ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया ।
उपासत उपास्तापि नार्थदा पुरुष-द्विषाम् ॥ [भा।पु। ७.१४.४०] इत्य्-आदि ।
तत एवं-प्रभावात् । केचिद् इत्य् अधिष्ठान-वैशिष्ट्येन पूर्वतोऽप्य् उत्तम-साधन-तत्-परा इत्य् अर्थः । नन्व् अवज्ञावद् द्वेषेऽपि सिद्धिः स्यात् ? इत्य् आशङ्क्यातिप्रसङ्ग-वारणेच्छया प्रस्तुत-पुरुष-रूपाधिष्ठानादर-रक्षेच्छया च तं वारयति—उपास्तापि इति ॥