२८६

भूतादि-पूजा-वर्जनम्

भूतादि-पूजा तु
तत्-पूजाङ्गत्वे विहितापि न कर्तव्या +++(शुद्ध-वैष्णवैः)+++,
तद्-आवरण-देवतात्वाभावात् ।

हिन्दी

श्रीकृष्ण पूजा के अङ्ग रूप में भूतादि पूजा विहित होने पर भी
शुद्ध वैष्णव के पक्ष मे
वह कर्त्तव्य नहीं है ।

कारण, उक्त भूत, प्रेत, पिशाचादि
श्रीभगवान् के आवरण देवता नहीं हो सकते हैं ।

निषिद्धं च तत्रैव—

हिन्दी

पद्म पुराण के उत्तर खण्ड में उसका निषेध वचन विद्यमान है-

यक्षाणां च पिशाचानां
मद्य-मांस-भुजां तथा ।
+++(प्राकृत-)+++दिवौकसां तु भजनं
सुरा-पान-समं स्मृतम् ॥
[प।पु। ६.२५३.९५]

इति ।

हिन्दी

मद्य मांस भोजी पक्ष, रक्ष पिशाच एवं प्राकृत स्वर्गीय देववृन्द की पूजा
सुरापान तुल्य गहत है ।

मद्यादि-वारणम्

अत एवावश्यक-पूज्यानाम् अन्येषां
तत्-स्वीकृतैर् अपि मद्यादिभिः पूजा निषिद्धा,
यथा सङ्कर्षणादीनाम् ।+++(5)+++

हिन्दी

अतएव आवश्यक पूज्य अन्यान्य देववृन्द के
मद्यादि अभिमत होने पर भी
मद्यादि के द्वारा उनकी पूजा न करे ।

इस प्रकार श्रीबलदेव सङ्कर्षण प्रभृति के अभिलषित वारुणी मदिरा होने पर भी
उस के द्वारा उनकी पूजा करना
साधकों के पक्ष में कर्त्तव्य नहीं है ।

अधर्माद्याः

अथ पीठ-पूजायां येऽप्य् अधर्माद्या वर्तन्ते, गुण-त्रयं च,
तानि तु पाद्मोत्तर-खण्डे स्पष्टान्य् अपि न सन्ति,
तथा स्वायम्भुवागमेऽपि,
तस्मान् नादरणीयानि । +++(4)+++

हिन्दी

अनन्तर पीठ पूजा में जो अधर्म, धर्म एवं सत्व, रजः तमः– गुण वय हैं,
किन्तु पद्म पुराण को उत्तर खण्ड में
उसका विवरण है ही नहीं,
उस प्रकार स्वायम्भुव गम ग्रन्थ में उस विषय का उल्लेख नहीं है ।
अतएव वह सब अधर्म प्रभृति का आदर
पीठावरण देवतारूप में नहीं करना चाहिये ।

केचित् तु नारद-पञ्चरात्र-दृष्ट्या
+++(अधर्मादीनि)+++ तान्य् अन्यथैव व्याचक्षते।

हिन्दी

किन्तु कतिपय व्यक्ति नारद पञ्चरात्र के अनुसार अधर्म प्रभृति का अर्थ, - अन्य प्रकार करते हैं।

यथोक्तं तत्रैव—

अधर्माद्य-चतुष्कं तु अ-श्रेयसि नियोजनम्

इत्य् अधार्मिकादिषु +++(दुष्टादिषु)+++ तत्-तद्-अन्तर्यामि-शक्तिर् अधर्माद्यम् इत्य् अर्थः ।+++(5)+++

हिन्दी

नारद पञ्चरात्र में लिखित है-
“अधर्माद्यचतुष्कन्तु अश्रेय स नियोजनम्”
अर्थात् अधर्म, अज्ञान, अवैराग्य अनैश्वर्य्य
यह चार को अमङ्गलर्थ में प्रयोग करते हैं ।
अर्थात् अधार्मिक प्रभृति में जो अन्तर्यामी शक्ति है,
उस उद्देश्य से अधर्म प्रभृति शब्द का उल्लेख किया गया है।

