तद् एवं सर्वेषां तद्-आवेश एव फलम् इति स्थिते, झटिति तद्-आवेश-सिद्धये तेषु भाव-मय-मार्गेषु निन्दितेनापि वैरेण विधि-मय्या भक्तेर् न साम्यम् इत्य् आह—
यथा वैरानुबन्धेन मर्त्यस् तन्-मयताम् इयात् ।
न तथा भक्ति-योगेन इति मे निश्चिता मतिः ॥ [भा।पु। ७.१.२७]
वैरानुबन्धेनेति भयस्याप्य् उपलक्षणम् । यथा शैघ्र्येण तन्-मयतां तद्-आविष्टतां, भक्ति-योगेन विहितत्व-मात्र-बुद्ध्या क्रियमाणेन तु न तथा ॥