अथ सख्यम् । तच् च हिताशंसन-मयं बन्धु-भाव-लक्षणम् । यन्-मित्रं परमानन्दम् [भा।पु। १०.१४.३१] इत्य् अत्र तथैव मित्र-पद-न्यासात् । यथा रामार्चन-चन्द्रिकायाम्—
परिचर्या-पराः केचित् प्रासादादिषु शेरते ।
मनुष्यम् इव तं द्रष्टुं व्यवहर्तुं च बन्धुवत् ॥ इति ।
अस्य चोत्तरत्र पाठः प्रेम-विश्रम्भवद् भावना-मयत्वेन दास्याद् अप्य् उत्तमत्वापेक्षया। किं च, परमेश्वरेऽपि यत् सख्यं शास्त्रे विधीयते, तन् नाश्चर्यम्, नादेवो देवम् अर्चयेत् इति तद्-भावस्यापि विधान-श्रवणात् । किन्तु तद्-भावस् तत्-सेवा-विरुद्ध इति शुद्ध-भक्तैर् उपेक्ष्यते । सख्यं तु परम-सेवानुकूलम् इत्य् उपादीयत इति । तद् एतत् साक्षाद्-भजनात्मकं दास्यं सख्यं च टीकायाम् अपि दर्शितम् अस्ति—
तस्यैव मे सौहृद-सख्य-मैत्री-
दास्यं पुनर् जन्मनि जन्मनि स्यात् । [भा।पु। १०.८१.२९] इत्य् अत्र श्रीदाम-विप्र-वाक्ये ।
यथा,
श्री-कृष्णस्य भक्त-वात्सल्यं दृष्ट्वा तद्-भक्तिं प्रार्थयते—तस्येति । सौहृदं प्रेम । सख्यं हिताशंसनं च । मैत्री उपकारिकत्वं च । दास्यं सेवकत्वम् च तत्-समाहारैक-वचनम् । तस्य तत्-सम्बन्धिनो मे मम स्यात्, न तु विभूतिः ॥ इत्य् एतत् ॥
तत्र नव-विधायां साध्यत्वात् प्रेमा नान्तर्-भाव्यते । मैत्री तु सख्य एवान्तर्-भाव्येति दास्य-सख्ये द्वे एव गृहीते । अत्र च ताभ्यां कर्मार्पण-विश्वासौ न व्याख्यातौ, साक्षाद्-भक्तित्वाभावात् । कर्मार्पणस्य फलं भक्तिर् विश्वासश् च भक्त्य्-अभिनिवेश-हेतुर् इतीह पूर्वम् उक्तम् । तच् च भगवद्-विषय-हिताशंसन-मयं सख्यम्, भगवत्-कृत-हिताशंसनस्य नित्यत्वात्,1 तेन सह तस्य नित्य-सहवासाच् च । भजन-विशेषेणापि विशिष्टं सम्पादयितुं नातिदुष्करं स्याद् इत्य् आह—
कोऽतिप्रयासोऽसुर-बालका हरेर्
उपासने स्वे हृदि छिद्रवत् सतः ।
स्वस्यात्मनः सख्युर् अशेष-देहिनां
सामान्यतः किं विषयोपपादनैः ॥ [भा।पु। ७.७.३८]
छिद्रवद् आकाशवद् अलिप्तत्वेन सदा वर्तमानस्य । नातिप्रयासे हेतुः—सर्वेषां देहिनां य स्व आत्मा शुद्धं स्वरूपं तस्य, सामान्यतः सर्वत्र निर्विशेषतयैव सखा । यथावसरं बहिर्-अन्तःकरण-विषयादि-लक्षण-मायिक्या निज-प्रेमादि-लक्षणा-मायिक्याश् च सम्पत्तेर् दानेन हिताशंसी यस् तस्य हरेः । तस्माद् आरोपितानां नश्वराणां विषयाणां जायापत्यादीनाम् उपार्जनैः किम् इति ॥
॥ ७.७ ॥ श्री-प्रह्लादोऽसुर-बालकान् ॥ ३०६ ॥
-
नित्य-सिद्धत्वात् (ख) ↩︎