३२९

ननु कथं तत्-तत्-फलम् अपि विसृजति, न तु माम् ? किं वा मम कृतम्? तत्राह—

नैवोपयन्त्य् अपचितिं कवयस् तवेश
ब्रह्मायुषापि कृतम् ऋद्ध-मुदः स्मरन्तः ।
योऽन्तर् बहिस् तनु-भृताम् अशुभं विधुन्वन्न्
आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति ॥ [भा।पु। ११.२९.६]

हे ईश ! कवयः सर्वज्ञाः ब्रह्म-तुल्य्आयुषोऽपि, तत्-काल-पर्यन्तं भजन्तोऽपीत्य् अर्थः । तवकृतम् उपकारम् ऋद्ध-मुद उपचित-त्वद्-भक्ति-परमानन्दाः सन्तः स्मरन्तोऽपचितिं प्रत्युपकारम्, आनृण्यम् इति यावत्, तां न उपयन्ति पश्यन्ति । तस्मान् न विसृजेत्[११.२९.५] इत्य् उक्तम् । कृतम् आह—यो भवान् तनु-भृतां त्वत्-कृपा-भाजनत्वेन केषांचित् सकल-तनु-धारिणां बहिराचार्य-वपुषा गुरु-रूपेण, अन्तश् चैत्त्य-वपुषा चित्त-स्फुरित-ध्येयाकारेण अशुभं त्वद्-भक्ति-प्रतियोगि सर्वं विधुन्वन् स्व-गतिं स्वानुभवं व्यनक्ति इति ॥

॥ ११.२९ ॥ श्रीमद्-उद्धवः ॥ ३२६-३२९ ॥