तद् एवं रागानुगा साधिता । सा च श्री-कृष्ण एव मुख्या, गोप्यः कामात् [भा।पु। ७.१.२९] इत्य्-आदिना तस्मिन्न् एव दर्शितत्वात्, दैत्यानाम् अपि द्वेषेणापि तस्मिन्न् एवावेश-लाभ-दर्शनात्, सिद्धि-प्राप्तेश् च । नान्यत्र तु कुत्राप्य् अंशिन्य् अंशे वा । अत एवोक्तम्, तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् [भा।पु। ७.१.३१] इत्य्-आदि । अतस् तादृश-झटित्य्-आवेश-हेतूपासना-लाभाद् एव स्वयम् एकादशे वैधोपासना स्वस्मिन् नोक्ता, किन्त्व् अन्यत्र चतुर्भुजाकार एव । तत्र च शुद्धस्य रागस्य श्री-गोकुल एव दर्शनात् । तत्र तु रागानुगा मुख्यतमा, यत्र खलु स्वयं भगवान् अपि तेषां पुत्रादि-भावेनैव विलसति, ये यथा मां प्रपद्यन्ते [गीता ४.११] इत्य्-आदेः, मल्लानाम् अशनिर् [भा।पु। १०.४३.१४] इत्य्-आदेः, स्वेच्छामयस्य [भा।पु। १०.१४.२] इत्य् अस्माच् च । ततश् च भक्त-कर्तृक-भोजन-पायन-स्नपन-वीजनादि-लक्षण-लालनेच्छापि तस्याकृत्रिमैव जायते । साधारण-भक्ति-सद्-भावेनैव हि—
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥ [भा।पु। १०.८१.३] इत्युक्तम् ।
श्री-शुकदेवेन च तद् एतद् एवाकाङ्क्षया श्लाघितम्—
पाद-संवाहनं चक्रुः केचित् तस्य महात्मनः ।
अपरे हत-पाप्मानो व्यजनैः समवीजयत् ॥ [भा।पु। १०.१५.१७] इत्य्-आदिना ।
नानेन चैश्वर्यस्य हानिः, तदानीम् अपि तस्यैश्वर्यस्यान्यत्र स्फुरद्-रूपत्वात्, भक्तेच्छा-मयत्वस्य चेशितरि प्रशंसनीय-स्वभावत्वाद् एव । यथा श्री-व्रजेश्वरी-बद्ध एव यमलार्जुन-मोक्षं कृतवान्, तादृशैश्वर्येऽपि तस्मिन् श्री-व्रजेश्वरी-वश्यतैव श्री-शुकदेवेन वन्दिता, एवं सन्दर्शिता ह्य् अङ्ग [भा।पु। १०.९.१९] इत्य्-आदिना । तस्माद् ये चाद्यापि तदीय-रागानुगा-परास् तेषाम् अपि श्री-व्रजेन्द्र-नन्दनत्वादि-मात्र-धर्मैर् उपासना युक्ता । यथा श्री-गोवर्धनोद्धरण-लब्ध-विस्मयान् श्री-गोपान् प्रत्युक्तं स्वयं भगवतैव विष्णु-पुराणे—
यदि वोऽस्ति मयि प्रीतिः श्लाघ्योऽहं भवतां यदि ।
तदात्म-बन्धु-सदृशी बुद्धिर् वः क्रियतां मयि ॥ [वि।पु। ५.१३.११] इति ।
“तदार्चा बन्धु-सदृशी बान्धवाः क्रियतां मयि” इति वा पाठः । तथा—
नाहं देवो न गन्धर्वो न यक्षो न च दानवः ।
अहं वो बान्धवो जातो नातश् चिन्त्यम् अतोऽन्यथा ॥ [वि।पु। ५.१३.१२] इति ।
