न च शास्त्र-विहितेनैव भगवद्-धर्मेण सिद्धिः स्यात्, न च तद्-अविहितेन कामादिनेति वाच्यम्, यतः—
कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः ।
आवेश्य तद्-अघं हित्वा बहवस् तद्-गतिं गताः ॥ [भा।पु। ७.१.२९]
यथा विहितया भक्त्या ईश्वरे मन आवेश्यतद्-गतिं गच्छन्ति, तथैव अविहितेनापि कामादिना बहवो गता इत्य् अर्थः । तद्-अघं तेषु कामादिषु मध्ये यद्-द्वेष-भययोर् अघं भवति, तद् धित्वैव । भयस्यापि द्वेष-संवलितत्वाद् अघोत्पादकत्वं ज्ञेयम् ।
अत्र केचित् कामम् अप्य् अघं मन्यन्ते । तत्रेदं विचार्यते—भगवति काम एव केवलः पापावहः, किं वा पति-भाव-युक्तः, अथवा उपपति-भाव-युक्त इति । स एव केवल इति चेत्, स किं द्वेषादि-गण-पातित्वात् तद्वत् स्वरूपेणैव वा ? परम-शुद्धे भगवति यद्-अधर-पानादिकं, यच् च कामुकाद्य्-आरोपणं, तेनातिक्रमेण वा, पाप-श्रवणेन वा ?
नाद्येन—
उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः ।
द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः ॥ [भा।पु। १०.२९.१३]
इत्य् अत्र द्वेषादेर् न्यक्कृतत्वात् तस्य तु स्तुतत्वात् । अतश् च प्रिया इति स्नेहवत् कामस्यापि प्रीत्य्-आत्मकत्वेन तद्वद् एव न दोषः । तादृशीनां कामो हि प्रेमैक-रूपः, यत् ते सुजात-चरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु [भा।पु। १०.३१.१९] इत्य्-आदाव् अतिक्रम्यापि स्व-सुखं तद्-आनुकूल्य एव तात्पर्य-दर्शनात् ।
सैरिन्ध्र्यास् तु भावो रिरंसा-प्रायत्वेन श्री-गोपिकानाम् इव केवल-तत्-तात्पर्याभावात् तद्-अपेक्षयैव निन्द्यते, न तु स्वरूपतः । सानङ्ग-तप्त-कुचयोः [भा।पु। १०.४८.७] इत्य्-आदौ, अनन्त-चरणेन रुजो मृजन्ति[तत्र] इति, परिरभ्य कान्तम् आनन्द-मूर्तिम् [तत्र च] इति कार्य-द्वारा तत्-स्तुतेः । तत्रापि आहोष्यताम्1 इह प्रेष्ठ [भा।पु। १०.४८.९] इत्य् अत्र प्रीत्य्-अभिव्यक्तेश् च ।
अत एव—
सैवं कैवल्य-नाथं तं प्राप्य दुष्प्राप्यम् ईश्वरम् ।
अङ्ग-रागार्पणेनाहो दुर्भगेदम् अयाचत ॥ [भा।पु। १०.४८.८] इति,
दुराराध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् ।
यो वृणीते मनो-ग्राह्यम् असत्त्वात् कुमनीष्य् असौ ॥ [भा।पु। १०.४८.११]
इति चैवं योजयन्ति । कैवल्यम् एकान्तित्वम् । तेन यो नाथः सेवनीयस् तम् । पुरा तादृश-त्रिवक्रत्वादि-लक्षण-दौर्भाग्यवत्य् अपि । अहो आश्चर्यम् अङ्ग-रागार्पण-लक्षणेन भगवद्-धर्मांशेन कारणेन सम्प्रतीदं सहोष्यताम् इह प्रेष्ठ दिनानि कतिचिन् मया रमस्व [भा।पु। १०.४८.८] इत्य्-आदि-लक्षणं सौभाग्यम् अयाचत इति । अतः—
