२९०

एवं स्थितेऽपि कालेनोपासक-दोषोत्पत्तौ सत्यां1 भेद-दृष्ट्या विशिष्टम् अधिष्ठानान्तरं2 प्रकाशितम् इत्य् आह—

दृष्ट्वा तेषां मिथो नृणाम् अवज्ञानात्मतां नृप ।
त्रेतादिषु हरेर् अर्चा क्रियायै कविभिः कृता ॥ [भा।पु। ७.१४.३९]

मिथोऽवज्ञानम् असम्मानंस् तस्मिन्न् आत्मा बुद्धिर् येषां भावं दृष्ट्वाक्रियायै पूजाद्य्-अर्थम् अर्चा कृता तत्-परिचर्या-मार्ग-दर्शनाय सा प्रकाशितेत्य् अर्थः । एतेन तादृश-दोष-युक्तेष्व् अपि कार्य-साधकत्वात् श्रीमद्-अर्चाया आधिक्यम् एव व्यञ्जितम् । प्रतिमा स्वल्प-बुद्धीनाम् इत्य् अत्र च अल्प-बुद्धीनाम् अपीत्य् अर्थः । नृसिंह-पुरानादौ ब्रह्माम्बरीषादीनाम् अपि तत्-पूजा-श्रवणात् ॥


  1. सतां ↩︎

  2. वेद-दृष्टम् अधिष्ठ्णान्तरं (ग, च) ↩︎