ततश् च नरेष्व् अभीक्ष्णम् [भा।पु। ११.२९.१५] इत्य्-आदिना तादृश-स्वोपासना-विशेषस्य झटिति स्पर्धादि-क्षय-लक्षणं फलम् उक्त्वा, विसृज्य [भा।पु। ११.२९.१६] इत्य्-आदिना, तथा-दृष्ट-साधनं सर्व-नमस्कारम् उपदिश्य, यावत् [भा।पु। ११.२९.१७] इत्य्-आदिना, तादृशोपासनाया अवधिं च सर्वत्र स्वतः स्व-स्फूर्तिम् उक्त्वा, सर्वं [भा।पु। ११.२९.१८] इत्य्-आदिना—
नव्यवद् धृदये यज्-ज्ञो ब्रह्मैतद् ब्रह्म-वादिभिः ।
न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ [भा।पु। ४.३०.२०]
इति प्रचेतसः प्रति श्री-भगवद्-वाक्ये तट्-टीकायां च तस्य भगवतः प्रतिपद-नव्य-स्फूर्तिर् एव ब्रह्मेतीति यद् उक्तं, तद् एव तत् फलम् इत्य् उक्त्वा, यद् वा, कथम् अस्यावतारस्य ब्रह्मता भवति ? [गो।ता।उ। २.२८] इति गोपाल-तापनी-प्रसिद्ध-ब्रह्मेत्य्-अभिधान-नराकृति-पर-ब्रह्म-रूप-स्फूर्तिस् तत्-फलम् इत्य् उक्त्वा, तेनैव तादृशोपासनां सर्वोर्ध्वम् अपि प्रशंसति—
अयं हि सर्व-कल्पानां सध्रीचीनो मतो मम ।
मद्-भावः सर्व-भूतेषु मनो-वाक्-काय-वृत्तिभिः ॥ [भा।पु। ११.२९.१९]
सर्व-कल्पानां सर्वोपायानां सध्रीचीनः समीचीनः । मद्-भावो मम श्री-कृष्ण-रूपस्य भावना ।
एतच्1 च श्री-कृष्ण-भजनस्यान्तर्यामि-भजनाद् अप्य् आधिक्यं श्री-गीतोपसंहारानुसारेण एवोक्तम्—
ईश्वरः सर्व-भूतानां हृद्-देशेऽर्जुन तिष्ठति ।
भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया ॥६१
तम् एव शरणं गच्छ सर्व-भावेन भारत ।
तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥६२
इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया ।
विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु ॥६३
सर्व-गुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥६४
मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु ।
माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥६५
सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज ।
अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता १८.६१-६६] इति ।
अत्र च गुह्यं पूर्वाध्यायोक्तं ज्ञानम् । गुह्यतरम् अन्तर्यामि-ज्ञानम् । सर्व-गुह्यतमं तन्-मनस्त्वादि-लक्षणं तद्-एक-शरणत्व-लक्षणं च तद्-उपासनम् इति समानम् । एवं श्री-गीतास्व् एव नवमाध्यायेऽपि—
इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे ।
ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ [गीता ९.१]
राज-विद्या राज-गुह्यम् [गीता ९.२] इत्य्-आदिना वक्ष्यमानार्थं प्रशस्य श्री-कृष्ण-रूप-स्व-भजन-श्रद्धा-हीनान् निन्दंस् तच्-छ्रद्धावतः प्रशस्तवान् स्वयम् एव । यथा—
अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् ।
परं भावम् अजानन्तो मम भूत-महेश्वरम् ॥
मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः ।
राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥
महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः ।
भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम् ॥ [गीता ९.११-१३] इति ।
मामव- अनादरेण _मानुषीं तनुम् आश्रितं जानन्ति _इत्य् अर्थः । तस्मात् सर्वान्तर्यामि-भजनाद् अप्य् उत्तमत्वेन तद्-अनन्तरं च सर्व-गुह्यतमम् इत्य् अत्र सर्व-ग्रहणात् सर्वत उत्तमत्वेन श्री-कृष्ण-भजने सिद्धे तद्-अवतार-भजनात्2 सुतराम् एवोत्तमता सिध्यति ।