३२१

अथ बहवस् तद्-गतिं गताः[भा।पु। ७.१.२९] इत्य् अत्र निदर्शनम् आह—

गोप्यः कामाद् भयात् कंसो द्वेषाच् चैद्यादयो नृपाः ।
सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ [भा।पु। ७.१.३०]

गोप्य इति साधक-चरीणां गोपी-विशेषाणां पूर्वावस्थाम् एवावलम्ब्योच्यते । वयम् इति यथा श्री-नारदस्य हि प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् [भा।पु। १.६.२८] इत्य्-आद्य्-उक्त-रीत्या पार्षद-देहत्वे सिद्धे तेन स्वयं वयम् इति पूर्वावस्थाम् अवलम्ब्योच्यते । तत्रैव वैधी भक्तिः । अधुना लब्ध-रागस्य तस्य न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः [भा।पु। ११.२०.३६], गुण-दोष-दृशिर् दोषो गुणस् तूभय-वर्जितः [भा।पु। ११.१९.४५]इति1 न्यायेन विध्य्-अनधीना रागात्मिकैव विराजत इति । अत एव तद्-गतिं गताः [भा।पु। ७.१.२९] इति तेषां फल-प्राप्तेर् अप्य् अतीतत्व-निर्देशः । अत्र ता गोप्य इवाधुनिक्यश् च तद्-गुणादि-श्रवणेनैव तद्-भावा भवेयुः । यथोक्तम्—

श्रुत-मात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
उरुगायोरु-गीतो वा पश्यन्तीनां कुतः पुनः ॥ [भा।पु। १०.९०.२६] इति ।

अथवा पार्षद-चरस्यापि चैद्यस्यागन्तुकोपद्रवाभास-नाश-दर्शनेनैव साधकत्व-निर्देशः । सम्बन्धाद् यः स्नेहो रागस् तस्माद् वृष्णयो यूयं च इत्य् एकम्, तस्माद् वैरानुबन्धेन[भा।पु। ७.१.२५] इत्य्-आदौ, कामात् [भा।पु। ७.१.२९]इत्य्-आदौ चोक्तस्यैवार्थस्योदाहरण-वाक्येऽस्मिन् तद्-ऐकार्थ्यावश्यकत्वात् । पञ्चानाम्[भा।पु। ७.१.३१] इति वक्ष्यमाणानुरोधात् । उभयत्रापि सम्बन्ध-स्नेहयोर् द्वयोर् अपि विद्यमानत्वाच् च सम्बन्ध-ग्रहणं रागस्यैव विशेषत्व-ज्ञापनार्थम् । गोपीवद् अत्रापि साधक-चरा वृष्णि-विशेषाः पाण्डव-सम्बन्धि-विशेषाश् च पूर्वावस्थाम् अवलम्ब्य साधकत्वेन निर्दिष्टाः । अतः सम्बन्धज-स्नेहेऽपि तद्-अभिरुचि-मात्रं ज्ञेयम् । भक्त्या विहितया । अस्या एव प्रतिलब्धत्वेन भाव-मार्गं निर्देष्टुम् उपक्रान्तत्वात् ॥


  1. द्वितीयोद्धृत-श्लोको य-पुस्तके न प्राप्तः। ↩︎