३०१

महताम् अनादरस् तु सर्व-नाशक इत्य् आह—

न भजति कुमनीषिणां स इज्यां
हरिर् अधनात्म-धन-प्रियो रस-ज्ञः ।
श्रुत-धन-कुल-कर्मणां मदैर् ये
विदधति पापम् अकिञ्चनेषु सत्सु ॥ [भा।पु। ४.३१.२१]

अधनाश् च ते आत्म-धनाश् च ते प्रिया यस्य सः । रसज्ञो भक्ति-रसिको हरिः । के कुमनीषिण इत्य् अपेक्षायाम् आह—श्रुतेतिपापम् अपराधम् ॥

॥ ४.३१ ॥ श्री-नारदः प्रचेतसः ॥ ३०१ ॥