अथ आत्म-निवेदनम् । तच् च देहादि-शुद्धात्म-पर्यन्तस्य सर्वतो-भावेन तस्मिन्न् एवार्पणम् । तत्-कार्यं चात्मार्थ-चेष्टा-शून्यत्वं तन्-न्यस्तात्म-साधन-साध्यत्वं तद्-अर्थैक-चेष्टामयत्वं च । इदं ह्य् आत्मार्पणं गो-विक्रयवतो विक्रीतस्य गोर् वर्तनार्थं विक्रीतवता चेष्टा न क्रियते । तस्य च श्रेयः-साधकस् तं क्रीतवान् एव स्यात् । स च गौस् तस्यैव कर्म कुर्यात्, न पुनर् विक्रीतवतोऽपीति । इदम् एवात्मार्पणं श्री-रुक्मिणी-वाक्ये—
तन् मे भवान् खलु वृतः पतिर् अङ्ग जायाम्
आत्मार्पितश् च भवतोऽत्र विभो विधेहि । [भा।पु। १०.५२.३९] इति ।
अथ केचिद् देहार्पणम् एवात्मार्पणम् इति मन्यन्ते । यथा भक्ति-विवेके—
चिन्तां कुर्यान् न रक्षायै विक्रीतस्य यथा पशोः ।
तथार्पयन् हरौ देहं विरमेद् अस्य रक्षणात् ॥ इति ।
केचिच् छुद्ध-क्षेत्रज्ञार्पणम् एव । यथा श्रीमद्-आलबन्दारु-स्तोत्रे**—**
वपुर्-आदिषु योऽपि कोऽपि वा
गुणतोऽसानि यथा-तथा-विधः ।
तद् अयं तव पाद-पद्मयोर्
अहम् अद्यैव मया समर्पितः ॥ [स्तोत्र-रत्नम् ४९] इति ।
केचिच् च दक्षिण-हस्तादिकम् अप्य् अर्पयन्तः, तेन तत्-कर्म-मात्रं कुर्वते, न तु देहादि-कर्मेत्य् अद्यापि दृश्यते । तद् एतत् सर्वात्मकं स-कार्यम् आत्म-निवेदनं यथा—
स वै मनः कृष्ण-पदारविन्दयोर्
वचांसि वैकुण्ठ-गुणानुवर्णने
करौ हरेर् मन्दिर-मार्जनादिषु
श्रुतिं चकाराच्युत-सत्-कथोदये ॥
मुकुन्द-लिङ्गालय-दर्शने दृशौ
तद्-भृत्य-गात्र-स्पर्शेऽङ्ग-सङ्गमम् ।
घ्राणं च तत्-पाद-सरोज-सौरभे
श्रीमत्-तुलस्या रसनां तद्-अर्पिते ॥
पादौ हरेः क्षेत्र-पदानुसर्पणे
शिरो हृषीकेश-पदाभिवन्दने ।
कामं च दास्ये न तु काम-काम्यया
यथोत्तमश्लोक-जनाश्रया रतिः ॥ [भा।पु। ९.४.१८-२०]
चकार अर्पयामास । कृष्ण-पदारविन्दयोर् इत्य्-आदिकम् उपलक्षणं तत्-सेवादीनाम् । लिङ्गं श्री-मूर्तिः । आलयस् तद्-भक्तस् तन्-मन्दिरादिः । श्रीमत्-तुलस्यास् तत्-पाद-सरोज-सम्बन्धि यत् सौरभं तस्मिन् । तद्-अर्पिते महा-प्रसादान्नादौ । कामं सङ्कल्पं च दास्ये निमित्ते। कथं चकार ?यथा येन प्रकारेण उत्तमः-श्लोक-जनाश्रया रतिः सा भवेद् इति ।
अत्र सर्वथा तत्रैव सङ्घातात्म-निक्षेपः1 कृत इति वैशिष्ट्यापत्त्या स्मरणादि-मयोपासनस्यैवात्मार्पणत्वम् । एवम् एवोक्तम्—श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् [भा।पु। ११.१९.१९] इत्य् आरभ्य, एवं धर्मे मनुष्याणां [भा।पु। ११.१९.२२] इति । यथा स्मरण-कीर्तन-पाद-सेवन-मयम् उपासनम् एव आगमोक्त-विधिमयत्व-वैशिष्ट्यापत्त्यार्चनम् इत्य् अभिधीयते, ततो नाविविक्तत्वम् । स्नान-परिधानादि-क्रिया चास्य भगवत्-सेवा-योग्यत्वायैवेति, तत्रापि नात्मार्पण-भक्ति-हानिर् इत्य् अनुसन्धेयम् ।
एतद् आत्मार्पणं श्री-बलाव् अपि स्फुटं दृश्यते । उदाहृतं चेदम् आत्मार्पणं धर्मार्थ-कामः [भा।पु। ७.६.२६]2 इत्य्-आदिना श्री-प्रह्लाद-मते । मर्त्यो यदा त्यक्त-समस्त-कर्मा निवेदितात्मा [भा।पु। ११.२९.३५] इत्य्-आदिना श्री-भगवन्-मतेऽपि ।
तद् एतद् आत्म-निवेदनं भावं विना भाव-वैशिष्ट्येन च दृश्यते । पूर्वं यथा मर्त्यो यदा [भा।पु। ११.२९.३२] इत्य्-आदि । उत्तरं यथैकादश एव दास्येनात्म-निवेदनम् [भा।पु। ११.११.३५] इति । यथा च रुक्मिणी-वाक्ये आत्मार्पितश् च भवतः [भा।पु। १०.५२.१] इति ॥
॥ ९.४ ॥ श्री-शुकः ॥ ३०९ ॥