किम् अनेन कृतं पुण्यम् अवधूतेन भिक्षुणा ।
श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥ [भा।पु। १०.८०.२५]
इति श्रीदाम-विप्रम् उद्दिश्य पुरजन-वचनवद् एव तथोक्तिः । ननु कामुकी सा किम् इति श्लाघ्यते ? तत्राह—दुराराध्यम् इति । यो मनो-ग्राह्यं प्राकृतम् एव विषयं वृणीते कामयत असाव् एव कुमनीषी । सा तु भगवन्तम् एव कामयत इति परम-सुमनीषिण्य् एवेति भावः । तद् एवं तस्य कामस्य द्वेषादि-गणान्तः-पातित्वं परिहृत्य, तेन पापावहत्वं परिहृतम् ।
अथ कामुकत्वाद्य्-आरोपणाद्य्-अधर-पानादि-रूपस् तत्र व्यवहारोऽपि नातिक्रम-हेतुः । यतो लोकवत् तु लीला-कैवल्यम्[वे।सू। २.१.३३] इति न्यायेन लीला तत्र स्वभावत एव सिद्धा । तत्र च श्री-भूर्-लीलादीभिस् तस्य तादृश-लीलायाः श्री-वैकुण्ठादिषु नित्य-सिद्धत्वेन स्वतन्त्र-लीला-विनोदस्य तस्याभिरुचितत्वावगमात् तादृश-लीला-रस-मोह-स्वाभाविकं भगवत्ताद्य्-अननुसन्धानम् अपि कामुकत्वादि-मननम् अपि च तद्-अभिरुचितत्वेनैवावगम्यते । तथा तत्-प्रेयसी-जनानाम् अपि तत्-स्वरूप-शक्ति-विग्रहत्वेन परम-शुद्ध-रूपत्वात् ततो न्यूनताभावाच् च तद्-अधर-पानादिकम् अपि नानुरूपं, पूर्व-युक्त्या तद्-अभिरुचितम् एव च । न च प्राकृत-वामा-जनेन दोषः प्रसञ्जनीयः । तद्-योग्यं तादृशं भावं स्वरूप-शक्ति-विग्रहत्वं च प्राप्यैव तद्-इच्छयैव तत्-प्राप्तेः ।
अथ पाप-श्रवणेन च न पापावहोऽसौ कामः, तद्-अश्रवणाद् एव । अतः पति-भाव-युक्ते च तत्र सुतरां न दोषः, प्रत्युत स्तुतिः श्रूयते ।
याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः ।
जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ॥ [भा।पु। १०.९०.२७] इति ।
महानुभाव-मुनीनाम् अपि तद्-भावः श्रूयते । यथा श्री-मध्वाचार्य-धृतं कौर्म-वचनम्—
अग्नि-पुत्रा महात्मानस् तपसा स्त्रीत्वम् आपिरे ।
भर्तारं च जगद्-योनिं वासुदेवम् अजं विभुम् ॥ इति ।
अत एव वन्दितं पति-पुत्र-सुहृद्-भ्रातृ-[नारायण-व्यूह-स्तवे] इत्य्-आदिना ।
अथोपपति-भावेन न च पापावहोऽसौ यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग [भा।पु। १०.२९.३२] इत्य्-आदिना ताभिर् एवोत्तरितत्वात्, गोपीनां तत्-पतीनां च [भा।पु। १०.३३.३५] इत्य्-आदिना श्री-शुक-वचनेन च ।
न पारयेऽहं निरवद्य-संयुजां
स्व-साधु-कृत्यं विबुधायुषापि वः [भा।पु। १०.३२.२२]
इत्य् अत्र निरवद्य-संयुजाम् इत्य् अनेन स्वयं श्री-भगवता च । तादृशानाम् अन्येषाम् अपि तद्-भावो दृश्यते । यथा पाद्मोत्तर-खण्ड-वचनम्—
पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छत् सुविग्रहम् ॥
