य् अनुवृत्तयेऽबलाः ।
मया परोक्षं भजता तिरोहितं
मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥ [भा।पु। १०.३२.२१]
न पारयेऽहं निरवद्य-संयुजां [भा।पु। १०.३२.२२] इत्य्-आदि । स्पष्टम् ।

॥ १०.३२ ॥ श्री-भगवान् ॥ ३८५ ॥

[३८६]

अथ निर्हेतुः प्रणय-मानः । निर्हेतुत्वं च केवल-प्रणय-विलसित्वेन हेत्व्-अभावान् मन्यते । एष नायकस्यापि भवति । भगवत्-प्रीति-मये रसे स तूद्दीपनोऽपि प्रसङ्गाद् अत्रोदाहरणीयः । यथा तासां तत्-सौभग-मदं वीक्ष्य मानं च केशव [भा।पु। १०.२९.४८] इत्य्-आदि-प्रकरणं योजनान्तरेण मन्यते । तत्र मानः प्रणय-मानः । तस्य हेतुः सौभग-मदः । ततो मानस्य प्रशम-रूपाय तासां प्रसादाय स्वयम् अपि प्रणय-मानेनैवान्तरधीयत ।

तथाग्रेऽपि यां गोपीम् अनयत् कृष्णो विहायान्याः स्त्रियो वने [भा।पु। १०.३०.३६] इत्य्-आदौ तस्याः प्रणय-मानः । येनैवोक्तं—न पारयेऽहं चलितुं नय मां यत्र ते मनः [भा।पु। १०.३०.३८] इति ।

अथ पूर्ववत् तस्यापि प्रणय-मानः । प्रणय-कोपेनैव सोऽप्य् एतद्-अनन्तरम् एनां स्कन्ध आरुह्यताम् [भा।पु। १०.३०.३९] इत्य् उक्तवान् ततोऽन्तर्हितवांश् च । अत्र श्री-व्रज-देवीनाम् अहेतुः श्री-कृष्णसय तु हेत्व्-आभासजोऽसौ ।

यासां खलु प्रणयः स्व-प्रवाहाद्य्-उद्रेकेन स्वरसावर्त-रूपं कौटिल्यं स्पृशन्-मानाख्य-प्रीति-विशेषतां प्राप्नोति । तासाम् एव मानाख्य-विप्रलम्भोऽपि शुद्धो जायते ।

ततोऽन्यासां पुनर्-हेतु-लाभेऽपि विषाद-भय-चिन्ता-प्राय एव जायते । यथा श्री-रुक्मिणीं प्रति श्री-कृष्णस्य स-प्रणय-परिहास-वचनमयेऽध्याये तद् वृत्तम् । तत्र श्री-कृष्णस्य स-कौतुकोऽयम् अभिप्रायः–“इयं खलु सरल-प्रेमवती परम-गाम्भीर्यवती च । ततो ममाभीष्टः प्रिया-कोप-विलासः प्रेम-निर्बन्ध-प्रकाशक-स-विकार-कण्ठोक्ति-विशेषो वा नास्यां स्फुटम् उपलभ्यते । तस्मात् कोप-विलासो वा तज्-जननाभावे तु तादृशोक्तिर् वा यथास्यां प्रकाशते, तथा बाढं परिहासेन प्रयतिष्ये । तत्र यस्यां कोप-जनने भ्रातृ-वैरूप्यादिकम् अपि कारणं नासीत्, तस्यां तत्रान्यत् परमायोग्यम् एव, किन्तु मद-विश्लेष-सुखम् एवास्याः सर्वस्वम् इति तद्-दर्प-न्यक्कारेणैव कोपः सम्भवेत् । यदि ततोऽपि कोपो नाविर्भवेत्, तथापि मद्-विश्लेष-भयेन पूर्वानुरागवद् अधुनापि विकार-विशेष-सहित-निगदेनैव प्रेम-निर्बन्धं प्रकाश्येत” इति ।

तथा हि तत्र तां रूपिणीम् [भा।पु। १०.६०.१०] इत्य्-आदौ, प्रीतः स्मयन् इत्य् अनेन व्यक्तम् । परिहासमयत्वं तु विशेषतोऽप्य् उक्तम् । प्रसङ्गेन तस्याः प्रेम-सारल्यादि-द्वयम् अपि—

तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम् ।
हास्य-प्रौढिम् अजानन्त्याः करुणः सोऽन्वकम्पत ॥ [भा।पु। १०.६०.२५] इति ।

हास्यं परिहासः । तत्र प्रौढिः “अवश्यम् एनां सरल-प्रेमाणम् अपि गम्भीराम् अपि क्षोभयिष्यामि” इति गर्वः । तां प्रणय-रस-कौटिल्याभावेन अजानन्त्या इत्य् अर्थः । एवम् अग्रेऽपि हास्य-प्रौढि-भ्रमच्-चित्ताम् [भा।पु। १०.६०.२८] इत्य् उक्तम् ।

तत्र तेन परिहासेन कोप-विलासादि-दर्शनम् एवाभीष्टम् इति स्वयम् एवोक्तम्—

मा मा वैदर्भ्य् असूयेथा जाने त्वां मत्-परायणाम् ।
त्वद्-वचः श्रोतु-कामेन क्ष्वेल्याचरितम् अङ्गने ॥
मुखं च प्रेम-संरम्भ- स्फुरिताधरम् ईक्षितुम् ।
कटाक्षेपारुणापाङ्गं सुन्दर-भ्रु-कुटी-तटम् ॥
अयं हि परमो लाभो गृहेषु गृह-मेधिनाम् ।
यन् नर्मैर् ईयते यामः प्रियया भीरु भामिनि ॥ [भा।पु। १०.६०.२९-३१] इति ।

अत्र यद्यपि तस्याः प्राग् भयम् एव वर्णितं तथापि तत्रासूया-प्रयोगः प्रोत्तम्भनार्थ एव । तत्-प्रयोगेण हि स्वस्य तद्-अधीनताक्षिप्यते । अत एव भामिनीत्य् अपि सम्बोधितम् ।

अथ तस्य प्रेम-निर्बन्ध-प्रकाशक-विकार-दर्शनेच्छापि प्राक्तनेनैव वाक्येन व्यक्ता–तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम् [भा।पु। १०.६०.२५] इत्य् अनेन । तथा निगदेनैव तद्-व्यक्ति-दर्शनेच्छा स्वयम् एव व्यञ्जिता—साध्व्य् एतच्-छ्रोतु-कामैस् त्वं राज-पुत्रि प्रलम्भिता [भा।पु। १०.६०.४९] इति । पूर्वं हि त्वं वै समस्त-पुरुषार्थ-मयः फलात्मा [भा।पु। १०.६०.३८] इत्य्-आदिकं तयापि निगदितम् अस्ति । अत्र परिहास-ज्ञानानन्तरं तद्-दिदृक्षिता किञ्चित् कोप-व्यक्तिश् च जातास्ति—जाड्यं वचस् तव गदाग्रज [भा।पु। १०.६०.४०] इत्य्-आदिषु । जाड्यस्य प्राचुर्य-विवक्षया जाड्यम् एव वच इति सामानाधिकरण्येनोक्तम् माधुर्यम् एव नु मनो-नयनामृतं नु [कर्णामृत ६८] इतिवत् ।

अथ तद्-अविश्लेष-दर्प-न्यक्-कार एव तत्-क्षोभे हेतुर् इत्य् अत्रापि श्री-शुक-वाक्यम्—

एतावद् उक्त्वा भगवान् आत्मानं वल्लभाम् इव
मन्यमानां अविश्लेषात् तद्-दर्पो-घ्न उपारमत् ॥ [भा।पु। १०.६०.२१] इति ।

अन्यस्य च तत्र हेतुत्वं स्वयम् एव निराकृतम्—

भ्रातुर् विरूप-करणं युधि निर्जितस्य
प्रोद्वाह-पर्वणि च तद्-वधम् अक्ष-गोष्ठ्याम् ।
दुःखं समुत्थम् असहोऽस्मद्-वियोग-भीत्या
नैवाब्रवीः किम् अपि तेन वयं जितस् ते ॥ [भा।पु। १०.६०.५६] इति ।

अत्र च प्रकरणे तस्याः प्रणयस्यापि तादृशत्वाभावात् मानायोग्यत्वम् अपि दर्शितम् । तस्मात् साधूक्तं—यासां खलु प्रणयः इत्य्-आदि ।

अथ मानानन्तरजः सम्भोगो, यथा—

इत्थं भगवतो गोप्यः
श्रुत्वा वाचः सुपेशलाः ।
जहुर् विरहजं तापं
तद्-अङ्गोपचिताशिषः ॥ [भा।पु। १०.३३.१] इत्य्-आदि ।

स्पष्टम् ।

॥ १०.३३ ॥ श्री-शुकः ॥ ३८६ ॥

[३८७]

अथ प्रेम-वैचित्त्यम् । तल्-लक्षणं च—

प्रियस्य सन्निकर्षेऽपि प्रेमोन्माद-भ्रमाद् भवेत् ।
या विश्लेष-धियार्तिस् तत् प्रेम-वैचित्त्यम् उच्यते ॥ [उ।नी। १५.१४७]

तद् यथा—

कृष्णस्यैवं विहरतो गत्य्-आलापेक्षित-स्मितैः ।
नर्म-क्ष्वेलि-परिष्वङ्गैः स्त्रीणां किल हृता धियः ॥
ऊचुर् मुकुन्दैक-धियोऽगिर उन्मत्त-वज् जडम् ।
चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः शृणु ॥

एवं विहरतः कृष्णस्य गत्य्-आदिभिः स्त्रीणां धियो हृताः । ततश् च ता मुकुन्दैक-धियः समाहिता इव क्षणम् अगिरः सत्यः पुनर् अनुराग-विशेषेण उन्मत्ता इव विहरन्तम् अपि तम् अरविन्दाक्षं परोक्षवच् चिन्तयन्त्यो जडं विवेक-शून्यं यथा स्यात्, तथा ऊचुःतानि वचनानि मे मम गदतो वाक्यतः शृणु इति ।

श्री-महिष्य ऊचुः—

कुररि विलपसि त्वं वीत-निद्रा न शेषे
स्वपिति जगति रात्र्याम् ईश्वरो गुप्त-बोधः ।
वयम् इव सखि कच्चिद् गाढ-निर्विद्ध-चेता
नलिन-नयन-हासोदार-लीलेक्षितेन ॥ [भा।पु। १०.९०.१३-१५]

अथ विरह-स्पर्शीनि तान्य् एवोन्माद-वाक्यान्य् आहुः—कुररि इत्य्-आदि । हे कुररि ! जगति त्वम् एव एका रात्र्यां विलपसि, अत एव न शेषे न निद्रासि । ईश्वरोऽस्मत्-स्वामी तु गुप्त-बोधः क्वचिद् आच्छन्नः स्वपिति । तस्माद् अस्माकं तव च विलापादि-साधर्म्याद् इदम् अनुमीयत इत्य् आहुः–वयम् इव इति । एवम् अन्यत्रापि योजनीयम् ।

