२९८

यानि चात्र वैष्णव-चिह्नानि निर्माल्य-धारण-चरणामृत-पानादीन्य् अङ्गानि, तेषां च पृथक् पृथक् माहात्म्य-वृन्दं शास्त्र-सहस्रेष्व् अनुसन्धेयम् ।

अथार्चनाधिकारि-निर्णयः—

एतद् वै सर्व-वर्णानाम् आश्रमाणां च सम्मतम् ।
श्रेयसाम् उत्तमं मन्ये स्त्री-शूद्राणां च मान-द ॥ [भा।पु। ११.२७.४]

सर्व-वर्णानां त्रैवर्णिकानाम् । तथा च स्मृत्य्-अर्थ-सारे पाद्मे च वैशाख-माहात्म्ये—

आगमोक्तेन मार्गेण स्त्री-शूद्रैर् अपि पूजनम् ।
कर्तव्यं श्रद्धया विष्णोश् चिन्तयित्वा पतिं हृदि ॥
शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् ।
सर्वेऽप्य् आगम-मार्गेण कुर्युर् वेदानुकारिणा ॥
स्त्रीणाम् अप्य् अधिकारोऽस्ति विष्णोर् आराधनादिषु ।
पति-प्रिय-रतानां च श्रुतिर् एषा सनातनी ॥ [प।पु। ६.८४.४८, ५२-४] इति ।

विष्णु-धर्मे—1

देवतायां च मन्त्रे च तथा मन्त्र-प्रदे गुरौ ।
भक्तिर् अष्ट-विधा यस्य तस्य कृष्णः प्रसीदति ॥
तद्-भक्त-जन-वात्सल्यं पूजायां चानुमोदनम् ।
सुमना अर्चयेन् नित्यं तद्-अर्थे दम्भ-वर्जनम् ॥
तत्-कथा-श्रवणे रागस् तद्-अर्थे चाङ्ग-विक्रिया ।
तद्-अनुस्मरणं नित्यं यस् तन्-नामोपजीवति ॥
भक्तिर् अष्ट-विधा ह्य् एषा यस्मिन् म्लेच्छेऽपि वर्तते ।
स मुनिः सत्य-वादी च कीर्तिमान् स भवेन् नरः ॥ इति ।

किं च, तत्त्व-सागरे—

यथा काञ्चनतां याति कांस्यं रस-विधानतः ।
तथा दीक्षा-विधानेन द्विजत्वं जायते नॄणाम् ॥ इति ।

अथ कृते शुक्लश् चतुर्-बाहुः [भा।पु। ११.५.१९] इत्य्-आदिना युग-भेदे यश् चोपासनायाम् आविर्भाव-भेद उच्यते, स च प्रायिक एव । तेभ्यश् चतुर्भ्योऽन्येषाम् उपासना-शास्त्राद् एव । अन्यथेतरोपासनायाः कालासमावेशः स्यात् । श्रूयन्ते च सर्वत्र युगे सर्वोपासकास् तस्मात् सर्वैर् अपि सर्वदापि यथेच्छं सर्व एवाविर्भावाः पूज्या इति स्थितम् । अत एतद् वै सर्व-वर्णानां [भा।पु। ११.२७.४] इत्य्-आदिकं सर्व-सम्मतम् एव ॥

॥ ११.२७ ॥ उद्धवः श्री-भगवन्तम् ॥ २९८ ॥


  1. इन् ह।भ।वि। ११.६१५, थेसे वेर्सेस् अरे अत्त्रिबुतेद् तो थे गौतमीय-तन्त्र। ↩︎