एवं प्रेयसीत्वाभिमान-मयी दर्शिता । एषा ब्रह्म-वैवर्ते कामकलायाम् अपि दृष्टा । सेवकत्वाद्य्-अभिमान-मय्यां रुचि-भक्तिश् चान्यत्र ज्ञेया—तस्माद् अमूस् तनु-भृताम् [भा।पु। ७.९.२४] इत्य्-आदौ, उपनय मां निज-भृत्य-पार्श्वम् इति श्री-प्रह्लाद-वचनवत् यथा श्री-नारद-पञ्चरात्रे—
कदा गम्भीरया वाचा श्रिया युक्तो जगत्-पते ।
चामर-व्यग्र-हस्तं माम् एवं कुर्व् इति वक्ष्यसि ॥ इति ।
यथा स्कान्दे सनत्कुमार-प्रोक्त-संहितायां प्रभाकर-राजोपाख्याने—
अपुत्रोऽपि स वै नैच्छत् पुत्रं कर्मानुचिन्तयन् ।
वासुदेवं जगन्नाथं सर्वात्मानं सनातनम् ॥
अशेषोपनिषद्-वेद्यं पुत्रीकृत्य विधानतः ।
अभिषेचयितुं राजा स्वराज्य उपचक्रमे ॥
न पुत्रम् अभ्यर्थितवान् साक्षाद् भूताज् जनार्दनात् ॥
अग्रे भगवद्-दत्त-वरश् च—अहं ते भविता पुत्रः इत्य्-आदि ।
अत एवोक्तं श्री-नारायण-व्यूह-स्तवे—
पति-पुत्र-सुहृद्-भ्रातृ-पितृवन् मातृवद्1 धरिम् ।
ये ध्यायन्ति सदोद्युक्तास् तेभ्योऽपीह नमो नमः ॥ इति ।
अत्र पत्य्-आदिवद् इति ध्येयस्य पितृवद् इति ध्यातुर् विशेषणं ज्ञेयम् । तथा मातृवद् इति वति-प्रत्ययेन प्रसिद्ध-तन्-मातृ-जनाभेद-भावना नैवाङ्गीक्रियते, किन्तु तद्-अनुगत-भावनैव । एवं पितृ-भावादाव् अपि ज्ञेयम् । अन्यथा भगवत्य् अहङ्ग्रहोपासनावत् तेष्व् अपि दोषः स्यात् । तथा ध्यायन्ति इति पूर्वोक्तं मनः-प्रधानत्वम् एवोरीकृतम् । अपि-शब्देन तत्-तद्-राग-सिद्धानां कैमुत्यम् आक्षिप्यते ।
ननु, चोदना-लक्षणोऽर्थो धर्मः [जै।सू। १.१.२] इत्य् अनेन
पूर्व-मीमांसायां विधिनैवापूर्वं जायत इति श्रूयते ।
तथा “श्रुति-स्मृति-पुराणादि-पञ्चरात्र-विधिं विना” इत्य्-आदिना यामले
श्रुत्य्-आद्य्-एकतरोक्त-क्रम-नियमं विना दोषः श्रूयते ।तथा—
श्रुति-स्मृती ममैवाज्ञे यस् ते उल्लङ्घ्य वर्तते ।
आज्ञा-च्छेदी मम द्वेषी मद्-भक्तोऽपि न वैष्णवः ॥इत्य् अत्र श्रुत्य्-आद्य्-उक्तावश्यक-क्रिया-निषेधयोर् उल्लङ्घनं
वैष्णवत्व-व्याघातकं श्रूयते ।
कथं तर्हि विधि-निरपेक्षया तया सिद्धिः ?