तथा—नेत्रे निमीलयसि [भा।पु। १०.९०.१६] इत्य्-आदि, भो भोः सदा निष्टनसे उदन्वन् [भा।पु। १०.९०.१७] इत्य्-आदि, त्वं यक्ष्मणा [भा।पु। १०.९०.१८] इत्य्-आदि, किं न्व् आचरितम् [भा।पु। १०.९०.१९] इत्य्-आदि, मेघ श्रीमन् [भा।पु। १०.९०.२०] इत्य्-आदि, प्रिय-राव- [भा।पु। १०.९०.२१] न चलसि [भा।पु। १०.९०.२२] इत्य्-आदि, शुष्यद्-ध्रदाः [भा।पु। १०.९०.२३] इत्य्-आदि ।

हंस स्वागतम् आस्यतां पिब पयो ब्रूह्य् अङ्ग शौरेः कथां
दूतं त्वां नु विदाम कच्चिद् अजितः स्वस्त्य् आस्त उक्तं पुरा ।
किं वा नश् चल-सौहृदः स्मरति तं कस्माद् भजामो वयं
क्षौद्रालापय काम-दं श्रियम् ऋते सैवैक-निष्ठा स्त्रियाम् ॥ [भा।पु। १०.९०.२४]

तदैव दैवाद् आगतं हंसं दूतं कल्पयित्वाहुः–हंस इति । नोऽस्मान् प्रति पुरा रहसि उक्तं किं वा स्मरति । स्मरतु माम् एवेत्य् आशयेनाहुः–तम् इति । यदि च तद्-आग्रहः, तदा हे क्षौद्र सौहृद्य-चाञ्चल्येन क्षुद्रस्य तस्य दूत, तम् एव कामदं युवति-जन-क्षोभकम् अत्र आलापय आह्वय । किन्तु यासाम् आद्य वयं त्यक्ताः तां श्रियम् ऋते । तां सोल्लुण्ठं स्तौति । स्त्रियां मध्ये सैव एकत्र तस्मिन् निष्ठा यस्याः, तादृशी । ततः कथं तस्यां नासज्येत ? इति व्यञ्जितम् । काक्वा स्वेषाम् अपि तन्-निष्ठत्वं व्यज्य सोल्लुण्ठत्वं दर्शितम् ।

[३८८]

अथ तासां तद्-विधाशेष-विप्रलम्भानन्तरजं नित्यम् एव सर्वात्मक-सम्भोगम् आह—

इतीदृशेन भावेन
कृष्णे योगेश्वरेश्वरे ।
क्रियमाणेन माधव्यो
लेभिरे वैष्णवीं गतिम् ॥ [भा।पु। १०.९०.२५]****

विष्णोः श्री-कृष्णस्य एव सम्बन्धिनीं गतिं नित्य-संयोगं लेभिरे । अत्र हेतुः–माधव्यः मधु-वंशोद्भवस्य श्री-कृष्णस्यैव नित्य-प्रेयस्यस् ताः ।

॥ १०.९० ॥ श्री-शुकः ॥ ३८७-३८८ ॥

[३८९]

अथ प्रवासः । नाना-विधश् चैष तद्-अनन्तर-सङ्गश् च श्री-व्रज-देवी-रेवाधिकृत्योदाहरणीयः । सङ्गत्य्-अर्थं तत्र प्रवास-लक्षणम्—

पूर्व-सङ्गतयोर् यूनोर् भवेद् देशान्तरादिभिः ।
व्यवधानं तु यत् प्राज्ञैः स प्रवास इतीर्यते ॥
तज्-जन्य-विप्रलम्भोऽयं प्रवासत्वेन कथ्यते । [उ।नी। १५.१५२-१५३] इत्य् अर्थः ।

अत्र—

चिन्ता प्रजागरोद्वेगौ तानवं मलिनाङ्गता ।
प्रलापो व्याधिर् उन्मादो मोहो मृत्युर् दशा दश ॥ [उ।नी। १५.१६७]

अयं च किञ्चित् दूर-गमन-मयः सुदूर-गमन-मयश् च । तत्र पूर्वोऽपि द्विविधः । एक-लीला-गतः लीला-परम्परान्तराल-गतश् च । पूर्वो यथा—

अन्तर्हिते भगवति
सहसैव व्रजाङ्गनाः ।
अतप्यंस् तम् अचक्षाणाः
करिण्य इव यूथपम् ॥ [भा।पु। १०.३०.१] इत्य्-आदि ।

[३९०]

तथा,

ततश् चान्तर्दधे कृष्णः
सा वधूर् अन्वतप्यत । [भा।पु। १०.३०.३९] इति स्पष्टम् ।

॥ १०.३० ॥ सः ॥ ३८९-३९० ॥

[३९१]

अत्र प्रलापाख्या दशा च—हा नाथ रमण प्रेष्ठ [भा।पु। १०.३०.४०] इत्य्-आदिः । स्पष्टम्।

॥ १०.३० ॥ श्री-राधा ॥ ३९१ ॥

[३९२]

तथा—

जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वद् अत्र हि ।
दयित दृश्यतां दिक्षु तावकास्
त्वयि धृतासवास् त्वां विचिन्वते ॥ [भा।पु। १०.३१.१]****

तथा—

शरद्-उदाशये साधु-जात- [भा।पु। १०.३१.२] इत्य्-आदि ।
विष-जलाप्ययाद् [भा।पु। १०.३१.३] इत्य्-आदि ।
न खलु गोपिका-नन्दन [भा।पु। १०.३१.४] इत्य्-आदि ।
मधुरया गिरा [भा।पु। १०.३१.८] इत्य्-आदि ।
विरचिताभयं [भा।पु। १०.३१.५] इत्य्-आदि ।
व्रज-जनार्तिहन् [भा।पु। १०.३१.३] इत्य्-आदि ।
प्रणत-देहिनां [भा।पु। १०.३१.७] इत्य्-आदि ।
तव कथामृतं [भा।पु। १०.३१.९] इत्य्-आदि ।
प्रहसितं [भा।पु। १०.३१.१०] इत्य्-आदि ।
चलसि यद् व्रजात् [भा।पु। १०.३१.११] इत्य्-आदि ।
दिन-परिक्षये [भा।पु। १०.३१.१२] इत्य्-आदि ।
प्रणत-कामदं [भा।पु। १०.३१.१३] इत्य्-आदि ।
सुरत-वर्धनं [भा।पु। १०.३१.१४] इत्य्-आदि ।
अटति यद् भवान् [भा।पु। १०.३१.१५] इत्य्-आदि ।
पति-सुतान्वय- [भा।पु। १०.३१.१६] इत्य्-आदि ।
रहसि संविदं [भा।पु। १०.३१.१७] इत्य्-आदि ।
व्रज-वनौकसां [भा।पु। १०.३१.१८] इत्य्-आदि ।
यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीम् अटसि तद् व्यथते न किं स्वित्
कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां नः ॥ [भा।पु। १०.३१.१९]****

तत्र विष-जलाप्ययाद् [भा।पु। १०.३१.३] इत्य्-आदिकं सर्वस्यैव गोकुलस्य स्व-रक्षणीयता-दृष्ट्याप्य् अस्मान् अधुना रक्षेत्य् अभिप्रायम् । वृषात्मजाद् वत्सात् मयात्मजात् व्योमासुराद् इत्य् अर्थः ॥

पुनश् च तत्-तद्-अलौकिक-कर्म लक्ष्यीकृत्य न खलु गोपिका-नन्दनो भवान् [भा।पु। १०.३१.४] इत्य्-आदि-द्वये याचक-रीत्या दैन्येन तत्र परमेश्वरत्वारोप इयं स्तुतिः । ततो विश्वस्यापि स्व-रक्षणीयता-दृष्ट्याप्य् अस्मान् अधुना रक्षेति पूर्ववत् । तत्रापि सात्वतानां वैष्णवानां श्रीमन्-नन्दादीनां कुलेऽवतीर्णत्वात् । तत्रापि बाल्येऽस्मत्-सखित्वाप्तेर् वैशिष्ट्यम् एव युज्यते इत्य् अर्थः । वृष्णि-धुर्य इति तेषाम् अपि यदु-वंशोत्पन्नत्वात् ।

तथा च स्कान्दे मथुरा-माहात्म्ये—

गोवर्धनश् च भगवान् यत्र गोवर्धनो धृतः ।
रक्षिता यादवाः सर्वे इन्द्र-वृष्टि-निवारणात् ॥ इति ।

तत्रैवान्यत्र अपि श्री-गोविन्द-कुण्ड-प्रस्तावे—

यत्राभिषिक्तो भगवान् मघोना यदु-वैरिणा इति ।

अथवा विष-जलाप्ययाद् [भा।पु। १०.३१.३] इत्य्-आदिना स्तुत्वा पुनः स-प्रणयेर्ष्यम् आहुः, न खलु [भा।पु। १०.३१.४] इत्य् अर्धेन । एवं दुरवस्थापन्नानाम् अस्माकम् उपेक्षया भवान् खलु निश्चयेन गोपिकायाः सर्वेषां व्रज-वासिनाम् अस्माकं रक्षा-कारिण्याः श्री-व्रजेश्वर्या नन्दनो नास्ति, किन्तु कस्यापि सुखेन दुःखेन चास्पृष्टत्वाद् अखिल-देहिनाम् अन्तरात्म-दृक् शुद्ध-जीव-द्रष्टा परमात्मास्ति । एवम् अपि नूनं ब्राह्मणार्थितत्वेनानासक्ततयैव सर्व-रक्षावतीर्णत्वान् नास्मान् उपेक्षितुम् अर्हति इति पुनः स-दैन्यम् आहुः—विखनसा [भा।पु। १०.३१.४] इत्य् अर्धेन ।

पूर्ववत् तद्-अभिप्रायेणैव विरचिताभयम् [भा।पु। १०.३१.५] इत्य्-आदिकम् अप्य् उक्तम् । प्रणत-देहिनाम् [भा।पु। १०.३१.७] इति । श्री-निकेतनम् अपि प्रणत-देहि-प्रभृतीनां पाप-कर्षणादि-रूपं । तत एव परम-करुणामयत्वेनावगतम् अस्माकं कुचेष्व् अपि हृच्-छय-कर्तनाय कर्तुम् उचितम् इत्य् अर्थः ।

हृच्-छय-निदानं तद्-अनुरूपं प्रतीकारान्तरं चाहुः—मधुरया [भा।पु। १०.३१.८] इति । नूनं यत् सौरभ्य-दिग्धतयैव तव गीर् मधुरा मनो मोहयति, तद् एव अधर-सीधु भवेद् अत्रौषधम् इत्य् अर्थः । अहो तव अधर-सीधु तादृश-पुण्य-हीनाभिः कथं सुलभं स्यात् ? यतः सा मधुरा गीर् अप्य् अस्तु दूरे ।

गुरु-गोष्ठी-नियम-बन्धनकत्वम् आपन्नाभिर् अस्माभिः प्रसङ्गान्तरेणापि जन-परम्परा-प्रख्यायमानम् अपि तव चरितामृतम् अपि दुर्लभम् इत्य् आह—तव कथामृतम् [भा।पु। १०.३१.९] इति । तद् ये गृणन्ति तेऽपि अस्मभ्यं भूरिदा जाताः ।

कुतः पुनर् युष्माकं मय्य् एतावान् अनुरागः ? तत्राहुः—प्रहसितम् [भा।पु। १०.३१.१०] इत्य्-आदि । कथं मम प्रहसितादीनाम् एतादृशत्वम् ? तत्राहुः—हे कुहक [भा।पु। १०.३१.१०] इति। तादृशी कापि कुहना या त्वयि विद्यते, तां त्वम् एव वेत्सीत्य् अर्थः । एवम् अन्यान्य् अपि योजनीयानि । परम-प्रकर्षेणाहुः—यत् ते सुजात इति।

