पूर्वोक्तं ब्राह्मण-रूपं पात्रम् एव स्तौति—
नन्व् अस्य ब्राह्मणा राजन् कृष्णस्य जगद्-आत्मनः ।
पुनन्तः पाद-रजसा त्रि-लोकीं दैवतं महत् ॥ [भा।७.१४.४२] इत्य्-आदिना ।
जगद्-आत्मनो जगति लोक-सङ्ग्रह-धर्मादि-प्रवर्तनेन तन्-नियन्तुर् इत्य् अर्थः । दैवतं पूज्यत्वेन दर्शितम् ॥
॥ ७.१४ ॥ श्री-नारदो युधिष्ठिरम् ॥ २८६-२९३ ॥