तेष्व् एव भगवान् राजंस् तारतम्येन वर्तते ।
तस्मात् पात्रं हि पुरुषो यावान् आत्मा यथेयते ॥ [भा।पु। ७.१४.३८] इत्य्-आदि ।
तस्मात् तारतम्य-वर्तनात् । पुरुषः प्रायो मनुष्यः पात्रम् । तत्र ज्ञानादिकं विशिष्टम् इति भगवद्-वर्तनस्यातिशयात् । तत्रापि आत्मायावान् यथा ज्ञानादि-परिमाणादिकः, तथासौ पात्रम् इत्य् अर्थः ॥