॥ १०.३१ ॥ श्री-गोप्यः ॥ ३९२ ॥

[३९३]

एतद्-अनन्तरं सम्भोगोदाहरणं च दर्शितम् । तं विलोक्यागतं प्रेष्ठम् [भा।पु। १०.३२.३] इत्य्-आदिभिः । अत्र च क्रमेण विरह-सन्ताप-धुतिः । तत्र प्रथमतो यथा—

सर्वास् ताः केशवालोक-परमोत्सव-निर्वृताः ।
जहुर् विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ [भा।पु। १०.३२.९]

द्वितीयो यथा—तद्-दर्शनाह्लाद-विधूत-हृद्-रुजः [भा।पु। १०.३२.१३] इत्य्-आदि । तृतीयो यथा—

इत्थं भगवतो गोप्यः
श्रुत्वा वाचः सुपेशलाः ।
जहुर् विरहजं तापं
तदङ्गोपचिताशिषः ॥ [भा।पु। १०.३३.१]

स्पष्टम् ।

॥ १०.३३ ॥ श्री-शुकः ॥ ३९३ ॥

[३९४-३९७]

अथ द्वितीयं किञ्चिद् दूर-प्रवासम् आह—

गोप्यः कृष्णे वनं याते तम् अनुद्रुत-चेतसः ।
कृष्ण-लीलाः प्रगायन्त्यो निन्युर् दुःखेन वासरान् ॥ [भा।पु। १०.३५.१]

तत्र च तासां प्रलापाख्याम् अवस्थाम् आह—श्री-गोप्य ऊचुः—

वाम-बाहु-कृत-वाम-कपोल-
वल्गित-भ्रुर् अधरार्पित-वेणुम् ।
कोमलाङ्गुलिभिर् आश्रित-मार्गं
गोप्य ईरयति यत्र मुकुन्दः ॥
व्योम-यान-वनिताः सह सिद्धैर्
विस्मितास् तद् उपधार्य सलज्जाः ।
काम-मार्गण-समर्पित-चित्ताः
कश्मलं ययुर् अपस्मृत-निव्यः ॥ [भा।पु। १०.३५.२-३]

यथा—हन्त चित्रम् अबलाः शृणुतेदम् [भा।पु। १०.३५.४] इत्य्-आदि, वृन्दशो व्रज-वृषा [भा।पु। १०.३५.५] इत्य्-आद्य्-अन्तम् । बर्हिण-स्तवक- [भा।पु। १०.३५.६] इत्य्-आदि, तर्हि भग्न-गतयः [भा।पु। १०.३५.७] इत्य्-आद्य्-अन्तम् । अनुचरैः [भा।पु। १०.३५.८] इत्य्-आदि, वन-लतास् [भा।पु। १०.३५.९] इत्य्-आद्य्-अन्तम् । दर्शनीय-तिलकः [भा।पु। १०.३५.१०] इत्य्-आदि, सरसि सारस- [भा।पु। १०.३५.११] इत्य्-आद्य्-अन्तम् । सह-बलः [भा।पु। १०.३५.१२] इत्य्-आदि, महद्-अतिक्रमण- [भा।पु। १०.३५.१३] इत्य्-आदि, विविध-गोप-चरणेषु [भा।पु। १०.३५.१४] इत्य्-आदि, सवनशस् [भा।पु। १०.३५.१५] इत्य्-आद्य्-अन्तम् । निज-पदाब्ज-दलैर् [भा।पु। १०.३५.१६] इत्य्-आदि, व्रजति तेन वयं [भा।पु। १०.३५.१७] इत्य्-आद्य्-अन्तम् । मणि-धरः [भा।पु। १०.३५.१८] इत्य्-आदि, क्वणित-वेणु-रव-[भा।पु। १०.३५.१९] इत्य्-आद्य्-अन्तम् । कुन्द-दाम- [भा।पु। १०.३५.२०] इत्य्-आदि, मन्द-वायुः [भा।पु। १०.३५.२१] इत्य्-आद्य्-अन्तं च तत्-तद्-युगलं स्मर्तव्यम् ।

अत्र सह-सिद्धैर् [३] इति तेषाम् अपि तादृश-वेणु-वाद्य-महिम्ना वनिता-भावापत्तिः सूचिता । अनुचरैर् [८] इति । अत्र आदि-पुरुष इवाचल-भूतिर् इत्य् अनेनैव बोध्यते । एवम् एव सर्वत्र तासां प्रेम-कृत-सर्वोत्तमता-स्फूर्त्या क्वचित् तद्-ऐश्वर्य-वर्णनम् उत्प्रेक्षैव यत्-पत्य्-अपत्य- [भा।पु। १०.२९.३२] इत्य्-आदिवद् इति ।

वनलता [९] इति । अत्र विष्णुं सर्वत्रैव स्फुरन्तं श्री-कृष्णम् इत्य् अर्थः । निज-पदाब्ज- [१६] इति । अत्र व्रज-भू-शब्देन तत्-स्थानि तृणादीनि लक्ष्यन्ते । तेषां च खुर-तोद-शमनं स्पर्श-माहात्म्येन नित्यम् अङ्कुर-शालित्व-करणात् । अत एवापरिमित-चतुष्पद-विगाहेऽपि तच्-चारस्य समावेशः सिध्यतीति ज्ञेयम् ।

एतद्-अनन्तरं दर्शानात्मक-सम्भोगो यथा—

वत्सलो व्रज-गवां यद् अग-ध्रो
वन्द्यमान-चरणः पथि वृद्धैः ।
कृत्स्न-गो-धनम् उपोह्य दिनान्ते
गीत-वेणुर् अनुगेडित-कीर्तिः ॥
उत्सवं श्रम-रुचापि दृशीनाम्
उन्नयन् खुर-रजश्-छुरित-स्रक् ।
दित्सयैति सुहृद्-आशिष एष
देवकी-जठर-भूर् उडु-राजः ॥ [भा।पु। १०.३५.२२-२३]

अत्र देवकी-जठर-भूर् इति सङ्केत-नाम-ग्रहणम् । सङ्केत-मूलं तु प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [भा।पु। १०.८.१४] इति ज्ञेयम् । अथवा, अनेनैवाप्रसिद्धोऽपि देवकी-शब्दोऽत्र श्री-यशोदायाम् एव ज्ञेयः । तत्र तस्या एव तन्-मातृत्वेन प्रसिद्धत्वात्—नाभेर् असाव् ऋषभ आस सुदेवी-सूनुः [भा।पु। २.७.१०] इत्य् अत्र मेरु-देव्या एव सुदेवीति संज्ञावत् । द्वे नाम्नी नन्द-भार्याया यशोदा देवकीति च इति पुराणान्तर-वचनं च तथा ।

एवं मद-विघूर्णित-लोचन ईषत् [भा।पु। १०.३५.२४] इति यदु-पतिर् द्विरद-राज-विहारः [भा।पु। १०.३५.२५] इति स्मर्तव्यम् । व्रज-गवाम् इति तत्र स्थिता बाल-वृद्धा गावस् तेषाम् अप्य् उपलक्षणत्वेनोक्ताः । तथैतद्-अग्रे—

एवं व्रज-स्त्रियो राजन् कृष्ण-लीलानुगायतीः ।
रेमिरेऽहःसु तच्-चित्तास् तन्-मनस्का महोदयाः ॥ [भा।पु। १०.३५.२६]

एवम् अपराह्णेषु तदीयागमनानन्देन नित्यम् अहःस्व् अपि रेमिरे

॥ १०.३५ ॥ श्री-शुकः ॥ ३९४-३९७ ॥

[३९८]

अथ दूर-प्रवासः । स च भावी भवन् भूतश् चेति त्रिविधः । तत्र भावी यथा—

गोप्यस् तास् तद् उपश्रुत्य बभूवुर् व्यथिता भृशम्
राम-कृष्णौ पुरीं नेतुम् अक्रूरं व्रजम् आगतम् ॥ [भा।पु। १०.३९.१३]

तासां विलापश् च—

अहो विधातस् तव न क्वचिद् दया
संयोज्य मैत्र्या प्रणयेन देहिनः ।
तांश् चाकृतार्थान् वियुनङ्क्ष्य् अपार्थकं
विक्रीडितं तेऽर्भक-चेष्टितं यथा ॥ [भा।पु। १०.३९.१९]****

तथा—यस् त्वं प्रदर्श्यासित-कुन्तलावृतं [भा।पु। १०.३९.२०] इत्य्-आदि, क्रूरस् त्वम् अक्रूर- [भा।पु। १०.३९.२१] इत्य्-आदि, न नन्द-सूनुः क्षण-भङ्ग-सौहृदः [भा।पु। १०.३९.२२] इत्य्-आदि,

सुखं प्रभाता रजनीयम् [भा।पु। १०.३९.२३] इत्य्-आदि, तासां मुकुन्दः [भा।पु। १०.३९.२४] इत्य्-आदि, अद्य ध्रुवं तत्र दृशो भविष्यते [भा।पु। १०.३९.२५] इत्य्-आदि, मैतद्-विधस्याकरुणस्य [भा।पु। १०.३९.२६] इत्य्-आदि, अनार्द्र-धीर् एष [भा।पु। १०.३९.२७] इत्य्-आदि, निवारयामः [भा।पु। १०.३९.२८] इत्य्-आदि, यस्यानुराग- [भा।पु। १०.३९.२९] इत्य्-आदि, योऽह्नः क्षये व्रजम् अनन्त-सखः [भा।पु। १०.३९.३०] इत्य्-आदिकं च स्मर्तव्यम् ।

भवन् च, यथा—

गोप्यश् च दयितं कृष्णम् अनुव्रज्यानुरञ्जिताः ।
प्रत्यादेशं भगवतः काङ्क्षन्त्यश् चावतस्थिरे ॥ [भा।पु। १०.३९.३४] इत्य्-आदि ।
ता निराशा निववृतुर् गोविन्द-विनिवर्तने ।
विशोका अहनी निन्युर् गायन्त्यः प्रिय-चेष्टितम् ॥ [भा।पु। १०.३९.३७] इत्य् अन्तम् ।

विशोका विविध-शोक-वृत्तयः सत्यः । तत्-तद्-गाने तत्-तल्-लालसायाः साक्षाद् इव स्फूर्तेर् वा विशोक-प्राया अहनी अहो-रात्रं निन्युर् यापयामासुः ।

॥ १०.३९ ॥ श्री-शुकः ॥ ४०० ॥

[४०१]

भूतो, यथा—ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः [भा।पु। १०.४६.४] इत्य्-आदिना दर्शितः । अत्र दूत-मुखेन परस्पर-सन्देश् च दृश्यते । दूताः स्फुरित-सङ्ख्यांशा उद्ध्व-बलदेवादयः । तत्र तं प्रश्रयेणावनताः सु-सत्-कृतं अ-व्रीड-हासेक्षण-सूनृतादिभिः [भा।पु। १०.४७.३] इत्य्-आदि-दिशा पूर्वं रचिताकार-गुप्तीनाम् अपि तासां महार्त्या महा-सङ्कोच-परित्यागम् अप्य् आह—

इति गोप्यो हि गोविन्दे गत-वाक्-काय-मानसाः ।
कृष्ण-दूते समायाते उद्धवे त्यक्त-लौकिकाः ॥ [भा।पु। १०.४७.९]****

