३३९

तत्र ते भक्ति-मार्गाः दर्शिताः । अत्र च श्री-गुरोः श्री-भगवतो वा प्रसाद-लब्धं साधन-साध्य-गतं स्वीय-सर्वस्व-भूतं यत् किम् अपि रहस्यं, तत् तु न कस्मैचित् प्रकाशनीयम्, यथाह—

नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन ।
सर्वं सम्पद्यते देवि देव-गुह्यं सुसंवृतम् ॥ [भा।पु। ८.१७.२०]

सम्पद्यते फलदं भवति ॥

॥ ८.१७ ॥ श्री-विष्णुर् अदितिम् ॥ ३३९ ॥