पुनर् एवम् एव श्रीमद्-उद्धवोऽपि प्रार्थितवान्—
नमोऽस्तु ते महा-योगिन् प्रपन्नम् अनुशाधि माम् ।
यथा त्वच्-चरणाम्भोजे रतिः स्याद् अनपायिनी ॥ [भा।पु। ११.२९.४०]
टीका च—एवं यद्यपि त्वया बहु कृतं, तथाप्य् एतावत् प्रार्थय इत्य् आह—नमोऽस्त्व् इति । अनुशाधि अनुशिक्षय । अनुशासनीयत्वम् एवाह—यथेति । मुक्ताव् अप्य् अनपायिनी॥ इत्य् एषा ॥
॥ ११.२९ ॥ श्रीमान् उद्धवः ॥ ३३५ ॥