अपृच्छन्न् [भा।पु। १०.४७.३] इति प्राक्तन-क्रिययान्वयः ।

॥ १०.४७ ॥ श्री-शुकः ॥ ४०१ ॥

[४०२]

अत एव—

गोप्यो हसन्त्यः पप्रच्छू
राम-सन्दर्शनादृताः ।
कच्चिद् आस्ते सुखं कृष्णः
पुर-स्त्री-जन-वल्लभः ॥ [भा।पु। १०.६५.९] इत्य्-आदि ।

हसन्त्यः प्रेमेर्ष्यया कृष्णम् उपहसन्त्य इत्य् अर्थः ।

॥१०.६५ ॥ श्री-शुकः ॥ ४०२ ॥

[४०३]

यथैव श्रीमद्-उद्धव-सन्निधाव् उन्माद-वचनम् अपि दर्शितम् ।

काचिन् मधुकरं दृष्ट्वा
ध्यायन्ती कृष्ण-सङ्गमम् ।
प्रिय-प्रस्थापितं दूतं
कल्पयित्वेदम् अब्रवीत् ॥ [भा।पु। १०.४७.११]

काचिच् छ्री-राधा । तथैव आख्यातं वासना-भाष्ये । एतद्-विवरणं च श्री-दशम-टिप्पन्यां दृश्यम् इति ।

[४०४]

तत्र उन्मादेनैव मानिनी-भङ्ग्याह अष्टभिः—मधुप कितव-बन्धो [भा।पु। १०.४७.१२] इत्य्-आदि ।

[४०५]

माने कारणम् आह—सकृद् अधर-सुधां [भा।पु। १०.४७.१३] इत्य्-आदि । अत्र किंवदन्तीम् आश्रित्य पद्मायाः प्रतिनायिकात्वेनोपन्यासः क्रियते ।

[४०६]

दूत-प्रस्तुति-प्रत्याख्यानम् किम् इह [भा।पु। १०.४७.१४] इति । विजयते सर्वं वशीकरोति इति विजयः श्री-कृष्णः स एव सखा त्वद्-बन्धुः । तस्य सखीनां सम्प्रति माथुरीणाम् एवाग्रतः तस्य विजयस्य तद्-वशीकार-पर्यन्तस्य प्रसङ्गः ।

[४०७]

तथापि तद्-आसक्तौ तद्-दोष एव कारणम् इति स्व-दोषं परिहरन्ती दैन्यम् आलम्ब्य तस्य निर्दयत्वं प्रतिपादयति–दिवि भुवि च [भा।पु। १०.४७.१५] इत्य्-आदि । अपि च एवम् अपि अस्मद्-विध-कृपण-पक्ष-पाते सत्य् एव तत्र उत्तम-श्लोक-शब्दो भवितुम् अर्हति । सम्प्रति तु तस्य तद्-अभाव-दर्शनान् न सदयत्वं, तद्-अभावान्यतराम् उत्तमश्लोकत्वम् अपि इति भावः ।

[४०८]

स्व-कौमल्य-मुद्रया जनितं तच्-चाटुकारोद्यमातिशयं मत्वाह—विसृज शिरसि [भा।पु। १०.४७.१६] इत्य्-आदि ।

[४०९]

ततः प्रणयेर्ष्यया तस्मिन् दोषम् आरोप्यापि स्वस्यास् तदीयासक्ति-परित्यागासामार्थ्यं वर्णयन्ती तत्-तद्-दोषं परिहरति–मृगयुर् [भा।पु। १०.४७.१७] इत्य्-आदि । यतस् तेऽप्य् असिता एवं-विधास् तस्माद् असितस्य श्याम-जाति-मात्रस्य सख्यैः प्रणय-बन्धैः ।

[४१०]

पुनः तत्-कथाया यद् दुस्त्यजत्वं तत् खलु तस्यापि दोषत्वेनैव स्थापयति–यद् अनुचरित [भा।पु। १०.४७.१८] इत्य्-आदि ।

[४११]

कर्णस्यैव पीयूषं न तु मनस इत्य् आपात-मात्र-स्वाद्यत्वं बोधितम् । विधूत-द्वन्द्व-धर्मत्वाद् एव विनष्टा अचेतन-प्राया जाताः । इह वृन्दावने व्हङ्गाः शुकादयोऽपि भिक्षोः सन्न्यासिनश् चर्यां देहादिनैरपेक्ष्यं चरन्ति आचरन्तो दृश्यन्त इत्य् अर्थः । ततः सानुतापम् आह—वयम् ऋतम् [भा।पु। १०.४७.१९] इति ।

[४१२]

तद् एवम् अष्टकेन मान-भङ्गीं व्यज्य स्वकाठिन्यातिशयेन दूतं निवर्तमानम् आशङ्क्य कलहान्तरिता-भङ्ग्या द्वयेनाह–प्रिय-सखा [भा।पु। १०.४७.२०] इति । तत्रापि स-कौटिल्यम् अर्धेनाह–नयसीति । द्वन्द्वं मिथुनी-भावः । दुस्त्यज-द्वन्द्वत्वे हेतुः सततम् इति । अत्र तद्-वक्षसि स्थिता लक्ष्मी रेखैव प्रेमेर्ष्यया साक्षात् तद्-रूपत्वेनोत्प्रेक्षिता ।

[४१३]

अन्ते स-दैन्यम् आह अपि बत [भा।पु। १०.४७.२१] इति ।

श्री-कृष्ण-सन्देशो यथोदाहृतः श्री-कृष्ण-सन्दर्भे [१५५-१५६] भवतीनां वियोगो मे [भा।पु। १०.४७.२९] इत्य्-आदिकः । अत्र प्रकाशान्तरेण सर्व-व्रज-सहितस्य तस्य नित्य-वृन्दावन-विहार-रूपोऽर्थस् तत्रैव प्रतिपादितः । यस् तु व्यक्तो ज्ञान-योग-प्रतिपादकः स च दुःखादौ शमयितव्ये लोक-रीत्या सम्भवतीत्य् एके ।

तत्र ज्ञान-योगोपदेशेन तासां न शान्तिर् इति द्वितीय-सन्देशो यत् त्व् अहं भवतीनां वै [भा।पु। १०.४७.३४] इत्य्-आदिकः । या मया क्रीडता रात्र्याम् [भा।पु। १०.४७.३७] इत्य् अन्तः ।

अत्र यत् त्व् अहम् इत्य्-आदौ, अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया गतान् [भा।पु। १०.८२.४२] इत्य्-आदि वक्ष्यमाणानुसारेण कार्यान्तरस्यापि भवत्-प्रेम-सुख-वृद्धि-फलत्वम् एवेत्य् अभिप्रायः ।

ततस् ताः कृष्ण-सन्देशैर्
व्यपेत-विरह-ज्वराः ।
उद्धवं पूजयाञ्चक्रुर्
ज्ञात्वात्मानम् अधोक्षजम् ॥ [भा।पु। १०.४७.५३]****

इत्य् अत्रापि व्यपेत-विरह-ज्वरत्वं तद्-आगमनादि-श्रवणेनापात-शान्ति-रूपम् एव क्वचिद् गदाग्रजः सौम्य [भा।पु। १०.४७.४०] इत्य्-आद्य्-उक्तेः । आत्मानं तस्य तद्-दूततया तत्-प्रेर्यत्वेनान्तः-करणाधिष्ठातारम् अधोक्षजं श्री-कृष्णम् एव मत्वा तद्-आत्मकत्वेनोद्धवं पूजयाञ्चक्रुर् इत्य् अर्थः । यथा चोक्तम्—

तम् आगतं समागम्य कृष्णस्यानुचरं प्रियम् ।
नन्दः प्रीतः परिष्वज्य वासुदेव-धियार्चयत् ॥ [भा।पु। १०.४६.१४] इति ।

॥ १०.४७ ॥ श्री-शुकः ॥ ४०३-४१३ ॥

[४१४]

एवं श्री-बलदेव-द्वारक-सन्देशोऽप्य् अनुमेयः—

सङ्कर्षणस् ताः कृष्णस्य सन्देशैर् हृदयं-गमैः ।
सान्त्वयामास भगवान् नानानुनय-कोविदः ॥ [भा।पु। १०.६५.१६] इत्य् अनुसारेण ।

अथ तद्-अनन्तरजः सन्दर्शनादि-मयः सम्भोगः कुरुक्षेत्र प्रसिद्धः । यथा—

गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं
यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतं शपन्ति ।
दृग्भिर् हृदी-कृतम् अलं परिरभ्य सर्वास्
तद्-भावम् आपुर् अपि नित्य-युजां दुरापम् ॥ [भा।पु। १०.८२.३९]****

[४१५]

तद् एवं तासाम् अवस्थाम् उक्त्वा श्री-भगवतोऽपि तद्-विषयक-स्नेह-मयीम् ईहाम् आह—

भगवांस् तास् तथा-भूता विविक्त उपसङ्गतः ।
आश्लिष्यानामयं पृष्ट्वा प्रहसन्न् इदम् अब्रवीत् ॥ [भा।पु। १०.८२.४०]

[४१६]

अन्तः-स-क्षोभेणापि रुक्ष एव प्रहासोऽयं स्वापराधं क्षमयता प्रपञ्चितः । तत्र स्व-व्यवहारोपपत्त्या सान्त्वयति—

अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया ।
गतांश् चिरायिताञ् छत्रु- पक्ष-क्षपण-चेतसः ॥ [भा।पु। १०.८२.४१]

किं वा, “रोषेण स्मरणम् अपि न कुरुथ” इति भावः । तत्र स्व-दोष-निवारणं स्वानाम् इति । स्वानां स्वेषाम् अस्मत्-पितुः श्री-व्रज-राजस्य बन्धु-वर्गाणां यादवानाम् । उभयेषाम् अपि यादवत्वेन ज्ञान्तीनाम् इति वा । तत्रातिविलम्बे कारणं शत्रु-पक्षेति । ततश् च भवतीनां निर्विघ्नः संयोगोऽप्य् अनेन भविष्यतीति भावः ।

[४१७]

आत्मनो वामान्तर-सङ्गम् आशङ्क्य परमेश्वर-पारतन्त्र्योपपादानेन सान्त्वयति—

अप्य् अवध्यायथास्मान् स्विद् अकृत-ज्ञाविशङ्कया ।
नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ [भा।पु। १०.८२.४२] इत्य्-आदि द्वयम् ।98

[४१८]

स्वस्य परमेश्वरत्व-प्रसिद्धिम् आशङ्क्य सङ्कुचन् तथापि विरह-जात-प्रेमातिशयोऽयं युष्मद्-अभीष्टाव्याघातायैव जात इत्य् आह—

मयि भक्तिर् हि भूतानाम्
अमृतत्वाय कल्पते ।
दिष्ट्या यद् आसीन् मत्-स्नेहो

भवतीनां मद्-आपनः ॥ [भा।पु। १०.८२.४४]

टीका च—मयि भक्ति-मात्रम् एव तावद् अमृतत्वाय कल्पते । यत् तु भवतीनां मत्-स्नेह आसीत् तद्-दिष्ट्या अतिभद्रम् । कुतः मद्-आपनः मत्-प्रापणः इत्य् एषा ।

[४१९]

