अथ नैवेद्यार्पण-प्रसङ्गे [क्र।दी। ४.६२] यः क्रम-दीपिका-दर्शितोऽनिरुद्ध-नामात्मको मन्त्रस् तस्य स्थाने श्री-कृष्णैकान्तिक-भक्तास् तु तन्-मूल-मन्त्रम् एवेच्छन्ति । तथा यच् च तन्-मुख-ज्योतिर्-अनुगतत्वेन ध्यातुं विधीयते, तत् तु भोजन-समये तन्-मुख-प्रसादम् एव मन्यन्ते । भोजनं तु यथा लोक-सिद्धम् एव नर-लीलात्वात् श्री-कृष्णस्य ।
अथ जपे मन्त्रार्थस्य नानात्वेऽपि पुरुषार्थानुकूल एवासौ चिन्त्यः । यथा श्रीमद्-अष्टाक्षरादाव् आत्म-निवेदन-लक्षण-चतुर्थ्य्-आद्य-भाववति मन्त्रे तद्-अनुसन्धानेनेति । एवम् अन्येऽपि पूजा-विधयो यथायथं योजनीयाः, शुद्ध-भक्ति-सिद्ध्य्-अर्थं सर्वासां भक्तीनाम् एव शुद्धत्वाशुद्धत्व-रूपेण द्विविधो हि भेदः सम्मत इति । तद् एतद्-अर्चनं फलेनाह—
एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः ।
अर्चन्न् उभयतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥ [भा।पु। ११.२७.४९]
उभयत इहामुत्र च । यथा—
माम् एव नैरपेक्ष्येण भक्ति-योगेन विन्दति ।
भक्ति-योगं स लभत एवं यः पूजयेत माम् ॥ [भा।पु। ११.२७.५३]
नैरपेक्ष्येण निरुपाधिना भक्ति-योगेन प्रेम्णा । स च भक्ति-योग एवं पूजायाः स्याद् इत्य् आह—भक्तीति ॥
॥ ११.२७ ॥ श्री-भगवान् ॥ २९६-२९७ ॥