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूतास् तु गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ [प।पु। ६.२४५.१६४] इति ।
अतः पुरुषेष्व् अपि स्त्री-भावेनोद्भवाद् भगवद्-विषयत्वान् न प्राकृत-काम-देवोद्भावितः प्राकृतः कामोऽसौ, किन्तु साक्षान् मन्मथ-मन्मथः [भा।पु। १०.३२.२] इति श्रवणाद् आगमादौ तस्य कामत्वेनोपासनाच् च भगवद्-एकोद्भावितोऽप्राकृत एवासौ काम इति ज्ञेयम् । श्रीमद्-उद्धवादीनां परम-भक्तानाम् अपि च तच्-छ्लाघा श्रूयते—एताः परं तनु-भृतो भुवि गोप-वध्वः [भा।पु। १०.४७.५१] इत्य्-आदौ । किं बहुना, श्रुतीनाम् अपि तद्-भावो बृहद्-वामने प्रसिद्धः, यतस् तत्र श्रुतयोऽपि नित्य-सिद्ध-गोपिका-भावाभिलाषिण्यस् तद्-रूपेणैव तद्-गणान्तः-पातिन्यो बभूवुर् इति प्रसिद्धिः । एतत् प्रसिद्धि-सूचकम् एवैतद् उक्त ताभिर् एव—
निभृत-मरुन्-मनो-ऽक्ष-दृढ-योग-युजो हृदि यन्
मुनय उपासते तद् अरयोऽपि ययुः स्मरणात् ।
स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो
वयम् अपि ते समाः सम-दृशोऽङ्घ्रि-सरोज-सुधाः ॥ [भा।पु। १०.८७.२३] इति ।
विस्पष्टश् चायम् अर्थः । यद् ब्रह्माख्यं तत्त्वं शास्त्र-दृष्ट्या प्रयास-बाहुल्येन मुनय उपासते तद् अरयोऽपि यस्य स्मरणात् तद्-उपासनं विनैव ययुः । तथा स्त्रियः श्री-गोप-सुभ्रुवस् ते तव श्री-नन्दनन्दन-रूपस्य _उरुगेन्द्र-_देह-तुल्यौ यौ भुज-दण्डौ तव विषक्त-धियः सत्यस् तवैव अङ्घ्रि-सरोज-सुधास् तदीय-स्पर्श-विशेष-जाति-प्रेम-माधुर्याणि ययुः । वयं श्रुतयोऽपि समदृशस् तत्-तुल्य-भावाः सत्यः समास् तादृश-गोपिकात्व-प्राप्त्या तत्-साम्यम् आप्तास् ता एवाङ्घ्रि-सरोज-सुधां यातवत्य इत्य् अर्थः ।
अर्थ-वशाद् विभक्ति-विपरिणामः । अङ्घ्रीति सादरोक्तिः । अत्र तद्-अरयोऽपि ययुः स्मरणाद् इत्य् अनेन भाव-मार्गस्य झटित्य् अर्थ-साधनत्वं दर्शितम् । सम-दृश इत्य् अनेन रागानुगाया एव तत्र साधकतमत्वं व्यञ्जितम् । अन्यथा सर्व-साधन-साध्य-विदुष्यः श्रुतयोऽन्यत्रैव प्रवर्तेरन् । तथा स्मरण-पर-युग्म-द्वयेऽस्मिन् स्व-स्व-युग्मे प्रथमस्य मुख्यत्वं द्वितीयस्य गौणत्वं दर्शितम् । उभयत्राप्य् अपि-शब्द-साहित्येनोत्तरत्र पाठाद् एकार्थता-प्राप्तेः । अतः स्त्रिय इति नित्याः श्री-गोपिका एव ता ज्ञेयाः । तथैव श्रुतिभिर् इति श्री-कृष्ण-नित्य-धाम्नि ता दृष्टा इति बृहद्-वामन एव प्रसिद्धम् । तद् एवं साधु व्याख्यातं कामाद् द्वेषात् इत्य्-आदौ तद्-अघं हित्वा इत्य् अत्र तेषु मध्ये द्वेष-भययोर् यद्-अघम् इत्य्-आदि ॥
-
सहोष्यताम् इति प्रायः पाठह्। ↩︎