तत्र स्व-प्राप्तौ विश्वासार्थं देशान्तर-स्थितस्यापि स्वस्य श्री-कृष्णाख्य-नराकृति-पर-ब्रह्मणः सर्वाश्रयत्वम् अनुभावयति—अहं हि सर्व-भूतानाम् [भा।पु। १०.८२.४५-४६]99 इत्य्-आदि-द्वये ।

[४२०]

उक्तं च दामोदर-लीलायां न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इत्य्-आदि । अत्र च पद्य-द्वये प्रकाशान्तरेण वृन्दावन एव सर्व-व्रज-सहित-तदीय-नित्य-विहारः श्री-कृष्ण-सन्दर्भे दर्शितः । स एवात्रानुसन्धेयः । तत्र च तासां तथैवानुभवोदेयो जात इत्य् आह अध्यात्म-शिक्षये [भा।पु। १०.८२.४७] इति ।

आत्मानं स्वं श्री-कृष्णम् अधिकृत्य या शिक्षा तया । विरहोद्भुत-तद्-अनुस्मरण-जीर्ण-देहास् तं श्री-कृष्णं तथैवान्वभवन्न् इति । एके त्व् आहुः—अहं हीत्यादिकं लोक-रीत्या दुःख-निवारणार्थम् एव ब्रह्म-ज्ञानम् उक्तम् । न तु तत्र तात्पर्यम् । यथा रुक्मि-वैरूप्य-कृतौ श्री-बलदेवेन वहति न तु तत्र तात्पर्यं, तद्वत् । तद् एवम् एव तादृशाध्यात्म-शिक्षयापि तास् तम् एवाध्यगान् न तु ब्रह्मेति ।

[४२१]

तथापि तासां साक्षात्-प्राप्त्य्-उत्कण्ठाम् आह—आहुश् च ते नलिन-नाभ पदारविन्दम् [भा।पु। १०.८२.४८] इत्य्-आदि ।

तत्र हे नलिननाभ ! नोऽस्माकं दुःखोद्रेकेण त्वच्-चिन्तनारम्भ-जायमान-मूर्छानां ते तव पदारविन्दं मनस्य् अप्य् उदियात् । यत् खलु यथा भवतोपदिस्टं, तद्-अनुसारेण अक्षुभित-बोधैर् योगेश्वरैर् हृदि विचिन्त्यम् इत्य्-आदि श्री-कृष्ण-सन्दर्भ-व्याख्या द्रष्टव्या [१७०] ॥

॥ १०.८२ ॥ श्री-शुकः ॥ ४१४-४२१ ॥

[४२२]

तद् एवं सन्दर्शन-संस्पर्शन-संजल्पात्मक-सम्भोगोऽत्र दर्शितः । तस्मिन् मास-त्रय-संवासात्मके च वैशेष्ट्यान्तरम् अप्य् ऊह्यम् । अथ पुनस् तद्-अनन्तर-जात-विप्रलम्भानन्तरम् अपि भावी योऽपुनर्-विच्छेदः सम्भोगः स च तत्रैव सूचितोऽस्ति । यथा,

तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः [भा।पु। १०.८३.१] इति ।

आहुश् चेत्य् आदिना यथा तासां साक्षात्-तत्-प्राप्ति-पर्यन्तम् अभीष्टं तथानुगृह्य गतिर् नित्यतया प्राप्तव्यः ।

॥ १०.८३ ॥ श्री-शुकः ॥ ४२२ ॥

[४२३]

एवम् एव श्री-कृष्ण-सन्दर्भे पाद्मोत्तर-खण्डाद्य्-अनुसारेण दर्शितम् अस्ति । तत्र हि श्री-कृष्णस्य द्वारकातो वृन्दावने पुनर् आगमनम् । तदा प्रापञ्चिक-लोक-प्रकटतया मास-द्वयं ताभिः क्रीडा । तद्-अनन्तरं च तद्-अप्रकटतया ताभ्यो नित्य-संयोग-दानम् इति । एकादशेऽपि स्वयम् एवोद्धवं प्रति तद् एव स्पष्टम् उक्तम् । तत्र रामेण सार्धं मथुरां प्रणीत [भा।पु। ११.१२.१०] इत्य्-आदि-द्वये वियोग-तीव्राधयस् ता मत्तोऽन्यं सुखाय न ददृशुर् इति । तास् ताः क्षपा मया हीनाः कल्प-समा बभूवुः [भा।पु। ११.१२.११] इति चातीत-प्रयोगेण तदानीं विरहस्य नास्तित्वं बोधितम् ।

तद्-अनन्तरं स्व-प्राप्ति-सुखोल्लासश् च वर्णितः । ता नाविदन् मय्य् अनुषङ्ग-बद्ध-धियः [भा।पु। ११.१२.१२] इत्य्-आदि-द्वयेन । अनु महा-विरहस्य पश्चाद् यः सङ्गस् तेन बद्ध-धियः सत्यः परमानन्दावेशेन तदानीं किम् अपि नाविदन् । हर्ष-मोहं प्रापुर् इत्य् अर्थः।

तत्र तज्-ज्ञानस्य कृष्णैकतानतायां दृष्टान्तः यथेति । अस्यार्थान्तरम् अपि श्री-कृष्ण-सन्दर्भे कृतम् अस्ति मत्-कामा रमणं जारम् [भा।पु। ११.१२.१३] इत्य्-आदौ तद्-अनन्तर-पद्ये तं च यादृशं प्रापुस् तथा विशिनष्टि । विवृतं च तत्रैव सङ्क्षेपतश् च । मां श्री-कृष्णाख्यं परमं ब्रह्म प्रापुः । तं च मन्-नित्य-प्रेयसी-लक्षणं स्व-स्वरूपम् अजानन्त्यो जार-रूपं पूर्वं प्रापुः । तथापि मयि कामः रमणत्वेनाभिलाषो यासां तादृश्यः सत्यो रमण-रूपं तु पश्चाद् इति ।

ततः परकीयाभासत्वं च तासां काल-कतिपयमयत्वेनैव व्याख्यातम् । एवम् एवाभिप्रेतम् अस्मद् उपजीव्य-श्रीमच्-चरणानाम् उज्ज्वल-नीलमणौ तत्रोपक्रमे—

नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा
तद् गोकुलाम्बुजदृशां कुलम् अन्तरेन ।
आशांसया रसविधेर् अवतारितानां
कंसारिणा रसिकमण्डलशेखरेण ॥ [उ।नी। ५.३]

इत्य् अत्रावतार-समय एव तथा व्यवहार-निगमनात् । उपसंहारे च ललित-माधवस्य दग्धं हन्त दधानया वपुः [ल।मा। ७.१८] इत्य्-आदाव् औपपत्य-भ्रम-हानान्तर-लीलायां सर्व-फलस्य समृद्धिमद्-आख्यस्य सम्भोगस्य दर्शितत्वात् ।

तद् एवम् अस्य विप्रलम्भ-चतुष्टय-पुष्टस्य सम्भोग-चतुष्टयस्य सन्दर्शनादि-त्रयात्मकस्यावान्तर-भेदा अन्येऽपि ज्ञेयाः । यथा लीला-चौर्यं सङ्गानं रासः जल-क्रीडा वृन्दावन-विहार इत्य्-आदयः । तत्र लीला-चौर्यं यथा, तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः [भा।पु। १०.२२.९] इत्य्-आदि । स्पष्टम् ।

॥ १०.२२ ॥ श्री-शुकः ॥ ४२३ ॥

[४२४]

सङ्गानम् काचित् समं मुकुन्देन [भा।पु। १०.३३.९] इत्य्-आदौ । एवं

कदाचिद् अथ गोविन्दो रामश् चाद्भुत-विक्रमः ।
विजह्रतुर् वने रात्र्यां मध्य-गौ व्रज-योषिताम् ॥
उपगीयमानौ ललितं स्त्री-जनैर् बद्ध-सौहृदैः ।

स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजो-ऽम्बरौ ॥

[भा।पु। १०.३४.२०-२१] इत्य्-आदि ।

प्रायो होरिकावसरोऽयम् । व्रज एव गानेन स-भ्रातृकस्यापि तस्य स्त्री-जनैर् विहारात् । तथा भविष्योत्तर-विधानात् । तथैवाद्याप्य् आर्यावर्तीय-प्रजानाम् आचारोऽपि दृश्यते । अत्र च निशा-मुखं मानयन्ताव् उदितोडुप-तारकम् [भा।पु। १०.३४.१३] इति तन्-मोहात् सवशालिन्यां फाल्गुन-पौर्णमास्यां हेमन्त-शिशिर-हिम-कुज्झटिकान्ते चन्द्राद्य्-उल्लासे तद्-उल्लासो वर्णितः । तस्मात् तदानीं सख्योल्लास-धारिणा श्री-रामेणापि युतिः सङ्गतैव । वने रात्र्याम् इति पाठस् तु क्वाचित्क एव । तत्र च व्रजान्तस्थम् एव वनं ज्ञेयम् ।

॥ १०.३४ ॥ श्री-शुकः ॥ ४२४ ॥

[४२५-४२७]

रासः । तत्रारभत गोविन्दो रास-क्रीडाम् अनुव्रतैः [भा।पु। १०.३३.२] इत्य्-आदि । जल-क्रीडा—सोऽम्भस्य् अलं युवतिभिः परिषिच्यमानः [भा।पु। १०.३३.२३] इत्य्-आदि । वृन्दावन-विहारः—ततश् च कृष्णोपवने जल-स्थल-प्रसून-गन्धानिल-जुष्ट-दिक्-तटे [भा।पु। १०.३३.२४] इत्य्-आदि । स्पष्टम् ।

॥ १०.३३ ॥ सः ॥ ४२५-४२७॥

[४२८]

अथ सम्प्रयोगो यथा—बाहु-प्रसार-परिरम्भ-करालकोरु-नीवी [भा।पु। १०.२९.४६] इत्य्-आदि । स्पष्टम् ।

॥ १०.२९ ॥ सः ॥ ४२८ ॥

[४२९]

इयं च श्री-कृष्ण-चन्द्रस्योज्ज्वल-लीला रास-सम्बन्धिन्य् अप्य् अनन्तत्वेन सम्मता—एवं शशाङ्कांशु-विराजिता निशाः [भा।पु। १०.३३.२५] इत्य्-आदौ ।

अथ सर्व-सौभाग्यवतीम् ऊर्ध्व-मणेः श्री-राधिकायाः सम्बन्धिनीं लीलां वर्णयन्ति—

कस्याः पदानि चैतानि याताया नन्द-सूनुना ।
अंस-न्यस्त-प्रकोष्ठायाः करेणोः करिणा यथा ॥
अनयाराधितो नूनं भगवान् हरिर् ईश्वरः ।
यन् नो विहाय गोविन्दः प्रीतोऽयम् अनयद् रहः ॥
धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्य्-अब्ज-रेणवः ।
यान् ब्रह्मेशो रमा देवी दधुर् मूर्ध्न्य् अघ-नुत्तये ॥
तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् ।
यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ॥
न लक्ष्यन्ते पदान्य् अत्र तस्या नूनं तृणाङ्कुरैः ।
खिद्यत्-सुजाताङ्घ्रि-तलाम् उन्निन्ये प्रेयसीं प्रियः ॥
इमान्य् अधिक-मग्नानि पदानि वहतो वधूम् ।
गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ॥
अत्रावरोपिता कान्ता पुष्प-हेतोर् महात्मना ।
अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः ॥
प्रपदाक्रमणे एते पश्यतासकले पदे ।
केश-प्रसाधनं त्व् अत्र कामिन्याः कामिना कृतम् ।

