फलितम् आह—
तं त्वाखिलात्म-दयितेश्वरम् आश्रितानां
सर्वार्थ-दं स्व-कृत-विद् विसृजेत को नु ।
को वा भजेत् किम् अपि विस्मृतयेऽनु भूत्यै
किं वा भवेन् न तव पाद-रजो-जुषां नः ॥ [भा।पु। ११.२९.५]
तम् एवं-भूतं त्वां स्व-कृत-वित्प्रसन्न-वदनाम्भोजं पद्म-गर्भारुणेक्षणम् [भा।पु। ३.२८.१३] इत्य्-आदि-श्री-कपिल-देवोपदेशतः स्व-सौन्दर्यादि-स्फूर्ति-लक्षणं स्वस्मिन् कृतं त्वदीयोपकारं यो वेत्ति, स को नु विसृजेत्? तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते [भा।पु। ३.२८.३४] इति तद्-उपदिष्टाधिकारि-विशेषवत् परित्यज्यते ? न कोऽपीत्य् अर्थः । तस्माद् यस् त्यजति स कृतघ्न एवेति भावः ।
कथम्भूतं त्वाम् ? स्वरूपत एवाखिलानाम् आत्मनां दयितं प्राण-कोटि-प्रेष्ठम् ईश्वरं चेत्य्-आदि । तथा, नु वितर्के, त्वद्-व्यतिरिक्तं किम् अपि देवतान्तरं धर्म-ज्ञानादि-साधनं भूत्यै ऐश्वर्याय संसारस्य विस्मृतये मोक्षाय वा को भजेत्? न कोऽपीत्य् अर्थः। अस्माकं तु तत् तत् फलम् अपि त्वद्-भक्तेर् एवान्तर्भूतम् इत्य् आह—किं वेति । वा-शब्देन तत्राप्य् अनादरः सूचितः । तद् उक्तं, यत् कर्मभिर् यत् तपसा [भा।पु। ११.२०.३२] इत्य्-आदि ॥