३११

रागानुगायां प्रवृत्तिर् अपीदृशी—

सन्तुष्टा श्रद्दधत्य् एतद् यथा-लाभेन जीवती ।
विहराम्य् अमुनैवाहम् आत्मना रमणेन वै ॥ [भा।पु। ११.८.४०]

अमुना इति भाव-गर्भ-रमणेन सह । आत्मना मनसैव तावद् विहरामि । रुचि-प्रधानस्य मार्गस्यास्य मनः-प्रधानत्वम्, तत्-प्रेयसी-रूपेणासिद्धायास् तादृश-भजने प्रायो मनसैव युक्तत्वात् । अनेन श्रीमत्-प्रतिमादौ तादृशीनाम् अप्य् औद्धत्यं परिहृतम् । एवं पितृत्वादि-भावेष्व् अप्य् अनुसन्धेयम् ॥

॥ ११.८ ॥ श्री-पिङ्गला ॥ ३१०-३११ ॥