अथ दास्यम् । तच् च श्री-विष्णोर् दासं-मन्यत्वम् ।
जन्मान्तर-सहस्रेषु यस्य स्यान् मतिर् ईदृशी ।
दासोऽहं वासुदेवस्य सर्वान् लोकान् समुद्धरेत् ॥ इत्य् उक्त-लक्षणम् ।
अस्तु तावत् तद्-भजन-प्रयासः केवल-तादृशत्वाभिमानेनापि सिद्धिर् भवतीत्य् अभिप्रेत्यैवोत्तरत्र निर्देशश् च तस्य । यथोक्तं जन्मान्तर- इत्य् एतत्-पद्यस्यैवान्ते किं पुनस् तद्-गत-प्राणाः पुरुषाः संयतेन्द्रियाः इति । श्री-प्रह्लाद-स्तुतौ तत् तेऽर्हत्तम [भा।पु। ७.९.४९] इत्य्-आदि-पद्ये तु नम-स्तुति-सर्व-कर्मार्पण-परिचर्या-चरण-स्मृति-कथा-श्रवणात्मकं दास्यं टीकायां सम्मतम् । श्रीमद्-उद्धव-वाक्ये च—
त्वयोपभुक्त-स्रग्-गन्ध- वासोऽलङ्कार-चर्चिताः ।
उच्छिष्ट-भोजिनो दासास् तव मायां जयेम हि ॥ [भा।पु। ११.६.४६] इति ।
तत्र तत्र च कार्य-द्वारैव निर्दिष्टम् । उदाहरणं तु—
स वै मनः कृष्ण-पदारविन्दयोः [भा।पु। ९.४.१५] इत्य्-आदौ,
कामं च दास्ये न तु काम-काम्यया [भा।पु। ९.४.१७] इति ।
च-कारः पूर्वेणान्वयः । कामं सङ्कल्पं च दास्ये निमित्ते एव । च-काराद् दासोऽहं तस्य दास्यम् एतत् करोमीत्य् एवं सङ्कल्पितवान् इत्य् अर्थः, न तु काम-काम्यया स्वर्गादि-भोगेच्छया तं चकारेति वासनान्तर-व्यवच्छेदः ॥
॥ ९.४ ॥ श्री-शुकः ॥ ३०४ ॥