२९५

अथाधिष्ठानन्तराणि चैवम् । यथा—

सूर्योऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् ।
भूर् आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे ॥
सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।
आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना ॥
वैष्णवे बन्धु-सत्-कृत्या हृदि खे ध्यान-निष्ठया ।
वायौ मुख्य-धिया तोये द्रव्यैस् तोय-पुरः-सरैः ॥
स्थण्डिले मन्त्र-हृदयैर् भोगैर् आत्मानम् आत्मनि ।
क्षेत्र-ज्ञं सर्व-भूतेषु समत्वेन यजेत माम् ॥
धिष्ण्येष्व् इत्य् एषु मद्-रूपं शङ्ख-चक्र-गदाम्बुजैः ।
युक्तं चतुर्-भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः ॥ [भा।पु। ११.११.४२-४६]

टीका च—इदानीम् एकादश पूजाधिष्ठानान्य् आह—सूर्य इति । हे भद्र ! अधिष्ठान-भेदेन पूजा-साधन-भेदम् आह—सूर्य इति त्रिभिः । त्रय्या विद्यया सूक्तैर् उपस्थानादिना । अङ्ग हे उद्धव ! मुख्य-धिया प्राण-दृष्ट्या । तोये तोयादिभिर् द्रव्यैस् तर्पणादिना । स्थण्डिले भुवि । मन्त्र-हृदयै रहस्य-मन्त्र-न्यासैः । सर्वाधिष्ठानेषु ध्येयम् आह—धिष्ण्येष्वेतेष्व् इति । इति अनेन प्रकारेण । एषु धिस्ण्येषु ॥इत्य् एषा ।

अत्र सर्वत्र चतुर्भुजस्यैवानुसन्धाने सत्य् अपि द्विधा गतिः—एकाधिष्ठान-परिचर्यैवाधिष्ठातुर् उपासना-लक्षणा । मन्दिर-लेपनादिना तद्-अधिष्ठातृ-प्रतिष्ठाया इव । यथा वैष्णवे बन्धु-सत्-कृत्या, गोष्व् अङ्ग यवसादिना इत्य्-आदि । यतो बन्धु-सत्कारो वैष्णव-विषयकः, ईश्वरे तु प्रभु-भाव उपदिश्यते । ईश्वरे तद्-अधीनेषु [भा।पु। ११.२.४४] इत्य्-आदौ । तथा गो-सम्प्रदानकम् एव यवसादि-भोजन-दानं युज्यते, न तु श्री-चतुर्भुज-सम-प्रदानकम्, अभक्ष्यत्वात् ।

यद् यद् इष्टतमं लोके यच् चातिप्रियम् आत्मनः ।
तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥ [भा।पु। ११.११.४१]

इति तत्रैव पूर्वम् उक्तम् । अन्या तु साक्षाद् अधिष्ठातुर् उपासना-लक्षणा, यथा—हृदि खे ध्यान-निष्ठया, तोये द्रव्यैस् तोय-पुरस्कृतैर् इत्य्-आदि । अत्राग्न्य्-आदौ तद्-अन्तर्यामि-रूपस्यैव चिन्तनं कार्यम्, न जातु निज-प्रेम-सेवा-विशेषाश्रय-स्वाभीष्ट-रूप-विशेषस्य । स तु सर्वथा परम-सुकुमारत्वादि-बुद्धि-जनितया प्रीत्यैव सेवनीयः । यथोक्तं श्री-भगवतैव—वस्त्रोपवीताभरणैः [भा।पु। ११.२७.२९] इत्य्-आदि । तेषां यथा-भक्ति-रीत्या परमेश्वरस्यापि तथा-भावः श्रूयते । यथा नारदीये—

भक्ति-ग्राह्यो हृषीकेशो न धनैर् धरणी-धर ।
भक्त्या संपूजितो विष्णुः प्रददाति मनोरथम् ॥
जलेनापि जगन्नाथः पूजितः क्लेशहा हरिः ।
परितोषं व्रजत्य् आशु तृषार्तः सुजलैर् यथा ॥1 [ना।प। २.३.३-४] इति ।

अत्र दृष्टान्त उपजीव्यः । वैपरीत्ये दोषश् च । यथा ग्रीष्मे जलस्थस्य पूजा प्रशस्ता, वर्षासु निन्दिता । यद् उक्तं गारुडे—

शुचि-शुक्र-गते काले येऽर्चयिष्यन्ति केशवम् ।
जलस्थं विविधैः पुष्पैर् मुच्यन्ते यम-ताडनात् ॥
घनागमे प्रकुर्वन्ति जलस्थं वै जनार्दनम् ।
ये जना नृपति-श्रेष्ठ तेषां वै नरकं ध्रुवम् ॥ इति ।

एवम् अन्यत्रापि । परिचर्या-विधौ तद्-देश-काल-सुखदानि शतशो विहितानि । तद्-विपरीतानि निषिद्धानि च । विष्णु-यामले—विष्णोः सर्व-र्तु-चर्याम् इति । अत एवोक्तं—यद् यद् इष्टतमं लोके [भा।पु। ११.११.४०] इत्य्-आदि । तत्र तत्रेष्ट-मन्त्र-ध्यान-स्थलं च सर्वर्तु-सुख-मय-मनोहर-रूप-रस-गन्ध-स्पर्श-शब्द-मयत्वेनैव ध्यातुं विहितम् अस्ति । अन्यथा तत्-तद्-आग्रहस्य वैयर्थ्यं स्यात् । तस्माद् अग्न्य्-आदौ तत्-तद्-अन्तर्यामि-रूप एव भाव्य इति स्थितम् ।

॥ ११.११ ॥ श्री-भगवान् ॥ २९५ ॥


  1. तत्र पाठः— तस्माद् विप्राः सदा भक्तिः कर्तव्या चक्र-पाणिनः । जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत् ॥ ↩︎