३१५

तत्रोत्तरं श्री-नारद उवाच—अहो भगवन्-निन्दकस्य नरक-पातेन भाव्यम् इति वदतस् तव कोऽभिप्रायः ? भगवत्-पीडा-करत्वाद् वा, तद्-अभावेऽपि सुरा-पानादिवन् निषिद्ध-निन्दा-श्रवणाद्1 वा । तत्र तावद् विमूढैर् जनैर् निन्दादिकं प्राकृतान् तम-आदि-गुणान् उद्दिश्यैव प्रवर्त्यते । ततः प्रकृति-पर्यन्ताश्रयस्य तत्-कृत-निन्दादेर् अप्राकृत-गुण-विग्रहादौ तस्मिन् प्रवृत्तिर् नास्त्य् एव । न च जीववत् प्रकृति-पर्यन्ते वस्तु-जाते भगवद्-अभिमानोऽस्ति । ततश् च तेन तस्य पीडापि नास्त्य् एव । तद् एतद् आह सार्धैस् त्रिभिः—

निन्दन-स्तव-सत्कार- न्यक्कारार्थं कलेवरम् ।
प्रधान-परयो राजन्न् अविवेकेन कल्पितम् ॥ [भा।पु। ७.१.२२]

निन्दनं दोष-कीर्तनम् । न्यक्-कारस् तिरस्कारः । निन्दन-स्तुत्य्-आदि-ज्ञानार्थं प्रधान-पुरुषयोरविवेकेन जीवानां कलेवरंकल्पितं रचितम् ॥


  1. निन्दाचरणाद् (झ) ↩︎