तानि चूडतया कान्ताम् उपविष्टम् इह ध्रुवम् ॥ [भा।पु। १०.३०.२७-३४]

अत्र कस्या (२७) इति सर्वासां वाक्यम् । अनया (२८) इति सुहृदाम् । धन्या (२९) इति तटस्थानाम् । तस्या (३०) इति प्रतिपक्षाणाम् । न लक्ष्यन्ते (३१) इति ताः खेदयन्तीनां सखीनाम् । इमानि (३२) इति तद्-असहमानानां प्रतिपक्षाणाम् । अत्रावरोपिता (३३) इति सार्धं पुनः सखीनाम् । केश- (३४) इति पुनः प्रतिपक्षाणाम् अर्धम् । तानि (३४) इति पुनः सखीनाम् इति ज्ञेयम् । तन्-मिथुन-विषयक-तत्-तच्-छब्द-प्रयोगेण सौहृदादि-व्यञ्जनात् । या तु विलोक्यार्ताः समब्रुवन् [भा।पु। १०.३०.२६] इति सर्वासाम् एवार्तिर् उक्ता सापि स्वस्योत्कण्ठा-विशेषेण सर्वत्र सङ्गच्छत एव ॥

॥ १०.३० ॥ श्री-व्रज-देव्यः ॥ ४२९ ॥

तत्र तस्याः श्री-वृन्दावनेश्वर्या लीलायां प्राक्-प्रदर्शितम् अप्य् एणपत्नी [भा।पु। १०.३०.११] इत्य्-आदि-द्वयं चानुसन्धेयम् ॥

तत्र विस्तर-शङ्कातो या या व्याख्या न विस्तृता ।

सा श्री-दशम-टिप्पन्यां दृश्या रसम् अभीप्सुभिः ॥

तद् एवम् अनेन सन्दर्भेण शास्त्र-प्रयोजनं व्याख्यातम् । तथा चैवम् अस्तु ।

आलीभिः परिपालितः प्रवलितः सानन्दम् आलोकितः

प्रत्याशं सुमनः-फलोदय-विधौ सामोदम् आमोदितः ।

वृन्दारण्य-भुवि प्रकाश-मधुरः सर्वातिशायि-श्रिया

राधा-माधवयोः प्रमोदयतु माम् उल्लास-कल्प-द्रुमः ॥

तादृश-भावं भावं प्रथयितुम् इह योऽवतारम् आयातः ।

आ-दुर्जन-गण-शरणं स जयति चैतन्य-विग्रहः कृष्णः ॥

इति श्री-कलि-युग-पावन-स्व-भजन-विभाजन-प्रयोजनावतार-श्री-श्री-भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-विश्व-वैष्णव-राज-सभाजन-भाजन-श्री-रूप-सनातनानुशासन-भारती-गर्भे श्री-भागवत-सन्दर्भे प्रीति-सन्दर्भो नाम षष्ठः सन्दर्भः ॥

श्री-भागवत-सन्दर्भे सर्व-सन्दर्भ-गर्भगे ।

प्रीत्याख्यः षष्ठः सन्दर्भः समाप्तिम् इह सङ्गतः ॥

समाप्तोऽयं षष्ठः सन्दर्भः । सम्पूर्णोऽयं ग्रन्थः ।


  1. तस्मात् प्रियतमः स्वात्मा सर्वेषाम् एव देहिनाम् तद् अर्थम् एव सकलं जगच् चैतच् चराचरम् ↩︎

  2. सर्व-वेदान्त-सारं यद् ब्रह्मात्मैकत्व-लक्षणम् । वस्त्व् अद्वितीयं तन्-निष्ठं कैवल्यैक-प्रयोजनम् ॥ ↩︎

  3. भयं द्वितीयाभिनिवेशतः स्याद् ईशाद् अपेतस्य विपर्ययोऽस्मृतिः तन्-माययातो बुध आभजेत् तं भक्त्यैकयेशं गुरु-देवतात्मा ↩︎

  4. स्थिरं सुखं चासनम् आस्थितो यतिर् यदा जिहासुर् इमम् अङ्ग लोकम् काले च देशे च मनो न सज्जयेत् प्राणान् नियच्छेन् मनसा जितासुः मनः स्व-बुद्ध्यामलया नियम्य क्षेत्र-ज्ञ एतां निलयेत् तम् आत्मनि आत्मानम् आत्मन्य् अवरुध्य धीरो लब्धोपशान्तिर् विरमेत कृत्यात् न यत्र कालोऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे न यत्र सत्त्वं न रजस् तमश् च न वै विकारो न महान् प्रधानम् परं पदं वैष्णवम् आमनन्ति तद् यन् नेति नेतीत्य् अतद्-उत्सिसृक्षवः विसृज्य दौरात्म्यम् अनन्य-सौहृदा हृदोपगुह्यार्ह-पदं पदे पदे इत्थं मुनिस् तूपरमेद् व्यवस्थितो विज्ञान-दृग्-वीर्य-सुरन्धिताशयः स्व-पार्ष्णिनापीड्य गुदं ततोऽनिलं स्थानेषु षट्सून्नमयेज् जित-क्लमः नाभ्यां स्थितं हृद्य् अधिरोप्य तस्माद् उदान-गत्योरसि तं नयेन् मुनिः ततोऽनुसन्धाय धिया मनस्वी स्व-तालु-मूलं शनकैर् नयेत तस्माद् भ्रुवोर् अन्तरम् उन्नयेत निरुद्ध-सप्तायतनोऽनपेक्षः स्थित्वा मुहूर्तार्धम् अकुण्ठ-दृष्टिर् निर्भिद्य मूर्धन् विसृजेत् परं गतः ↩︎

  5. यदि प्रयास्यन् नृप पारमेष्ठ्यं वैहायसानाम् उत यद् विहारम् अष्टाधिपत्यं गुण-सन्निवाये सहैव गच्छेन् मनसेन्द्रियैश् च योगेश्वराणां गतिम् आहुर् अन्तर्-बहिस्-त्रि-लोक्याः पवनान्तर्-आत्मनाम् न कर्मभिस् तां गतिम् आप्नुवन्ति विद्या-तपो-योग-समाधि-भाजाम् वैश्वानरं याति विहायसा गतः सुषुम्णया ब्रह्म-पथेन शोचिषा विधूत-कल्कोऽथ हरेर् उदस्तात् प्रयाति चक्रं नृप शैशुमारम् तद् विश्व-नाभिं त्व् अतिवर्त्य विष्णोर् अणीयसा विरजेनात्मनैकः नमस्कृतं ब्रह्म-विदाम् उपैति कल्पायुषो यद् विबुधा रमन्ते अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् निर्याति सिद्धेश्वर-जुष्ट-धिष्ण्यं यद् द्वै-परार्ध्यं तद् उ पारमेष्ठ्यम् न यत्र शोको न जरा न मृत्युर् नार्तिर् न चोद्वेग ऋते कुतश्चित् यच् चित्ततोऽदः कृपयानिदं-विदां दुरन्त-दुःख-प्रभवानुदर्शनात् ततो विशेषं प्रतिपद्य निर्भयस् तेनात्मनापोऽनल-मूर्तिर् अत्वरन् ज्योतिर्मयो वायुम् उपेत्य काले वाय्व्-आत्मना खं बृहद् आत्म-लिङ्गम् घ्राणेन गन्धं रसनेन वै रसं रूपं च दृष्ट्या श्वसनं त्वचैव श्रोत्रेण चोपेत्य नभो-गुणत्वं प्राणेन चाकूतिम् उपैति योगी स भूत-सूक्ष्मेन्द्रिय-सन्निकर्षं मनोमयं देवमयं विकार्यम् संसाद्य गत्या सह तेन याति विज्ञान-तत्त्वं गुण-सन्निरोधम् तेनात्मनात्मानम् उपैति शान्तम् आनन्दम् आनन्दमयोऽवसाने एतां गतिं भागवतीं गतो यः स वै पुनर् नेह विषज्जतेऽङ्ग ↩︎

  6. मुक्ताश्रयं यर्हि निर्विषयं विरक्तं निर्वाणम् ऋच्छति मनः सहसा यथार्चिः आत्मानम् अत्र पुरुषोऽव्यवधानम् एकम् अन्वीक्षते प्रतिनिवृत्त-गुण-प्रवाहः सोऽप्य् एतया चरमया मनसो निवृत्त्या तस्मिन् महिम्न्य् अवसितः सुख-दुःख-बाह्ये हेतुत्वम् अप्य् असति कर्तरि दुःखयोर् यत् स्वात्मन् विधत्त उपलब्ध-परात्म-काष्ठः देहं च तं न चरमः स्थितम् उत्थितं वा सिद्धो विपश्यति यतोऽध्यगमत् स्वरूपम् दैवाद् उपेतम् अथ दैव-वशाद् अपेतं वासो यथा परिकृतं मदिरा-मदान्धः देहोऽपि दैव-वशगः खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासुः तं स-प्रपञ्चम् अधिरूढ-समाधि-योगः स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः ↩︎

  7. एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगद् ॥ ↩︎

  8. [१०.२८.१५] देहादि-पिहितानां दर्शनम् अशक्यम् इति प्रथमं देहादि-व्यतिरिक्तं ब्रह्म-स्वरूपं दर्शयामास। ↩︎

  9. कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् वनं तु सात्त्विको वासो ग्रामो राजस उच्यते तामसं द्यूत-सदनं मन्-निकेतं तु निर्गुणम् सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् ↩︎

  10. दोएस् नोत् अप्पेअर् इन् पुरिदस्ऽस् एदितिओन्, बुत् इन् प्ग्ग् अन्द् य्। प् दोएस् नोत् एवेन् नोते थे वरिअन्त्। ↩︎

  11. तच् च रूपम् उत्फुल्ल-पद्म-दलामलाक्षमत्य्-उज्ज्वल-पीत-वस्त्र-धार्य् अमल-किरीट-केयूर-हार-कटकादि-शोभितम् उदार-चतुर्-बाहु-शङ्ख-चक्र-गदाधरम् अतिप्ररूढ-वैरानुभावाद् अटन-भोजन-स्नानासन-शयनादिष्व् अशेषावस्थान्तरेषु नान्यत्रोपययाव् अस्य चेतसः। [श्री-कृष्ण-सन्दर्भ १०६] ↩︎

  12. ततस् तम् एवाक्रोशेषूच्चारयंस् तम् एव हृदयेन धारयन्न् आत्म-वधाय यावद्-भगवद्-धस्त-चक्रांशु-मालोज्ज्वलम् अक्षय-तेजः-स्वरूपं ब्रह्म-भूतम् अपगत-द्वेषादि-दोषं भगवन्तम् अद्राक्षीत्। ↩︎