उच्यते—
श्री-भगवन्-नाम-गुणादिषु वस्तु-शक्तेः सिद्धत्वान्
न धर्मवद् भक्तेश् चोदना-सापेक्षत्वम् ।
अतो ज्ञानादिकं विनापि
फल-लाभो बहुत्र श्रुतोऽस्ति ।
चोदना तु यस्य स्वतः-प्रवृत्तिर् नास्ति, तद्-विषयैव ।
तथा क्रम-विधिश् च तद्-विषयः ।
तस्मिन्न् एव नाना-विक्षेपवति रुच्य्-अभावेन
रागात्मिक-भक्ति-शैलीम् अनभिजानति,
सत्याम् अपि धावन्
निमील्य वा नेत्रे [भा।पु। ११.२.३५]
इत्य्-आदि-न्यायेन
यथा-कथञ्चिद् अनुष्ठानतः सिद्धौ,
सुष्ठु वर्त्म-प्रवेशाय
क्रमशश् चित्ताभिनिवेशाय च
मर्यादा-रूपः स निर्मीयते ।
अन्यथा सन्तत-तद्-भक्त्य्-उन्मुखता-कर–तादृश-रुच्य्-अभावान्
मर्यादानभिपत्तेश् चाध्यात्मिकादिभिर् उत्पातैर् विहन्यते च स इति,
न तु स्वयं प्रवृत्तिमत्य् अपि मर्यादा-निर्माणम्,
तस्य रुच्यैव भगवन्-मनोरम-रागात्मिका-क्रम-विशेषाभिनिवेशात् ।
तद् उक्तं स्वयम् एव—ज्ञात्वाज्ञात्वाथ ये वै माम्2 [भा।पु। ११.११.३३] इत्य्-आदिना ।
रागात्मिक-भक्तिमतां दुरभिसन्धिना ऽप्य्
अनुकरण-मात्रेण तादृशत्व-प्राप्तिः श्रूयते,
यथा धात्रीत्वानुकरणेन पूतनायाः ।
तद् उक्तम्—
सद्-वेशाद् इव पूतनापि सकुला [भा।पु। १०.१४.३५]
इति। किम् उत तदीय-रुचिमद्भिस् तादृश-निरन्तर-सम्यग्-भक्त्य्-अनुष्ठानेन । तद् उक्तम्—
पूतना लोक-बाल-घ्नी
राक्षसी रुधिराशना ।
जिघांसयापि हरये
स्तनं दत्त्वाप सद्-गतिम् ॥
किं पुनः श्रद्धया भक्त्या
कृष्णाय परमात्मने ।
यच्छन् प्रियतमं किं नु
रक्तास् तन्-मातरो यथा ॥
[भा।पु। १०.६.३५-६] इति ।
अत उक्तं—
न मय्य् एकान्त-भक्तानां
गुण-दोषोद्भवा गुणाः [भा।पु। ११.२०.३६]
इति । एकान्तित्वं खलु भक्ति-निष्ठा ।
सा रुच्यैव वा शास्त्र-विध्य्-आदरेणैव वा जायते ।
ततो रुचेर् विरलत्वाद्
उत्तराभावेनापि यद् ऐकान्तिकीत्वं
तत् तस्यैकान्तिक-मानिनो दम्भ-मात्रम् इत्य् अर्थः ।
ततस् तद् अनूद्यैव निन्दा श्रुति-स्मृति-पुराणादि- इत्य्-आदिना,
न तु रुचि-भावेऽपि तन्-निन्दा युक्ता
पूतना[१०.६.२६] इत्य्-आदेः ।
तथा चोक्तं पाद्मोत्तर-खण्डे—
स्वातन्त्र्यात् क्रियते कर्म
न च वेदोदितं महत् ।
विनैव भगवत्-प्रीत्या
ते वै पाषण्डिनः स्मृताः ॥
[६.२३५.९, ६]
इति ।
प्रीतिर् अत्र तादृश-रुचिः ।
तद् एवम् अत्र शास्त्रानादरस्यैव निन्दा ।
न तु
तद्-अज्ञानस्य धावन् निमील्य वै [११.२.३५]
इत्य्-आदेः । गौतमीय-तन्त्रे त्व् इदम् अप्य् उक्तम्—
न जपो नार्चनं नैव ध्यानं नापि विधि-क्रमः ।
केवलं सन्ततं कृष्ण-चरणाम्भोज-भाविनाम् ॥
अजात-तादृश-रुचिना तु सद्-विशेषादर-मात्रादृता रागानुगापि वैधी-संवलितैवानुष्ठेया,
तथा लोक-संग्रहार्थं प्रतिष्ठितेन जात-तादृश-रुचिना च ।
अत्र मिश्रत्वे च
यथा-योग्यं रागानुगयैकीकृत्यैव वैधी कर्तव्या । +++(5)+++
केचिद् अष्टादशाक्षर-ध्यानं गो-दोहन-समय-वंशी-वाद्य-समाकृष्ट-तत्-तत्-सर्वमयत्वेन भावयन्ति,
यथा चैके
“तादृशम् उपासनं साक्षाद्
व्रज-जन-विशेषायैव मह्यं
श्री-गुरु-चरणैर् मद्-अभीष्ट-विशेष-सिद्ध्य्-अर्थम् उपदिष्टं भावयामि,
साक्षात् तु श्री-व्रजेन्द्र-नन्दनं सेवमान एवास”
इति भावयन्ति ।
अथ श्रुति-स्मृती ममैवाज्ञे इत्य्-आदि-निन्दित-मात्र–
स्वावश्यक-क्रिया-निषेधयोर् उल्लङ्घनं द्विविधम् ।
