३३३

अथ ताम् एव कैमुत्येनाप्य् आह—

यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् ।
तत्रायासोऽनिरर्थः स्याद् भयादेर् इव सत्तम ॥ [भा।पु। ११.२९.२१]

मयि मद्-अर्पितत्वेन कृतो यो यो धर्मो वेद-विहितः, स स यदि निष्फलाय फलाभावाय कल्प्यते, फल-कामनया नार्प्यत इत्य् अर्थः, तदा तत्र तत्रायासः श्रान्तिर् अनिरर्थः स्यात्, व्यर्थो न भवति । निष्फलायेति विशेषणं फल-भोगादि-रूप-तद्-भक्त्य्-अन्तरायाभावेन अनिरर्थतातिशय-तात्पर्यम् । तत्रानिरर्थत्वे कैमुत्येन श्री-कृष्ण-लक्षणस्य स्वस्यासाधारण-भजनीयता-व्यञ्जको दृष्टान्तः—भयादेर् इव इति । यथा कंसादौ मत्-सम्बन्ध-मात्रेण भयादेर् अप्य् आयासो निरर्थो न भवति, मोक्ष-सम्पादकत्वाद् इत्य् अर्थः ॥