नित्य-किङ्करावेशः

गुरुः

तथा पीठ-पूजायां भगवद्-धाम्नि श्री-गुरु-पादुका-पूजनम् एवं सङ्गच्छते,

हिन्दी

पीठ पूजा में भगवान् के वाम प्रदेश में श्रीगुरु पादुका की पूजा सङ्गता है।

यथा— य एव भगवान् अत्र व्यष्टि-रूपतया भक्तावतारत्वेन श्री-गुरु-रूपो वर्तते,
स एव तत्र समष्टि-रूपतया स्व-वाम-प्रदेशे साक्षाद्-अवतारत्वेनापि तद्-रूपो वर्तत इति ।

विश्वास-टिप्पनी

ते सर्वान् भगवद्-अंशान् मन्यन्त इति भाति। किन्तु- शरीरात्म-भाव-भेदो नावगतो भाति।

हिन्दी

जो यह भगवान् इस जगत् में
व्यष्टि रूप से भक्तावतार रूप में श्रीगुरु स्वरूप में विद्यमान हैं,
वह भगवान् ही श्रीभगवान् के योगपीठ में समष्टि रूप में श्रीभगवान् के वाम प्रदेश में
साक्षात् अवतार रूप में भी श्रीगुरुस्वरूप में विद्यमान हैं।

तथा—ये चात्र श्री-रामाद्य्-उपासनायां
मैन्द-द्विविदादय1 आवरण-देवताः,
ते तु तदीय-नित्य-धाम-गता नित्याः शुद्धाश् च ज्ञेयाः ।

हिन्दी

उस प्रकार श्रीरामादि की उपासना में मैन्दद्विविदादि आवरण देवना हैं,
ये श्रीरामचन्द्र के नित्य धाम में
नित्य एवं शुद्ध रूप में ही हैं ।

प्रह्लादः

यथाक्रूराघमर्षणे तेन श्री-प्रह्लादादयो दृष्टाः …

हिन्दी

जिस प्रकार अक्रूराघमर्षण में
अर्थात् यमुना जल में श्रीअक्रूर जब स्नान कर रहे थे -
उस समय जल के मध्य में
अनन्तशय्या में शायित श्रीविष्णु को अक्रूर देखे थे।
उन के निकट में प्रह्लाद प्रभृति को भी देखे थे।

उस का वर्णन भा० १०। ३६।५४ में है।

य एव श्री-प्रह्लादः पृथ्वी-दोहनेऽपि वत्सोऽभूत्,
तदानीं तज्-जन्माभावात्,
चाक्षुष-मन्वन्तर एव हिरण्यकशिपोर् जातत्वात् ।

हिन्दी

जो श्री प्रह्लाद पृथुमहाराज कर्तृक पृथिवी दोहन के समय में वत्स रूप धारण किये थे ।
उस समय किन्तु प्रह्लाद का जन्म ही नहीं हुआ ।
कारण स्वायम्भुव मन्वन्तर पृथु महाराज पृथिवी दोहन किये थे,
और चाक्षुष मन्वन्तर में हिरण्यकशिपु से श्रीप्रह्लाद का जन्म हुआ था।
सुतरां समझना होगा कि
श्रीभगवान् के नित्य पार्षद प्रह्लाद नामक एक व्यक्ति है ।
उन्होंने ही चाक्षुष मन्वन्तर में श्रीनृसिंह देव को आविर्भाव कराये थे,
एवं स्वायम्भुव मन्वन्तर में वत्स होकर पृथिवी दोहन कार्य की सहायता किये थे ।

[[५८१]]

