तद् एतद्-दास्य-सम्बन्धेनैव सर्वम् अपि भजनं महत्तरं भवतीत्य् आह—
यन्-नाम-श्रुति-मात्रेण पुमान् भवति निर्मलः ।
तस्य तीर्थ-पदः किं वा दासानाम् अवशिष्यते ॥ [भा।पु। ९.५.१६]
यस्य भगवतो नाम-श्रवण-मात्रेण यथा-कथञ्चित् तच्-छ्रवणेन, किं पुनः सम्यक् तत्-तद्-भजनेनेत्य् अर्थः । तर्हि दासोऽस्मीत्य् अभिमानेन सम्यग् एव भजतां सर्वत्र साधने साध्ये च किम् अवशिष्यते ? तद्-अधिकम् अन्यत् किम् अपि नास्तीत्य् अर्थः ॥
॥ ९.५ ॥ दुर्वासा श्रीमद्-अम्बरीषम् ॥ ३०५ ॥