३३८

अथ गोकुलेऽपि श्रीमद्-व्रज-वधू-सहित-रासादि-लीलात्मकस्य परम-वैशिष्ट्यम् आह—

विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः
श्रद्धान्वितो यः शृणुयाद् अथ वर्णयेद् वा ।
भक्तिं परां भगवति परिलभ्य कामं
हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ [भा।पु। १०.३३.३९]

-काराद् अन्यच् च । अथ इति वाथ । शृणुयाद् वा वर्णयेद् वा । उपलक्षणं चैतद् ध्यानादेः । परां यतः परा नान्या कुत्रचिद् विद्यते, तादृशीम् । हृद्-रोगं कामादिकम् अपि शीघ्रम् एव त्यजति । अत्र सामान्यतोऽपि परमात्व-सिद्धे तत्रापि परम-प्रेष्ठ-श्री-राधा-संवलित-लीला-मय-तद्-भजनं1 तु परमतमम् एवेति स्वतः सिध्यति । किन्तु रहस्य-लीला तु पौरुष-विकारवद्-इन्द्रियैः, पितृ-पुत्र-दास-भावैश् च नोपास्या, स्वीय-भाव-विरोधात् । रहस्यत्वं च तस्याः क्वचिद् अल्पांशेन, क्वचित् तु सर्वांशेनेति ज्ञेयम् ॥

॥ १०.३३ ॥ श्री-शुकः ॥ ३३८ ॥


  1. श्रेष्ठ- (च, य) ↩︎