तौ हि धर्म-शास्त्रोक्तौ +++(क्रियानिषेधौ)+++ भक्ति-शास्त्रोक्तौ चेति ।
भगवद्-भक्ति-विश्वासेन दौःशील्येन वा
पूर्वयोर् अकरण-करण-प्रत्यासत्तौ
न वैष्णव-भावाद् भ्रंशः ।
देवर्षि-भूताप्त-नॄणां [भा।पु। ११.५.३७] इत्य्-आद्य्-उक्तेः,
अपि चेत् सुदुराचारः [गीता ९.३०] इत्य्-आद्य्-उक्तेश् च ।
तादृश-रुचिमति तु
तयैव रुच्या द्विष्टत्वाद्
अपुनर्-भवाद्य्-आनन्दस्यापि वाञ्छा नास्ति,
किम् उत परम-घृणास्पदस्य ।
अतस् तत्र स्वत एव न प्रवृत्तिः ।
प्रमादादिना कदाचिज् जातं चेद्
विकर्म तत्-क्षणाद् एव नश्यत्य् अपि ।+++(5)+++
उक्तं च—
विकर्म यच् चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः [भा।पु। ११.५.४२]
इति ।
अथ यदि वैष्णव-शास्त्रोक्तौ तौ,
तर्हि विष्णु-सन्तोषैक-प्रयोजनाव् एव भवतः ।
तयोश् च तादृशत्वे श्रुते सति
तदीय-राग-रुचिमतः
स्वत एव प्रवृत्त्य्-अप्रवृत्ती स्याताम् -
तत्-सन्तोषैक-जीवनत्वात् प्रीति-जातेः ।+++(5)+++
अत एव
न तत्र स्वानुगम्यमान-रागात्मक-सिद्ध-भक्त-विशेषेण
कृतत्वाकृतत्वयोर् अनुसन्धानं चापेक्ष्यं स्यात्,
किन्तु तत्-कृतत्वे सति
विशेषेणाग्रहो भवतीत्य् एव विशेषः ।
अत्र क्वचिच् छास्त्रोक्त-क्रम-विध्य्-अपेक्षा च
राग-रुच्यैव प्रवर्तितेति
रागानुगान्तःपात एव।
ये च श्री-गोकुलादि-विराजि-रागात्मिकानुगास् तत्-परास्
ते तु श्री-कृष्ण-क्षेम-तत्-संसर्गान्तरायाभावादि-काम्यात्मक–
तद्-अभिप्राय-रीत्यैव
वैष्णव-लौकिक-धर्मानुष्ठानं कुर्वन्ति ।
अत एव रागानुगायां रुचेर् एव सद्-धर्म-प्रवर्तकत्वात्
“श्रुति-स्मृती ममैवाज्ञे” इत्य्-एतद्-वाक्यस्य
न तद्-वर्त्म-भक्ति-विषयत्वम्,
“अपि चेत् सुदुराचारः” [गीता ९.३०]इत्य्-आदि-विरोधान्
न च विधि-वर्त्म-विषयत्वम्,
किन्तु बाह्य-शास्त्र-निर्मित-बुद्ध-र्षभ-दत्तात्रेयादि-भजन-वर्त्म-विषयत्वम् एव ।+++(4)+++
तथोक्तम्—
वेद-धर्म-विरुद्धात्मा
यदि देवं प्रपूजयेत् ।
स याति नरकं घोरं
यावद् आहूत-सम्प्लवम् ॥
इति ।
रागानुगायां विध्य्-अप्रवर्तितायाम् अपि
न वेद-बाह्यत्वम्,
वेद-वैदिक-प्रसिद्धैव सा
तत्र तत्र रुचित्वात् ।
वेदेषु बुद्धादीनां तु वर्णनं
वेद-बाह्यं विरुद्धत्वेनैव, यथा—
ततः कलौ सम्प्रवृत्ते सम्मोहाय सुर-द्विषाम् ।
बुद्धो नाम्नाञ्जन-सुतः कीकटेषु भविष्यति ॥ [भा।पु। १.३.२४] इत्य्-आदि ।
तस्माद् भवत्य् एव रागानुगा समीचीना । तथा वैधीतोऽप्य् अतिशयवती च । मर्यादा-वचनं ह्य् आवेशार्थम् एवेति दर्शितम् । स पुनर् आवेशो यथा रुचि-विशेष-लक्षण-मानस-भावेन स्यात्, न तथा विधि-प्रेरणया, स्वारसिक-मनो-धर्मत्वात् तस्य । तत्र चास्तां तावद्-अनुकूल-भावः, परम-निषिद्धेन प्रतिकूल-भावेनाप्यावेशो झटिति स्यात् । तद्-आवेश-सामर्थ्येन प्रतिकूल-दोष-हानिः स्यात् । सर्वानर्थ-निवृत्तिश् च स्याद् इति भाव-मार्गस्य बलवत्त्वे दृष्टान्तोऽपि दृश्यते । तत्र यद्य् अनुकूल-भावः स्यात्, तदा परमैकान्ति-साध्य एवासौ ।
अथ भाव-मार्ग-सामान्यस्य बलवत्त्वं दर्शयितुं प्रकरणम् उत्थाप्यते । श्री-युधिष्ठिर उवाच—
अहो अत्यद्भुतं ह्य् एतद् दुर्लभैकान्तिनाम् अपि ।
वासुदेवे परे तत्त्वे प्राप्तिश् चैद्यस्य विद्विषः ॥ [भा।पु। ७.१.१५]
एकान्तिनां परम-ज्ञानिनाम् अपि ।