३४०

तद् एवं साधनात्मिका भक्तिर् दर्शिता । तत्र सिद्धि-क्रमश् च श्री-सूतोपदेशारम्भे शुश्रूषोः श्रद्दधानस्य [भा।पु। १.२.१६] इत्य्-आदिना दर्शितः । यथा च श्री-नारद-वाक्ये अहं पुरातीत-भवेऽभवम् [भा।पु। १.५.२३] इत्य्-आदौ । यथा च श्री-कपिल-देव-वाक्ये सतां प्रसङ्गान् मम वीर्य-संविदः [भा।पु। ३.२५.२२] इत्य्-आदौ । अत्र कैवल्य-कामायां भक्त्या पुमान् जात-विरागः [भा।पु। ३.२५.२३] इत्य्-आदिना । शुद्धायां, नैकात्मतां मे स्पृहयन्ति केचित् [भा।पु। ३.२५.३१] इत्य्-आदिना क्रमो ज्ञेयः । तथा शुद्धायाम् एव श्री-प्रह्लाद-कृत-दैत्य-बालानुशासने गुरु-शुश्रूषया [भा।पु। ७.७.२५] इत्य्-आदिना । तम् एवं क्रमम् एव सङ्क्षिप्य स-दृष्टान्तम् आह—

भक्तिः परेशानुभवो विरक्तिर्
अन्यत्र चैष त्रिक एक-कालः ।
प्रपद्यमानस्य यथाश्नतः स्युस्
तुष्टिः पुष्टिः क्षुद्-अपायोऽनुघासम् ॥
इत्य् अच्युताङ्घ्रिं भजतोऽनुवृत्त्या
भक्तिर् विरक्तिर् भगवत्-प्रबोधः ।
भवन्ति वै भागवतस्य राजंस्
ततः परां शान्तिम् उपैति साक्षात् ॥ [भा।पु। ११.२.४२-४३]

टीका च—प्रपद्यमानस्य हरिं भजतः पुंसो भक्तिः प्रेम-लक्षणा, परेशानुभवः प्रेमास्पद-भगवद्-रूप-स्फूर्तिस् तया निर्वृतस्य ततोऽन्यत्र गृहादिषु विरक्तिर् इत्य् एषत्रिक एक-कालो भजन-सम-काल एव स्यात् । यथा अश्नतो भुञ्जानस्य तुष्टिः सुखं, पुष्टिर् उदर-भरणं, क्षुन्-निवृत्तिश् च प्रतिग्रासं स्युः । उपलक्षणम् एतत् । प्रतिसिक्थम् अपि यथा स्युस् तद्वत् । एवम् एवैकस्मिन् भजने किञ्चित् प्रेमादि-त्रिके जायमान अनुवृत्त्या भजतः परम-प्रेमादि जायते, बहु-ग्रास-भोजिन इव परम-तुष्ट्य्-आदि । ततश् च भगवत्-प्रसादेन कृतार्थो भवतीत्य् आह—इत्य् अच्युताङ्घ्रिम् इति ॥ इत्य् एषा ।

शान्तिं कृतार्थत्वम्, साक्षाद् अन्तर् बहिश् च प्रकटित-परम-पुरुषार्थत्वाद् अव्यवधानेनैवेत्य् अर्थः । पूर्व-पद्य-भक्त्य्-आदीनां तुष्ट्य्-आदयः क्रमेणैव दृष्टान्ता ज्ञेयाः । उत्तरत्राप्य् एतत्-क्रमेण भक्ति-तुष्ट्योः सुखैक-रूपत्वात्। पुष्ट्य्-अनुभवयोर् आत्म-भरणैक-रूपत्वात्, क्षुद्-अपाय-विरक्त्योः शान्त्य्-एक-रूपत्वात् । यद्यपि भुक्तवतोऽन्नेऽपि वैतृष्ण्यं जायते, भगवद्-अनुभविनस् तु विषयान्तर एवेति वैधर्म्यम्, तथापि वस्त्व्-अन्तर-वैतृष्ण्यांश एव दृष्टान्तो गम्य1 इति ॥

॥ ११.२ ॥ श्री-कविर् निमिम् ॥ ३४० ॥

तद् एतद् व्याख्यातम् अभिधेयम् । अत्रान्योऽपि विशेषः शास्त्र-महाजन-दृष्ट्यानुसन्धेयः ।

गुरुः शास्त्रं श्रद्धा रुचिर् अनुगतिः सिद्धिर् इति मे

यद् एतत् तत् सर्वं चरण-कमलं राजति ययोः ।

**कृपा-पूर-स्यन्द-**स्नपित-नयनाम्भोज-युगलौ23

सदा राधा-कृष्णाव् अशरण-गती**4 तौ मम गतिः** ॥

इति श्री-कलि-युग-पावन–स्व-भजन-विभाजन-प्रयोजनावतार–
श्री-श्री-भगवत्-कृष्ण-चैतन्य-देव–चरणानुचर–
विश्व-वैष्णव–राज-सभा-जन-श्री–रूप-सनातनानुशासन-भारती-गर्भे
श्री-भागवत-सन्दर्भे श्री-भक्ति-सन्दर्भो नाम पञ्चमः सन्दर्भः ॥

समाप्तश् चायं श्री-भक्ति-सन्दर्भः ॥

—ओ)०(ओ—


  1. गम्यते (छ, झ, ञ) ↩︎

  2. -माध्वीकेन (ग, च, य) ↩︎

  3. युगलैः (छ, झ, ञ) ↩︎

  4. राधा-कृष्णाव् अगति-गतिदौ (क) ↩︎