  13. मरणम् (छ, ज)। ↩︎

  14. थे लस्त् त्wओ वेर्सेस् ओफ़् थेसे फ़ोउर् चन् बे फ़ोउन्द् इन् अ सोमेwहत् अल्तेरेद् फ़ोर्म् अत् सृष्टि-खण्ड, छप्तेर् १९.२१७-२१८, इ।ए। प्प् १.१९.२१७-२१८। थे चोन्तेxत् थेरे इस् थे ग्लोरिएस् ओफ़् पुष्कर। थे फ़ुल्ल् फ़ोउर् वेर्सेस् अरे फ़ोउन्द् wइथ् लित्त्ले छन्गे इन् थे भूमि-खण्द (प्प् २.९५.१४-१८)। थे चोन्तेxत् थेरे इस् थे पोसितिवे अन्द् नेगतिवे सिदेस् ओफ़् स्वर्ग। सो wए तके सृष्टि-खण्ड अस् अन् एर्रोनेओउस् अत्त्रिबुतिओन्। ↩︎

  15. यं धर्म-कामार्थ-विमुक्ति-कामा भजन्त इष्टां गतिम् आप्नुवन्ति किं चाशिषो रात्य् अपि देहम् अव्ययं करोतु मेऽदभ्र-दयो विमोक्षणम् ↩︎

  16. अदृष्ट्वान्यतमं लोके शीलौदार्य-गुणैः समम् अहं सुतो वाम् अभवं पृश्निगर्भ इति श्रुतः ↩︎

  17. -युक्तेन प्राप्ता भगवती गतिः (ग्प्) ↩︎

  18. मनो ब्रह्मणि युञ्जानो यत् तत् सद्-असतः परम् गुणावभासे विगुण एक-भक्त्यानुभाविते निरहङ्कृतिर् निर्ममश् च निर्द्वन्द्वः सम-दृक् स्व-दृक् प्रत्यक्-प्रशान्त-धीर् धीरः प्रशान्तोर्मिर् इवोदधिः वासुदेवे भगवति सर्व-ज्ञे प्रत्यग्-आत्मनि परेण भक्ति-भावेन लब्धात्मा मुक्त-बन्धनः आत्मानं सर्व-भूतेषु भगवन्तम् अवस्थितम् अपश्यत् सर्व-भूतानि भगवत्य् अपि चात्मनि इच्छा-द्वेष-विहीनेन सर्वत्र सम-चेतसा भगवद्-भक्ति-युक्तेन प्राप्ता भागवती गतिः ↩︎

  19. थे पोर्तिओन् बेत्wएएन् स्क़ुअरे ब्रच्केत्स् इस् एलिदेद् इन् अल्ल् एदितिओन्स्। ↩︎

  20. “तुर्यातीता निगद्यते” इति क्वापि दृश्यते। ↩︎

  21. थे रेमैन्देर् ओफ़् थिस् परग्रफ् नोत् इन् (य) ↩︎

  22. अन्यत् तु फलम् अतत्त्व-विदां मतं, तत्राह (य) ↩︎

  23. भक्ति-सन्दर्भे वासना-भाष्ये धृत भगवत्-परिशिष्टम्। द्वितीयश्लोकस् तत्र रथयात्रा-प्रसङ्गे विष्णुचन्द्रोदय-नामक-ग्रन्थत उद्धृतः। ↩︎

  24. प्ग्ऽस् एदितिओन् ब्रच्केत्स् थिस् फ्रसे। इत् चोउल्द् बे सेएन् अस् सुपेर्फ़्लुओउस्। ↩︎

  25. व्यापार- (ज) ↩︎

  26. मायाविनस् ताम् ↩︎

  27. श्री-कृष्ण-सन्दर्भ १७७। ↩︎

  28. अनन्त-धाम- (च, छ) ↩︎

  29. णिज् इत्य्-अर्थः। ↩︎

  30. इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः । ↩︎

  31. नाथ योनि-सहस्रेषु येषु येषु व्रजाम्य् अहम् । तेषु तेष्व् अच्युता भक्तिर् अच्युतास्तु सदा त्वयि ॥ ↩︎

  32. मयि भक्तिस् तवास्त्य् एव भूयोऽप्य् एवं भविष्यति । वरस् तु मत्तः प्रह्लाद व्रियतां यस् तवेप्सितः ॥२०॥ ↩︎

  33. दृष्ट्वा इस् इन्सेर्तेद् हेरे इन् सोमे रेअदिन्ग्स्। (गिवेन् अस् अ वरिअन्त् इन् प्राण गोपाल गोस्वामीऽस् एदितिओन्।) ↩︎

  34. उदितत्वं (छ, ज) ↩︎

  35. स्वरूपानन्द-विशेषीभवति (छ, ज) ↩︎

  36. वसना (क) ↩︎

  37. अत्र स्वरूपम् इति पाठः क्वचिद् दृश्यते । जीवगोस्वामिनः पाथस् तु सरूपम् इति । विजय-रथ-कुटुम्ब आत्त-तोत्रे धृत-हय-रश्मिनि तच्-छ्रियेक्षणीये भगवति रतिर् अस्तु मे मुमूर्षोर् यम् इह निरीक्ष्य हता गताः सरूपम् ↩︎

  38. विहीनाः (अल्ल् बुत् क, ख) ↩︎

  39. सोऽयं इत्य्-आद्य्-अतिरिक्त-पाठः ख-घ-च-करलिपिषु लभ्यते ॥ ↩︎

  40. स्वयम् एव तत् तया इति कः। ↩︎

  41. -तात्पर्यान्त- ↩︎

  42. फ़्रोम् हेरे तो थे एन्द् ओफ़् थिस् अनुच्छेद, हस् थे फ़ोल्लोwइन्ग्- आनन्त्यं मोक्षम् । हरेः पदं पर-व्योमादि-वैकुण्ठेषु सालोक्यम् । यद् वा, बह्व्-ऋच-ब्राह्मणोक्त-क्रमेण प्राग्-आदि-चतुष्टयाधिपत्यानि साम्राज्य-भोज्य-स्वाराज्य-वैराज्यानि व्याख्येयानि । तत्रापि भोज्यम् इति चतुर्थ-सन्ध्य्-अक्षर-मध्यं श्रूयते । तर्हि किं कामयध्वे ? तत्राहुः—एतस्य गदा-भृतः श्री-द्वारका-नाथस्य श्रीमत्-पाद-रज एव । कथं-भूतम् ? श्रियो रुक्मिण्याः श्री-राधाया वा कुच-कुङ्कुम-गन्धाढ्यं यत्, तद् एव । प्रादुर्भावस्य चरण-रजः, अन्य-सालोक्यादि-परित्यागाद् इति भावः । किं कर्तुं कामयध्वे ? मूर्ध्ना वोढुं । अत्यन्त-तिरस्कृत-वाच्य-ध्वनिना परम-पतिव्रताभिस् ताभिः श्री-रुक्मिणी-वल्लभस्य सापत्न्य-दोष-परित्यागेनैव चरण-सेवां कामयामहे इति व्यञ्जितम् । तं चरण-सेवा-लक्षणं पाद-स्पर्शं यद् येन, यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु” [भा।पु। १०.३१.१९] इत्य्-आदि-श्रुति-नवनीत-सुकुमार-प्रेम-विशेषेण व्रज-स्त्रियो वाञ्छन्ति, तम् एव प्रेम-विशेषं कामयामहे, पाद-स्पर्शस् तु श्री-रुक्मिण्य्-आदीनां चास्माकं च नित्यम् एव विद्यत इति भावः । अहो आस्तां तावत् तासां दूरतो वार्तेत्य्-आदि-दैन्येनाहुः—पूर्णाः पुलिन्द्य उरुगाय [भा।पु। १०.२१.१७] इत्य्-आदिना ताभिर् एव स्वयं श्री-मुखेन श्लाघयानुगृहीतास् तत्-सम्बन्धि-कृष्ण-पद-कुङ्कुम-स्पृष्टाश् च पुलिन्द्यो यास् तादृश-भाववत्यश् च तथाप्य् आस्तां, याश् च पूर्णा इत्य्-आदिनैव ताभिर् एव पूर्ववत् प्रशस्तास् तादृश-कुङ्कुमेनापि स्पृष्टाः, केवलेन हि भावेन गोप्यो गावो नगा मृगाः [भा।पु। ११.१२.८] इत्य्-आद्य्-उक्तानुसारेण तादृश-भाववत्यः स्त्री-जातीयास् तृण-वीरुधो यवस-रूपा वल्ल्यो दूर्वाद्यास् ताश् च तथाप्य् आसताम् ये च पुरुषत्वात् तज्-जातीय-भाव-लाभाक्षमाः, वाञ्छन्ति यद् भव-भियो मुनयो वयं च [भा।पु। १०.४७.५८] इतिवत् कथञ्चिल् लब्ध-तद्-वासना गोप्यः केऽपि प्रिय-नर्म-सखाभिधाः, तेऽपि, येन तथाविध-भाव-विशेषेण तं पाद-स्पर्शं वाञ्छन्ति, तम् अपि तदीय-भाव-विशेषांशं कामयामह इति । गावो गास् चारयतश् चारयन्त इति तेषां गौरवाद्य्-अभावेन शुद्ध-सख्यं दर्शितम् ॥ इति क-करलिपेः पाठान्तरम् ॥ ↩︎

  43. फ़्रोम् स्नेह… थिस् सेन्तेन्चे नोत् इन् मन्य् एदितिओन्स्। ↩︎

  44. इति मुष्टिं सकृज् जग्ध्वा द्वितीयां जग्धुम् आददे । तावच् छ्रीर् जगृहे हस्तं तत्-परा परमेष्ठिनः ॥ ↩︎

  45. थिस् सेन्तेन्चे फ़ोउन्द् ओन्ल्य् इन् क। ↩︎

  46. यद् वा, एवं विमृष्य वव्रे विमर्शनम् एवानुवदति—अव्यभिचारीति । निरपेक्षोऽप्य् अप्राकृताव्यभिचार-सद्गुणत्वाद् भक्त-वत्सलतया मामङ्गीकरिष्यत्य् एवेति भावः । न तु योग्य एवायं तस्य महतो महा-गुणः भवत्यास् त्व् अयोग्यायास् तद्-वरणं न योग्यं तत्राह—सर्वैर् गुणैः प्राकृतैर् अप्य् अपेक्षितं मायांश-भूताभिस् तत्-तद्-अधिष्ठातृ-देवीभिः स्व-समृद्धये समाश्रयतेऽसौ किम् उत मयेत्य् अर्थः ॥ (क्रम-सन्दर्भः) ↩︎

  47. दुःखाभावात् (अल्ल् बुत् क, च, बुत् प्रेफ़ेरेद् ब्य् प्)। ↩︎

  48. मृतकं द्विपम् उत्सृज्य दन्त-पाणिः समाविशत् । अंस-न्यस्त-विषाणोऽसृङ्- मद-बिन्दुभिर् अङ्कितः । विरूढ-स्वेद-कणिका- वदनाम्बुरुहो बभौ ॥ ↩︎

  49. श्लोकस्य शेषांशः, यथा— ऐकात्म्यं मां गतं विद्धि पाण्डवैर् धर्म-चारिभिः ॥ ↩︎

  50. निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् । धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ॥ वसुदेवस् तु दुर्मेधा हन्यताम् आश्व् असत्तमः । उग्रसेनः पिता चापि सानुगः पर-पक्ष-गः ॥ एवं विकत्थमाने वै कंसे प्रकुपितो ऽव्ययः । लघिम्नोत्पत्य तरसा मञ्चम् उत्तुङ्गम् आरुहत् ॥ ↩︎

  51. ये ये हताः चक्र-धरेण दैत्याः त्रैलोक्य-नाथेन जनार्दनेन । ते ते गताः विष्णु-पुरीं प्रयाताः क्रोधो अपि देवस्य वरेण तुल्यः ॥ (पाण्डव-गीता २३) ↩︎

