३३०

तथैव स्व-भक्तेर् अतिशयित्वं श्री-भगवान् अपि तद्-अनन्तरम् उवाच । तत्र च तादृशान् प्रति शुद्धां स्व-भक्तिं हन्त ते कथयिष्यामि [भा।पु। ११.२९.८] इत्य्-आदि-चतुर्भिर् उक्त्वा, पुनर् एतादृशान्1 प्रति च करुणया स्व-भजन-प्रवर्तनार्थम् अन्यद्विचारितवान् चतुर्भिः । यतः प्रायशो लोकाः स्पर्धादि-पराः, कथञ्चिद् अन्तर्मुखत्वेऽपि सर्वान्तर्यामि-रूप-त्वद्-भजन-मात्र-ज्ञानिन इत्य् आलोच्य कृपया तेषां स्पर्धादीन् झटिति दूरीकर्तुं स्वस्मिन्न् एवान्तर्-मुखी-कर्तुं च विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२] इत्य्-आद्य्-उक्त-तद्-अन्तर्यामि-रूप-स्वांशस्य भजन-स्थाने स्व-भजनम् उपदिष्टवान् । यथा—

माम् एव सर्व-भूतेषु बहिर् अन्तर् अपावृतम् ।
ईक्षेतात्मनि चात्मानं यथा खम् अमलाशयः ॥ [भा।पु। ११.२९.१२]

टीका च—अन्तरङ्गां भक्तिम् आह—माम् इति त्रिभिः । सर्व-भूतेष्वात्मनि चात्मानम् ईश्वर-स्थितं माम् एव ईक्षेत॥ इत्य् एषा ।

कथम्भूतम् ईश्वरम् ? बहिर्-अन्तःपूर्णम् इत्य् अर्थः । तत् कुतः ? अपावृतम् अनावरणम् । तद् अपि कुतः ? यथा खम् अनङ्गत्वाद् विभुत्वाच् चेत्य् अर्थः । अत्र माम् एव इति श्री-कृष्ण-रूपम् एव ईक्षेत, न तु केवलान्तर्यामि-रूपम् इत्य् अभिप्रायेणैव अन्तरङ्गां भक्तिम् आह इति व्याख्यातम् ॥


  1. उक्त्वाप्य् एतादृशान् (छ, ज, ञ) ↩︎