२९९

तद् एतद्-अर्चनं व्याख्यातम् । अस्याङ्गानि चागमादौ ज्ञेयानि । तथा श्री-कृष्ण-जन्माष्टमी-कार्त्तिक-व्रतैकादशी-माघ-स्नानादिकम् अत्रैवान्तर्-भाव्यम् । तत्र जन्माष्टमी यथा विष्णु-रहस्ये ब्रह्म-नारद-संवादे—

तुष्ट्य्-अर्थं देवकी-सूनोर् जयन्ती-सम्भवं व्रतम् ।
कर्तव्यं वित्ताशाठ्येन भक्त्या भक्त-जनैर् अपि ।
अकुर्वन् याति निरयं यावद् इन्द्राश् चतुर्दश ॥ इति ।

तथा—

कृष्ण-जन्माष्टमीं त्यक्त्वा योऽन्यद् व्रतम् उपासते ।
नाप्नोति सुकृतं किञ्चिद् दृष्टं श्रुतम् अथापि वा ॥ इति ।

वित्ताशाठ्यं चोक्तम् अष्टमे—

धर्माय यशसेऽर्थाय कामाय स्व-जनाय च ।
पञ्चधा विभजन् वित्तम् इहामुत्र च मोदते ॥ [भा।पु। ८.१९.३७] इति ।

अथ कार्त्तिकः, यथा स्कान्दे एकतः सर्व-तीर्थानि इत्य्-आदिकम् उक्त्वा—

एकतः कार्त्तिको वत्स सर्वदा केशव-प्रियः ।
यत् किञ्चित् क्रियते पुण्यं विष्णुम् उद्दिश्य कार्त्तिके ।
तद् अक्षयं भवेत् सर्वं सत्योक्तं तव नारद ॥ इति ।
अव्रतेन क्षिपेद् यस् तु मासं दामोदर-प्रियम् ।
तिर्यग् योनिम् अवाप्नोति सर्व-धर्म-बहिष्कृतः ॥ इति ।

अथ एकादशी—तत्र तावद् अस्या अवैष्णवेऽपि नित्यत्वम् । तत्र सामान्यतः विष्णु-धर्मे—वैष्णवो वाथ सौरो वा कुर्याद् एकादशी-व्रतम् इति । सौर-पुराणे—वैष्णवो वाथ शैवो वा सौरोऽप्य् एतत् समाचरेत् इति । विशेषतश् च नारद-पञ्चरात्रे दीक्षानन्तरावश्य-कृत्य-कथने समयांश् च प्रवक्ष्यामि इत्य्-आदौ,

एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ।
जागरं निशि कुर्वीत विशेषाच् चार्चयेद् विभुम् ॥ इति ।

विष्णु-यामलेऽपि तत्-कथने दिग् । विद्धैकादशी-व्रतम्—

शुक्ला-कृष्णा-विभेदश् चासद्-व्यापारो व्रते तथा ।
शक्तौ फलादि-भुक्तिश् च श्राद्धं चैकादशी-दिने ॥
द्वादश्यां च दिवा-स्वापस् तुलस्यावचयस् तथा ॥

तत्र विष्णोर् दिवा स्नानम् अपि निषिद्धत्वेनोक्तम् । पाद्मोत्तर-खण्डे च वैष्णव-धर्म-कथने—द्वादशी-व्रत-निष्ठता इति । तथा स्कान्दे काशी-खण्डे सौपर्ण-द्वारका-माहात्म्ये च चन्द्र-शर्मणो भगवद्-धर्म-प्रतिज्ञा—

अद्य-प्रभृति कर्तव्यं यन् मया कृष्ण तच् छृणु ।
एकादश्यां न भोक्तव्यं कर्तव्यो जागरः सदा ॥
महा-भक्त्यात्र कर्तव्यं प्रत्यहं पूजनं तव ।
पलार्धेनापि विद्धं तु मोक्तव्यं वासरं तव ॥
त्वत्-प्रीत्याष्टौ मया कार्या द्वादश्यां व्रत-संयुताः ॥ इत्य्-आदिकाः ।

अत उक्तम् आग्नेये, एकादश्यां न भोक्तव्यं तद् व्रतं वैष्णवं महत् इति ।

गौतमीये—

वैष्णवो यदि भुञ्जीत एकादश्यां प्रमादतः ।
विष्ण्व्-अर्चनं वृथा तस्य नरकं घोरम् आप्नुयात् ॥