  52. रमणावेश इति क्रम-सन्दर्भः । ↩︎

  53. ओन्ल्य् थे फ़िर्स्त् लिने इस् गिवेन् इन् प्रीति-सन्दर्भ। इत् हस् बेएन् चोर्रेच्तेद् अगैन्स्त् थे ओरिगिनल् अन्द् गिवेन् इन् फ़ुल्ल्। ↩︎

  54. विकारित्वात् । ↩︎

  55. एष प्रपन्न-वरदो रमयात्म-शक्त्या यद् यत् करिष्यति गृहीत-गुणावतारः । तस्मिन् स्व-विक्रमम् इदं सृजतोऽपि चेतो युञ्जीत कर्म-शमलं च यथा विजह्याम् ॥ ↩︎

  56. निरीक्ष्य तद्-वपुर् अलम् अम्बरे चरत् प्रदीप्त-दृग् भ्रु-कुटि-तटोग्र-दंष्ट्रकम् ज्वलच्-छिखं कटक-किरीट-कुण्डल-त्विषाद्भुतं हलधर ईषद् अत्रसत् ↩︎

  57. साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् मद्-अन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि ↩︎

  58. सञ्जात-कोपः स्फुरितारुणाधरं सन्दश्य दद्भिर् दधि-मन्थ-भाजनम् भित्त्वा मृषाश्रुर् दृषद्-अश्मना रहो जघास हैयङ्गवम् अन्तरं गतः ↩︎

  59. तान् वीक्ष्य कृष्णः सकलाभय-प्रदो ह्य् अनन्य-नाथान् स्व-कराद् अवच्युतान् दीनांश् च मृत्योर् जठराग्नि-घासान् घृणार्दितो दिष्ट-कृतेन विस्मितः ↩︎

  60. सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः साद्रि-द्वीपाब्धि-भूगोलं स-वाय्व्-अग्नीन्दु-तारकम् ↩︎

  61. नाहं भक्षितवान् अम्ब सर्वे मिथ्याभिशंसिनः यदि सत्य-गिरस् तर्हि समक्षं पश्य मे मुखम् ↩︎

  62. तद् दाम बध्यमानस्य स्वार्भकस्य कृतागसः द्व्य्-अङ्गुलोनम् अभूत् तेन सन्दधेऽन्यच् च गोपिका ↩︎

  63. स्व-मातुः स्विन्न-गात्राया विस्रस्त-कबर-स्रजः दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्व-बन्धने ↩︎

  64. स-कलत्र-सुहृत्-पुत्रो द्वीपम् अब्धेर् जगाम ह तदैव सामृत-जला यमुना निर्विषाभवत् अनुग्रहाद् भगवतः क्रीडा-मानुष-रूपिणः ↩︎

  65. इत्य् आकर्ण्य वचः प्राह भगवान् कार्य-मानुषः नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् ↩︎

  66. थिस् सेन्तेन्चे इस् नोत् इन् क, च। ↩︎

  67. अथ ↩︎

  68. प्रतिलक्षणत (ञ) ↩︎

  69. अल्ल् तेxत्स् हवे -आदीन्यां ↩︎

  70. चैतान्य् एव लौकिकत्वेऽपि अलौकिकायमानतयैव (प्ग्ग्) ↩︎

  71. गाश् चारयन्तौ सखिभिः समं पदैर् वृन्दावनं पुण्यम् अतीव चक्रतुः ॥ ↩︎

  72. जीवेति ↩︎

  73. सम्यङ्-निर्णीत एव (प्ग्ग्) ↩︎

  74. मनसो वृत्तयो नः स्युः कृष्ण-पादाम्बुजाश्रयाः । वाचोऽभिधायिनीर् नाम्नां कायस् तत्-प्रह्वणादिषु ॥ कर्मभिर् भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया । मङ्गलाचरितैर् दानै रतिर् नः कृष्ण ईश्वरे ॥ ↩︎

  75. एव-कारेण तदासत्ति-रूपोऽनुभावो दर्शितः । ↩︎

  76. “कूर्म-पुराणोक्ताः…पूर्वोक्ता” इत्य् अनुच्छेदांशः क-करलिपितः प्राप्तः । ↩︎

  77. या दोहनेऽवहनने मथनोपलेप- प्रेङ्खेङ्खनार्भ-रुदितोक्षण-मार्जनादौ । गायन्ति चैनम् अनुरक्त-धियोऽश्रु-कण्ठ्यो धन्या व्रज-स्त्रिय उरुक्रम-चित्त-यानाः ॥ प्रातर् व्रजाद् व्रजत आविशतश् च सायं गोभिः समं क्वणयतोऽस्य निशम्य वेणुम् । निर्गम्य तूर्णम् अबलाः पथि भूरि-पुण्याः पश्यन्ति स-स्मित-मुखं स-दयावलोकम् ॥ ↩︎

  78. चितिश् चिन्ता ↩︎

  79. “यत् तु… तत्-प्रत्याख्यानात्” इत्य् अत्र “यत् तु नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा [उ।नी। ५.३] इत्य् अनेन लौकिक-रसविद्भिः परकीया न मता, तत् तु प्राकृत-नायकम् अवलम्बमानासु वस्तुत एव परकीयासु युक्तं । तत्रैव जुगुप्सितत्वेन तेषाम् असम्मतिर् युक्ता, अस्वर्ग्यम् अयशस्यं च [भा।पु। १०.२९.२६] इत्य्-आदिना श्री-भगवतापि तत्रैव निन्दा दर्शिता । अत्र तु गोपीनां तत्-पतीनां च [भा।पु। १०.३३.३५] इत्य्-आदिना प्रत्याख्यानं स्वयम् एव श्री-शुकदेवेन कृतम् । यत् पत्य्-अपत्य-सुहृदाम् [भा।पु। १०.२९.३२] इत्य्-आदिना ताभिर् अपि ॥” इति पाठान्तरं क-ग-घ-च-करलिपिषु उपलभ्यते । ↩︎

  80. रेमे तया चात्मरत आत्मारामोऽप्य् अखण्डितः कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ [भा।पु। १०.३०.३५] तया कथितम् आकर्ण्य मान-प्राप्तिं च माधवात् । अवमानं च दौरात्म्याद् विस्मयं परमं ययुः ॥ [भा।पु। १०.३०.४२] ↩︎

  81. थे पोर्तिओन् बेगिन्निन्ग् फ़्रोम् स्त्रीणां च इस् फ़्रोम् प् (क-ख-घ-ङ)। ↩︎

  82. किं वा, अरे आचरितं तपस् तपस्विन्यानया यद् इयम् अवनिः स-विनय-कृष्णसार-तनय-तनुतर-सुभग-शिवतमाखर-खुर-पद-पङ्क्तिभिर् द्रविण-विधुरातुरस्य कृपणस्य मम द्रविण-पदवीं सूचयन्त्य् आत्मानं च सर्वतः कृत-कौतुकं द्विजानां स्वर्गापवर्ग-कामानां देव-यजनं करोति ॥ ↩︎

  83. स्वागतं वो महा-भागाः प्रियं किं करवाणि वः । व्रजस्यानामयं कच्चिद् ब्रूतागमन-कारणम् ॥ ↩︎

  84. रजन्य् एषा घोर-रूपा घोर-सत्त्व-निषेविता । प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥ ↩︎

  85. मातरः पितरः पुत्राः भ्रातरः पतयश् च वः । विचिन्वन्ति ह्य् अपश्यन्तो मा कृढ्वं बन्धु-साध्वसम् ॥ ↩︎

  86. दृष्टं वनं कुसुमितं राकेश-कर-रञ्जितम् । यमुनानिल-लीलैजत्-तरु-पल्लव-शोभितम् ॥ ↩︎

  87. तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः । क्रन्दन्ति वत्सा बालाश् च तान् पाययत दुह्यत ॥ ↩︎

  88. अथवा मद्-अभिस्नेहाद् भवत्यो यन्त्रिताशयाः । आगता ह्य् उपपन्नं वः प्रीयन्ते मयि जन्तवः ॥ ↩︎

  89. भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्य् अमायया । तद्-बन्धूनां च कल्याण्यः प्रजानां चानुपोषणम् ॥ ↩︎

  90. दुःशीलो दुर्भगो वृद्धो जडो रोग्य् अधनोऽपि वा । पतिः स्त्रीभिर् न हातव्यो लोकेप्सुभिर् अपातकी ॥ ↩︎

  91. अस्वर्ग्यम् अयशस्यं च फल्गु कृच्छ्रं भयावहम् । जुगुप्सितं च सर्वत्र औपपत्यं कुल-स्त्रियाः ॥ ↩︎

  92. श्रवणाद् दर्शनाद् ध्यानान् मयि भावोऽनुकीर्तनात् । न तथा सन्निकर्षेण प्रतियात ततो गृहम् ॥ ↩︎

  93. इति विप्रियम् आकर्ण्य गोप्यो गोविन्द-भाषितम् । विषण्णा भग्न-सङ्कल्पाश् चिन्ताम् आपुर् दुरत्ययाम् ॥ कृत्वा मुखान्य् अव शुचः श्वसनेन शुष्यद् बिम्बाधराणि चरणेन लिखन्त्यः । अस्रैर् उपात्त-मसिभिः कुच-कुङ्कुमानि तस्थुर् मृजन्त्य उरु-दुःख-भराः स्म तूष्णीम् ॥ प्रेष्ठं प्रियेतरम् इव प्रतिभाषमाणं कृष्णं तद्-अर्थ-विनिवर्तित-सर्व-कामाः । नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् संरम्भ-गद्गद-गिरोऽब्रुवतानुरक्ताः ॥ ↩︎

  94. मैवं विभोऽर्हति भवान् गदितुं नृशंसम् सन्त्यज्य सर्व-विषयांस् तव पाद-मूलम् । भक्ता भजस्व दुरवग्रह मा त्यजास्मान् देवो यथादि-पुरुषो भजते मुमुक्षून् ॥ ↩︎

  95. यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग स्त्रीणां स्व-धर्म इति धर्म-विदा त्वयोक्तम् । अस्त्व् एवम् एतद् उपदेश-पदे त्वयीशे प्रेष्ठो भवांस् तनु-भृतां किल बन्धुर् आत्मा ॥ ↩︎

  96. कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् नित्य-प्रिये पति-सुतादिभिर् आर्तिदैः किम्? । तन् नः प्रसीद वरदेश्वर मा स्म छिन्द्या आशां भृतां त्वयि चिराद् अरविन्द-नेत्र ॥ ↩︎

  97. एवं लीला-नर-वपुर् नृ-लोकम् अनुशीलयन् । रेमे गो-गोप-गोपीनां रमयन् रूप-वाक्-कृतैः ॥ ↩︎

  98. वायुर् यथा घनानीकं तृणं तूलं रजांसि च संयोज्याक्षिपते भूयस् तथा भूतानि भूत-कृत् ↩︎

  99. अहं हि सर्व-भूतानाम् आदिर् अन्तोऽन्तरं बहिः भौतिकानां यथा खं वार् भूर् वायुर् ज्योतिर् अङ्गनाः एवं ह्य् एतानि भूतानि भूतेष्व् आत्मात्मना ततः उभयं मय्य् अथ परे पश्यताभातम् अक्षरे ↩︎