३१६

ततश् च—

हिंसा तद्-अभिमानेन दण्ड-पारुष्ययोर् यथा ।
वैषम्यम् इह भूतानां ममाहम् इति पार्थिव ॥
यन्-निबद्धोऽभिमानोऽयं तद्-वधात् प्राणिनां वधः ।
तथा न यस्य कैवल्याद् अभिमानोऽखिलात्मनः ॥
परस्य दम-कर्तुर् हि हिंसा केनास्य कल्प्यते ॥ [भा।पु। ७.१.२३-२५]

इह प्राकृते लोके । यथा तत्-कलेवराभिमानेन भूतानां ममाहम् इति वैषम्यं भवति, यथा तत्-कृताभ्यां दण्ड-पारुष्याभ्यां ताडन-निन्दाभ्यां निमित्त-भूताभ्यां हिंसा च भवति, यथा यस्मिन् निबद्धोऽभिमानस् तस्य देहस्य वधात् प्राणिनां वधश् च भवति, तथा यस्याभिमानो नास्तीत्य् अर्थः । अस्य परमेश्वरस्य हिंसा केन हेतुना कल्प्यते? अपि तु न केनापीत्य् अर्थः ।

तथाभिमानाभावे हेतुः—कैवल्यात्, देहेन्द्रियासु-हीनानां वैकुण्ठ-पुर-वासिनाम् [भा।पु। ७.१.३५] इति कैमुत्यादि-प्राप्त-शुद्धत्वात्, तादृश-निन्दाद्य्-अगम्य-शुद्ध-सच्-चिद्-आनन्द-विग्रहादित्वाद् इत्य् अर्थः । तस्य तद्-अगम्यत्वं च नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता ७.२५] इति श्री-भगवद्-गीतातः ।

तादृश-वैलक्षण्येन हेतुः—अखिलानाम् आत्म-भूतस्य । तत्र हेतुः—परस्य प्रकृति-वैभव-सङ्ग-रहितस्य । हिंसाया अविषयत्वे हेत्व्-अन्तरं—दम-कर्तुः परमाश्चर्यानन्त-शक्तित्वात् सर्वेषाम् एव शिक्षा-कर्तुर् इति ॥