मैन्दादिः

अन्ये तु स्व-स्व-धाम्नि नित्य-प्राकट्यस्यैव
श्री-रामादेः प्रपञ्च-प्राकाट्यावसरं प्राप्य
तत्-साहाय्यार्थं नित्य-पार्षद-मैन्द-द्विविदादि-शक्त्य्-आवेशिनो जीवाः
+++(किञ्च तत्-तन्-नामक-नित्येभ्यो भिन्नाः)+++

सुग्रीवादि-भागवत-द्वेषि-बालि-प्रभृति-सम्बन्धाद्
उत्तर-काले भगवद्-विद्वेषि-नरकासुरादि-सङ्गाच् च
दुष्ट-भावा भवन्तीत्य् अवधेयम् -
प्रपञ्च-लोक-मिश्रत्वेनैव प्राकट्य-सम्भवात् ।+++(4)+++

हिन्दी

अतएव सिद्धान्त यह है कि
श्रीरामचन्द्र प्रभृति नित्य निज निज धाम में
नित्य परिकरों के सहित अवस्थान करते हैं ।
जिस समय प्रपञ्च में प्रकटित होते हैं,
उस समय सहायता करने के निमित्त
मन्द द्विविद प्रभृति की शक्ति से आविष्ट
साधारण जीव भी प्रकट होता है ।
वे नित्य सिद्ध मैन्दद्विविद से पृथक होते हैं ।
अर्थात् नित्य सिद्ध पार्षद नहीं हैं।+++(5)+++
लौह में अग्नि शक्ति तादात्म्य के समान
किसी किसी जीव में उक्त पार्षद वृन्द की शक्ति तादात्म्यापन्न होती है ।
तज्जन्य उक्त जीव समूह
उस उस पार्षद के नाम से अभिहित होते हैं।
एवं वे नित्य पार्षद के समान ही
इष्ट देवता के अनुकूल आचरण करते हैं ।
किन्तु शक्तयावेश विशिष्ट जीव समूह
नित्य लीला के परिकर न होने से
असत् सङ्ग दोष से अन्य प्रकार स्वभाव विशिष्ट भी होते हैं ।
सुतरां श्रीरामचन्द्र की प्रकट लीला के परिकर
मैन्द द्विविद प्रभृति
सुग्रीवादि भगवद् भक्त विद्वेषी बालि प्रभृति के सङ्ग दोष से,
एवं उत्तर काल में
अर्थात् श्रीरामलीला अप्रकट के पश्चात् भगवद् विद्वेषी नरकासुर प्रभृति के सङ्ग दोष से
दुष्ट स्वभाव विशिष्ट हुये थे ।
यह जानना होगा ।

कारण, श्रीभगवान् लोक लोचन-गोचरी-भूत होकर
जब विहार करते हैं -
तब प्रपञ्च लोक के सहित
नित्य सिद्ध परिकर का एक प्रकार मिश्रण भाव होता है ।

रुक्मिणी

अथ श्री-कृष्ण-गोकुलोपासनायाम् अपि
यत् श्री-रुक्मिण्य्-आदीनाम् आवरणत्वं,
तत् तु तच्-छक्ति-विशेष-रूपाणां तासां विमलादीनाम् इवान्तर्धान-गतत्वेनैव,
न तु तत्-तल्-लीला-गत-प्राकट्येनेति ज्ञेयम् ।

हिन्दी

अनन्तर श्रीकृष्ण की गोकुलोपासना में भी
जो श्रीरुक्मिणी प्रभृति का आवरणत्व सुनने में आता है,
वह भगवान् की शक्ति विशेष रूप विमला प्रभृति
जिस प्रकार अन्तर्हित होकर अवस्थित हैं,
श्रीरुक्मिणी प्रभृति की भी चिन्ता
शुद्ध भक्तगण उस प्रकार ही करते हैं ।

