यदि द्वेषेणापि सिद्धिस् तर्हि वेणः किम् इति नरके पातितः ? इत्य् आशङ्क्याह—
कतमोऽपि न वेनः स्यात् पञ्चानां पुरुषं प्रति [भा।पु। ७.१.३१]
पुरुषं भगवन्तं प्रति लक्ष्यीकृत्य पञ्चानां वैरानुबन्धादीनां मध्ये वेनःकतमोऽपि न स्यात् । तस्य तं प्रति प्रासङ्गिक-निन्दा-मात्रात्मकं वैरं, न तु वैरानुबन्धः । ततस् तीव्र-ध्यानाभावात् पापम् एव तत्र प्रतिफलितम् इति भावः । ततोऽसुर-तुल्य-स्वभावैर् अपि तस्मिन् स्व-मोक्षार्थं वैर-भावानुष्ठान-साहसं न कर्तव्यम् इत्य् अभिप्रेतम् । अत एव ये वै भगवता प्रोक्ताः [भा।पु। ११.२.३४] इत्य्-आदेर् अप्य् अतिव्याप्तिर् व्याहन्यते अनभिप्रेतत्वेना-प्रोक्तत्वात् ॥