तस्य सर्वावतारावतारिष्व् अप्रकटितं परम-शुभ-स्वभावत्वं च स्मृत्वाह—
अहो बकी यं स्तन-काल-कूटं
जिघांसयापाययद् अप्य् असाध्वी ।
लेभे गतिं धात्र्य्-उचितां ततोऽन्यं
कं वा दयालुं शरणं व्रजेम ॥ [भा।पु। ३.२.२३]
धात्र्या या उचिता गतिः, ताम् एव ॥ अनेन तत्रापि गोकुल-लीलात्मकस्य श्री-कृष्णस्य भजन-माहात्म्यातिशयो दर्शितः, तथा पूतना लोक-बालघ्नी [भा।पु। १०.६.३५] इत्य्-आदौ च ज्ञेयम् । तथा श्री-कृष्ण-सन्दर्भे [५१] च, येन येनावतारेण [भा।पु। १०.७.१] इत्य्-आदिकं विवृतम् अस्ति ।
॥ ३.२ ॥ स एव ॥ ३३७ ॥