हिन्दी - चक्रादि-चिह्नोदाहरणम्

जिस प्रकार शुद्ध भक्त गण-शङ्खः चक्र गदा प्रभृति चिह्न समूह का धारण,
श्रीकृष्ण के चरण स्थित चिह्न रूप में ही धारण करते रहते हैं,
अर्थात् व्रज बिहारी श्रीकृष्ण के हस्त में
शङ्ख चक्र गदा पद्म नहीं हैं,
किन्तु प्रिय आयुध धारण की व्यवस्था जो व्यवस्था है,
वह श्रीकृष्ण के चरण तल में जो शङ्खचकादि चिह्न हैं
उस के चिन्तन से सार्थक होता है । +++(5)+++

अत एव ध्याने ता नोक्ताः ।

केचित् तु रुक्मिण्य्-आदि-नामानि श्री-राधादि-नामान्तरत्वेनैव मन्यन्ते ।

हिन्दी

कतिपय व्यक्ति - श्रीरुक्मिण्यादि को नाम समूह की
श्रीराधादि नामान्तर रूप से ही मानते हैं ।

यथा ते शङ्ख-चक्र-गदा-मुद्रादि-धारणं श्री-कृष्ण-चरण-चिह्नत्वेनैव स्वीकुर्वन्ति,
यथा च द्वारान्तः-पार्श्वयोर् गङ्गा-यमुनयोः पूज्यमानयोर् गङ्गा
श्री-गोवर्धने प्रसिद्धा मानस-गङ्गेति मन्यन्ते,
तथा च, विष्वक्सेनादयो भद्रसेनादय इति ।

हिन्दी

श्रीकृष्ण क े चरण तल स्थित शङ्ख चक्रादि चिह्न धारण भावना के द्वारा कैसे सम्भव होगा ?
उस को दृष्टान्त के द्वारा परिस्फुट करते हैं।
जिस प्रकार मन्दिर के द्वार के उभय पार्श्व में गङ्गा यमुना पूजित होती हैं,
किन्तु सन्देह हो सकता है कि-
वृन्दावन में तो गङ्गा की स्थिति नहीं है ?
कैसे द्वार देश में पूजा हो सकती है ?
उस का समाधान यह है ।
श्रीगोवर्द्धन में अवस्थित मनसगङ्गा की ही गङ्गा
गङ्गा मानकर पूजा करते हैं ।

उस प्रकार पूजा को अङ्ग रूप में
विष्वक्सेनादि का जो उल्लेख है,
वहाँ व्रजोपासक वृन्द - भद्रसेनादि की पूजा करते हैं।

क्षीराब्धिः

श्री-कृष्ण-पीठ-पूजायां श्वेतद्वीप-क्षीर-समुद्र-पूजा च
गोलोकाख्यस्य तद्-धाम्नोऽपि श्वेतद्वीपेति-नामत्वात्,
कामधेनु-कोटि-निःसृत-दुग्ध-पूर-विशेषस्य च तत्र स्थितत्वात् ।

यथोक्तं ब्रह्म-संहितायां तद्-वर्णनान्ते—

स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं
विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥ [ब्र।सं। ५.६६] इति ।

एवम् अन्यत्रापि ज्ञेयम् । तथा सोम-सूर्याग्नि-मण्डलान्य् अप्राकृतान्य् अतिशैत्य-ताप-गुण-परित्यागेनैव वर्तन्ते । तत्र सर्व-कल्याण-गुण-वस्तूनाम् एवाभिधानाय प्राकृत-निषेधात् । यथा नृसिंह-तापन्याम्—

तद् वा एतत् परमं धाम मन्त्र-राजाध्यापकस्य, यत्र न दुःखादि, यत्र न सूर्यस् तपति, यत्र न वायुर् वाति, यत्र न चन्द्रमा भाति, न यत्र नक्षत्राणि भान्ति, यत्र नाग्निर् दहति, यत्र न मृत्युः प्रविशति, यत्र न दोषः [नृ।ता।उ। ५.९] इत्य्-आदि ।

