ततश् च—
इति सर्वाणि भूतानि मद्-भावेन महा-द्युते ।
सभाजयन् मन्यमानो ज्ञानं केवलम् आश्रितः ॥
ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके ।
अक्रूरे क्रूरके चैव सम-दृक् पण्डितो मतः ॥ [भा।पु। ११.२९.१३-१४]
केवलं ज्ञानम् अन्तर्यामि-दृष्टिम् आश्रितोऽपि । इति पूर्वोक्त-प्रकारेण सर्वाणि भूतानि मद्-भावेन तेषु मम श्री-कृष्ण-रूपस्य यो भावोऽस्तित्वं तद्-विशिष्टतया मन्यमानः सभाजयन् पण्डितो मतः । मद्-दृष्ट्या ब्राह्मणादिषु सम-दृक् समं माम् एव पश्यतीति ॥