युवां मां पुत्र-भावेन ब्रह्म-भावेन वासकृत् [भा।पु। १०.३.४५] इत्य् अत्र तु श्री-वसुदेवादीनाम् ऐश्वर्य-ज्ञान-प्रधानत्वाद् द्व्य्-आत्मिकैव भगवद्-अनुमतिर् ज्ञेया । प्राग्-जन्मन्य् अपि तयोस् तप-आदि-प्रधानैव भक्तिर् उक्ता । अतः श्री-व्रजेश्वर्याः पुनस् तन्-मुख-दृष्ट-वैभवत्वम् अश्लाघित्वा पुत्र-स्नेह-मयीं मायाद्य्-एक-पर्यायां तत्-कृपाम् एव बहु-मन्यमानस् तादृश-भाग्यं च, श्री-वसुदेवादिकयोर् नास्तीति विस्पष्टयन् तस्याः श्री-व्रजेश्वरस्य च भाग्यं तादृश-बाल्य-लीलोच्छल्यमान-पुत्र-भावेन राजमानमतिश्लाघितवान्राजा—नन्दः किम् अकरोद् ब्रह्मन् [भा।पु। १०.८.४६-४७] इत्य्-आदि-द्वयेन । श्री-मुनिराजश् च तादृश-तत्-प्रेमैव श्लाघितवान्—एवं सन्दर्शिता ह्य् अङ्ग हरिणा [भा।पु। १०.९.२९] इत्य्-आदिना ।
तद् एवं श्री-वसुदेव-देवक्याव् उपलक्ष्य श्री-नारदोऽपि साधकान् प्रति दर्शनालिङ्गनालापैः [भा।पु। ११.५.४३] इत्य्-आदिना यद् उपदिष्टवान् । तत्र टीका च—यथा पुत्रोपलालनेनैव भागवत-धर्म-सर्वस्व-निष्पत्तेः ॥इत्य् एषा ।
तथा, मापत्य-बुद्धिम् अकृथाः कृष्णे सर्वेश्वरेश्वरे [भा।पु। ११.५.४५] इति । एतद् अपि तद्-अविरोधेन टीकायाम् एवम् अवतारितम्, यथा—ननु, पुत्र-स्नेहश् चेन् मोक्ष-हेतुस् तर्हि सर्वेऽपि मुच्येरन् ? तत्राह—मापत्य-बुद्धिम् इति॥ इत्य् एतत् ।
तस्मिन्न् अपत्यत्वं प्राप्तेऽपि तस्मिंस् तादृश-भावना-वशं गतेऽप्य् अस्ति स्वाभाविकं पारमैश्वर्यम् अधिकम् इति भावः । यद् वा, पूर्ववन्नार्षोऽड्-आगमः, किन्त्व् अ-कारो निषेधे, अभावे नह्य्-अ-नो-न इति शब्द-कोषात् । ततो निषेध-द्वयाद् अपत्य-बुद्धिम् एव कुरु इत्य् अर्थः ।
अत एव ज्ञानाज्ञानयोर् अनादरेण केवल-रागानुगाया एवानुष्ठितिः प्रशस्ता, ज्ञात्वाज्ञात्वाथ ये वै माम् [भा।पु। ११.११.३३] इत्य्-आदिना । तस्मात् श्री-गोकुल एव रागात्मिकायाः शुद्धत्वात् तद्-अनुगा भक्तिर् एव मुख्यतमा इति साध्व् एवोक्तम् ।तद् एवम् अन्यत्रासम्भवतया रागानुगा-माहात्म्य-दृष्ट्या पूर्ण-भगवत्ता-दृष्ट्या च श्री-कृष्ण-भजनस्य माहात्म्यं महद् एव सिद्धम् । तत्रापि गोकुल-लीलात्मकस्य ।
अथ तद्-भजन-मात्रस्य माहात्म्यम् उपक्रमत एव यथा—
मुनयः साधु पृष्टोऽहं भवद्भिर् लोक-मङ्गल ।
यत् कृतः कृष्ण-सम्प्रश्नो येनात्मा सुप्रसीदति ॥ [भा।पु। १.२.५] इति ।
तत्रैतद् वक्तव्यं—पूर्वं मनसः सु-प्रसाद-हेतुः पृष्टः । अनेन तु श्री-कृष्ण-प्रश्न-मात्रस्य तद्-धेतुनोक्ता । न तु स वै पुंसां परो धर्मः [भा।पु। १.२.६] इत्य्-आदिना तदीयानन्तर-प्रकरणेयथा महता प्रयत्नेन कर्मार्पणम् आरभ्य भक्ति-निष्ठा-पर्यन्त एव जाते, प्रादुर्भावान्तर-भजनस्य तद्-धेतुतोक्ता, तथेति । अत एवावतारान्तर-कथाया अपि तद्-अभिनिवेश एव फलम् इत्य् आह—
हरेर् अद्भुत-वीर्यस्य कथा लोक-सुमङ्गलाः ।
कथयस्व महाभाग यथाहम् अखिलात्मनि ॥
कृष्णे निवेश्य निःसङ्गं मनस् त्यक्ष्ये कलेवरम् । [भा।पु। २.८.३-४] इति ।
हरेस् तद्-अवतार-रूपस्य । अखिलात्मनि सर्वांशिनि कृष्णे श्रीमद्-अर्जुन-सखे ॥
॥ २.८ ॥ राजा ॥ ३२५ ॥