तद् एवं कर्म-मिश्रत्वादि-निरसन-प्रसङ्ग-सङ्गत्या तत्-परिकरा व्याख्याताः ।

अथ तेषां शुद्ध-भक्तानां भूत-शुद्ध्य्-आदिकं यथा-मति व्याख्यायते । तत्र भूत-शुद्धिर् निजाभिलषित-भगवत्-सेवौपयिक-तत्-पार्षद-देह-भावना-पर्यन्तैव तत्-सेवैक-पुरुषार्थिभिः कार्या निजानुकूल्यात् । एवं यत्र यत्रात्मनो निजाभीष्ट-देवता-रूपत्वेन चिन्तनं विधीयते, तत्र तत्रैव पार्षदत्वे ग्रहणं भाव्यम्, अहङ्ग्रहो-पासनायाः शुद्ध-भक्तैर् द्विष्टत्वात् । ऐक्यं च तत्र साधारण्य-प्रायम् एव, तदीय-चिच्-छक्ति-वृत्ति-विशुद्ध-सत्त्वांश-विग्रहत्वात् पार्षदानाम् ।

अथ केशवादि-न्यासादीनां यत्राधमाङ्ग-विषयत्वं, तत्र तन्-मूर्तिं ध्यात्वा तत्-तन्-मन्त्रांश् च जप्त्वैव तत्-तद्-अङ्ग-स्पर्श-मात्रं कुर्यात्, न तु तत्-तन्-मन्त्र-देवतास् तत्र तत्र न्यस्ता ध्यायेत्, भक्तानां तद्-अनौचित्यात् ।

अथ मुख्यं ध्यानं श्री-भगवद्-धाम-गतम् एव, हृदय-कमल-गतं तु योगि-मतम्, स्मरेद्2 वृन्दावने रम्ये इत्य्-आद्य्-उक्तत्वात् । अत एव मानस-पूजा च तत्रैव चिन्तनीया। काम-गायत्री-ध्यानं च यत् सूर्य-मण्डले श्रूयते, तत् तत्रैव चिन्त्यम्, गोलोक एव निवसत्य् अखिलात्म-भूतः[ब्र।सं। ५.४८] इत्य् अत्र_एव_-कारात् । तत्र श्री-वृन्दावन-नाथः साक्षान् न तिष्ठति, किन्तु तेजोमय-प्रतिमाकारेणैवेति ।

अथ बहिर् उपचारैर् अन्तः-पूजायां वेण्व्-आदि-पूजा तद्-अङ्ग-ज्योतिर्-विलीनाङ्गस्य स्वस्याङ्गे निविष्टस्य तस्य तन्-मुखादाव् एव भाव्या, न तु स्व-मुखादौ । तथा वेण्व्-आदि-तद्-भूषण-मुद्रा-दर्शनं, स्व-मुखादौ तथा वेण्व्-आदि यत् क्रियते, तच् च् तस्मै तदीय-तत्-तत्-प्रिय-वस्तूनां दर्शनार्थम् एव, न तु स्वस्यैवाङ्गे तानि भाव्यन्त इति पूर्व-हेतोर् एव ।

तथा मानसादि-पूजायां भूत-पूर्व-तत्-परिकर-लीला-संवलितत्वम् अपि न कल्पना-मयं, किन्तु यथार्थम् एव । यतस् तस्य प्राकट्य-समये लीलास् तत्-परिकराश् च ये प्रादुर्बभूवुः, ते तादृशाश् चाप्रकटम् अपि नित्यं तदीये धाम्नि सङ्ख्यातीता एव वर्तन्ते । असुरास् तु न तत्र चेतना, किन्तु यन्त्र-मय-तत्-प्रतिमा-निभा ज्ञेयाः । एवं विहारैः [भा।पु। १०.१४.५७] इत्य्-आदौ, निलायनैः सेतु-बन्धैर् मर्कट-प्लवनादिभिः [भा।पु। १०.१४.५७] इतिवत् तत्-तल्-लीलानां नाना-प्रकाशैः कौतुकेनानुक्रियमाणत्वात् ।श्री-भगवत्-सन्दर्भादौ हि तथा स-न्यायं दर्शितम् अस्ति ।

