३२३

यस्माद् एवं—

तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् ॥ [भा।पु। ७.१.३१] इति ।

अत्रापि पूर्ववन् निवेशयेद् इति सम्मति-मात्रं न विधिः । केनापि तेष्व् अप्य् उपायेषु युक्ततमेनैकेनेत्य् अर्थः । अहो यस् तादृश-बहु-प्रयत्न-साध्य-वैधी-भक्ति-मार्गेण चिरात् साध्यते, स एवाचिराद् भाव-विशेष-मात्रेण, तत्र च द्वेषादिनापि । तस्माद् एवंभूते परम-सद्-गुण-स्वभावे तस्मिन् दूरेऽस्तु पामर-जन-भावस्य वैरस्य वार्ता, को वाधम औदास्यम् अवलम्ब्य प्रीतिम् अपि न कुर्याद् इति रागानुगायाम् एव तच् च युक्ततमत्वम् अङ्गीकृतं भवति ॥

॥ ७.१ ॥ श्री-नारदः युधिष्ठिरम् ॥ ३१२-३२३ ॥