एवं तादृश-व्रतेष्व् अपि तत्-तद्-उपासकानां स्व-स्वेष्ट-दैवत-व्रतं सुष्ठ्व् एव विधेयम् इत्य् आगतम् । तथास्मिन् पाद-सेवार्चन-मार्गे, यानैर् वा पादुकैर् वापि गमनं भगवद्-गृहे इत्य्-आदिना आगमोक्ता ये द्वात्रिंशद्-अपराधाः, तथा राजन्न-भक्षणं चैवम् इत्य्-आदिना वाराहोक्ता ये च तत्-सङ्ख्यकाः, तथा मम शास्त्रं बहिष्कृत्य ह्य् अस्माकं यः प्रपद्यते इत्य्-आदिना, तद् उक्ता ये चान्ये बहवस् ते सर्वे—
ममार्चनापराधा ये कीर्त्यन्ते वसुधे मया ।
वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥
इति वाराहानुसारेण परित्याज्याः । इत्य् आशयेनाह—
श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्य् अपि ।
भूर्य् अप्य् अभक्तोपहृतं न मे तोषाय कल्पते ॥ [भा।पु। ११.२७.१८]
श्रद्धा-भक्त-शब्दाभ्याम् अत्रादर एव विधीयते । अपराधास् तु सर्वेऽनादरात्मका एव । प्रभुत्वावमानतश् च आज्ञावमानतश् च । तस्माद् अपराध-निदानम् अत्रानादर एव परित्याज्य इत्य् अर्थः ॥
॥ ११.२७ ॥ श्री-भगवान् ॥ ३०० ॥