अथ मानस-पूजा-माहात्म्यं, यथा नारद-पञ्चरात्रे श्री-नारायण-वाक्यम्—अयं यो मानसो योगो जरा-व्याधि-भयापहः इत्य्-आदौ—

यश् चैतत् परया भक्त्या सकृत् कुर्यान् महा-मते ।
क्रमोदितेन विधिना तस्य तुष्याम्य् अहं मुने ॥ इति ।

एषा क्वचित् स्वतन्त्रापि भवति । मनो-मय्या मूर्तेर् अष्टमतया स्वातन्त्र्येण विधानात्—अर्चादौ हृदये वापि यथोपलब्धोपचारकैः [भा।पु। ११.३.५०] इत्य् आविर्होत्र-वचनेन वा-शब्दात् ।

अथ पूजा-स्थानानि विचार्यन्ते । तानि च विविधानि । तत्र शालग्रामादिकं तत्-तद्-भगवद्-आकाराधिष्ठानम् इति चिन्त्यम्, आकार-वैलक्षण्यात्, शालग्राम-शिला यत्र तत्र सन्निहितो हरिः इत्य्-आद्य्-उक्तेः । तत्र च स्वेष्टाकारस्यैव भगवतोऽधिष्ठानं सुष्ठु सिद्धि-करम्, तस्मिन्न् एवायत्नतस् तदीय-प्राकट्यात्, मूर्त्याभिमतयात्मनः [भा।पु। ११.३.४९] इत्य् उक्तेः । श्री-कृष्णादीनां तु मथुरादि-क्षेत्रं महाधिष्ठानम्, मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः [भा।पु। १.१०.२८] इत्य्-आद्य्-उक्तेः । तथा तत्-तन्-मन्त्र-ध्येय-वैभवत्वेन मथुरा-वृन्दावनादीनां श्री-गोपाल-तापन्य्-आदौ प्रख्यातत्वात् । मथुरादि-क्षेत्राण्य् एवान्यत्राधिष्ठाने ध्यानेन प्रकाश्य तेषु भगवांश् चिन्त्यते ।

अथ श्रीमत्-प्रतिमायां3 तु तद्-आकारक-रूपतयैव चिन्तयन्ति, आकारैक्यात्, शिला-बुद्धिः कृता किं वा प्रतिमायां हरेर् मया इति भावनान्तरे दोष-श्रवणाच् च । एवम् एव श्री-भगवता चलाचलेति द्विविधा प्रतिष्ठा जीव-मन्दिरम् [भा।पु। ११.२७.१३] इत्य् उक्तम् । प्रतिष्ठा प्रतिमा जीवस्य जीवयितुः परमात्मनो मम मन्दिरं मद्-अङ्ग-प्रत्यङ्गैर् एकाकारतास्पदम् इत्य् अर्थः । यद् वा, प्रतिष्ठा-लक्षणेन कर्मणा पूर्वोक्ता प्रतिमा मम तद्-आस्पदं भवतीत्य् अर्थः । तथा च श्री-हयशीर्ष-पञ्चरात्रे श्री-मूर्ति-प्रतिष्ठा-प्रसङ्गे, विष्णो सन्निहितो भव इति सान्निध्य-करण-मन्त्र-विशेषानन्तरं मन्त्रान्तरम्—

यच् च ते परमं तत्त्वं यच् च ज्ञान-मयं वपुः ।
तत् सर्वम् एकतो लीनम् अस्मिन् देहे विबुध्यताम् ॥ इति ।

अथवा जीव-मन्दिरं सर्व-जीवानां परमाश्रयः साक्षाद् भगवान् एव प्रतिष्ठेत्य् अर्थः । परमोपासकाश् च साक्षात् परमेश्वरत्वेनैव तां पश्यन्ति । भेद-स्फूर्तेर् भक्ति-विच्छेदकत्वात् तथैव ह्य् उचितम् । इत्थम् एवोक्तं भगवता—

