३३४

अथ श्रीमद्-उद्धववत् श्री-कृष्णैकानुगतानां साधनत्वे साध्यत्वे च स्वयं श्री-कृष्ण-रूप एव परमोपादेय इत्य् आह—

ज्ञाने कर्मणि योगे च वार्तायां दण्ड-धारणे ।
यावान् अर्थो नृणां तात तावांस् तेऽहं चतुर्-विधः ॥ [भा।पु। ११.२९.३३]

ज्ञानादौ यावान् धर्मादि-लक्षणश् चतुर्विधोऽर्थः, तावान् सर्वोऽप्य् अहम् एव । तत्र ज्ञाने मोक्षः । कर्मणि धर्मः कामश् च । योगे नाना-विध-सिद्धि-लक्षणो लौकिको वार्तायांदण्ड-धारणे च नाना-विध-लौकिकश् चार्थ इति चतुर्विधत्वं ज्ञेयम् ॥

॥ ११.२९ ॥ श्री-भगवान् ॥ ३३०-३३४ ॥