३०८

एवं च—

शान्ताः सम-दृशः शुद्धाः सर्व-भूतानुरञ्जनाः ।
यान्त्य् अञ्जसाच्युत-पदम् अच्युत-प्रिय-बान्धवाः ॥ [भा।पु। ४.१२.३७]

अच्युत एव प्रिय-बान्धवो येषाम् । अच्युतस्य पदं तत्-सनाथं लोकम् । अच्युत-शब्दावृत्त्या फलस्य केनाप्य् अंशेन व्यभिचारित्वं नेति दर्श्यते ॥

॥ ४.१२ ॥ श्री-मैत्रेयः ॥ ३०८ ॥