३०७

तद् यथा—

मयि निर्बद्ध-हृदयाः साधवः सम-दर्शनाः ।
वशे कुर्वन्ति मां भक्त्या सत्-स्त्रियः सत्-पतिं यथा ॥ [भा।पु। ९.४.६६]

अत्र दृष्टान्तेनांशतः सख्यात्मका भक्तिर् लक्ष्यते ॥

॥ ९.४ ॥ श्री-वैकुण्ठो दुर्वाससम् ॥ ३०७ ॥