मत्स्य-भविष्य-पुराणयोः—

एकादश्यां निराहारो यो भुङ्क्ते द्वादशी-दिने ।
शुक्ला वा यदि वा कृष्णा तद् व्रतं वैष्णवं महत् ॥ इति ।

स्कान्दे—

मातृहा पितृहा चैव भ्रातृहा गुरुहा तथा ।
एकादश्यां तु यो भुङ्क्ते विष्णु-लोक-च्युतो भवेत् ॥ इति ।

अत्र वैष्णवानां निराहारत्वं नाम महा-प्रसादान्न-परित्याग एव । तेषाम् अन्य-भोजनस्य नित्यम् एव निषिद्धत्वात् । यथोक्तं नारद-पञ्चरात्रे—

प्रसादान्नं सदा ग्राह्यम् एकादश्यां न नारद ।
रमादि-सर्व-भक्तानाम् इतरेषां च का कथा ॥ इति ।

ब्रह्माण्ड-पुराणे—

पत्रं पुष्पं फलं तोयम् अन्न-पानाद्यम् औषधम् ।
अनिवेद्य च भुञ्जीत यद् आहाराय कल्पितम् ॥
अनिवेद्य तु भुञ्जानः प्रायश्चित्ती भवेन् नरः ।
तस्मात् सर्वं निवेद्यैव विष्णोर् भुञ्जीत सर्वदा ॥ इति ।

जागरस्यापि नित्यत्वं, यथा स्कान्दे उमा-महेश्वर-संवादे—

सम्प्राप्ते वासरे विष्णोर् ये न कुर्वन्ति जागरम् ।
भ्रश्यते सुकृतं तेषां वैष्णवानां च निन्दया ॥

मतिर् न जायते यस्य द्वादश्यां जागरं प्रति ।
न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि ॥ इति ।

तद्वत् तस्य विष्णु-प्रीतिदत्वं च श्रूयते पाद्मोत्तर-खण्डे—

शृणु देवि प्रवक्ष्यामि द्वादश्याश् च विधानकम् ।
तस्याः स्मरण-मात्रेण सन्तुष्टः स्याज् जनार्दनः ॥ [प।पु। ६.२३४.३]

भविष्ये—

एकादशी महा-पुण्या सर्व-पाप-विनाशिनी ।
भक्तेस् तु दीपनी विष्णोः परमार्थ-गति-प्रदा ॥ इति ।

अत एव श्रीमद्-अम्बरीषादीनां भक्त्य्-एक-निष्ठानां महा-प्रसादैक-भुजां तद्-व्रतं दर्शयता श्री-भागवतेनापि तद्-अन्तरङ्ग-वैष्णव-धर्मत्वेन सम्मतम् इति दिक् । पाद्मे कार्त्तिक-माहात्म्ये च ब्राह्मण-कन्यायाः कार्त्तिक-व्रतैकादशी-व्रत-प्रभावात् श्रीमत्-सत्यभामाख्य-भगवत्-प्रेयसी-पद-प्राप्तिर् अपि श्रूयते । किं बहुना ?

अथ माघः सौपर्णे—

दुर्लभो माघ-मासस् तु वैष्णवानाम् अतिप्रियः ।
देवतानाम् ऋषीणां च मुनीनां सुर-नायक ।
विशेषेण शचीनाथ माधवस्यातिवल्लभः ॥ इति ।

स्कान्दे ब्रह्म-नारद-संवादे—

सर्व-पाप-विनाशाय कृष्ण-सन्तोषणाय च ।
माघ-स्नानं सदा कार्यं वर्षे वर्षे च नारद ॥ इति ।

भविष्योत्तरे—

एकविंश-गणैः सार्धं भोगान् त्यक्त्वा यथेप्सितम् ।
माघ-मास्य् उषसि स्नात्वा विष्णु-लोकं स गच्छति ॥ इति ।

एवं श्री-राम-नवमी-वैशाख-व्रतादयश् चात्र ज्ञेयाः । एतत् सर्वम् अपि सद्-आचार-कथन-द्वारा विधत्ते—गां पर्यटन् [भा।पु। ३.१.१८] इत्य्-आदौ, व्रतानि चेरे हर-तोषणानि इति॥1

व्रतानि एकादश्यादीनीति । विदुर इति प्रकरण-लब्धम् ॥

॥ ३.१ ॥ श्री-शुकः ॥ २९९ ॥


  1. गां पर्यटन् मेध्य-विविक्त-वृत्तिः सदाप्लुतोऽधः शयनोऽवधूतः । अलक्षितः स्वैर् अवधूत-वेषो व्रतानि चेरे हरि-तोषणानि ॥ ↩︎