तद् एवं यस्माद् भगवतो निन्दादि-कृतं वैषम्यं नास्ति, तस्माद् येन केनाप्य् उपायेन सकृद् यद्-अङ्ग-प्रतिमान्त-राहिता [भा।पु। १०.१२.३९] इत्य्-आदिवत् तद्-आभासम् अपि ध्यायतस् तद्-आवेशात् तत्र वैरेणापि ध्यायतस् तद्-आवेशेनैव निन्दादि-कृत-पापस्यापि नाशात् तत्-सायुज्यादिकं युक्तम् इत्य् आशयेनाह तस्माद् इत्य्-आदिभिः । तथा हि—
तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा ।
स्नेहात् कामेन वा युञ्ज्यात् कथञ्चिन् नेक्षते पृथक् ॥ [भा।पु। ७.१.२६]
युञ्ज्याद् इति स्नेह-कामादीनां विधातुम् अशक्यत्वात् सम्भावनायाम् एव लिङ् । वैरानु-बन्धादीनाम् एकतरेणापि युञ्ज्याद् ध्यायेच् चेत्, तदा भगवतः पृथग् नेक्षते तद्-आविष्टो भवतीत्य् अर्थः । वैरानुबन्धो वैर-भावाविच्छेदः । निर्वैरो वैराभाव-मात्रम् औदासीन्यम् उच्यते । तेन कामादि-राहित्यम् अप्य् आयाति, वैरादि-भाव-राहित्यम् इत्य् अर्थः । तेन वा वैरादि-भाव-राहित्येन युञ्ज्यात्, विहितत्व-मात्र-बुद्ध्या ध्यायेत, ध्यानोपलक्षितं भक्ति-योगं कुर्याद् इत्य् अर्थः । स्नेहः कामातिरिक्तः परस्परम् अकृत्रिमः प्रेम-विशेषः । स तु साधके तद्-अभिरुचिर् एव ॥