वस्त्रोपवीताभरण-पत्र-स्रग्-गन्ध-लेपनैः ।
अलङ्कुर्वीत स-प्रेम मद्-भक्तो मां यथोचितम् ॥ [भा।पु। ११.२७.२८]

इत्य् अत्र माम् इति स-प्रेमेति च । अत एव विष्णुधर्मे ताम् अधिकृत्य अम्बरीषं प्रति श्री-विष्णु-वाक्यम्—

तस्यां चित्तं समावेश्य त्यज चान्यान् व्यापाश्रयान् ।
पूजिता सैव ते भक्त्या ध्याता चैवोपकारिणी ॥
गच्छंस् तिष्ठन् स्वपन् भुञ्जंस् ताम् एवाग्रे च पृष्ठतः ।
उपर्य्-अधस् तथा पार्श्वे चिन्तयंस् ताम् अथात्मनः ॥ इत्य्-आदि ।

अत एव तत्-पूजायाम् आवाहनादिकम् इत्थं व्याख्यातम् आगमे—

आवाहनं चादरेण सम्मुखीकरणं प्रभोः ।
भक्त्या निवेशनं तस्य संस्थापनम् उदाहृतम् ॥
तवास्मीति तदीयत्व-दर्शनं सन्निधापनम् ।
क्रिया-समाप्ति-पर्यन्त-स्थापनं सन्निबोधनम् ॥
सकलीकरणं प्रोक्तं तत्-सर्वाङ्ग-प्रकाशनम् ॥ इति ।

अत्र शूद्रादि-पूजितार्चा-पूजा-निषेध-वचनम् अवैष्णव-शूद्रादि-परम् एव—

न शूद्रा भगवद्-भक्तास् ते तु भागवता नराः4
सर्व-वर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥ इत्य् उक्तेः ।

अथ सप्तमे, पात्रम् [भा।पु। ७.१४.३४] इत्य्-आदौ श्री-नारदोक्तौ अधिष्ठान-विचारे श्रीमद्-अर्चातोऽपि यः पूरुष-मात्रातिशयस् तत्रापि ज्ञानिनः, स च कैवल्य-कामो भक्त्य्-आश्रयः । तस्मिन् प्रकरणे ज्ञान-निष्ठाय देयानि [भा।पु। ७.१५.१] इत्य् उपसंहारे ज्ञानिन एव दान-पात्रत्वेन परमोत्कर्षोक्तेः । अन्यत्र तु, न मे भक्तश् चतुर्वेदी[इतिहास-समुच्चय], नायं सुखापो भगवान्[१०.९.२१] इत्य्-आदौ, मुक्तानाम् अपि सिद्धानाम् [भा।पु। ६.१४.४] इत्य्-आदौ च भक्तस्यैव ततोऽप्य् उत्कर्षः, किम् उत तद्-उपास्यायाः श्रीमद्-अर्चायाः । अत एव ताम् उद्दिश्योक्तं—नानुव्रजति यो मोहात् [भा।पु। ६.१४.४] इत्य्-आदि । तथापि पात्रम् इत्य्-आदीनाम् अर्थोऽपि क्रमेण दर्श्यते—

पात्रं त्व् अत्र निरुक्तं वै कविभिः पात्र-वित्तमैः ।
हरिर् एवैक उर्वीश यन्-मयं वै चराचरम् ॥
देवर्ष्य्-अर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु ।
राजन् यद् अग्र-पूजायां मतः पात्रतयाच्युतः ॥ [भा।पु। ७.१४.३४-३५]

तत्र राजसूये ॥


  1. ऐन्द्र इति चट्टोपाध्याय-संस्करणे । मैन्दो नाम द्विविदस्य भ्राता, भागवते १०.६७.२ द्रष्टव्य इति । ↩︎

  2. योगिनाम् एव (क) ↩︎

  3. प्रतिमां (क, च) ↩︎

  4. मताः (झ) ↩︎