३२६

तथा श्रीमद्-उद्धव-संवादान्ते च यथा । तत्र यद्यपि पूर्वाध्याय-समाप्तौ उक्ताया ज्ञान-योग-चर्याया भक्ति-सह-भावेनैव स्व-फल-जनकत्वं श्री-भगवतोक्तं, तथापि तां ज्ञान-योग-चर्याम् अंशतोऽप्य् अनङ्गीकुर्वता परमैकान्तिना श्रीमद्-उद्धवेन—

सुदुस्तराम् इमां मन्ये योग-चर्याम् अनात्मनः ।
यथाञ्जसा पुमान् सिध्येत् तन् मे ब्रूह्य् अञ्जसाच्युत ॥
प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः ।
विषीदन्त्य् असमाधानान् मनो-निग्रह-कर्शिताः ॥ [भा।पु। ११.२९.१-२] इति ।

अत्र स्व-वाक्ये तस्या दुष्करत्वेन प्रायः फल-पर्यवसायित्वाभावेन चोक्तत्वात् । शुश्रूषमाणाया भक्तेस् तु सुकरत्वेनावश्यक-फल-पर्यवसायित्वेन चाभिप्रेतत्वात् । तद्-भक्तिर् एव कर्तव्येति स्वाभिप्रायो दर्शितः । तद् एवं तां ज्ञान-योग-चर्याम् अनादृत्य भक्तिम् एवापि कुर्वाणास् तव श्री-कृष्ण-रूपस्यैव भक्तिं तादृशास् तु ज्ञान-योगादि-फलानादरेणैव कुर्वन्तीति पुनर् आह चतुर्भिः—

अथात आनन्द-दुघं पदाम्बुजं
हंसाः श्रयेरन्न् अरविन्द-लोचन ।
सुखं नु विश्वेश्वर योग-कर्मभिस्
त्वन्-माययामी विहता न मानिनः ॥ [भा।पु। ११.२९.३]

यस्माद् एवं केचन विषीदन्ति—अथात अत एव ये हंसाः सारासार-विवेक-चतुराः, ते तु समस्तानन्द-पूरकं पदाम्बुजम् एव, नु निश्चितं सुखं यथा स्यात् तथा श्रयेरन् सेवन्ते । पदाम्बुजस्य सम्बन्धि-पदानुरक्तिः साक्षाद्-दृश्यमान-त्वदीय-पदाम्बुजाभिव्यञ्जनार्था ।

अमी च शुद्ध-भक्ता योग-कर्मभिस् त्वन्-मायया च विहताः कृत-भक्त्य्-अनुष्ठानान्तराया भवन्ति, यतो मानिनस् ते, मानिनोऽपि न भवन्ति । पुरुषार्थ-साधने भगवतो निरुपाधि-दीन-जन-कृपाया एव साधकतमत्वं मन्यन्ते, न योगि-प्रभृतिवत् स्व-प्रयत्नस्येत्य् अर्थः ॥