३२४

तद् एवं भाव-मार्ग-सामान्यस्यैव बलवत्त्वेऽपि कैमुत्येन रागानुगायाम् एवाभिधेयत्वम् आह—

वैरेण यं नृपतयः शिशुपाल-पौण्ड्र-
शाल्वादयो गति-विलास-विलोकनाद्यैः ।
ध्यायन्त आकृत-धियः शयनासनादौ
तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् ॥ [भा।पु। ११.५.४८]

आकृति-धियस् तत्-तद्-आकारा धीर् येषाम् । एवम् एवोक्तं गारुडे—

अज्ञानिनः सुर-वरं समधिक्षिपन्तो
यं पापिनोऽपि शिशुपाल-सुयोधनाद्याः ।
मुक्तिं गताः स्मरण-मात्र-विधूत-पापाः
कः संशयः परम-भक्ति-मतां जनानाम् ॥ इति ।

अतः—यथा वैरानुबन्धेन [भा।पु। ७.१.२६] इत्य् अत्र वैरानुबन्धस्य सर्वत आधिक्यं न योजनीयम् । यच् च—

मयि संरम्भ-योगेन निस्तीर्य ब्रह्म-हेलनम् ।
प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ [भा।पु। ३.१६.३०]

इति जय-विजयौ प्रति वैकुण्ठ-वचनम् । तद् अपि तद्-अपराधाभास-भोगार्थम् एव संरम्भ-योगाभासं विधत्ते, तत्-प्राप्तेस् तयोः स्वाभावैक-सिद्धत्वात्, युद्ध-लीलार्थम् एव तत्-प्रपञ्चनात् ।

अत्र द्वेषादाव् अपि केचिद् भक्तित्वं मन्यन्ते, तद् असत् । भक्ति-सेवादि-शब्दानाम् आनुकूल्य एव प्रसिद्धेः, वैरे तद्-विरोधित्वेन तद्-असिद्धेश् च । पाद्मोत्तर-खण्डे च भक्ति-द्वेषादीनां च भेदोऽवगम्यते—

योगिभिर् दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् ।
द्रष्टुं न शक्यो रोषाच् च मत्सराद् वा जनार्दनः । [प।पु। ६.२३८.८३] इत्य् अत्र च ।

ननु मन्येऽसुरान् भागवतान् [भा।पु। ३.२.२४]1 इत्य्-आदौ श्रीमद्-उद्धव-वाक्ये तेषाम् अपि भागवतत्वं निर्दिश्यते ? मैवं, यतो मन्य इत्य् अनेनोत्प्रेक्षावगमात्, न स्वयं भागवतत्वं तत्रास्तीत्य् एवं सिध्यतीति । सा चोत्प्रेक्षा तेन तच्-छोकौत्कण्ठ्यवता केवल-दर्शन-भाग्यांशेनैव रचिता युक्तैव । यथा, “हन्त वयम् एव बहिर्मुखाः, येषाम् अन्तिम-समये तन्-मुख-चन्द्रमसो दर्शन-सम्भावनापि न विद्यते, येभ्यश् चासुरा अपि भागवताः, ये खलु तदानीं तन्-मुख-चन्द्रमसो दर्शन-सौभाग्यं प्रापुः” इति । तस्मान् न द्वेषादौ कथञ्चिद् अपि भक्तित्वम् ।

॥ ११.५ ॥ श्री-नारदः श्री-वसुदेवम् ॥ ३२४ ॥


  1. मन्येऽसुरान् भागवतांस् त्र्यधीशेसंरम्भ-मार्गाभिनिविष्ट-चित्तान् । ये संयुगेऽचक्षत तार्क्ष्य-पुत्रमंसे सुनाभायुधम् आपतन्तम् ॥ ↩︎