तद् एवं वैधी भक्तिर् दर्शिता । अस्याश् चोक्तानाम् अङ्गानाम् अनुक्तानां च कुत्रचित् कस्याप्य् अङ्गस्यान्यत्र तु तद्-इतरस्य यन्-महिमाधिक्यं वर्ण्यते । तत्-तच्-छ्रद्धा-भेदेन तत्-तत्-प्रभावोल्लासापेक्षयेति न परस्पर-विरुद्धत्वम् । अधिकारि-भेदेन ह्य् औषधादीनाम् अपि तादृशत्वं दृश्यते ।
अथ रागानुगा । तत्र विषयिणः स्वाभाविको विषय-संसर्गेच्छातिशय-मयः1 प्रेमा रागः, यथा चक्षुर्-आदीनां सौन्दर्यादौ । तादृश एवात्र भक्तस्य श्री-भगवत्य् अपि राग इत्य् उच्यते। स च रागो विशेषण-भेदेन बहुधा दृश्यते—येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् [भा।पु। ३.२५.३५] इत्य्-आदौ । तत्र प्रियो यथा तदीय-प्रेयसीनाम् । आत्मा पर-ब्रह्म-रूपः श्री-सनकादीनाम् । सुतः श्री-व्रजेश्वरादीनाम् । सखा श्री-श्रीदामादीनाम् । गुरुः श्री-प्रद्युम्नादीनाम् । कस्यापि भ्राता, कस्यापि मातुलेयः, कस्यापि वैवाहिक इत्य्-आदि-रूपः स एक एव तेषु बहु-प्रकारत्वेन सुहृदः सम्बन्धिनाम् । दैवम् इष्टं तदीय-सेवकानां श्री-दारुक-प्रभृतीनाम् इति प्रसिद्धम् ।
अत्र श्रीमत्यां मोहिन्यां यः खलु रुद्रस्य भावो जातः, स तु नाङ्गीकृतः, अनुक्तत्वात्, 2 तस्य माया-मोहिततयैव तादृश-भावाभ्युपगमाच् च ।
तद् एवं तत्-तद्-अभिमान-लक्षण-भाव-विशेषणेन स्वाभाविक-रागस्य वैशिष्ट्ये सति तत्-तद्-राग-प्रयुक्ता श्रवण-कीर्तन-स्मरण-पाद-सेवन-वन्दनात्म-निवेदन-प्राया भक्तिस् तेषां रागात्मिका भक्तिर् इत्य् उच्यते । तस्याश् च साध्यायां राग-लक्षणायां भक्ति-गङ्गायां तरङ्ग-रूपत्वात् साध्यत्वम् एवेति, न तु साधन-प्रकरणेऽस्मिन् प्रवेशः । अतो रागानुगा कथ्यते ।
यस्य पूर्वोक्ते राग-विशेषे रुचिर् एव जातास्ति, न तु राग-विशेष एव स्वयं, तस्य तादृश-राग-सुधाकर-कराभास-समुल्लसित-हृदय-स्फटिक-मणेः शास्त्रादि-श्रुतासु तादृश्या रागात्मिकाया भक्तेः परिपाटीष्व् अपि रुचिर् जायते । ततस् तदीयं रागं रुच्यानुगच्छन्ती, सा रागानुगा तस्यैव प्रवर्तते । एषैवाविहितेति केषाञ्चित् संज्ञा, रुचि-मात्र-प्रवृत्त्या विधि-प्रयुक्तत्वेनाप्रवृत्तत्वात् । न च वक्तव्यं विध्य्-अनधीनस्य न सम्भवति भक्तिर् इति ।
प्रायेण मुनयो राजन् निवृत्ता विधि-षेधतः ।
नैर्गुण्य-स्था रमन्ते स्म गुणानुकथने हरेः ॥ [भा।पु। २.१.७] इत्य् अत्र श्रूयते ।
ततो विधि-मार्ग-भक्तिर् विधि-सापेक्षेति सा दुर्बला । इयं तु स्वतन्त्रैव प्रवर्तते इति प्रबला च ज्ञेया । अत एवास्या जन्म-लक्षणं भक्ति-व्यतिरेकेणान्यत्रानभिरुचिम् उपलक्ष्य—
सा श्रद्दधानस्य विवर्धमाना
विरक्तिम् अन्यत्र करोति पुंसः ।
हरेः पदानुस्मृति-निर्वृतस्य
समस्त-दुःखाप्ययम् आशु धत्ते ॥ [भा।पु। ३.५.१३] इति ।
सा पूर्वोक्ता कथा-गृहीता मतिस् तद्-रुचिर् इत्य् अर्थः । विधि-निरपेक्षत्वाद् एव पूर्वाभ्यां दास्य-सख्याभ्याम् एतदीययोस् तयोर् भेदश् च ज्ञेयः । एवम् एवोक्तं तन् मन्येऽधीतम् उत्तमम्[७.५.२४] इति । अत एव विध्य्-उक्त-क्रमोऽपि नास्याम् अत्यादृतः । किन्तु रागात्मिका-श्रुत-क्रम एव ।
तत्र रागात्मिकायां रुचिर् यथा—
सुहृत् प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ [भा।पु। ११.८.३५]
अत्र स्वाभाविक-सौहृद्यादि-धर्मैस् तस्मिन्न् एव स्वाभाविक-पतित्वं स्थापयित्वा, परस्यौपाधिक-पतित्वम् इत्य् अभिप्रेतम् । अन्यत्र, पत्याव् एकत्वं सा गता यस्माच् चरु-मन्त्राहुति-व्रता3[लघु-हारीतेनोक्तम्]4 इति छान्दोग्य-परिशिष्टानुसारेण कृत्रिमम् एकात्मत्वम्5 । तस्मिन् परमात्मनि तु स्वभावत एवेत्य् आत्म-शब्दस्याप्य् अभिप्रायः । एवं6 यद्यपि तस्मिन् पतित्वम् अनाहार्यम्7 एवास्ति, तथापि आत्मनैव मूल्य-भूतेनैव8 तं विशेषतःक्रीत्वा यथान्यापि कन्या विवाहात्मकेन स्वात्म-समर्पणेन कञ्चित् पतित्वेनोपादत्ते, तथाभावेनाश्रित्य अनेन परम-मनोहर-रूपेण तेन सह रमेरमा लक्ष्मीर् यथा । तद् एवं तस्याः पिङ्गलाया रागे स्व-रुचिर् द्योतिता ॥
-
स्वाभाविके विषये सङ्गेच्छातिशय-मयः (ख) ↩︎
-
अयुक्तत्वात् (ख) ↩︎
-
थिस् रेअदिन्ग् ओन्ल्य् इन् (ल)। प् गिवेस् -मन्त्राहुतिर् व्रतैः (क, ख)। अल्ल् ओथेर्स् स्तोप् अत् चरु-॥ ↩︎
-
प् मर्गिन्। ↩︎
-
कृत्रिमम् एवात्मत्वम् (अल्ल् बुत् ख), कृत्रिमम् एव सत्त्वम् (ख); थे रेअदिन्ग् wअस् एमेन्देद् ब्य् प्, बुत् wइथोउत् गिविन्ग् अ सोउर्चे। ↩︎
-
इदं (य) ↩︎
-
अकृतृमम् (प् मर्गिन्) ↩︎
-
मूल-भूतेनैव (छ, झ, ञ, य); मूल्यीभूतेन (ख) ↩︎