३०३

अथ तथापि प्रामादिके भगवद्-अपराधे पुनर् भगवत्-प्रसादनानि कर्तव्यानि । यथा स्कान्दे अवन्ती-खण्डे श्री-व्यासोक्तौ—

अहन्य् अहनि यो मर्त्यो गीताध्यायं पठेत् तु वै ।
द्वात्रिंशद्-अपराधांस् तु क्षमते तस्य केशवः ॥ इति ।

तत्रैव द्वारका-माहात्म्ये—

सहस्र-नाम-माहात्म्यं यः पठेच् छृणुयाद् अपि ।
अपराध-सहस्रेण न स लिप्येत् कदाचन ॥ इति ।

तत्रैव रेवा-खण्डे—

द्वादश्यां जागरे विष्णोर् यः पठेत् तुलसी-स्तवम् ।
द्वात्रिंशद्-अपराधानि क्षमते तस्य केशवः ॥ इति ।

तत्रैवान्यत्र—

तुलस्या रोपणं कार्यं श्रावणेषु विशेषतः ।
अपराध-सहस्राणि क्षमते पुरुषोत्तमः ॥ इति ।

तत्रैवान्यत्र कार्त्तिक-माहात्म्ये—

तुलस्या कुरुते यस् तु शालग्राम-शिलार्चनम् ।
द्वात्रिंशद्-अपराधांश् च क्षमते तस्य केशवः ॥ इति ।

अन्यत्र—

यः करोति हरेः पूजां कृष्ण-शस्त्राङ्कितो नरः ।
अपराध-सहस्राणि नित्यं हरति केशवः ॥इति ।

आदि-वाराहे—

संवत्सरस्य मध्ये तु तीर्थे शौकरके मम ।
कृतोपवासः स्नानेन गङ्गायां शुद्धिम् आप्नुयात् ॥
मथुरायां तथाप्य् एवं सापराधः शुचिर् भवेत् ।
अनयोस् तीर्थयोर् एकं यः सेवेत सुकृती नरः ॥
सहस्र-जन्म-जनितान् अपराधान् जहाति सः ॥इति ।

शौकरके शूकर-क्षेत्राख्ये । महद्-अपराधस् तु चाटुकारादिना वा, तत्-प्रीत्य्-अर्थ-कृतेन निरन्तर-दीर्घ-कालीन-भगवन्-नाम-कीर्तनेन वा तं प्रसाद्य क्षमापनीय इत्य् अवोचामैव । तत्-प्रसादं विना तद्-असिद्धेः । अत एवोक्तं श्री-शिवं दक्षेण—

योऽसौ मयाविदित-तत्त्व-दृशा सभायां
क्षिप्तो दुरुक्ति-विशिखैर् विगणय्य तन् माम् ।
अर्वाक् पतन्तम् अर्हत्तम-निन्दयापाद्
दृष्ट्यार्द्रया स भगवान् स्व-कृतेन तुष्येत् ॥ [भा।पु। ४.७.१५] इति ।

एवम् उत्तरत्रापि ज्ञेयम् ।

अथ वन्दनम् । तच् च यद्यप्य् अर्चनाङ्गत्वेनापि वर्तते, तथापि कीर्तन-स्मरणवत् स्वातन्त्र्येणापीत्य् अभिप्रेत्य पृथग् विधीयते । एवम् अन्यत्रापि ज्ञेयम् । वन्दनस्य पृथग्-विधानं चानन्त-गुणैश्वर्य-श्रवणात् तद्-गुणानुसन्धान-पाद-सेवादौ विधृत-दैन्यानां नमस्कार-मात्रे कृताध्यवसायानाम् अर्थे । स एव नमस्कारस् तस्यार्चनत्वेनाप्य् अतिदिष्टः । यथा नारसिंहे—

नमस्कारः स्मृतो यज्ञः सर्व-यज्ञेषु चोत्तमः ।
नमस्कारेण चैकेन साष्टाङ्गेन हरिं व्रजेत् ॥ इति ।

तद् एतद्-वन्दनं यथा—

तत् तेऽनुकम्पां सुसमीक्षमाणो
भुञ्जान एवात्म-कृतं विपाकम् ।
हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते
जीवेत यो मुक्ति-पदे स दाय-भाक् ॥ [भा।पु। १०.१४.८]

यस्माद् गुणात्मनस् तेऽपि गुणान् विमातुम् [भा।पु। १०.१४.७] इत्य्-आदिना तादृशत्वम् उच्यते । तत् तस्मात् । नमो नमस्कारम् । मुक्ति-पदे नवम-पदार्थस्य मुक्तेर् अप्य् आश्रये परिपूर्ण-दशम-पदार्थे । यद् वा, मुक्तिर् इह पञ्चम-स्थ-गद्यानुसारेण प्रेमैव, तत्-पदे तद्-विषये परिपूर्ण-भगवल्-लक्षणे त्वयि दाय-भाग् भवति । भ्रातृ-वण्टन इव त्वं तस्य दायत्वेन वर्तस इत्य् अर्थः, त्वं तस्य सुवशो भवसीत्य् अर्थः । मुक्ति-मात्रं तु सकृन् नमस्कारेणैवासन्नं स्यात् । यथा विष्णु-धर्मे—

दुर्ग-संसार-कान्तारम् अपारम् अभिधावताम् ।
एकः कृष्णे नमस्कारो मुक्ति-तीरस्य दैशिकः ॥ इति ।

तत् ते इत्य् अत्र सुसमीक्षमाणःप्रतीक्षमाणः इति टीका । यद् वा, प्रतिक्षणं निरुपाधि-कृपयैव प्रभुणा तथा तथा क्रियमाणाम् अनुकम्पां सुष्ठु-रूपाम् ईक्षमाणस् तत्रानन्दीभवन् तां सम्यक् पश्यन् विभावयन्, तथा हृदा, यद् वावाचा, यद् वावपुषानमो विदधज् जन इत्य्-आदि व्याख्या ज्ञेया ।1

नमस्कारेऽप्य् अपराधाश् चैते परिहर्तव्याः विष्णु-स्मृत्य्-आदि-दृष्ट्या । ये खलु एक-हस्त-कृतत्व-वस्त्रावृत-देहत्व-भगवद्-अग्र-पृष्ठ-वाम-भागात्यन्त-निकट-गर्भ-मन्दिर-गतत्वादि-मयाः ।

॥ १०.१४ ॥ श्री-ब्रह्मा भगवन्तम् ॥ ३०३ ॥


  1. “तत् ते” इत्य् अत्र… “व्याख्या ज्ञेया” इत्य् अनुच्छेदांशः ख-च-करलिप्योर् नास्ति। ↩︎