अथ पुरुषेषु पूर्वोक्त-विशेषं जात्य्-आदिना विवृणोति— पुरुषेष्व् अपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः । तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस् तनुम् ॥ [भा।पु। ७.१४.४१] इति । यो धत्ते तं सुपात्रं विदुः ॥