३३६

अत एवान्यत्राप्य् अभिप्रेयाय—

यथा त्वाम् अरविन्दाक्ष यादृशं वा यद्-आत्मकम् ।
ध्यायेन् मुमुक्षुर् एतन् मे ध्यानं त्वं वक्तुम् अर्हसि ॥ [भा।पु। ११.१४.३१]

टीका च—मुमुक्षुस्त्वांयथाध्यायेत्, तन् मे वक्तुम् अर्हसि जिज्ञासोः कथनाय मे पुनर् एतत् त्वद्-दास्यम् एव पुरुषार्थः, न तु ध्यानेन कृत्यम् अस्तीति । तद् उक्तम्, त्वयोपभुक्त-स्रग्-गन्ध- [भा।पु। ११.६.४६] इत्य्-आदि॥ इत्य् एषा ॥

॥ ११.१४ ॥ श्रीमान् उद्धवः ॥ ३३६ ॥