आस्तां तादृश-वस्तु-शक्ति-युक्तस्य तेषु प्रकाशमानस्य भगवतो भगवद्-विग्रहाभासस्य वा वार्ता । प्राकृतेऽपि तद्-भाव-मात्रस्य भाव्यावेश-फलं महद् दृश्यत इति स-दृष्टान्तं तद् एव प्रतिपादयति—
कीटः पेशस्कृता रुद्धः कुड्यायां तम् अनुस्मरन् ।
संरम्भ-भय-योगेन विन्दते तत्-स्वरूपताम् ॥
एवं कृष्णे भगवति माया-मनुज ईश्वरे ।
वैरेण पूत-पाप्मानस् तम् आपुर् अनुचिन्तया ॥ [भा।पु। ७.१.२८-२९]
संरम्भो द्वेषो भयं च, ताभ्यां योगस् तद्-आवेशः, तेन । तत्-स्वरूपतां तस्य स्वम् आत्मीय-रूपम् आकृतिर् यत्र तत् तां तत् सारूप्यम् इत्य् अर्थः । एवम् इति एव अपीत्यर्थः1 । नराकृति-पर-ब्रह्मत्वात् माययैव प्राकृत-मनुजतया प्रतीयमाने ।
ननु कीटस्य पेशस्कृद्-द्वेषे पापं न भवति । तत्र तु तत् स्याद् इत्य् आशङ्क्याह—वैरेण यानुचिन्ता तद्-आवेशस् तयैव पूत-पाप्मानस् तद्-ध्यानावेशस्य तादृक्-शक्तित्वाद् इति भावः ॥
-
परम-प्रीत्येत्य् अर्थः (झ) ↩︎