एवं-भूतस्य भक्तस्य ज्ञान-योगादीनां यत् फलं तन्मात्रं न, किन्त्व् अन्यन् महद् एवेत्य् आह—
किं चित्रम् अच्युत तवैतद् अशेष-बन्धो
दासेष्व् अनन्य-शरणेषु यद् आत्म-सात्त्वम् ।
योऽरोचयत् सह मृगैः स्वयम् ईश्वराणां
श्रीमत्-किरीट-तट-पीडित-पाद-पीठः ॥ [भा।पु। ११.२९.४]
अशेष-बन्धो !दासेष्व् अनन्य-शरणेषु, यद् वा, अशेषाणाम् असुर-पर्यन्तानां यो बन्धुर् मोक्षादि-दानैर् निरुपाधि-हित-कारी, हे तथाभूत ! तवैतत् किं चित्रं, यदनन्य-शरणेषु ज्ञान-योग-कर्माद्य्-अनुष्ठान-विमुखेषु दासेषु शुद्ध-भक्तेषु बलि-प्रभृतिषु आत्म-सात्त्वं तेषां, य आत्मा तद्-अधीनत्वम् इत्य् अर्थः । तद् उक्तम्—न साधयति मां योगः [भा।पु। ११.१४.२०] इत्य्-आदि ।
तस्य तव तथा-भूतेषु न जाति-गुणाद्य्-अपेक्षा चेत्य् अन्तरङ्ग-लीलायाम् अपि दृश्यत इत्य् आह—यः इति । सहेति सह-भावं सख्यम् इत्य् अर्थः । मृगैर् वृन्दावन-चारिभिः । स्वयं तु कथम्भूतोऽपि ? ईश्वराणाम् इत्य्-आदि-लक्षणोऽपि । ईश्वराः श्री-शिव-ब्रह्मादयः । ज्ञान-योगादि-परम-फल-रूपापि या मुक्तिः, तां दैत्येभ्यो ददासि । पाण्डवादि-सख्य-दौत्य-वीरासनादि-स्थितिवद् दासानां तु स्वयम् अधीनो भवसि । अत एवं-भूतस्य श्री-कृष्णस्यैव तव भक्तिर् मुख्येति भावः ॥