२९४

अथ तद्-अनन्तराध्यायस्यादाव् एव तेषु सर्वोत्कृष्टम् आह द्वाभ्याम्—

कर्म-निष्ठा द्विजाः केचित् तपो-निष्ठा नृपापरे ।
स्वाध्यायेऽन्ये प्रवचने केचन ज्ञान-योगयोः ॥
ज्ञान-निष्ठाय देयानि कव्यान्य् आनन्त्यम् इच्छता ।
दैवे च तद्-अभावे स्याद् इतरेभ्यो यथार्हतः ॥ [भा।पु। ७.१५.१-२] इत्य्-आदि ।

अनेन यथात्र मुमुक्षु-प्रभृतीनां ज्ञानि-पूजैव मुख्या, पुरुषान्तर-पूजा तु तद्-अभाव एव, तथा प्रेम-भक्ति-कामानां प्रेम-भक्त-पूजा ज्ञेया । ततः प्रेम-भक्तानाम् अपि यच् चित्तस्य परमाश्रय-रूपं, तद्-अभिव्यक्तेः सुतराम् एवार्चाया आधिक्यम् अपि । एवं तद्-आश्रय-रूपस्य विलक्षण-प्रकाश-स्थानत्वाद् एव श्री-विष्णोर् व्यापकत्वेऽपि शालग्रामादिषु निर्धारणम् । तच् च पुरुषवन् नान्तर्यामि-दृष्ट्य्-अपेक्षम्, किन्तु स्वभाव-निर्देश-परम् एव, तन्-निवास-क्षेत्रादीनां महा-तीर्थत्वापादनादिना कीकटादीनाम् अपि कृतार्थत्व-कथनात् । तथा च स्कान्दे—

शालग्राम-शिला यत्र तत्तीर्थं योजन-त्रयम् ।
तत्र दानं जपो होमः सर्वं कोटि-गुणं भवेत् ॥

पाद्मे—

शालग्राम-समीपे तु क्रोश-मात्रं समन्ततः ।
कीकटेऽपि मृतो याति वैकुण्ठ-भुवनं नरः ॥ इति ।

तस्माद् अर्चाया आधिक्यम् एव हि स्थितम् ॥

॥ ७.१५ ॥ श्री-नारदो युधिष्ठिरम् ॥ २९४ ॥